०१ स्मृत्यधिकरणम्

ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ

श्रीमद्वादिराजपूज्यचरणविरचिता श्रीमन्न्यासुधाटिप्पणी

गुर्वर्थदीपिका

अथ द्वितीयाध्याये प्रथमपादः

अथ स्मृत्यधिकरणम्

ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ

ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ॥ परकीय संशब्दव्याख्याननिरसनेऽवहितैर्भवितव्यमित्यत्र परकीयव्याख्यानं सं सकलशब्दानां लक्षणया वृत्त्येति । ‘‘विकार शब्दान्नेति चेदि’’त्यादिनाऽऽशङ्किता विरोधास् तत्तत्प्रकरणगतश्रौतमयडादिशब्देनैव प्रसक्तत्वादन्तरङ्गाः । पाशुपतादिस्मृत्या श्रुत्यप्रामाण्यादिना समयेन श्रुतीनां परस्परविरोधेन चात्राऽऽशङ्क्यमानविरोधास्तु बहिरङ्गा इति विवेक इति । प्रतिवक्ष्यत्याचार्य इत्यनेनाभिप्रैति । प्रथमातिक्रमे न किञ्चित्कारणमित्युपलक्षणम् । एकैकविरोधपरिहारादपि चतुरात्मकविरोधस्य प्रबलतयाऽपि तस्यादौ निराकरणमिति द्रष्टव्यम् । न सर्वथेत्यत्र देवताधिकरणवत्पादार्थस्पर्शं विनैवेत्यर्थः । तद्वत्प्रसङ्गसङ्गतिमात्रेण कथितं नेति भावः । निष्कृष्टपादार्थाभावादित्यत्र निष्कृष्टपादार्थो युक्तिमात्रविरोधपरिहाराख्य इत्यर्थः । साक्षाद्बौद्धजैनोक्तपरमाणुपुञ्जसप्तभङ्गिवादयोर्निराकरणाभावेऽपि तदभिमतवेदाप्रामाण्यनिराकरणेन समयविरोधस्यापि सत्त्वात् । ‘मृदब्रवीदि’त्यादि श्रुतिविरोधपरिहारेण तृतीयचतुर्थपादार्थयोरपि सत्त्वात् । ‘‘मृन्न वक्त्री जडत्वा’’दित्यादि युक्तिविरोधस्तु स्फुट एव । एवं श्रुतिनित्यत्वसाधनेऽपि तदनङ्गीकारिणस्तार्किकस्याप्यस्ति कथञ्चित्समयविरोधः । ‘‘ऋचः सामानि जज्ञिरे’’ इति श्रुतिविरोधः । वेदः पौरुषेयो वाक्यत्वादिति युक्तिविरोधश्च । प्रागभावजीवादिकर्तृत्वस्यापि विष्णुपक्षविरोधित्वेन सर्वदुर्वादिनामस्त्येवाङ्गीकारः । समयस्यापि स्वानुकूलयुक्तिश्रुत्यादि पुरस्कारेण प्रवर्तनादस्त्येव चतुरात्मता । तृतीयचतुर्थपादयोरपि श्रुतिपुरस्कारो गगनजीवेन्द्रियनित्यत्वादिनां तार्किकादिसमयिनां प्रागभावाप्रतियोगित्वादियुक्तीनां पुरस्कारश्चास्त्येव । अतस्सर्वेऽपि पादाश्चतुरात्मका इति भावेनाऽऽह युक्तिविरोधपरिहारलक्षणोऽप्ययं पाद इति । पादभेदस्तु युक्तिसमयादीनां प्राधान्येन द्रष्टव्यः ।

