न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः
परप्रयोजनार्थत्वस्य श्रुतिसूत्रसिद्धत्वसमर्थनम्
न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः
**सुधा **
कुत एतदवगम्यत इत्यत आह नेति ।
अनुव्याख्यानम्
न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः ॥
यतः परप्रयोजनमङ्गीकृत्यात्मप्रयोजनार्थतामेव नेति न्यवारयत् । अत एव हि प्रयोजन-वत्त्वादिति तत्र हेतुमाह । अन्यथा नैतं ब्रूयात् ।
एतदुक्तं भवति । यदि नेति सौत्रीप्रतिज्ञा स्वपरप्रयोजनविषया स्यात् तदा प्रयोजनवत्त्वादिति हेतुरनैकान्तिकः स्यात् । स्वयं व्यापारसाध्यप्रयोजनवतोऽपि परप्रयोजनोद्देशेन व्यापारदर्शनात् । स्वप्रयोजनमात्रविषयत्वे तु नायं दोषः । योऽवाप्तयत्प्रयोजनः स स्वार्थं न तदुद्दिशतीति व्याप्तेर-नवद्यत्वात् । अतः प्रयोजनवत्त्वादिति हेतुं ब्रुवाणः सूत्रकृदात्मप्रयोजनोद्देशमेव नेति निवारित-वान् । न परप्रयोजनोद्देशमपि । तथात्वे तद्-व्याप्तमेव कमपि हेतुं ब्रूयात् । स्वप्रयोजननिषेधं कुर्वाणो विशेषनिषेधस्य शेषाभ्यनुज्ञाज्ञापकत्वात्परप्रयोजनस्पृहामभ्युपैतीति (मनुजानातीत्यपि) ज्ञायत इति । उपलक्षणमेतत् । श्रुतिरप्याप्तकामस्येति हेतुगर्भविशेषणं प्रयुञ्जानाऽऽत्मप्रयोजनस्पृहा-मेवाक्षिपति परप्रयोजनस्पृहामभ्युपैतीति ज्ञायत इत्यपि द्रष्टव्यम् ॥
**सशेषवाक्यार्थचन्द्रिका **
ननु स्वस्वसम्बन्धिप्रयोजनविषयत्वाच्छ्रौतादिनिषेधस्य भगवत्प्रवृत्तेः परसम्बन्धिप्रयोजनोद्देशसिद्ध्या प्रागभिप्रेतसिद्धसाधनत्वादिसमर्थनात्किमुत्तरेणेत्यत उक्तनिषेधस्य स्वसम्बन्धिप्रयोजनविषयतायां ज्ञापकविशेषाभिधानार्थत्त्वात्तस्य नानर्थक्यमिति भावेन तत्कथनरूप-तयोत्तरवाक्यं सङ्गमयितुं तदभावप्रयुक्तस्वसम्बन्धिप्रयोजनमात्रविषयत्वानुपपत्तिशङ्कामुत्थापयति कुत एतदिति । ननु चात्र ‘न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुरि’त्येवोच्यते न तु प्रयोजननिषेधस्य स्वसम्बन्धिप्रयोजनमात्रविषयतायां किञ्चिन्नियामकमपीति कथमनेनोक्तशङ्कापरिहार इत्यतोऽपेक्षिता-ध्याहारेण ज्ञापकविशेषसमर्पकतया भाष्यं व्याचष्टे यत इत्यादिना ॥ अन्यथेति । नेति सौत्रनिषेधस्य स्वपरसम्बन्धिप्रयोजननिवारकत्व इत्यर्थः । ननु नेति सौत्रप्रयोजननिषेधस्य स्वसम्बन्धिप्रयोजन-विषयतायामिव स्वपरसाधारणप्रयोजनविषयतायामपि हेतुत्वादेवोक्तत्वोपपत्तेः कथमनेन निषेधस्य स्वसम्बन्धिप्रयोजनमात्रविषयत्वसिद्धिः, कथञ्चित्तत्सिद्धावपि कथं भगवत्प्रवृत्तेः परप्रयोजनोद्देशसिद्धि-रित्यतः प्रयोजनमात्रनिवारकत्वहेतुत्वासम्भवप्रदर्शनपूर्वकं स्वसन्धिप्रयोजनमात्रविषयतायां तत्सम्भव-कथनेनावक्तव्यत्ववक्तव्यत्वे व्युत्पादयन्नेव परसम्बन्धिप्रयोजनाभ्युपगमसिद्धिमुपदर्शयति एतदुक्तं भवतीत्यादिना । अनैकान्तिकत्वमेव दर्शयति स्वयमिति । ज्ञायत इतीत्यत्रत्यस्येतिशब्दस्येत्येतदुक्तं भवतीति पूर्वेण सम्बन्धः । नन्वनेन वाक्येन नेति सौत्रनिषेधस्योक्तरीत्या स्वप्रयोजनमात्रविषयत्व-सिद्ध्या सूत्रकृतः परप्रयोजनोद्देशाङ्गीकारसिद्धावपि श्रौतनिषेधस्य तदसिद्ध्या श्रुतौ तदङ्गीकारासिद्धेः कथमनेन वाक्येनोक्तशङ्कानिरास इत्यतो न प्रयोजनवत्त्वेनेत्यादिभाष्यमुपलक्षणतया व्याचष्टे उपलक्षण-मेतदिति । यद्यप्यत्र मूले आत्मप्रयोजनार्थायेति पूर्ववाक्यानुरोधेन श्रौतनिषेधस्य स्वसम्बन्धिप्रयोजन-मात्रविषयत्वं ज्ञापकोक्त्या मुखतो वक्तुमुचितम् । तथाऽपि पूर्ववाक्यस्थश्रुतिशब्दस्य सूत्रकृदुप-लक्षणत्वज्ञापनार्थं सौत्रनिषेधस्य तद्विषयत्वं मुखत उपपादितम् । अन्यथा निराकाङ्क्षतया श्रुतिशब्दस्य तदुपलक्षणत्वासम्भवादिति ध्येयम् ।
**परिमल **
एवं हेतूक्तावप्युक्तप्रमेयसिद्धिः कथमित्यत आह एतदुक्तमिति ॥ इति हेतुरनैकान्तिक इति । प्रयोजनवत्त्वादित्यस्य ह्याप्तप्रयोजनवत्त्वादित्यर्थः । तथाचेश्वरः न प्रयोजनोद्देशेन व्याप्रियत आप्तप्रयोजनवत्त्वाद् यो यद्य्वापारसाध्यप्रयोजनमाप्तवान् स तद्-व्यापास्साध्यप्रयोजनोद्देशेन न व्याप्रियत इत्युक्तौ व्यभिचारी हेतुः स्यादित्यर्थः । कुत्रेत्यत आह स्वयमिति । आत्मन इत्यर्थः । व्यापार-साध्यप्रयोजनं स्वस्याप्तवतोऽपीत्यर्थः ॥ इति हेतुमिति । आप्तप्रयोजनत्वादित्यर्थकं हेतुमित्यर्थः ॥ तद्-व्याप्तं कमपीति । स्वभाववत्त्वादिकमित्यर्थः । तावता परार्थमिति कथं ज्ञायत इत्यत आह स्वप्रयोजनेति । उत्तरवाक्यसङ्गत्यर्थमाह उपलक्षणमिति ।
**यादुपत्यम् **
न प्रयोजनवत्त्वेनेत्युत्तरमूलोत्थापनायाह सूत्रकृतोऽपीति ॥ तद्-व्याप्तमेव कमपीति । प्रयोजनोद्देशसामान्याभावव्याप्तमानन्दोद्रेकादिकमेव कमपि हेतुं कुर्यादित्यर्थः ।
**श्रीनिवासतीर्थीया **
स्वयं व्यापारेति । स्वयं स्वीयव्यापारसाध्यं प्रयोजनं पूर्वमेव लब्धवत इत्यर्थः । कृतकृत्यस्यापीति यावत् । अथवा स्वयं स्वस्येत्यर्थः । स्वप्रयोजनमात्रविषयत्वे नेति सौत्रप्रतिज्ञायाः स्वप्रयोजननिषेधमात्रविषयकत्व इत्यर्थः ॥ तद्-व्याप्तमिति । स्वपरप्रयोजनो-भयनिषेधव्याप्तं हेतुं ब्रूयान्न स्वप्रयोजनमात्रनिषेधकमित्यर्थः ।