महातात्पर्ययुक्तेश्च
इच्छाभावे श्रुतिमहातात्पर्यविषयत्वाभावप्रसङ्गः
महातात्पर्ययुक्तेश्च
अनुव्याख्यानम्
महातात्पर्ययुक्तेश्च …… …….
**सुधा **
नन्वीश्वरस्य इच्छाभावे बाधकाभावादप्रयोजकत्वमनुमानानामिति । मैवम् । महा-तात्पर्ययुक्तेश्च । यदीश्वरस्य इच्छा न स्यात् तदा तस्मिन्सर्ववेदानां (वेदान्तानां) महातात्पर्यं न स्यादिति बाधकसद्भावात् । इच्छा निष्प्रयोजनेति चेत् । स्यादेवं यदि प्रयोजनमनुरुध्य कल्प्यते । अन्यतः सिद्धेऽर्थे किं प्रयोजनगवेषणया ।
**सशेषवाक्यार्थचन्द्रिका **
मूले महातात्पर्ययुक्त्युपन्यासस्यानर्थक्यमाशङ्क्येच्छावत्त्वसाधकानु-मानेष्वप्रयोजकताशङ्कापरिहाराय विपक्षे बाधकोपन्यासार्थत्वान्न तदिति भावेन तच्छङ्कानिवर्तकतयोत्तर-मूलं योजयितुमप्रयोजकत्वशङ्कामुत्थापयति नन्विति ॥ निष्प्रयोजनेति चेदिति । बुद्धिप्रयत्नाभ्या-मेवोक्तरीत्या कर्तृत्वनिर्वाहादिति भावः ।
**परिमल **
यदीति । अयं च तर्कोऽग्रे व्याप्त्याद्युपपादनेन विवरिष्यते । बुद्ध्यैव सर्वकार्य-सिद्धाविच्छाङ्गीकारो व्यर्थ इति शङ्कते इच्छेति । प्रमेयाङ्गीकारो न प्रयोजनानुरोधेन किन्तु प्रमाणबलेन । तच्चात्र इच्छावत्त्वे प्रागुक्तमिति भावः । अन्यतः प्रमाणतः ।
**श्रीनिवासतीर्थीया **
सममिति । दुःखादिसाधने बाधोऽस्ति नेच्छाया साधन इत्यर्थः । निष्प्रयोजना अतो नाङ्गीकार्येत्यर्थः । कल्प्यते इच्छेति शेषः । तर्ह्येव निष्प्रयोजनत्वादिच्छा नाङ्गीकार्या स्यादित्यर्थः ॥ अन्यत इति । उक्तार्थापत्तिकामश्रुतियुक्तिमहातात्पर्येभ्य इच्छारूपेऽर्थे सिद्धे सति ।