नामसमन्वयस्यापि योगाश्रयणेनान्तर्गतलिङ्गात्मकत्वस्यापि तत्त्वात् । लोकतोऽन्यत्र प्रसिद्धेरलोकतो भगवति प्रसिद्धेश्च सत्त्वेन कथञ्चिदुभयत्र प्रसिद्धेश्च सत्त्वात् । निरीश्वरवादिनां मीमांसकानामन्यत्रैव प्रसिद्धेश्च सत्त्वात् । तृतीयचतुर्थपादार्थयोरपि प्रत्येकं नामलिङ्गसमन्वयरूपत्वाच्चास्त्येव विवक्षाभेदेनैकैकस्यापि पादस्य चतुष्पादात्मकता । प्रथमाध्यायस्याऽऽन्तरविरोधपरिहाररूपतया प्रत्यधिकरणं हरेरन्येषां कोशादीनां निराकरणेन तत्र वैराग्यहेतुतया हरावेव समन्वयसमर्थनेन च तद्विषयभक्तयादिजनकत्वेन ‘‘अस्मिन्नस्य च तद्योगं शास्ति’’ ‘‘मुक्तोपसृप्यव्यपदेशादि’’त्यादिना तत्र तत्र फलाध्यायार्थस्यापि कथनात् । सर्वस्याप्यध्यायस्य फलमुद्दिश्य प्रवर्तनाच्च चतुरध्यायार्थत्वं द्रष्टव्यम् । द्वितीयाध्यायस्यापि हरौ सकलशब्दसमन्वयस्यैव तात्पर्यविषयत्वेन दुर्मतेषु वैराग्यजनकत्वेन हरावेव निष्कण्टकभक्तयाद्युपयोगित्वेन स्वविरोधिदुर्जननिराकरण सम्भ्रमसन्तुष्टहरिप्रसादान्मुक्तेरप्यन्तरङ्गसाधनतया च चतुरध्यायार्थत्वम् । एवं वैराग्यपादे मध्ये मध्ये हरौ भक्तेर् भक्तिपादे च हर्युपास्त्यादेश्च निरूपणादेकैकपादस्य चतुष्पादात्मकत्वम् । नरकदायकत्वस्वप्नादिहेतुत्वध्येयत्वज्ञेयत्वाद्यर्थकनामसमन्वयस्य प्रतिसूत्रं विरोधपरिहारस्य साक्षात्स्वोक्तसाधनसाध्यतया फलस्य निरूपणाच्चतुरध्यायार्थत्वम् । फलाध्यायस्य च मुक्तप्राप्यत्वभोगहेतुत्वादिनाम्नां मीमांसात्मकत्वादेव प्रतिसूत्रं विरोधपरिहारस्य भगवत्प्राप्तिसाधनार्चिरादिमार्गस्य क्रमिकसुखसाधनसारूप्यादिसाधनस्य ‘‘मोक्षश्चतुर्विधः प्रोक्त’’ इति वचनात्सर्वत्रापि फलप्रतिपादनस्यापि सत्त्वेन चतुरध्यायार्थत्वम् । अर्चिरादिमार्गेऽपि तत्तल्लोकस्थितभगवत्प्राप्तेस्साधनप्राप्यभगवद्दर्शननिमित्तसुखस्य च सामीप्यसालोक्यादिस्थानप्राप्तेर्भोगविशेषाणां प्राप्त्याख्यमौक्तपरमोद्देश्यभोगानां च प्रतिपादनात्प्रत्येकं पादानां चतुष्पादात्मकत्वं च द्रष्टव्यमिति सर्वज्ञस्य भाष्यकृतोऽभिसन्धिः ।

