०३ दैवस्यैषेति श्रुतेरर्थकथनम्

क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी

दैवस्यैषेति श्रुतेरर्थकथनम्

क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी

**सुधा **

केचिदिदं सूत्रमन्यथा व्याचक्षते । यथा लोके सप्तद्वीपां मेदिनीमधितिष्ठतः सम्पूर्ण-शौर्यवीर्यपराक्रमस्यापि महाराजस्य केवललीलैकप्रयोजनाः कन्दुकाद्यारम्भा दृश्यन्ते । तथैव परस्यापि ब्रह्मणः स्वसङ्कल्पमात्रावक्लृप्तजगज्जन्मस्थितिध्वंसादेर्लीलैव प्रयोजनमिति तदेतन्निराकरोति क्रीडामिति ।

अनुव्याख्यानम्

क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी ॥

‘भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे’ इति क्रीडाप्रयोजनां भगवतः सृष्ट्यादिप्रवृत्तिं वदतः पूर्वपक्षीकृत्य देवस्यैष स्वभावोऽयमिति सयुक्तिकं प्रयोजनलेशाभावः श्रुत्या सिद्धान्तितः । अतः श्रुतिविरुद्धत्वादपव्याख्यानमेवैतत् ।

**सशेषवाक्यार्थचन्द्रिका **

ननु जगत्सृष्टेः क्रीडाप्रयोजनकत्वस्य श्रुतिविरुद्धत्ववर्णनमनर्थकमिति तत्परोत्तरभाष्यानर्थक्यमाशङ्क्य लोकवदित्येतत्सूत्रीयापव्याख्याननिरासार्थत्वान्न तदिति भावेन तन्निरास कतया तद्योजयितुमेतत्सूत्रीयापव्याख्यानमनुवदति केचिदिति । रामानुजा इत्यर्थः ।

**परिमल **

केचिदिति । मायावादिनो रामानुजीयाश्चेत्यर्थः ॥ सयुक्तिकमिति । ‘आप्तकामस्य का स्पृहे’ति युक्तेरुक्तेरिति भावः ।

**श्रीनिवासतीर्थीया **

वदतो वादिन इति द्वितीयाबहुवचनम् ।