०४ स्वप्रयोजनाभावेऽपि परप्रयोजनोद्देश्यताऽस्ति

आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत्

स्वप्रयोजनाभावेऽपि परप्रयोजनोद्देश्यताऽस्ति

आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत्

**सुधा **

किञ्च कर्तृत्वेन प्रयोजनवत्तां साधयन्नापादयन्वा प्रष्टव्यः । किं प्रयोजनं स्वसम्बन्धि विवक्षितम्, उत परसम्बन्धि, अथ साधारणम् । आद्ये साधनेऽनैकान्त्यम् । आपादने व्याप्त्य-भावः । विपर्ययपर्यवसाने व्यभिचार एव । दृश्यन्ते हि कृपालवः स्वप्रयोजनमनुद्दिश्य परप्रयोजनार्थमेव प्रवर्तमानाः । न चादृष्टार्थमिति वाच्यम् । पशूनां पशुप्रायाणां चापत्यपालनादौ प्रवृत्तिदर्शनात् । न च प्रयोजनोद्देशिता कृपालुता चेति सम्भवति । द्वितीयेऽप्यनैकान्त्यादिकमेव । स्वप्रयोजनार्थं प्रवृत्तेर्बहुलमुपलम्भात् । भगवतोऽपि स्वप्रयोजनाभावेपि परप्रयोजनोद्देशिताङ्गीकारेण क्रमेण सिद्धसाधनेष्टापादनासिद्धत्वप्रसङ्ग(ङ्गा)श्च । अत एव न तृतीयोऽपि । अत एव (येन) केनचित्कर्तृत्व(त्वे)विशेषणं, प्रवृत्तिस्वभावत्वे सदा प्रवर्तेतेत्यतिप्रसञ्जनं च प्रत्युक्तम् ।

स्यादेतदेवम् । यदीश्वरप्रवृत्तौ परप्रयोजनोद्देशः स्यान्न चासावङ्गीकर्तुमुचितः । का स्पृहा न काऽपीति श्रुत्या नेति सूत्रकारेण च सर्वथा प्रयोजनोद्देशस्य निवारितत्वादित्यत आह आत्मेति ।

अनुव्याख्यानम्

आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत् ॥

श्रुतिरिति सूत्रकृतोऽप्युपलक्षणम् । परप्रयोजनार्थतां त्वङ्गीकुरुत एवेति शेषः ।

**सशेषवाक्यार्थचन्द्रिका **

ननु ‘आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयदि’त्युत्तरभाष्यमनर्थकम् । न च भगवतः स्पृहाभावप्रतिपादकश्रुतिसूत्रयोः स्वसम्बन्धिप्रयोजनाभावमात्रत्वप्रतिपादनार्थं तदिति वाच्यम् । तत्कथनस्य प्रकृतानुपयोगात् । न च भगवत्प्रवृत्तेः स्वसम्बन्धिप्रयोजनोद्देशाभावेऽपि परसम्बन्धिप्रयोजनोद्देशसद्भावप्रतिपादनार्थं तदिति वाच्यम् । तत्सद्भावप्रतिपादनस्याप्यनर्थकत्वात् । न च साधनापादनपक्षयोः परसम्बन्धिप्रयोजनसद्भावेन सिद्धसाधनत्वादिप्रतिपादनार्थं तदिति वाच्यम् । तत्सद्भावप्रतिपादनस्याप्यनर्थकत्वात् ।

न च साधनापादनपक्षयोः परसम्बन्धिप्रयोजनसद्भावेन सिद्धसाधानत्वदिप्रतिपादनार्थं तदिति वाच्यम् । परसम्बन्धिप्रयोजनसाधनापादनपक्षयोः सिद्धसाधनत्वादिप्रसक्तावपि स्वसम्बन्धि-प्रयोजनोद्देशसाधनापादनपक्षयोस्तदप्रसङ्गादित्यतोऽत्र तं पक्षं प्रकारान्तरेण प्रदूष्य परसम्बन्धि-प्रयोजनोद्देशसाधनापादनपक्षौ सिद्धसाधनत्वदिना निरस्य तदुपपादनार्थं स्पृहाभावप्रतिपादकश्रुति-सूत्रगतिकथनेन परसम्बन्धिप्रयोजनोद्देशसद्भावप्रतिपादनपरत्वान्नोत्तरवाक्यवैयर्थ्यमित्यभिप्रेत्य सिद्ध-साधनत्वोपपादकपरसम्बन्धिप्रयोजनोद्देशसद्भावप्रतिपादकतयोत्तरवाक्यं सङ्गमयितुं साधनापादनपक्षयोः सम्भाविततया प्रसक्तान्विकल्पांस्तावद्दर्शयति किञ्चेति । साधनेऽनैकान्त्यमापादने व्याप्त्यभावो विपर्ययपर्यवसाने व्यभिचार इत्युक्तदोषत्रयमप्युपपादयति दृश्यन्ते हीति ॥ कृपालव इति । यद्यपि स्पृहिगृहीत्यादिना कृपेरालुच्प्रत्ययो न विहितस्तथाऽपि व्याकरणान्तरादवगन्तव्यः । कलशवाची वाऽऽलुशब्दः कृपापूर्णाः कलशा इत्यर्थः । उपलक्षणं चैतत् । ‘स्पृह्यादेर्लुशमविधायालुच्करणम् अन्यत्रापि यथा स्यात् तेन कृपालुरिति सिद्धेत्’ इति व्याकरणवचनादपि न तत्सम्भव इत्यपि द्रष्टव्यम् ।

ननु लुश्विधौ न स्पृहयालुरिति रूपं सिध्यति । आलुज्विधौ तु ‘अयामन्ताल्वाय्ये’ति णेरयादेशे तत्सिद्धिरिति चेन्न । स्पृहेर्लुशि तस्य शित्वेन तिङ्शित्सार्वधातुकमिति सार्वधातुकतया कर्तरि शबिति शपि सार्वधातुकार्धधातुकयोरिति गुणे अयादेशे अतो दीर्घो यञीति दीर्घतायां सत्यां स्पृहयालुरिति तत्सिद्धिसम्भवात् । ततश्च सत्यप्येवं लुशविधावपि विवक्षितसिद्धावालुच्करणमन्यत्रापि यथा स्यादित्य-स्यार्थस्य ज्ञापकम् । तद्बलाच्च कृपेरालुचि कृपालुशब्दनिष्पत्तिरित्यालज्विधिनैवास्यार्थस्य ज्ञापित-त्वाददोषः । अत एव कौमुद्यां ‘हरे कृपालो नः पाही’त्युक्तम् ॥

