ॐ न प्रयोजनवत्त्वात् ॐ
॥ अथ नप्रयोजनाधिकरणम् ॥
सिद्धान्तसूत्रयोः पूर्वपक्षानाच्छादकत्वशङ्कापरिहारः
ॐ न प्रयोजनवत्त्वात् ॐ
**सुधा **
ॐ न प्रयोजनवत्त्वात् ॐ ॥ ॐ लोकवत्तु लीलाकैवल्यम् ॐ ॥ यत्प्रयोजनार्थं सृष्ट्यादिस्तदूनत्वादपूर्णतेत्याक्षेपपरिहारायेदमधिकरणमारभ्यते । तदेतदनुपपन्नमिव आभाति । तथा हि । यद्यत्र कर्तृत्वेन प्रयोजनवत्त्वं प्रसाध्यापूर्णत्वसाधनं पूर्वपक्षिणो विवक्षितं स्यात्तदा प्रथम-सूत्रमयुक्तं स्यात् । अपूर्णतासाधकं प्रति प्रयोजनवत्त्वहेतोरसिद्धत्वात् । अथ कर्ता चेत्प्रयोजन-वान्स्यात् तथा चापूर्णः स्यादित्यापादनं विवक्षितम् । तदा व्यर्थमेवेदं सूत्रम् । न चापूर्णस्ततो न प्रयोजनवानिति परेणैवाङ्गीकृतत्वात् । अन्यथा विपर्ययापर्यवसानात् । लोकवत्तु लीलाकैवल्यमिति द्वितीयसूत्रं तु पक्षद्वयेऽप्ययुक्तम् । साधनापादनदूषणस्यानुद्भावनादिति । मैवम् । ईश्वरस्य सृष्ट्यादिना प्रयोजनमस्ति न वा । आद्येऽपूर्णत्वं प्रसज्येत । द्वितीये तु कर्तृत्वानुपपत्तिस् तस्य प्रयोजनव्याप्तत्वादित्युभयथाऽपीश्वरस्य जगत्सृष्ट्यादिकर्तृत्वानुपपत्तिरित्यत्र पूर्वपक्षिणो विवक्षितम् । तत्र प्रथमसूत्रेण प्रयोजनाभावपक्षं सयुक्तिकमुपादत्ते । तत्रोक्तदोषपरिहारार्थं द्वितीयं सूत्रम् । यद्वा कर्तृत्वेन प्रयोजनस्य तेन चापूर्णत्वस्य इदं साधनं विवक्षितमुतापादनमिति सिद्धान्ती विकल्प्याद्य-माद्येन निराचष्टे । न कर्तृत्वेन प्रयोजनवत्त्वं साध्यम् । कृतकृत्यत्वेन प्रयोजनाभावस्यैव निश्चित-त्वात् । न चासिद्धो हेतुः । अथैव एव परम आनन्दो निरनिष्टो निरवद्य इति श्रुतेः । प्रयोजन-वत्त्वेनापूर्णतानुमानं तु गर्भस्त्रावेणैव ग(लि)तमिति । आद्यस्य दूषणान्तरं वदन्द्वितीयं द्वितीयेन निराकरोतीति ।
**सशेषवाक्यार्थचन्द्रिका **
॥ ॐ न प्रयोजनवत्त्वात् ॐ ॥ ॐ लोकवत्तु लीलाकैवल्यम् ॐ ॥ ननु सर्वविरोधानां परिहृतत्वादनर्थकमेतत् । न चाभ्यधिकाशङ्कानिरासार्थमेतदिति वाच्यम् । तथा सत्यधिकरणान्तर इव गतार्थताशङ्कानिरासायाभ्यधिकाशङ्काप्रदर्शनप्रसङ्गादित्यतो भाष्य एव तत्प्रदर्श-नादत्राप्रदर्शनमित्यभिप्रेत्य भाष्योक्तप्रकारेणैतदधिकरणनिरसनीयपूर्वपक्षं दर्शयति यत्प्रयोजनार्थमिति । ननु सदा प्रवृत्तिरित्युत्तरभाष्यमनर्थकम् । न च लोकवत्तु लीलाकैवल्यमिति सूत्रस्य साधनापादन-पक्षयोर्बाधाद्युद्भावकत्वोपदर्शनपरत्वान्न तदिति वाच्यम् । तदुपदर्शनस्याप्यनर्थकत्वादित्यतः