ॐ विकरणत्वान्नेति चेत्तदुक्तम् ॐ
सूत्रस्यास्य पौनरुक्तयपरिहारः
ॐ विकरणत्वान्नेति चेत्तदुक्तम् ॐ
**सुधा **
अत्रेश्वरस्य शरीरेन्द्रियादिकरणरहितत्वात्कर्तृत्वं नोपपद्यते इत्याक्षेपसमाधानार्थ सूत्रम् ॥ ॐ विकरणत्वान्नेति चेत्तदुक्तम् ॐ इति ॥ एतदनारम्भणीयम् । पुनरुक्तत्वात् । श्रुतेस्तु शब्दमूलत्वात्, आत्मनि चैवं विचित्राश्च हि, सर्वोपेता च तद्दर्शनादिति सूत्रैरेवालौकिकत्वशब्दैक-समधिगम्यत्वविचित्रानन्तशक्तित्वादियुक्तिभिः सर्वस्यापि दौर्घट्यस्य परिहृतत्वात् । यो हि साक्षात्कारकाधिष्ठानस्य नेष्टे स शरीरव्यवधानमपेक्षते । यस्य चागन्तुकं ज्ञानं स तदर्थमिन्द्रियाणि । यश्च गुरुशरीरो नावस्थातुं शक्नोति स क्षित्यदिकमाधारम् । भगवांस्तु सर्वशक्तिः सर्वज्ञः किमर्थमपेक्षतेति । न च काचिदभ्यधिका शङ्काऽस्ति येन पुनरारम्भः स्यादित्यत आह मानेति ।
अनुव्याख्यानम्
ॐ विकरणत्वान्नेति चेत्तदुक्तम् ॐ ॥
मानमेयविशेषेण पुनरुक्तिर्न जायते ॥ २-१-८ ॥
यथा अत एव प्राण इत्यादौ मानैक्येऽपि मेयविशेषेण न पुनरुक्तिदोषस्तथाऽत्र मेयैक्येपि मान-विशेषेण न पुनरुक्तिदोषः । एतदुक्तं भवति । किमुक्तार्थोक्तिमात्रं दोषः । किं वोक्तानतिरिक्तोक्तिः। नाद्यः । उक्तपरिहारातिदेशोक्तेरपि दोषत्वानुषङ्गात् । द्वितीयस्तु प्रकृते न सिद्धः । प्रमेयैक्येऽपि प्रमाणभेदस्य सत्त्वात् । इह हि चिदान्दाद्यात्मकदिव्यमङ्गलविग्रहवतो महापुरुषस्य प्राकृतशरीराद्या-भावेऽपि सकलकार्यकर्तृत्वमपाणिपाद इत्यादिश्रुतिमाश्रित्योक्तमिति । यद्वा मानमेययोर्विशेषेणेति योज्यम् । तथा चायमर्थः । पूर्वसूत्रैः सामान्यविषयप्रमाणान्याश्रित्य सामान्यत एव सर्वानुप-पत्तिपरिहारो विहितः । इह तु विशेषविषयेणैव प्रमाणेन विशेषानुपपत्तिपरिहारः क्रियत इति कथं पुनरुक्तिदोषावकाश इति । तथाऽप्याक्षेपो नोपपद्यत इति चेन्न । विशेषजिज्ञासयोपपत्तेरिति
॥ २-१-८ ॥
**शेषवाक्यार्थचन्द्रिका **
ॐ विकरणत्वान्नेति चेत्तदुक्तम् ॐ ॥ ‘मानमेयविशेषेणे’त्यादेरप-व्याख्याननिरासपरत्वभ्रमनिवारणायापव्याख्याननिराकरणमुपसंहरति तदेवमिति । तर्हि ‘तस्य त्वि’त्यादिनैवाधिकरणतात्पर्यकथनाद् विरोध इत्यादिनैवापव्याख्याननिराससिद्धेः किं मानमेयेत्युत्तर-ग्रन्थेनेत्यतो विकरणत्वादिति सूत्रारम्भसमर्थनार्थं तदितिभावेन प्रागनुक्ताभिधायकस्य तस्य पूर्वेण गतार्थताप्रसक्तेरेवाभावात्किं तदारम्भसमर्थनेनापीत्यतस्तत्सूत्रप्रतिपाद्यप्रदर्शनपूर्वकं सूत्रमुपन्यस्य