ननु च लुश्विधौ न विवक्षितरूपसिद्धिः । लुशो लकारस्येत्संज्ञाप्रसङ्गात् । स्पृहयालुरिति दीर्घत्वानुपपत्तिश्च । तिङीत्यनुवृत्त्या तिङि परत एवातो दीर्घो यञीति दीर्घत्वविधानात् । श्रद्धालुश्च न सिध्येत् । श्रत्पूर्वाद्धाधातोर्लुशि शपि तस्य जुहोत्यादित्वात् श्लौ सति श्लाविति द्विर्भावे ह्रस्व इति ह्रस्वत्वे चर्त्वे श्नाभ्यस्तयोरात इत्यालोपे श्रद्दध्लुरिति प्रसङ्गात् । अतो लुश्विधौ स्पृहयालुरिति रूपासिध्द्या तत्सिद्ध्यर्थत्वादालुच्करणस्य नान्यथाऽनुपपत्त्याऽन्यत्राप्यालुच्प्रत्ययविधायकत्वसिद्धिरिति चेत् । मैवम् । लुश्विधावपि यादित्वादित्संज्ञाभाव उपपद्यते । यकारश्चात्रलुप्तनिर्दिष्टः क्रियते । प्रयोजना-भावाद्वा इत्संज्ञाभावः । न ह्यत्र लित्स्वरप्रत्ययस्वरयोर्विशेषोऽस्ति । उभयत्र ‘एकादेश उदात्तेनोदात्त’ इत्युदात्तत्वस्य भावात् । नापि स्पृहयालुरिति दीर्घानुपपत्तिः । ‘अतो दीर्घो यञी’त्यत्र ‘तुरस्तुशम्यमः सार्वधातुके’ इत्यतः सार्वधातुकग्रहणस्यैवानुवृत्त्या तिङ्ग्रहणाननुवृत्तेः । नाप्यन्त्यः । अनेकार्थ-त्वाद्धातूनाम् । अत्रविषये दधात्यर्थे वर्तमानस्य घेटो भविष्यति ।

न च शिदाश्रयेऽशितीत्यात्वप्रतिषेधात्तदनुपपत्तिः (पा. सू. ६-१-४५ आदेच उपदेशेऽशिति । सि. कौ. सू. क्र. २३७० ) । एवं तर्हि श्रद्धा आश्रद्धेत्याकारप्रश्लेपादात्वं भविष्यति । अथवा धातोरेव संज्ञापूर्वको विधिरनित्य इति द्विर्वचनं न प्रवर्तिष्यते । ततश्च लुशूविधिनैवोपपत्तावपि ज्ञापनार्थ-मेवालुच्करणम् । एतज्ज्ञापयत्याचार्यः । यत्रालुचैव रूपसिद्धिस्ततोऽप्ययं भवतीति कृपेरप्यालुच्प्रत्यय इत्यन्यत्र विस्तरः । ततश्च कृपालुप्रवृत्तौ सत्यपि प्रवृत्तित्वे स्वसम्बन्धिप्रयोजनवत्त्वाभावादनैकान्त्यं साधने । आपादने च तत्रैव प्रवृत्तित्वरूपापादकवति स्वसम्बन्धिप्रयोजनवत्त्वरूपापाद्यविरहादा-पादकस्यापाद्येन व्याप्त्यभावः । न भवति च स्वसम्बन्धिप्रयोजनवान् । तस्मान्न प्रवृत्तिमानिति विपर्ययपर्यवसाने कृपालुप्रवृत्तावेव व्यभिचारश्चेति पूर्वोक्तदोषत्रयमुपपादितं भवति ।

न चेति । तथा च कृपालुप्रवृत्तौ साध्यस्यापि सत्त्वान्न व्यभिचार इति भावः । माऽस्तु तर्हि कृपालुप्रवृत्तौ व्यभिचारः पश्वादीनामपत्यपालनादिप्रवृत्तौ तु व्यभिचारः स्यादेवेत्याशयेन परिहरति पशूनामिति । अङ्गीकृत्य चैतदुक्तम् । वस्तुतस्तु कृपालुप्रवृत्तेरदृष्टार्थताया एवायोगात्तत्र व्यभिचारो दुर्वार एवेत्यभिप्रेत्य तत्रादृष्टार्थत्वाभावमुपपादयति न चेति । निरुपाधिकपरदुःखप्रहाणेच्छाया एव कृपालुत्वादिति भावः । अस्तु तर्हि परसम्बन्धिप्रयोजनमेवात्र प्रयोजनमिति द्वितीयपक्ष इत्यत आह द्वितीयेऽपीति ॥ अनैकान्त्यादिकमिति । साधनेऽनैकान्त्यमापादने व्याप्त्यभावो विपर्ययपर्यवसाने व्यभिचारश्चेत्यर्थः । त्रितयमप्युपपादयति स्वप्रयोजनार्थेति । स्वप्रयोजनार्थप्रवृत्तौ सत्यपि प्रवृत्तित्वे परसम्बन्धिप्रयोजनोद्देशाभावात्साधनेऽनैकान्त्यमापादने च तत्रैव सत्यपि प्रवृत्तित्वरूपे आपादके परसम्बन्धिप्रयोजनवत्त्वरूपापाद्यविरहाद्य्वाप्त्यभावः । न भवति च परसम्बन्धिप्रयोजनवांस्तस्मान्न प्रवृत्तिमानिति विपर्ययपर्यवसाने स्वप्रयोजनार्थप्रवृत्तौ व्यभिचार इति भावः ॥ क्रमेणेति । साधने सिद्धसाधनताभावात्प्रवृत्तेः परसम्बन्धिप्रयोजनोद्देशवत्त्वाभ्युपगमात् । आपादने च तत एवेष्टापत्तिः । विपर्ययपर्यवसाने चासिद्धत्वमिति क्रमेण सिद्धसाधनत्वादिप्रसङ्ग इत्यर्थः ॥

अत एवेति । सिद्धसाधनत्वादिप्रसङ्गादेवेत्यर्थः । परसम्बन्धिप्रयोजनवत्त्वस्य भगवत्प्रवृत्ता-वप्यस्माकं सम्मतत्वात्तदादाय स्वपरसाधारणप्रयोजनवत्त्वस्य सिद्धत्वात्साधने सिद्धसाधनम् । तत एवापादने इष्टापत्तिः । विपर्ययपर्यवसानेऽसिद्धत्वं चेति भावः ॥ अत एवेति । चिकीर्षापूर्वकत्वेन प्रवृत्तिविशेषणेन मत्तप्रवृत्तौ व्याख्यानादावङ्गाचेष्टादौ चानैकान्त्यपरिहारेऽपि भगवत्प्रवृत्तेः परप्रयोजनो-द्देशिताङ्गीकारेण क्रमेण सिद्धसाधनेष्टापादनासिद्धत्वानामपरिहारादेव केनचित्कर्तृत्वविशेषणम् । भगव-त्प्रवृत्तेस्तत्स्वभावत्वेऽपि परप्रयोजनोद्देशवत्त्वात्प्रयोजनानुसारेणैव प्रवृत्त्या कादाचित्कपरप्रयोजनानु-रोधेन कादाचित्कत्वोपपत्त्या सर्वदा प्रवृत्त्यापादन च प्रत्युक्तमित्यर्थः । एवं सिद्धसाधनत्वादीनां परसम्बन्धिप्रयोजनवत्वासधनापादनपक्षौ प्रदूष्य स्पृहाभावप्रतिपादकश्रुतिसूत्रगतिकथनमुखेन परसम्बन्धिप्रयोजनवत्त्वोपपादकतयोत्तरं वाक्यं योजयितुमीश्वरप्रवृत्तेः परप्रयोजनोद्देशिताङ्गीकारे श्रुतिसूत्रविरोधशङ्कामुत्थापयति स्यादेतदेवमिति । न प्रयोजनवत्वेनेत्यत आह यदीति । जगद्गुरु-रित्युत्तरग्रन्थे ज्ञापकविशेषकथनेन सौत्रप्रयोजननिषेधस्य स्वसम्बन्धिप्रयोजनविषयत्वसमर्थनात्तदनु-रोधेनाह श्रुतिरितीति । ईश्वरप्रवृत्तेः परप्रयोजनोद्देशसद्भावानुक्तेः कथमनेनोक्तशङ्कापरिहार इत्यतोऽ-पेक्षितशेषमाह परेति ।