अत्राऽऽगमादित्याङ्द्वयस्येत्यत्र वर्णमा आ आगमादिति आङ्द्वयस्य ‘‘ऊकालोऽज्ह्रस्वदीर्घप्लुत’’ इत्यत्र उऊऊ३ इति ह्रस्वदीर्घप्लुताख्यस्योकारत्रय‘‘स्याकः सवर्णे दीर्घ’’ इति द्विवारं दीर्घे कृते यथा भवति तथाऽत्रापि संग्रह इत्यर्थः । यद्यपि वर्णादिसर्वशास्त्रस्य सङ्ग्रहो जातस् तथापि प्रकरणपादादिभेदेन पुनर्ग्रहणम् । यथा गोर्गोत्वपशुत्ववस्तुत्वादिना संगृहीताया एव पुनर्दोग्धृत्वसवत्सत्वसास्नादिमत्त्वादिना ग्रहणेऽपि न पौनरुक्तयम् । तथेहापीति भावेनाह न केवलमित्यादिना । सर्वज्ञो भगवान् भाष्यकार आप्ततेत्यादिना स्वेनैवैकयोक्तया सङ्गृहीतानां पूर्वपक्षसिद्धान्तयुक्तीनां मध्येऽनुवादव्याजेन पूर्वपक्षयुक्तीस्सूचयन् ता एव युक्तीः सिद्धान्ते प्रत्यधिकरणं सविस्तरं प्रतिपादयति न्यायविवरणे (तत्र प्रथमाधिकरणगतेयं युक्तिः) रुद्रादीनां सकाशाद्विष्ण्वादीनामेवाप्ततेत्यादिनाऽसन्मतानां साक्षात्कथनं मम त्वच्छिन्न भक्तस्य नोचितमिति बालबोधायैव तत्सूचनमिति भावः । एकादशाधिकरणपूर्वपक्षसिद्धान्तयुक्तीस्सपादश्लोकमात्रेण संगृह्णतो मध्वमुनेरग्रे न कस्यापि वादिनः प्रत्यवस्थानमिति बुद्धिमता बोध्यम् ।

‘‘रुद्रादीनामपि सकाशाद्विष्ण्वादीनामेवाऽऽप्तते’’त्यनेन पाशुपतागमकर्तुः पशुपतेरेवाऽऽप्तताऽस्ति न त्वपौरुषेयश्रुतेरिति पूर्वपक्षिणो हृदयं सूचितम् । उत्पत्तावेव स्थानसम्पदादिरागेण ‘‘तेनोपसृष्टस्सन्त्रस्तः पराधावन् सवेपथु’’रिति भागवतवचनात्स्वहननायोद्यतहस्तभस्मासुरस्य शमनोपायाज्ञानेन ‘‘रुद्रस्य त्वेव धनुरार्त्रिःशिर उत्पिपेषे’’ति श्रुतेः स्वहननायोद्यतवम्रिरूपेन्द्रस्य कापट्याज्ञानेन स्वेनैव स्थिरायुर्भवेति दत्तवरस्य रावणादेर्हननोद्योगकरणेन विप्रलिप्सायाः पारिजातहरणादौ हरिमपि जेष्यामीत्युद्योगकरणेन भ्रमस्य च सर्वजनसम्प्रतिपन्नत्वात्पशुपतेर्नाऽऽप्तता । किंतु ‘‘त्वं च रुद्र महाबाहो मोहशास्त्राणि कारये’’ति हर्यनुज्ञयाऽसुरजनमोहनाय प्राप्ततारूपैवाऽऽप्तताऽस्ति । एवं चोक्तविधया रागेणाप्तताऽज्ञानेनाप्तता भ्रमेणाप्तता विप्रलिप्सया चाप्ततैवास्ति । त्वदभिलषिता त्वाप्तता दूरापास्तैव । सा च तवेष्टस्य बाधिकैव न साधिका ।

किञ्च वैदिकैर्न तावद्रुद्रस्याऽऽप्तताऽङ्गीक्रियते । तेषामनन्तवेदविभजनेनाष्टादशपुराणभारतब्रह्मसूत्राणां करणेन च सर्वज्ञं नारायणावतारं व्यासमेवाप्तीकृत्य तत्कृतब्रह्मसूत्रादावेव सदा निरतत्वात् । रुद्रस्याङ्गीकारे च कथं पाशुपतोक्तमार्गेण लिङ्गधारणादिकमपि न कुर्युः । अन्ततो मायावादिनाऽपि ‘‘तयोः कार्यत्वेन निखिलजगत्सर्जनसंहरणसामर्थ्याभावा’’दिति स्वग्रन्थे विधिरुद्रयोः स्पष्टमसमर्थत्वप्रतिपादनात् । नापि सांख्यादिभिराप्तताऽङ्गीक्रियते । तैर्बुद्धऋषभकपिलादीनामेवाप्तेनाङ्गीकरणात् । अतः केवलावैदिकैः शैवैरेवाङ्गीकृतं रुद्रस्याऽऽप्तत्वं मूलप्रमाणाभावाद्दुराग्रहमूलमेव । किञ्च