साधना-पादन दूषणस्यानुद्भावकतया प्राप्तद्वितीयसूत्रायुक्तत्वशङ्कानिरासार्थत्वान्न तदिति भावेन तच्छङ्का-परिहारकता । तद्योजयितुं साधनापादनपरत्वानुपपत्त्या भाष्योक्तपूर्वपक्षानुपपत्तिशङ्कामुत्थापयति तदेतदनुपपन्नमिवाभातीत्यादिना । किमत्र कर्तृत्वादिना प्रयोजनवत्त्वादिसाधनं विवक्षितमुतापादनमिति विकल्पं मनसि निधायाद्यमनूद्य दूषयति यद्यत्रेत्यादिना ॥ प्रयोजनवत्त्वहेतोरसिद्धत्वादिति । कृत-कृत्यत्वान्न प्रयोजनाय सृष्टिरिति भाष्यानुसारेण तस्य कृतकृत्यत्वरूपत्वादिति भावः । द्वितीयमुत्थाप्य दूषयति । अथेति ॥ इदं सूत्रमिति । आद्यं सूत्रमित्यर्थः ॥
परेणैवेति । पूर्वपक्षिणैवेत्यर्थः । पूर्वपक्षिणस्तदङ्गीकारमेव विपक्षे बाधकोपदर्शनेन दर्शयति अन्यथेति ॥ पक्षद्वयेऽपीति । साधनापादनरूपपक्षद्वयेऽपीत्यर्थः । एवं साधनापादनपरत्वानुपपत्त्या भाष्योक्तं पूर्वपक्षमाक्षिप्य प्रकारान्तरेण तदाशयवर्णनेन सूत्रारम्भमुपपाद्य तत्परिहारकतया सूत्रद्वयं योजयति मैवमिति ॥ तत्रोक्तदोषेति । प्रयोजनाभावे कर्तृत्वानुपपत्तिस्तस्य प्रयोजनव्याप्तत्वादिति द्वितीयपक्षोक्तदोषेत्यर्थः । अस्मिन्पक्ष उत्तरभाष्यनैरपेक्ष्येणैव सूत्रद्वयेन पूर्वपक्षनिवृत्तेस्तदानर्थक्य-मित्यतस्तत्सङ्गमयितुं तदुपयुक्तार्थोपदर्शकतयाऽपि सूत्रद्वयं योजयति यद्वेति ॥ निश्चयादिति । तथा च बाधितविषयत्वमिति भावः ॥ असिद्धो हेतुरिति । अपूर्णत्वसाधकं प्रतीति शेषः । तथा च न तेन प्रयोजनाभावसाधनमुपपद्यत इति न बाधितविषयतेति भावः ॥ गर्भस्त्रावेणैवेति । अपूर्णत्वसाधकस्य प्रयोजनवत्त्वहेतोरेवासिद्धत्वादिति भावः । इतीत्यस्येत्याद्यमाद्येन निराचष्ट इति पूर्वेणान्वयः ॥ आद्यस्येति । साधनपक्षस्येत्यर्थः । द्वितीयमापादनपक्षं द्वितीयेन सूत्रेणेति शेषः । निराकरो-तीत्यत्रत्यस्येतिशब्दस्येति यद्वेति पूर्वेण सम्बन्धः ।
**परिमल **
ॐ न प्रयोजनवत्त्वात् ॐ ॥ स्वयं कृतापि तद्-व्याख्या क्रियते स्पष्टतार्थत इति स्वप्रतिज्ञामनुरुध्य ‘सदा प्रवृत्तिरि’त्यादिना भाष्योक्तस्य विवरणं क्रियत इति भावेन विवरणहेतु-बीजभूतां भाष्योक्तरनुपपत्तिं भाष्यवाक्यमेवाधिकरणार्थोक्तिव्याजेन पठित्वा दर्शयति यत्प्रयोजनार्थ-मित्यादिना मैवमित्येतत्पर्यन्तेन ॥ प्रयोजनवत्त्वहेतोरित्यादि । तस्य सृष्ट्यादिना प्राप्तव्यप्रयोजनस्य प्रागेवाप्तत्वादित्यर्थस्य भाष्येऽभिधानादिति भावः । न प्रयोजनवत्त्वादित्यत्र न समानैकपद्यमाश्रित्य सृष्ट्यादिलभ्यं यत्प्रयोजनं तादृशप्रयोजनवत्त्वाभावादिति भाष्याभिमतार्थान्तरेऽप्यनुपपत्तिं पक्षभेदेन दर्शयति अथेत्यादिना ॥ साधनेति । साधनापादनयोर्दूषणस्येत्यर्थः । सूत्रद्वयतात्पर्यं तावन्मूल-काराभिमतं द्वेधा स्वयमाह ईश्वरस्येत्यादिना निराकरोतीत्यन्तेन । सृष्ट्यादिनेश्वरस्य प्रयोजनं नास्ति प्रागेव सृष्ट्यादिलभ्यप्रयोजनवत्त्वाद् आप्तकामत्वादिति यावदितिसूत्रार्थं हृदि कृत्वाह प्रयोजनाभावपक्षं सयुक्तिकमुपादत्त इति ॥ तत्रोक्तदोषेति । प्रयोजनाभावपक्षोक्तकर्तृत्वानुपपत्तिरूपदोषपरिहारार्थ- मित्यर्थः । स च परिहारोऽग्रे मूलव्याख्यावसरे व्यक्तः ॥ आद्येनेति । सूत्रेणेत्यनुषङ्गः । निराचष्ट इत्येतत्सूत्रार्थोक्त्या व्यनक्ति न कर्तृत्वेनेति । प्रयोजनवत्त्वादित्यस्यार्थः कृतकृत्यत्वेनेति । तात्पर्यार्थः प्रयोजनेत्यादि । यद्वा सूत्रे नेत्येतद्-व्यस्तं समस्तं चेत्युपेत्य व्यस्तस्यार्थो न कर्तृत्वेनेत्यादि । समस्त-स्यार्थः प्रयोजनाभावस्यनिश्चयादिति । तत्र हेतुः कृतकृत्यत्वेनेति । तथाच बाधितमनुमानमिति भावः । अपूर्णतासाधननिरासः सूत्रे न प्राप्त इत्यत आह प्रयोजनवत्त्वेनेति । हेतोरेवासिद्धेरिति भावः ॥ आद्यस्येति । आद्यस्य कर्तृत्वेन प्रयोजनसाधनपक्षस्य प्रागुक्तबाधरूपदोषादनैकान्तिकत्वरूपदूषणान्तरं वदन्नित्यर्थः । द्वितीयमापादनपक्षे द्वितीयेन सूत्रेण निराकरोति । स प्रकारोऽग्रे व्यक्तः ।
**यादुपत्यम् **
ॐ न प्रयोजनवत्त्वात् ॐ ॥ प्रयोजनवत्त्वहेतोरिति । सूत्रे प्रयोजनवत्त्वादित्यस्य हि कृतकृत्यत्वादित्यर्थो विवक्षितः सिद्धान्तिनस्तस्यासिद्धत्वादित्यर्थः । अत्र सूत्रगतमेव प्रयोजनवत्पदं कृतकृत्यपरम् । प्रयोजनवत्त्वं प्रसाध्येत्यादिसुधागतं यत्तत्प्रसिद्धार्थकमेवेति द्रष्टव्यम् ॥ गर्भस्रावेणैवेति । हेतोरसिद्धत्वादिति भावः ॥
**श्रीनिवासतीर्थीया **
ॐ न प्रयोजनवत्त्वात् ॐ ॥ जिज्ञासयेति । यद्यपि सर्वं दौर्घट्यं परिहृतमित्याक्षेपो न युक्तस्तथाऽपि करणाभावे कथं कर्तृत्वं तज्ज्ञातव्यमिति विशेषप्रमाणजिज्ञासया विकरणत्वान्नेत्याक्षेपो युक्त इत्यर्थः ॥ कर्तृत्वेनेति । सृष्ट्यादिप्रवृत्तिरूपकर्तृत्वेनेत्यर्थः । साधनं तेन हेतुनेति शेषः ॥ परेणैवेति । आपादयित्रा पूर्वपक्षिणेत्यर्थः । एतत्सूत्रे यत्प्रतिपाद्यते प्रयोजनवत्वा-त्पूर्णत्वात्प्रयोजनं नेति तत्पूर्वपक्षिणाप्यङ्गीकृतमेवेति तं प्रति सूत्रेण प्रतिपादनं व्यर्थम् । एवं परेण नाङ्गीकृतमिति चेत्तत्राह अन्यथेति । विपर्ययपर्यवसानानुपपत्तिप्रसङ्गादित्यर्थः । कुत इत्यत आह साधनेति । साधनानुमानपक्षे दूषणानुमानपक्षे चेत्यर्थः ॥ उक्तदोषेति । प्रयोजनाभावे कर्तृत्वानुपपत्तिः। तस्य कर्तृत्वस्य प्रयोजनव्याप्तत्वादित्युक्तदोषेत्यर्थः । आद्यं पक्षम् । आद्येन सूत्रेण । भगवान्प्रयोजन-वान्कर्तृत्वादिति साधने बाध इत्याह कृतकृत्यत्वेनेति । आप्तकामत्वेनेत्यर्थः । निश्चितत्वात् । तथा च बाध इति भावः ॥ गर्भेति । ईश्वरोऽपूर्णः प्रयोजनवत्त्वादित्यत्र प्रयोजनवत्त्वहेतोरसिद्धत्वादेवेत्यर्थः । आद्यस्य साधनपक्षस्य । दूषणान्तरम् बाधं, तदतिरिक्तमनैकान्तिकत्वरूपं च । द्वितीय आपादनमिति द्वितीयं पक्षम् । द्वितीयेन सूत्रेण ।
**वाक्यार्थरत्नमाला **
ॐ न प्रयोजनवत्वात् ॐ ॥ अनर्थकमेतदिति । न प्रयोजन-वत्वादित्येतदधिकरणमनर्थकमित्यर्थः । अधिकरणान्तर इवेत्युत्तरत्रोक्तेरेतदधिकरणस्य बुद्धिस्थत्वात् । एवमुत्तरमप्येतत्पदं व्याख्येयम् । सूत्रोपादानानन्तरमेतच्छङ्काप्रवृत्तेरेकसूत्रोदाहरणेन च संपूर्णाधिकरण-स्योपादानसिद्धेस्तत्परामर्शे ग्रन्थप्रकृतपरामर्श एवेत्यपि केचित् । अवतार्यमूले इदमधिकरणमित्युक्ते-स्तदृष्ट्वा शङ्कोत्थापनादेतदिति सामान्यत उक्तमित्यपरे ॥ प्रसङ्गादित्यत्र वक्ष्यमाणस्यानुभाष्य इत्यर्थ-कस्यात्रेत्यस्याकर्षणं ज्ञेयम् । अत्र प्रदर्शनमित्यत्रात्रेत्यतः परं बुध्या विविक्तं तदिति वर्तते । अप्रदर्शन-मित्यनन्तरं न दोषायेति शेषः । साधनापादनपक्षयोरिति । पूर्वपक्षिकृतकर्तृत्वेन प्रयोजनवत्वस्य साधनपक्षे आपादनपक्षे वा यद्बाधादीति योजना । तद्योजयितुमित्यतः परं साधनापादनपरत्वपक्षयोः प्रथमसूत्रायुक्तत्वादि शङ्कान्तरस्य च स्पष्टनिरासत्वाशयेन भाष्यकारोपेक्षितस्य स्वयं निरासप्रकारं दर्शयितुं च तावदिति पूरणीयम् । परत्वानुपपत्त्येति । पूर्वपक्षस्य साधनपरत्वे आपादनपरत्वे वा या अनुपपत्तिर् न प्रयोजनवत्वादित्यादि सूत्रद्वयस्यानुपपत्तिः प्रयोजनवत्वादिहेतोरसिध्यादिप्रयुक्ता तयेत्यर्थः । अत्र हि सूत्रनिवर्त्यशङ्कारूपः पूर्वपक्षो वक्तव्यः । न चायं तथा । साधनापादनविवक्षया पूर्वपक्षस्य सूत्रद्वयेनापि परिहाराभावेनास्य पूर्वपक्षस्य निरस्यताङ्गीकारे सूत्रद्वयायोगप्रसङ्गेनैतत्पूर्व-पक्षायोग इत्याशयो मूलकारस्येति भावः ।