**परिमल **

अङ्गचेष्टा इत्यस्य दयापूर्वं प्रवृत्तय इत्यर्थम् उद्देशेत्यस्य प्रयोजनोद्देशवर्जिता इत्यर्थं चोपेत्य व्याख्यानान्तरमारभते किञ्चेति ॥ साधारणमिति । उभयसम्बन्धीत्यर्थः ॥ आद्य इति स्वसम्बन्धीति पक्ष इत्यर्थः । अनैकान्त्यादिदोषत्रयं व्यनक्ति दृश्यन्ते हीति । कृपालव इत्यस्य साधुत्वमुक्तं जिज्ञासानये ‘यथा दृष्ट्या प्रसन्नः सन्नि’त्यत्र ॥ द्वितीयेपीति । परसम्बन्धीति पक्ष इत्यर्थः । कुत्रेत्यत आह स्वप्रयोजनार्थमिति । एतेन काश्चिदङ्गचेष्टा आत्मकार्यमात्रार्थं प्रवर्तमानानां प्रवृत्तयः । उद्देशवर्जिताः परप्रयोजनोद्देशहीना इति मूलार्थः सूचितः । ‘भूत्यै निजाश्रितजनस्य हि सृज्यसृष्टावीक्षा बभूवे’त्युक्त्यनुरोधेनेशस्य सदा प्रवृत्तिः स्वीयानां प्रयोजनभावादेवेति मूलार्थमुपेत्याह भगवतोपीति ॥ क्रमेणेति । साधनपक्षे परप्रयोजनस्योपगमेन सिद्धसाधनत्वम् आपादने चेष्टापादनं विपर्यये चापाद्यप्रयोजनस्याभावरूपहेतोरसिद्धिरित्यर्थः ॥ अत एवेति । स्वपरान्यतरमात्रप्रयोजनोद्देशा-त्सुदयालुमूर्खयोः प्रवृत्तिष्वनैकान्त्यादिदोषादेव तृतीयोपि नेत्यर्थः । यदा साधारणमित्यस्य स्वपरेति-विशेषमविवक्षित्वा प्रयोजनवत्त्वमात्रमित्यर्थः । तदा परप्रयोजनवत्त्वोपगमेन सिद्धसाधनादि-दोषादेवेत्यर्थः ॥ अत एवेति । सविशेषणत्वेऽपि व्यभिचारादिप्रदर्शनादेव । ज्वलनादावव्यभिवाराय चेतनत्वे सतीत्युक्तौ नृत्तगानादिकर्तरि व्यभिचारात् । प्रेक्षावत्त्वे सतीत्युक्तावप्यङ्गुलिचालनादिकर्तरि व्याख्यात्रादौ व्यभिचारात् । दयालुत्वे सतीति विशेषणेपि स्वप्रयोजनोद्देशहीनलौकिकेषु दयया प्रवर्तमानेषु व्यभिचारादेव तथा स्वपरेतिविशेषाविवक्षया प्रयोजनवत्त्वमात्रसाधने सिद्धसाधनाद्युक्त-दोषादेव चेतनत्वदिना केनचित्कर्तृत्वविशेषणं निरस्तम् । ज्वलनादौ व्यभिचारादेव सर्वदा प्रवर्तत इत्यपि निरस्तमित्यर्थः ।

**यादुपत्यम् **

उत्तरानुव्याख्यानमुत्थापयितुमाह किञ्चेति । साधनेऽनैकान्त्यं विपर्ययपर्यवसाने च व्यभिचारं च उपपादयति दृश्यन्ते हीत्यादिना । कृपा चेति । निरुपाधिपरदुःखप्रहाणेच्छाया एव कृपात्वादिति भावः ॥ क्रमेण सिद्धसाधनेति । साधने सिद्धसाधनता । परसम्बन्धिप्रयोजन-स्याङ्गीकृतत्वात् । अत एवापादने इष्टापत्तिः । विपर्ययपर्यवसानेऽसिद्धत्वप्रसङ्गश्चेत्यर्थः ॥ येन केनचिदिति । अङ्गचेष्टादौ व्यभिचारवारणाय चिकीर्षापूर्वकत्वादिना प्रवृत्तिरूपकर्तृत्वविशेषणं प्रत्युक्तमित्यर्थः । भगवतः स्वप्रयोजनाभावेऽपि परप्रयोजनोद्देशिताऽङ्गीकारेण विशेषणे दत्तेऽपि क्रमेण सिद्धसाधनेष्टापादनादिप्रसङ्गात् । भगवत्प्रवृत्तेः स्वभावत्वेऽपि प्रयोजनानुसारेण क्रमात्सुप्त्यादिकर्तृत्व-स्याङ्गीकृतत्वेन सदा प्रवृत्त्यापादनस्याप्यसम्भवादिति भावः । यथाऽऽ.. ‘स्वभावभूताऽपीशस्य क्रमात्सृष्ट्यादिकर्तृता । चूतादीनां वसन्तादौ पुष्पितत्वादिकं यथा । देवस्यैष स्वभावोऽयमिति हि श्रुतिरब्रवीदि’ति ।

**श्रीनिवासतीर्थीया **

अनैकान्त्यव्याप्त्यभावादेः स्थलमाह दृश्यन्ते हीति ॥ न चेति । तथा च तेष्वप्यदृष्टरूपस्वप्रयोजनसत्वान्न व्यभिचार इति भावः ॥ पशूनामिति । अदृष्टानुसन्धानशून्यानाम् । कृपामात्रेणेति शेषः । तथा च पश्वादिषु व्यभिचार इत्यर्थः । ननु च तत्रापि स्वप्रयोजनोद्देशिताऽ-स्त्येवेत्यत आह न चेति ॥ कृपालुता चेति । निरुपाधिकपरदुःखप्रहाणेच्छा कृपा, तद्वानित्यर्थः । अङ्गीकुरुतः श्रुतिसूत्रकारौ ।