नारीसङ्गममत्तोऽसौ यस्मान्मामवमन्यते ।

योनिलिङ्गस्वरूपं हि तस्मादस्य भविष्यति ॥ इति

‘‘भृगुशापान्महेशस्य योनिलिङ्गस्वरूपते’’ति पाद्मवचनात् ‘योनिलिङ्गस्वरूपो भवे’ति भृगुणा शापे दत्ते मुनिशापाख्यासिना तत्क्षणादेवापगतकरचरणशिर आद्यवयवस्य भवतां रुद्रस्य उर्वरितलिङ्गमात्रेण योन्याकारपाणिपीठे स्थितेर्भवद्भिरस्माभिश्चाङ्गीकारेणासामर्थ्यस्य स्पष्टमुपलम्भाद्रागकलुषितहृदयस्य कथमाप्तता । अत एव हि ‘‘घ्नन् शिश्नदेवाभिवर्पसाभूदि’’ति श्रुतिर्गृहेगृहे बहुमूर्तिभिः शिवस्य शिश्नरूपतामाह । एतत्सर्वमभिप्रेत्योक्तं ‘‘रुद्रादीनां सकाशाद्विष्ण्वादीनामेवाऽऽप्तत्व’’मिति । आदिपदेन मन्वादयो गृह्यन्ते ।

नन्वस्ति प्रसिद्धरुद्रादन्यः परशिवो नाम शिवस् तस्य चाप्तत्वे नोक्तबाधकं बाधकमिति चेन्न । कैलासाधिपतिना रुद्रेण कृतपाशुपतागमप्रामाण्ये कथं त्वदुक्तपरशिवाप्तताया उपयोगः । न हि काकस्य कार्ष्ण्यात् प्रासादो धवलो भवति । तच्छिष्योऽयं रुद्र इति चेत्तर्हि कैलासाधिपतेस्स्वस्यैव सर्वोत्तमत्वप्रतिपादकत्वदीयपाशुपतागमस्याप्रामाण्यप्रसङ्गः ।

किञ्च कस्मात्प्रमाणादयं परशिवस्सिद्धः । न तावत्पाशुपतागमात् तत्र प्रसिद्धरुद्रस्यैव सर्वोत्तमत्वप्रतिपादनात् । तदितरस्य रुद्रस्याप्रसञ्जनाच्च । नापि वेदात् । तत्रा‘‘प्यम्बिकापतये उमापतये’’ इति प्रसिद्धरुद्रस्यैव प्रतिपादनात् ‘‘एको रुद्रो न द्वितीयाय तस्थ’’ इति इतोऽतिरिक्तरुद्रनिषेधात् । ‘‘माता रुद्राणा’’मिति सकलरुद्राणामपि मातृश्रवणेन रुद्रत्वजात्याक्रान्तस्य यस्य कस्यचित्परशिवत्वे श्रौतयुक्तिविरोधाच्च । विष्णुब्रह्मशिवानामपि मूलीभूतं किञ्चिदस्तीति क्वाचित्कवचनं तु त्रयाणामपि मूलीभूतं किञ्चिद्वस्तु कल्पयतु । तस्य परशिवतां तु कुतः कल्पयेत् । तस्मिन्वाक्ये तद्वाचकपदाभावात् । अपि च विष्ण्याख्यवामनावतारस्यादिभूते पद्मनाभाख्यमूलरूपेऽस्य वाक्यस्य सावकाशत्वाच्च न ततोऽतिरिक्तपरशिवकल्पकम् । किंतु तस्यैव परशिवत्वकल्पकम् । ‘‘धर्मिकल्पनातो धर्मकल्पनं वर’’मिति न्यायविदः । नापि पुराणात् । षण्णां वैष्णवत्वात् । षण्णां ब्राह्मत्वात् । षट्सु गौरीपतेरेव सर्वोत्तमत्वप्रतिपादनात् ।