तस्येति । प्रयोजनवत्वस्येत्यर्थः । अनेन सृष्ट्यादिसाध्यप्रयोजनाभावः साध्यः कृतकृत्यत्वरूप-प्रयोजनवत्वं तु हेतुरित्युक्तं भवति । अपूर्णसाधयता कर्तृत्वेन सृष्ट्यादि साध्यप्रयोजनवत्वस्य साधनेन कृतकृत्यत्वाङ्गीकारात्कृतकृत्यत्वरूपप्रयोजनवत्वेन सृष्ट्यादिसाध्यप्रयोजनवत्वस्याभावसाधनमनुपपन्न-मिति भावः । अनुपपत्या भाष्योक्तमित्यत्रापि साधनापादनपक्षे सूत्रारम्भानुपपत्त्येत्यर्थः । प्रकारान्तरेणेति । साधनापादनपरत्वरूपप्रकारापेक्षया प्रकारान्तरेणेत्यर्थः । तदाशयेति । पूर्वपक्ष-भाष्याशयेत्यर्थः । पूर्वपक्षभाष्याशये हि यथा वर्णिते सूत्रारम्भः सम्भवति । सूत्रयोः पूर्वपक्ष्यभिप्रेत-निरासकतया साधनापादनपरत्वपक्षयोरिवायुक्तत्वादिदोषाभावात् । तथा सूत्रारम्भोपपादकाशयवर्णनेन सूत्रारम्भमुपपादयितुमित्यर्थः । अत्र सूत्रारम्भमुपपादयितुमिति पाठः । उपपाद्येति पाठेऽपि सुमुखं व्यादाय स्वपितीत्यादौ क्त्वादेशल्यपः पूर्वकालवाचितापरित्यागेन स्वापोत्तरं मुखव्यादानं यथार्थस्तथा योजनेनोपपादयतीति प्रकृतेऽप्यर्थो ज्ञेयः । उपपादने पाश्चात्यस्य विवक्षितत्वात् । यद्वा तत्कालेऽपि क्त्वाक्वचित् । मुखं व्यादाय स्वपिति । नेत्रे निमील्य हसति कृदन्तप्रक्रियानुसारेणाधिकरणारम्भ-मुपपादयन् योजयतीति समानकालतैव । तथा च भाष्याशयवर्णनेन तथा पूर्वपक्ष्याशये तत्सूत्रद्वयमपि सार्थकमित्यधिकरणारम्भः । संभावतीत्युपपादयन् कथमस्य तत्परिहारकत्वमित्यतस्तत्परिहारकतयेति योजना । अनेन मूले विवक्षितमित्यनन्तरम् । ततो न सूत्रद्वयं व्यर्थमिति पूरणीयमिति सूचयतीति ज्ञेयम् । तत्परिहारकतयेति । पूर्वपक्ष्यभिप्रेतानुपपत्तिपरिहारकतयेत्यर्थः । आशयस्य प्रकृतत्वेन तद्विषयस्यापि प्रकृतत्वात् । प्रयोजनवत्वहेतोरिति । सृष्ट्यादिसाध्यप्रयोजनवत्वरूपहेतोरित्यर्थः । दूषणान्तरं वदन्निति मूलम् । यद्यपि प्रवृत्या प्रयोजनसाधनमनैकान्तिकं बाधितविषयं चेत्युत्तर-मूलानुसारेणाद्येऽपि बाधितविषयत्वप्रतिपादनपरतोत्तरसूत्रस्यापि प्राप्तैवेति पक्षद्वयनिरासपरत्वे विशेषा-भावेनाद्यद्वितीयावपि निराकरोतीत्येव वक्तव्यम् । तथापि देवस्यैष स्वभावोऽयमित्ये तच्छत्या प्रयोजना-भावस्य प्रमितत्वप्रयुक्तं यद्वाधितविषयत्वं तस्य द्वितीयसूत्रादपि प्राप्तावपि पूर्वोक्तप्रकारेणापि तस्य प्राप्ततयाऽनैकान्तिकताया इव सर्वथाऽप्राप्तत्वाभावेन तल्लाभेन बाधितविषयत्वपरित्यागेनानैकान्तिकत्व-रूपदूषणान्तरविवक्षया दूषणान्तरमित्येवोक्तमिति मन्तव्यम् ।