**वाक्यार्थरत्नमाला **

ननु च कृपालव इति कथम् । न च कृपेरालुचि संज्ञापूर्वकविधेर-नित्यतापरिभाषायाम् ओर्गुण इत्यत्र ज्ञापनाल्लघूपदगुणाभावे कृपालुशब्दनिष्पत्तिरिति वाच्यम् । स्पृहि-गृहीपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुजिति स्पृह्यादिभ्य एवालुच्प्रत्ययविधानेन कृपेश्च स्पृह्याद्विष्वपाठेन तदनुपपत्तेरिति शङ्कते । यद्यपि स्पृहीति । उदाहृतव्याकरणेन तदसिद्धावपि चान्द्रादिव्याकरणान्तरात् तत्सिद्धिरप्रत्यूहैवेति समाधत्ते । तथापीति । अयं च पक्षो व्याकरणान्तरं नाम पाणिनिव्याकरणा पेक्षया अन्यद्य्वाकरणं चान्द्रादीति व्युत्पत्तिमभिप्रेत्य गीताभाष्यटीकानुवादरूपः । व्याकरणस्य स्पृहि-गृहीत्यादेरन्तरं लुशमविधायालुज्विधानरूपं तस्मादित्यर्थस्तूपलक्षणं चैतदित्यादिना वक्ष्यते । हृदया-च्चालुरन्यतरस्यामित्यनेन मत्वर्थे आलुप्रत्यये विकल्पेन प्राप्तेह हृदयालुहृदयीति रूपद्वयदर्शनात्तद्धिता इति बहुवचनबलात्कृपालुरित्यपि समाधानं भाति । परन्तु अत्र गीताभाष्यटीकोक्तरीत्या आलुजनु-पपत्तिपरिहारेणालुजन्तकृपालुशब्दनिष्पत्तिं वदता प्रकारान्तरेण कृपालुशब्दनिष्पत्तिं वदतां पक्ष अपहस्तितो भवति । कृपां लातीति कृपापूर्वकलातेर्मितद्व्रादित्वात्डुप्रत्यये मृगय्वादयश्चेत्यनेन मृगय्वादेराकृतिगणतया मृगयुरित्यादाविव कुप्रत्यये वा ‘‘आतो लोप इटि चे’’त्याकारलेपे कृपालुशब्द-निष्पत्यङ्गीकारे वा श्रद्धादेर्लुरिति मत्वर्थीयलुप्रत्ययान्तत्वाश्रयणेन तन्निष्पत्यङ्गीकारे वा अर्थानु-गमाभावात् ।

न हि दयालुशब्दादिवालुचि निष्पन्नकृपालुशब्दाद् योऽर्थः प्रतीयते । तस्योक्तपक्षद्वये प्रतीतिरस्ति । ततो भवन्तु नामानेकलक्षणानि एकत्र प्रवृत्तिमन्ति । न च तावता तदुक्तोऽर्थः स्वीकार्यः । लक्षणानां पर्जन्यस्येवोपयोगानुपयोगाविवयैव प्रवृत्तिरिति भाष्यादावेव स्थितत्वात् । ततश्च कृपापूर्णत्वरूपार्थ-विशेषस्य लाभाय कृपां लातीत्यादिव्युत्पत्तिर्नाश्रयणीया । कृपाशब्दस्य पृथगेव सिद्ध्यङ्गीकारगौरवं चेति ।

इन्द्रश्चन्द्रः काशकृत्स्नः पिशलीशाकटायनः ।

पाणिन्यमरजैनेन्द्राजयन्त्यष्टादिशाब्दिकाः ॥

इति कविकल्पद्रुमाख्यबोपदेवविरचितधातुपाठस्थश्लोकसङ्गृहीतचन्द्रादिनिर्मितव्याकरणं चान्द्रादि-व्याकरणं बोध्यम् । व्याकरणान्तरादित्येतद्गीताभाष्यटीकोक्तमेकं समाधानमुक्तम् । अथ तत्रोक्तं समाधानान्तरमाह । यद्वा कलशेति । अत्र च पक्षे प्रतिपत्तिगौरवं पूर्वपक्ष इव नास्तीति हृदयम् । आलुशब्द इति । न तु आलुच्प्रत्यय इति भावः । आलुशब्दनिष्पत्तिस्तु गीताभाष्यटीका व्याख्याना-वसरे गुरुराजचरणैरेव व्युत्पादिता अवधेया । गीताभाष्यटीकाव्याख्याने त्वेवमुक्तम् । त्रोरश्च ल इति सूत्रे त्रोरिति च्छित्वा ऋधातोरपि प्रश्लेषादृगतावित्यतस् तेन सूत्रेण गुणि अचोऽञीतीति वृद्धौ रपरत्वेऽस्य लत्वे च आलुरिति रूपनिष्पत्तिः । पूर्णत्वस्य वृत्तावन्तर्भावात्तदप्रयोगोन दोषायेति ध्येयमिति । तस्यायं योजनाप्रकारः । नन्वालुशब्दः कथं निष्पद्यत इत्यतस् त्रोरश्चल इत्युणादिसूत्रे त्रोरित्यस्य षष्टीद्विवचनान्तस्य तरत्यर्त्तिरूपधातुद्वयपरतया तेन तरतेरुणि तालुरितिवदर्त्तेरप्युणि आलुरित्यपि रूपसंभवादित्याशयेनाह । त्रोरश्च लतीति । इति च्छित्वेत्यनेनैकवचनान्तच्छेदनं निर्मूल-मिति सूचयति ॥ तेन ऋगतौ बाहुलकात् त्रोरश्चल इत्युणिति रायमुकुटीयं कर्कर्यालुर्गलंतिकेत्यमरवाक्य-व्याख्यानावसरे वचनं प्रत्युक्तं भवति । सूत्रमर्यादयैवोणो लाभे बाहुलकस्याकल्पनीयत्वात् । मनोरमायामुक्तसूत्रव्याख्यानावसरे त्रो इति तरतेः षष्ट्या निर्देश इत्यभिधाय केचितु त्रोरिति च्छित्वा ऋधातोरपि प्रश्लेषादर्यति अर्यतेवा आलुः शाकविशेषो घटि चेत्याहुरिति केचित्पक्षत्वेन कथनं च नास्वरसाभिप्रायेणापि तु ताल्वित्येव मूले उदाहरणेन मूलकृतः षष्ट्येकवचनमभिप्रेतं विज्ञायते । यदि च कर्कयालुर्गलन्तिकेत्यमरव्याख्यानोपयोगि तया तत्सूत्रस्य व्याख्यानान्तरं तदातु नानुपपत्तिरित्यभि-प्रायेणेति नानुपपत्तिः । एवं च घटी चेति व्याख्यानानुसारेणालुशब्दस्य कलशवाचित्वात्कृपाकलशैरिति सिद्धेऽपिपूर्णैरिति न लभ्यत इत्यत आह । पूर्णत्वस्येति । समासेऽन्तर्भूतत्वं च शाकपार्थिवादित्वेन मध्यमपदलोपाश्रयणादिति ज्ञेयम् । एवं व्याख्यानव्याजेनैव अलूरिति दीर्घपाठाश्रयणेन क्षीरस्वामि-व्याख्यानं च प्रयुक्तमिति सूचितम् । टीकान्तरे तु गर्गयालूर्गलन्तिकेति अमरपाठाश्रयणेन टीकोक्तार्थ साधकत्वेन तस्याभिधानं कृतं तद्विचारणीयम् ।