अतोऽप्रामाणिकत्वात्तेषां तेषामेव सर्वोत्तमत्वप्रतिपादकाष्टादशपुराणविरुद्धत्वाच्च न ततोऽतिरिक्तः परशिवोऽङ्गीकर्तुमुचितः । ईशो महेश इतिवदेकस्यैव शिवः परशिव इति नामद्वयसम्भवाच्च । अन्यथा महेशोऽप्यन्यः स्यात् । कैलासाधिपती रुद्रः । सत्यलोकाधिपतिर्बह्मा । वैकुण्ठनिवासो विष्णुरितिवदमुकस्थाने परशिव इति स्थानविशेषानुक्तेश्च नासौ कल्प्यः। अन्यथाऽदृष्टस्थानविशेषं शशृङ्गमपि कल्प्यं स्यात् ।

किं चासौ सशरीरश्चेदुत्पत्त्यादिदोषकलुषितत्वेन न परशिवः । अशरीरत्वे पञ्चमुखत्वव्यञ्जकव्यङ्ग्यरुद्रत्वजात्यभावेन तन्निमित्तप्रवृत्तिकशिवशब्दप्रयोगायोगात् । ‘‘शिवः शूली महेश्वर’’ इति ह्यभिधानम् । ‘‘परः शिवः परो ध्येयः परं ज्ञानं परा गति’’रिति वासुदेवसहस्रनामसु रुद्रोक्तविष्ण्वाख्यपरशिवस्यैव परशिवत्वे तस्य चाप्तत्वे अस्माकमेवेष्टसिद्धेः । ततोऽन्यपरशिवाङ्गीकारस्तु न शिवे परमादरवतां प्रेक्षावतामुचितम् । नहि त्रिलोचनाविदितं पन्थानं द्विलोचनः कोऽपि पुरुषः पश्येत् । किन्तु शिवोक्तविष्ण्वाख्यपरशिवपरित्यागेन परशिवान्तराङ्गीकारे शिवद्रोहाख्यदोषोऽप्यधिकः । पाशुपतोक्तलिङ्गधारणशिवार्चनादीनां च दत्तजलाञ्जलिता च स्यात् । मायावादिनां च शैवसमाचाराणां शिवोक्तपरशिवत्यागेन परशिवान्तराङ्गीकारे रुद्रद्रोहः । उक्तस्वमूलग्रन्थविरोधः । ‘‘त्रिष्वधीशेषु को महानि’’त्यादि भागवतोक्ताधीशत्रित्वविरोधः ।

ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटिसङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्तः ।

लक्ष्मीलसत्कुचसरोरुहराजहंसलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥

इति स्वाचार्योक्तिविरोधाच्च । अतो यत्किञ्चिदेतत् । किञ्च चिन्मात्रातिरिक्तपरशिवाख्यतत्त्वाङ्गीकारे सदद्वैतभङ्गप्रसङ्गः । तस्यैव तत्त्वे नामरूपरहिते तस्मिन् विशिष्य परशिवोक्तिवैयर्थ्यम् । लक्षणायां विशिष्यैकपदलक्षणावैयर्थ्यमेव । तथासति परशिवाख्यमुख्यतत्त्वस्यान्यत्वेन प्रागुक्तदोषानुषङ्गाच्च । अतत्वतायां च न परपरशिवत्वमित्यादयो दोषा द्रष्टव्याः ।

किञ्च ‘‘नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ती’’ति श्रुतेस्सर्वनाम्नां विष्णुपरत्वाच्च न परशिवोऽन्यः सिद्ध्येत् । न च वाच्यं हरिवंशे कैलासयात्रायां ‘‘त्वन्नामान्येव मन्नामानी’’ति रुद्रेण कथनात् तस्यापि सर्वनामत्वमिति । श्रुतितः स्मृतेर्दुर्बलत्वेन स्वार्थासाधकत्वात् ।