ननु ‘‘कृपोरोल’’ इति सूत्रस्यायमर्थः । ऋलृक् इति सूत्रीयाविभक्तिको निर्देशः कृप उ रः लः कृपोरोल इतीति भाष्यानुसारेण कृपेति लृप्तषष्टीकम् । ऋकारस्य षष्ट्येकवचनम् उरिति । रइति षष्टी ल इति लकारः । अत्र च लत्वस्यासिद्धत्वेन पूर्वमुपधागुणे रपरत्वे च वर्णरूपरेफस्य तद्रूपलत्वं क्वचि-द्विधीयते । यथा कल्पत इत्यत्र तदा कृपेः रेफस्य लत्वमिति सूत्रार्थः । क्वचिच्च ऋ इत्यत्र एकदेशो रेफसदृशोऽस्ति । तस्य लृ इति वर्णैकदेशो लकारसदृश आदेशो विधीयते यथा अक्लृपद् अक्लृप्तेत्यादौ लुटि च क्लृप इत्यादिसूत्रेषु च तदा कृपेर्धातोर्य ऋकारस्तदवयवस्य वर्णैकदेशौन वर्णावित्युक्तरीत्याऽ-वर्णस्य रेफस्य अवर्णभूत एव लकार इति सूत्रार्थः । एकदेशविकारद्वारेण ऋ इति समुदायस्य लृ इत्यादेशो भवतीत्यङ्गीकारात् । एवं चान्त्यार्थाश्रयेण कृपालुशब्दे लत्वापत्तौ क्लृपालुरिति स्यात्तत्कथमत्र लत्वाभाव इति चेत् । अत्र ब्रूमः । अस्ति तावत् कृपाशब्दे द्वयी गतिः । क्रप् कृपायाम् इति कृपेरेव क्रपेः संप्रसारणं चेति काशिकोक्तेर् बाहुलकात् संप्रसारणाभिधादिगणे अङर्थेपाठात् षिद्भिदादिभ्योऽङिति अङि निष्पन्न इत्येका कृपेरेव भिधादिषु अङर्थपाठादुक्तसूत्रेणाङि निष्पन्न इति चापरा । तत्राद्ये पक्षे सूत्रस्थकृप इत्यस्य प्रतिपदोक्तपरत्वेन लाक्षणिकपरत्वाभावात्कृप इत्यत्र कृपाशब्दस्य न ग्रहणप्रसङ्गः । द्वितीये कृपादौ तुलत्वं नेष्यत इति कौमुद्युक्तेर्लत्वाभावः । उणादयो बहुलमिति वा कृपेर्लत्वाभाव इति काशिकोक्तेर्यद्येवं बाहुलकमाश्रयणीयं कृपेरपि न दोष इति मञ्जर्युक्तेश्चौणादिकाङ्प्रत्यये उणादयो बहुलमिति बहुलग्रहणादेव लत्वाभावः । पक्षद्वयेऽपि गुणाभावो ङिपरत्वादेव बोध्यः । एवमेव कृपणकृपाणकृपीठकर्परादिशब्देष्वपि बाहुलकादौणादिकल्युनादिप्रत्ययान्तेषूक्तरीत्या द्वैविध्येन लत्वा-भावः । सौत्रनिर्देशे तु नानुपपत्तिः । भाष्यकारस्तु कृपणादीनां प्रतिषेधो वक्तव्य इति समाहितवान् । एवं च कृपालुशब्देऽपि कृपादौ त्विति प्रक्रिया वाक्याद्वा कृपणादीनां प्रतिषेध इति भाष्यवाक्या-द्वाऽभियुक्तप्रयोगसंरक्षणार्थाय प्रवृत्तो लत्वाभावः । लघुपधगुणस्तु संज्ञापूर्वकविधेरनित्यत्वादेव नेति प्रागेवोक्तम् । शेषं काशिकामञ्जरीशेषीषु स्पष्टमितीति सर्वमनवद्यम् । एवं पाणिनिव्याकरणा-पेक्षयाऽन्यद्य्वाकरणं व्याकरणान्तरमित्यर्थमभिप्रेत्य गीताभाष्यटीकोक्तः समाधिः प्रथमोऽभिहित इदानीं व्याकरणस्य पदान्तरं लुशमभिविधाय आलुक्वरणेनान्यदपि सिद्ध्यतीत्येवरूपं तस्मादित्यर्थ-मभिप्रेत्यस्पृहिगृहीत्येतद्-व्याकरणान्तरमभिदधद्य्वाकरणटीकाकारवाक्यमेव व्याकरणान्तरपदेन व्याकुर्वन् पक्षान्तरमाह । उपलक्षणं चैतदिति । एतद् अस्माभिरुक्तानुपपत्तिशमनायोपन्यस्तं गीताभाष्यटीकोक्तं समाधानं तद्ग्रन्थे समाधानान्तरोपलक्षणमित्यर्थः । ततश्चोपलक्षितं समाधानमप्यत्र द्रष्टव्यमिति सूचित-मनेन भवतीति ज्ञेयम् । लुशमविधायेति । लुश्विधानेनैव स्पृहयालुरित्यादिरूपसिद्धावपि । यदा-लुच्विधानं च स्पृह्यादिव्यतिरिक्तधातुभ्योऽपि यथा स्याद् आलुच्प्रत्यय इत्येतज्ज्ञापनार्थमिति शेषः ।

तेन तथा ज्ञापने प्रयोजनमाह । तेन कृपालुरिति । स्पृह्यादावालुचः कृत्याभावेऽप्यधिकस्य करणं यत्रालुचा विवक्षितरूपसिद्धिस्तदर्थत्वे सिद्धे कृपालुरित्यत्र च लुशारूपसिद्धेरालुचैव तथारूप-सिद्धेरालुक्वरणप्रयोजनमित्यर्थः । आलुज्विधौत्विति । अस्य तत्सिद्धिरित्यनेनान्वयः । अयामन्तेति । आमन्तेति सूत्रेण आम् अन्त आलु आप्य इष्णुर् इव्नुर् इत्येतेषु परतः णेरयादेशविधानेन स्पृहेश्च ण्यन्ततया आलौ परतो णेरयादेशेसतीत्यर्थः । अनेन स्पृहीति सूत्रेण्यन्तोऽयं स्पृहिधातुरूपात्तः । अदन्तस्य चुरादौ पाठेन चुरादित्वाणौ सति आर्धधातुकपरत्वेनातो लोप इति आकारलोपे णौकृते स्थानिवद्भवतीति परिभाषया अल्लोपस्य स्थानिवद्भावेन ह्रस्वरूपलघूपदन्त्वाभावेन गुणाभावेन उक्तरूपनिष्पत्तिरिति सूचितम् । यद्यपि स्पृहीति सूत्रे निपूर्वकान्तकारान्ततत्पूर्वकाच्च द्रातेर् आतश्चोपसर्गे क इति सूत्रीयवक्तव्यानुसारेण श्रदन्तरोर् उपसर्गवद्वृत्ते सत्वे न श्रत्पूर्वकधाञश्चाकारान्ततया तत्र लुशैवोपपत्तेरालुचो नावश्यकत्वेऽपि उक्तरीत्या चुरादावदन्ततया पठितगृहपतेर् गौणकृतस्य स्थानि-वत्वेन गुणाभावे उक्तरीत्यैव गृहपतेश्च अङ्गस्योपधाया वृद्धिविधायकेनात उपाधाया इत्यनेन वृध्यभावे च निष्पत्या तयोश्चालुज्भावे तस्मिन्परतो णेरयादेशोपपत्या गृहयालुरित्यादिरूपसिद्धावपि लुश्विधौ तदनुपपत्तिस् तथा इका निर्द्दिष्टदयधातोर्भ्वादेर्लुश्पक्षे दयालुरित्यस्यानुपपत्तिरेवेति स्पृहयालुरिति रूपानुपपत्तिशङ्कावदुक्तरूपानुपपत्तिरिति शङ्कनीया । तथापि अयामन्तेति सूत्रे आलौ उदाहरणतया स्पृहयालुरित्यस्यैव प्राथमिकस्येतरोपलक्षकतयाऽभिधानाद्भाष्यकारहरदत्तादिभिरप्यालुच्लशोरपि रूपो-पपत्तिं प्रतिपादयद्भिः स्पृहयालुशब्द एवालुच्करणवैयर्थ्यस्योपलक्षणत्वाभिप्रायेणाभिधानादत्राप्युप-लक्षणत्वाभिप्रायेणैकत्रैवानुपपत्ति चोदनस्य युक्तत्वम् । तदभिप्रेत्यैवेत्यादिरूपसिद्धावपीति प्रागुक्त वक्ष्यते च तथैवेति ज्ञेयम् । लुश्पक्षेऽपि शपो दीर्घतयैव मध्ये आकारेणोक्तरूपोपपत्तिरित्याह । न स्पृहेर्लुशीति । सत्यप्येवमित्यस्यैव विवरणं लुश्विधानेऽपि विवक्षितसिद्धावपि स्पृहयालुरितीति रूपान्तरोपलक्षणं तु प्रागेवोक्तम् । दयालुरित्यत्र तु शपि दीर्घत्वमात्रमिति ज्ञेयम् । लुश्विधानमङ्गीकृत्य दीर्घेण प्रयोगोपपादनं दूषयन् अधिकं च दोषं तत्र हि तुरस्त्वित्यादिपदमञ्जर्यनुसारेण निराकर्तृमाशङ्कते । ननु चेति । लशक्वतद्धित इत्यनेन प्रत्ययादित्वादिति शेषः । अनुवृत्तेति । भूसुवोस्तिङीति व्यवहित-सूत्रादिति शेषः । तदनुवृत्यभावे च केशवो ऽङ्गनेत्यादावपि यञ्परत्वाद्दीर्घः स्यादिति भावः । श्लौ सति अदिप्रभृतिभ्य इत्यनेन प्राप्तलुकोऽपवादेनेति शेषः । श्लावितीति । अनभ्यास धात्ववय एकार्चो-द्वित्वस्य श्लौपरतस्तेन विधानादिति भावः । ह्रस्व इतीति । अभ्यसस्य ह्रस्वविधायकेनेत्यर्थः । चर्त्व इत्यस्य अभ्यासे चर्चेत्यनेन चश्त्वेन श्लावित्यर्थः । चर्च इत्यनेन तद्विधायकसूत्रसङ्ग्रहाभिप्रायात् । तत्र चशब्देन जश्त्वस्यापि विधानेन प्रकृते उपयोगो ज्ञेयः । जश्त्व इति पाठस्तु स्वरस एव । उक्तसूत्रे खयांचरा ‘‘खशां जश’’ इति विधानेन खश्त्वाज्जश्त्वमिति भावः । पाठद्वयेऽपि अभ्यासेच र्चेत्यनेनेति शेषः ।

आलोपे चेति । स्वर्वधातुके परतस्तेन तल्लोपविधानादिति भावः । मञ्जर्यनुसारेण परिहारं विवृण्वन्नाह । उच्यत इति । ञमन्ताड्डे विधीयमानेऽपि दण्डो वण्ड इत्यादि उदाहरणानुसारेण नडस्येत्संज्ञा तत्कस्य हेतोर् लुप्तनिर्दिष्टयादित्वादेवं प्रकृतेऽपि लुप्तनिर्दिष्टो यकार इत्याशयेनाह । यकारश्चेति । प्रयोजनेति । यत्र हि इत्संज्ञायां स्वरे विशेषस्तत्र तदाश्रयणोपपत्तावपि प्रकृते प्रयोजनाभावान्नेत्संज्ञाऽऽश्रयणीयेत्यर्थः । अत्रेत्संज्ञाभाव इति पाठः । संज्ञाभाव इत्येव पाठेऽपि पूर्वप्रकृतेत्संज्ञापरं संज्ञापदंमिति बोध्यम् । ननु कथं विशेषाभावः । धातोरन्तोदात्तत्वेऽपि प्रत्यय-स्वरस्यसति शिष्टस्वरोबलीयानिति न्यायेन प्रथमावस्थितधातुस्वरापेक्षया पश्चाच्छिष्यमाणस्यैवा वशेषे प्रत्ययस्वरस्योदात्तत्वेनानुदात्तमित्यनेन सूत्रेणोदात्तस्वरातिरिक्तां श्चानुदात्तत्वेऽपि लित्वे लितीत्यनेन लितिपरतः प्रत्ययात्पूर्वस्योदात्तत्वे प्रत्ययस्यानुदातत्वं प्रसज्यत इति विशेषसत्वादित्यत आह । न हीति । ननु कथं नास्ति उक्तरीत्या तत्सत्वादित्यतः लित्वपक्षेऽपि उकारमात्रं प्रत्ययो निष्पन्नः । उकारस्यैव प्रत्ययत्वे च आद्युदात्तत्वेन सति शिष्टस्वरन्यायेन धातोरनुदात्तत्वे प्रत्ययोदात्तत्वे सति ‘‘एकादेश उदात्तेनोदात्त इति सूत्रेणोकाररूपप्रत्ययस्य धातोश्चैकदेशस्यौकारस्योदात्तत्वं सिद्ध्यति तावन्मात्रमेव लित्वपक्षेपि । एतावांस्तु विशेषः । उकारमात्रप्रत्ययपक्षे प्रत्ययस्योदात्ततया शिष्टानुदात्तत्वं लितः प्रत्ययत्वपक्षे धातोरुदात्तत्वं शिष्टानुदात्तत्वमिति । न चायं बाधकः । एकादेश इति सूत्रेणा-नुदात्तेनोदात्तस्यैकादेशं विषयीकृत्य तस्योदात्तत्वविधानेऽपि प्रत्ययोदात्तत्वादिविशेषाकारस्याविषयी-करणेनोक्तविशेषस्याप्रयोजकत्वात् । अन्यथा अग्निमित्यादौ अमःपूर्वनिपातेऽपि प्रत्ययस्योदात्तत्वा-भावेनैकादेश इति सूत्राप्रवृत्यापातादित्याशयेनाह । उभयत्रेति । ग्रहणस्यैवानुवृत्येति । तावतैव केशवादिपदेषु दीर्घाभावोपपत्तेरित्याशयः । ननु भवानिति प्रयोगे दीर्घः स्यादिति तद्वारणार्थं तिङीत्यनुवृत्तिरावश्यकी । काशिकाकारेणोक्तप्रयोगसिद्ध्यर्थमनुवृत्तिं केचित्तिङीत्यस्य कुर्वन्तीत्यभि-धानात् । मञ्जरीकारेणापि भवानिति क्वसौ सार्वधातुक इति काशिकावाक्यं व्याकुर्वाणेन भवतेः क्वसुस् तस्य छन्दस्युभयथेति सार्वधातुकत्वाच्छप् लिटिधातोरित्यत्र धातुग्रहणाच्छबन्तस्य द्विवचनाभाव इत्युपपादनात्तत्कथं तिङीत्यस्य नानुवृत्तिरिति चेन्न । केशवादिशब्देषु दीर्घाभावस्य सार्वधातुकानु-वृत्यैवोपपत्तौ भवानित्यत्रापि दीर्घाभावस्य छान्दसत्वेनैवोपपत्तौ च तिङीत्यस्यानावश्यकत्वात् । उक्तं च मञ्जर्यां येतु सार्वधातुक इत्येवानुवर्तयन्ति तेषां च्छान्दसत्वादेव दीर्घाभाव इति । तिङीत्यनुवृत्तिकार-मतेऽपि शब्दार्थछान्दसत्वाश्रयणस्यावश्यकत्वेन तत एव दीर्घाभावस्याप्युपपत्तौ तिङीत्यस्याननु-वर्तनीयत्वादिति भावः ।