ऋते नारायणादीनि नामानि पुरुषोत्तमः ।

प्रादादन्यत्र भगवान् राजेवर्ते स्वकं पुरम् ॥

इति स्कान्दपुराणवचनात्सर्वाणि मन्नामानि त्वन्नामानीति रुद्रस्य विष्णुदत्तकतिपयनामवत्त्वेऽपि स्मृतेस्सावकाशत्वात् । कैलासाधिपतेः सर्वनामवत्त्वेऽपि परशिवस्य किमागतम् । अतोऽसङ्गतिश्च । ‘‘इन्द्रं मित्रं वरुणमग्निमाहु’’रिति वामनसूक्ते वामनस्य सर्वनामवत्त्वं स्पष्टमुक्तवा ‘यो देवानां नामधा एक एवे’ति सावधारणश्रुत्या सर्वदेवनामवत एकत्वश्रवणाच्च न विष्णोरन्यस्य सर्वनामतादि स्मृतिशतेनापि सिद्ध्येत् । किन्तूक्तप्रबलश्रुत्यनुसारेण सैव स्मृतिः रुद्रान्तर्गतरुद्रनामकविष्णोरेव सर्वनामवत्त्वसाधिकैव भवेत् । श्रुतिश्च हरावेव प्रसिद्धविष्णुवामनादिनामवती नान्यत्र नेतुं शक्या । श्रुतेः रुद्रपरत्व एव हि श्रौतविष्णुपदवाच्यता तस्य स्यात् । हरौ विष्णुपदस्यानुशासने प्रसिद्धिवच्छिवे तदभावेन श्रुतिं विना नेतुमशक्यत्वात् । विष्णुनाम्नश्च शिववाचकत्वे एतच्छतिबलादेव सिद्धे प्रसिद्धिविरोधाभावात् श्रुतिस्तत्र नेयेत्यन्योन्याश्रयाच्च । हरौ तु विष्णुपदस्य लोकप्रसिद्धत्वाद्विष्णुपदमहिम्नैव श्रुतिस्तत्र नीयते । रुद इव विष्णुपदवाच्यतायामपि श्रुतिर्नापेक्ष्यते । तस्माद्विष्णुविषये न कश्चित्क्षुद्रोपद्रवः ।

जलशायिना नारायणेन स्वनाभिकमलात्सर्वाग्रेसरं ब्रह्माणं सृष्ट्वा पुत्राय तस्मै पित्रा नारायणेनोपदिष्टे पञ्चरात्रशास्त्रेऽनाप्तिमूलतायाः प्रेक्षावता शङ्कितुमशक्यत्वात्कथं नाऽऽप्तिमूलता । वक्तुर्जगत्कर्तृतया सर्वज्ञत्वेनाज्ञानाभावात् । यथा पूर्वं कर्तृत्वेन भ्रमाभावात् । ‘‘आप्तकामस्य का स्पृहे’’ति श्रुतेः प्रयोजननिरपेक्षत्वेन स्वसमीपस्थलक्ष्मीमुपेक्ष्य स्वोदरपद्मादेव पुत्रप्रसवितृत्वेन च रागाभावात् । पुत्रस्य च विप्रलम्भा योग्यत्वेन विप्रलिप्साभावादपौरुषेयतया दोषामूलवेदमूलत्वेन च शङ्कास्पदप्रत्यक्षमूलग्रन्थान्तरवद्दुर्बलमूलत्वाभावाच्च । किञ्च शैवमतस्य बाणजरासन्धरावणादयस्तामसा एवाधिकारिणः । पञ्चरात्रे तु ब्रह्मनारद सनकादयस्सात्विका एवाधिकारिणः । अतोऽपि पञ्चरात्रस्यैव प्रामाण्यमुचितम् । तद्वक्तुराप्तत्वं च कथं न सिद्ध्येत् । तस्मादाप्तत्वमस्माकमेव साधकं न परस्येति भावः ॥ १ ॥