अन्त्य इति । श्रद्धालुरिति रूपानुपपत्तिपर इत्यर्थः । अत्र विषये लुश्विषये । धेटो भविष्यति । श्रद्धालुरूपमिति शेषः । सकाशादिति वा । निष्पन्न इति शेषः । श्रत्पूर्वकाद्धेटः पानार्थात्कथं श्रद्धादया प्रतिपत्तिरित्यत उक्तं दधात्यर्थे वर्तमानस्येति । अन्यार्थस्य कथमन्यार्थे वृत्तिरित्यत उक्तम् अनेकार्थत्वादिति । क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्श्यते । प्रयोगतोऽवगन्तव्या अनेकार्था हि धातव इत्यभियुक्तोक्तेरिति भावः । अनेन श्रत्पूर्वकस्य धेटो अप्रयोगाच्छद्धालुरिति न धेटोरूपमित्युक्ति-विरोधोऽपि नास्ति । पानार्थस्याप्रयोगेऽपि दधात्यर्थस्य दधातितुल्यतया प्रयोगोपपत्तेरित्यपि सूचितम् ।

ननु धाञ्पक्षे आत्वस्य स्वतःसिद्धेऽपि धेट्पक्षे ‘‘आदेच उपदेशे अशिती’’त्यनेनात्वेऽङ्गीकर्तव्ये आलुचि अशित्वेनात्वोपपत्तावपि लुश्पक्षे शित्परतया आत्वानुपपत्तेः कथं धेटोऽप्येतद्रूपमिति शङ्कते । न चेति । शिदाश्रय इति सप्तमी । शितो लुश्प्रत्ययस्याश्रयण इत्यर्थः । नात्र लुश्वत्धेटोनन्तरोपि तु मध्ये ब्रह्म तं शिवेहीत्यादाविव आकारः प्रश्लिष्यते । तत आकारस्याशितःपरत्वाद्युक्तम् आत्वमित्या-शयेनाह । एवं तर्हीति । आकारप्रश्लेषप्रकारविवरणार्थं श्रद् धा आ श्रद्धा इतीत्युक्तम् । अस्मिन्पक्षे आकारप्रश्लेषाश्रयणाद्वरम् अलुच्विधानमेवेत्यस्वरसादाह । अथवेति । द्विर्वचनं न प्रवर्तिष्यत इति पाठः । पदमञ्जर्यां तथैवोक्तेः । द्वित्वाश्रयाभ्यस्तलोपनिमित्तकत्वाच्छदधुरिति रूपप्रसङ्गस्यात्र द्वित्वनिषेधस्यैव वक्तव्यत्वाच्चेति ध्येयम् । अत्र च प्रत्ययस्य ‘‘लुक्श्लुलुप’’ इति सूत्रेण प्रत्ययादर्शनविशेषस्य श्लुरिति संज्ञाविधानेन श्लाविति संज्ञाभूतश्लुं निमित्तीकृत्य विधीयमानद्विर्भावस्याश्रयणेन प्रत्ययादर्शनविशेषस्य श्रद्धधुरिति प्रसक्तेरिति ‘‘संज्ञापूर्वको विधिरनित्य’’ इति परिभाषया द्विर्भावविधायकश्लावित्यस्य प्रवृत्यभावोपपत्तेर्न द्विर्भावप्रसक्तिरित्यर्थः ।