न श्रुतेरित्यत्र श्रुतेरपौरुषेयत्वेन प्रामाण्यम् । स्मृतेराप्तिमूलत्वेन प्रामाण्यम् । अतः साम्यमिति परस्य दुराशयः । रुद्रादीनां सकाशाद्विष्ण्वादीनामेवाऽऽप्तत्वमिति वदतो गूढाभिसन्धेर्भाष्यकारस्य भावमजानानस्य रुद्रादीनामपीषदाप्तत्वमस्तीति मन्यमानस्येयं शङ्का । स्मृतेः पौरुषेयत्वेन पुरुषाणां च दोषशङ्कास्कन्दनान्नियतप्रामाण्यसाक्षिसाम्यं श्रुतेरेव । अतस्त्वदाशङ्किता समताऽपि ममैवार्थसाधिकेति भावः ॥ २ ॥

अपि तु वचनादिशक्ताया इत्यत्र अपौरुषेयत्वेन प्रामाण्यस्य निश्चितत्वान्मृदादीनां वचनादृष्टिरेव तदन्तर्गतवचनशक्तदेवतायाः कल्पिकैव । अतोऽदृष्टिरपि ममैवार्थसाधिकेति भावः ॥ ३ ॥

ईश्वरस्य सृष्टित्ववदित्यत्र ‘‘यतो वा इमानि भूतानि जायन्त’’ इत्यादिश्रुत्या ‘‘असद्वा इदमग्र आसी’’दिति श्रुतेः साम्यमिति परस्याशयः । जडस्य प्रागभावस्य कारणत्वमात्रसम्भवेऽपि बुद्धिपूर्वक कारणत्वरूपकर्तृत्वासम्भवाददृश्यत्वाद्यर्थमादाया सच्छतिरपि ब्रह्मश्रुतेरेव समा । अतः श्रुतिसाम्यमपि ममैवेति भावः ॥ ४ ॥

कर्माणि विज्ञानमयश्चेत्यत्र ‘‘एकीभवन्ती’’ति श्रुतिबलाज्जीवस्योच्चब्रह्मत्वमपि भवतीति शङ्काबलोद्भवः ‘‘परमं साम्यमुपैती’’त्यादिनिरवकाशवाक्यबलाद्ब्रह्मण एवोच्चत्वेन भव इति ममापि बलोद्भव एव साधक इति भावः ॥ ५ ॥

न लौकिककार्यानुसारेणेत्यत्र कृषीबलः करोति क्षेत्राधिपतेरेव धनधान्यादिकमधीनं न कर्तुः कृषीवलस्य । गौर्दोग्ध्री दुग्धं तु गोपालाधीनम् । कोशरक्षकः कोशं रक्षति धनं तु राजाधीनमित्यादि लौकिककार्यानुसारेणाकर्तृतन्त्रत्वं कर्त्रन्यतन्त्रत्वं जगत इति शङ्का । किन्तु तद्वैलक्षण्येनासमर्थत्वेनाल्पाल्पकार्येषु व्यापृतलौकिककर्तृवैलक्षण्येन सर्वकर्तृत्वेन निमित्तेन सर्वं जगद् भगवतैव कृतम् । सर्वकर्तृत्वादेव तत्पालनसंहारादेरपि भगवतैव कर्तव्यत्वात्कथं न जगद्भगवदधीनम् । लोके तु कर्ताऽन्तः स्वाम्यन्यः । जगति तु ‘‘एष सर्वेश्वर’’ इति श्रुतेर् भगवतोऽन्यस्य सर्वस्वामिनोऽभावात् । अतस्सयुक्तिकसकलश्रुतिस्मृतिरूपसर्वप्रमाणानुसारो ममैव साधकः । ‘‘तत्सृष्ट्वा तदेवानुप्राविशदि’’ति श्रुतिः ॥ ६ ॥