ननु काशिकाकृता ‘‘ओर्गुण’’ इति सूत्रे ओरोदिति वक्तव्ये गुणग्रहणं संज्ञापूर्वको विधिरनित्यो यथा स्यात्तेन स्वायंभुवमिति सिद्धं भवतीति प्रतिपादितम् । तत्र संज्ञापूर्वको विधिर्नाम विधेयसमर्पकं पदं यत्र संज्ञारूपं स एव । अन्यथा विधेयनिमित्तस्थानादि समर्पकपदरूपसंज्ञाभूतशब्दोपेतत्वरूपत्वे ओरोदित्येवोक्ते गुणशब्दरूपसंज्ञाशब्दत्यागेऽपि अत्र सूत्रेऽनुवृत्तस्य भस्येत्यस्य तद्धित इत्यस्य च क्रमेण स्थाननिमित्तसमर्पकसंज्ञाद्वयस्य सत्वेन संज्ञापूर्वकत्वस्यैव प्राप्त्या गुणशब्दत्यागमात्रेणा-नित्यत्वज्ञापनानुपपत्तेः । ओरोऽपि इत्येतावतैव सामञ्जस्यात्तपरकरणस्योच्चारणार्थत्वे संज्ञाया अभावेऽपि अर्थविशेषसमर्पकत्वे तपरकरणस्य तपरस्तत्कालस्येति तत्कालसंज्ञात्वमेवोरोवेदित्यपि संज्ञेति संज्ञात्रयपूर्वकत्वापातस्तस्माद्विधेयसमर्पकसंज्ञाभूतपदमेव संज्ञेति विवक्षित्वा गुणग्रहणे सत्येतत्पूर्वकत्वमिति वाच्यम् । तादृशं च कथमत्र संज्ञापूर्वकत्वं विधेयद्विर्भावसमर्पकस्य द्वे इत्यादेः संज्ञात्वाभावादिति चेदत्रोच्यते । यदुक्तं यावत्संज्ञाशब्दे परित्यागेऽपि विवक्षितार्थसिद्धौ सम्भवन्त्यामपि यत्र तावदुपादानं तत्रैवानित्यत्वज्ञापकत्वमित्यर्थप्रसङ्गवारणाय संज्ञापदस्य विधेयसमर्पकपदरूपत्व-मावश्यकमिति ओरोदित्युक्ते स्थानादिसमर्पकसंज्ञापूर्वकत्वेऽपि विधेयसमर्पकसंज्ञापूर्वकत्वाभावेन तथात्वेऽपि विवक्षितसिद्धेर्गुण इति संज्ञोपादानमनित्यत्वज्ञापकमिति तथैव किन्तु यत्प्रधानसमर्पकं पदं तदैव संज्ञापदं विवक्षितम् । नतु सर्वत्र विधेयसमर्पकपदरूपैव संज्ञेति नियमः, तथा सति वक्ष्यमाणबहुस्थलेषु तथाविधविधेरनित्यत्वोक्तिर्हरदत्तादीनामयुक्ता स्यात् । अभियुक्तप्रयोगाश्च न सिद्धेरन् । किं तु सत्स्वपि स्थानादिसमर्पकेषु अनेकसंज्ञाशब्देषु क्वचित्कञ्चिदेव प्रधानसमर्पकम् । क्वचित्कस्मिंश्चिदेवमिति निमित्तविषयस्थानान्यतमस्मिन्प्राधान्यप्रतीतेः । तद्यथा ओर्गुण इत्यत्र भस्येत्यादिसंज्ञासु सत्स्वपि गुणसंज्ञैव गुणस्य प्राधान्यात्प्रधानसमर्पिका प्रतीयते । श्लावित्यत्र चानभ्यासधात्ववयवस्येति निषेधमुखेनैव संज्ञान्तरप्रतीतावपि निमित्तस्यैव प्राधान्यप्रतीतेस्तत्समर्पक संज्ञाया एव प्रधानसमर्पकत्वम् । यथा वा पुगन्त लघुपधस्य चेति सूत्रेऽनुवृत्तगुण इति संज्ञापदस्यैव प्रधानसमर्पकत्वेऽपि लघुपधस्येति उपधारूपसंज्ञापदस्याप्रधानस्थानसमर्पकत्वमित्यादि तत्र तत्र द्रष्टव्यम् । एवं च प्रधानसमर्पकं पदं यत्र संज्ञारूपं स एव संज्ञापूर्वक इति श्लाविति द्वित्वविधेरपि प्रधानभूतनिमित्तसमर्पकसंज्ञापदोपेतत्वाद् युक्तं संज्ञापूर्वकत्वमिति तद्विधेरनित्यत्वाद् द्वित्वाभावः । किञ्च नोदात्तोपदेशस्य मातस्यानाचामेरित्येतत्सूत्रीयकाशिकायाम् उदात्तोपदेशस्य मान्तस्याङ्गस्याचा-मिवर्जितस्य चिणि ‘‘कृतिञिति णिति च’’ अत उपधाया इत्यनेन प्राप्ता वृद्धिर्नेति सूत्रार्थमभिधाया-शमि अदमि इत्युदाहरणादिकं चाभिधायानाचामेरित्यत्रानाचमिकमिवमीनां चेति वक्तव्यमभिधाय तदुदाहरणाद्यभिधाय च सूर्य विश्राम च भूमिरित्येवमादिकं प्रयोगमन्याय्यमेव मन्यन्ते इत्यभिहितम् । कैय्यटोऽपि तत्र सूत्रे विश्रामशब्दस्त्व साधुरेवेत्याह । हरदत्तस्तु विश्रान्तिरिति पठितव्यं कवि-प्रयोगेष्वित्याह । नव्यास्तु धुर्यां विश्रामयेत्यादि कालिदासप्रयोगादिषु णिजन्ताद् एरजित्याह । तत्रार्थानुसारेण तथोक्तिः । धातुवृत्तावपि निशामयेत्यादिप्रयोगव्युत्पादनावसरेऽनेकधा समाहितम् । परन्तु विश्रामशब्दे नञा निर्द्दिष्टस्यानित्यत्वात्संज्ञापूर्वको विधिरनित्य इति वा निषेधाभाव इति टीकाकृतः समादधति । न हि नोदात्तेति सूत्रे वृद्धिपदं विधेयसमर्पकम् अस्य निषेधरूपत्वात् । कथंचिद्योजना तु प्राधान्यमेवास्मदुक्तमनुसरतीति । एवं तत्र तत्र हरदत्तादीनां बहुस्थलेषु उक्तयो ज्ञेया इति वयमालोचयामः ।

लुश्विधिनैवोपपत्तावेवमपि ज्ञापनार्थमिति पाठे मञ्जर्यनुसारी पाठः स्यात् । तत्रालुक्वरणमिति शेष इति ज्ञेयम् । यद्यपि किमेतस्य ज्ञापन इत्यादिभाष्ये आलुचि शीङ्ग्रहणमिति वार्तिकप्रत्याख्यान-प्रतीत्या शयालुरितिरूपमेवाभ्यनुज्ञातमिति प्रतीयते । हरदत्तोऽपि तेनालुचि शीङ्ग्रहणमित्यादिना वार्तिकमेव प्रत्याचख्यौ । तेनापि शयालुरिति रूपमेवाभ्यनुज्ञातं प्रतीयते । न तु कृपालुरितीति तथोक्तेत्याभाति । तथापि अन्येभ्योऽपीति भाष्ये यत्रालुचैव ततोऽपीति मञ्जर्यां च बहुसंग्रहाभिधाना-त्कृपालुरिति रूपसिद्धिरपि भाष्यमञ्जरीकारयोः फलत्वेन संमतैवेति न कश्चिद्दोषः ।

ननु भाष्यकारानुक्तेयं परिभाषा कुतः काशिकाकृता वक्तव्या येन तद्रीत्यायं समाधिः शक्यकरण इति चेन्न । स्वायंभुवमित्यादि बहुलप्रयोगसंरक्षणायोक्तपरिभाषाश्रयणस्यावश्यकतया ओर्गुण इत्येत-त्सूत्रे हरदत्तेनाभिहितत्वात् । स्वयंभूर्ब्रह्मा तस्येदमित्यणि आदिवृद्धौ यचिभमिति भत्वेऽपि गुणो न भवति अनेन आत्वं वा किन्तूवङेवेति स्वायंभुवमित्येव भवति । तत्तदा युज्यते । यदि संज्ञापूर्वको विधिरनित्यःस्यात् । एवं प्रयोगान्तरेऽपि । एवं च स्वायंभुवमित्याद्यभियुक्तप्रयोगसंरक्षणायेयं परिभाषा आवश्यकैव तदेतदाह । अन्यत्रेति । कृपालुशब्दे गुणाभावस्तु कृपाशब्दाद् ल्वादिप्रत्यय पक्षेऽभिधाना-द्यङन्तत्वेनाङन्तत्वादेवेति स्पष्टमेव आलुच्प्रप्ते तु संज्ञापूर्वकविधेरनित्यत्वादिति प्रागेवोक्तमिति दिक् ॥

कृपालुशब्दे वक्तव्यप्रमेयान्तरसङ्ग्रहः ।

कृतो विबुधतुष्ट्यर्थं तेन प्रीतोऽस्तु केशवः ॥

तदादाय स्वपरेति पाठः । केनचित्कर्त्तृत्वेत्यत्र केनचिदित्येतद्विवरणपूर्वकं विशेषणपदोक्त-व्यावर्त्तकत्वं च प्रयुक्तत्वप्रदर्शनव्याजेनैव दर्शयन् प्रवृत्तिस्वभावत्वे इत्युक्तदोषमपि प्रत्युक्तत्वोपदर्शन-व्याजेनैवोपदर्शयन्नाह । चिकीर्षापूर्वकत्वेनेत्यादिना । केनचिद्विशेषणेन यत्प्रवृत्तेर्विशेषणं व्यावर्त्तनं विशिष्टीकरणमिति यावत् । विशेषणमित्यस्य प्रयुक्तमिति वक्ष्यमाणेनान्वयः ।