श्रुतिसिद्धत्वेनत्यत्र अश्रुतजीवकर्तृत्वस्याङ्गीकारात् श्रुतब्रह्मकर्तृत्वस्य त्यागायोगादन्ततस्तवैवोभयकल्पनया कल्पनागौरवम् । अस्माकं तु हरेरेकस्यैव कर्तृत्वाङ्गीकाराल्लाघवमेवेति लघुताऽप्यस्माकमेव साधिका ॥ ७ ॥

विशेषाणामदर्शनं जीव इत्यत्र जीवे विशेषाणामदर्शनेऽपि भगवतः किमायातमिति चेत्सत्यम् । चेतनत्वाविशेषात्तस्यापि न स्यादिति शङ्कितुर्हृदयम् । जीवाद्विशेषाणां ब्रह्मण्यदर्शनं जीवेष्वविद्यमानादृश्यत्वादिमहिमसाधकमेव न बाधकम् । ‘‘तदव्यक्तमाह हि’’ ‘‘न चक्षुषा पश्यति कश्चिदेनं’’ इत्यादि विशेषश्रुतेरेवेति भावः । अतो विशेषादर्शनमप्यस्माकमेव साधकम् ॥ ८ ॥

फलापेक्षिणस्त्वपूर्णत्वादित्यत्र फलापेक्षी यावति फलेऽपेक्षाऽस्ति तावदेव कुर्यान् न सर्वम् । फलानपेक्षी तु पूर्णत्वात्पूर्णानन्दत्वात्पूर्णशक्तित्वाच्च सर्वमपि कार्यं लीलया कुर्यादेव । ‘‘को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्या’’दिति हि श्रुतिः । अतः फलाभावोऽपि सर्वकर्तृत्वसाधकः ॥ ९ ॥

श्रुतेरप्रामाण्यमित्यत्र श्रुतेः ‘‘पुण्येन पुण्यं लोकं नयती’’त्यादिश्रुतेः कर्मसापेक्षत्वादिष्टस्य पूर्णत्वस्यासिद्धिरिति पूर्वपक्षिण आशयः । अनुकूलस्वाधीनमन्त्रिसापेक्षनृपतेरिव स्वाधीनकर्मापेक्षया फलदानानङ्गीकारे इष्टस्य ‘‘पुण्येन पुण्यं लोकं नयती’’त्यादिश्रुतिप्रामाण्यस्य तवैवासिद्धिः । अतोऽस्मदुक्तप्रमेयानङ्गीकारे तवैवेष्टासिद्धिस्स्यादितीष्टासिद्धिरप्यस्माकमेवानुकूला ॥ १० ॥

स्वतन्त्रस्य पूर्णगुणत्वनियमादित्यत्र सर्वापेक्षितज्ञानादिशोभनगुणानां स्वतन्त्रत्वेन स्वाधीनत्वे कमपि गुणं न मुञ्चेदिति नियमोऽस्माकमेव सर्वगुणत्वसाधकः ॥ ११ ॥

अलौकिकशाब्दलक्षणविषया इत्यत्र अलौकिकशाब्दलक्षणानि ‘‘अयस्मयादीनि छन्दसी’’त्यादिकानि तद्विषया इत्यर्थः । स्वस्य गृहीतत्वादित्यत्र स्वस्य द्रव्यस्य गृहीतत्वादित्यर्थः । हेतुं विशिंष्यादित्यत्राविप्रलम्भकत्वे सतीति विशेषणयुक्तं कुर्यादित्यर्थः । अपटुकरणानामप्युपदेशदर्शनेनेत्यत्र अपटुकरणानां शीघ्रोच्चारणशक्तिरहितानाम् । कर्णिका रुचकं चैवेत्यत्र कर्णिका पद्मासनं रुचकमयोमयकटकविशेषः । लकुटं च कलार्चनमित्यत्र लकुटं यष्टिविशेषः कलार्चनं लिङ्गपूजा । प्रमाणसिद्धफल व्यभिचारत्वादित्यत्र प्रमाणात्सिद्धेऽर्थे फलव्यभिचारत्वादित्यर्थः ।

इति स्मृत्यधिकरणम्