श्रुतेस्त्वित्यादिसूत्रैर्गतार्थतां दर्शयति अत्रेत्यादिना । नन्वत्र मानविशेषसद्भावेऽपि मेयैक्येन तद्विशेषा-भावात्कथं मानमेयविशेषमाश्रित्य पौनरुक्त्यपरिहार इत्यतो न प्रकृते मानमेयविशेषेण पौनरुक्त्य-परिहारोऽभिमतः किन्तु क्वचिन्मेयविशेषेणेव प्रकृते प्रमाणविशेषेण तत्परिहार इति नानुपपत्तिरिति भावेनोक्तसमर्पणायापेक्षितयथातथेत्याद्यध्याहारेण वाक्यं योजयति यथेत्यादिना ॥ मानैक्येऽपीति । भूतादिषु मुख्यया वृत्त्या प्रवृत्तानामप्याकाशादिशब्दानां महायोगविद्वद्रूढिभ्यामीश्वरवाचित्वसमर्थना-त्पूर्वपक्षसिद्धान्तप्रापकप्रमाणैक्यमित्यर्थः ॥ प्रमेयविशेषेणेति । अघटितमपि सर्वं भगवदचिन्त्यशक्त्या घटत इत्यस्यैव पूर्वोत्तरसूत्रप्रतिपाद्यतया तद्रूपप्रमेयैक्येऽपीत्यर्थः । नन्वस्तु मानविशेषस्तथाऽ-प्युक्तार्थोक्तिमात्रमस्त्येवेति पौनरुक्त्यमवर्जनीयमेवेत्यतस्तस्यादोषत्वादुक्तमात्रोक्तरेव दोषत्वात्प्रकृते च तदभावान्न पौनरुक्त्यमित्यभिप्रेत्य कुतो नोक्तार्थोक्तिमात्रस्य दोषत्वं कथं चात्रोक्तमात्रोक्त्यभाव इत्यतस्तदुभयं दर्शयितुं विकल्पयति एतदुक्तं भवतीति । प्रमाणभेदमेव दर्शयति इह हीति । अत्र पक्षे यथातथेत्यध्याहारो भवतीत्यपरितोषात्पक्षान्तरमाह यद्वेति । कथमेतावता पूर्वोत्तरवैलक्षण्यं येनापौनरुक्त्यमित्यत आह तथा चेति ॥ विशेषविषयेणैवेति । शरीरेन्द्रियादिरूपविशेषविषयेणै-वेत्यर्थः ॥ तथाऽप्याक्षेप इति । सर्वस्यापि दौर्घट्यस्य सामान्यतः परिहृतत्वादिति भावः ॥ विशेष-जिज्ञासयेति । विशेषप्रमाणजिज्ञासयेत्यर्थः । इतीत्यस्य इत्ययमर्थ इति पूर्वेण सम्बन्धः ॥ २-१-८ ॥
**परिमल **
विकरणत्वान्नेति चेत् ॥ अत्रेति । श्रुतेस्त्वित्यधिकरण इत्यर्थः ॥ सूत्रमिति । चरमसूत्रम् । परिहृतत्वमेव व्यनक्ति यो हीति । इन्द्रियाणीत्यादावपेक्षित इत्यनुषङ्गः । मेय-विशेषणेत्युक्तेरिहानुपयोगेपि दृष्टान्तोक्त्यर्थतयोपयोगमाह यथेति । इत्यादावित्यादिपदेन ‘ज्योतिश्चरणा भिधानाच् छन्दोभिधानादि’त्यादेर्ग्रहः । मानैक्येपि तद्धर्मोपदेशात्तल्लिङ्गादिति पूर्वनयद्वये निरवकाश-लिङ्गरूपमानेन निर्णयः । तथाऽत एव प्राण इत्यादावपि निरवकाशलिङ्गेनैव निर्णयः कृत इति निरवकाशलिङ्गत्वेन निर्णायकमानैक्येपि पूर्वत्राधिदैवाधिभूतगतशब्दप्रवृत्तिनिमित्तमीश्वरगतमन्यगतं च तदधीनमित्युक्त्या तच्छब्दानां भगवति शक्तितात्पर्यरूपप्रमेयैरुपपादितम् । अत एवेत्यादौ तु जीवन-हेतुत्वादिरूपमध्यात्मादिगतशब्दप्रवृत्तिनिमित्तमीश्वरगतम् अन्यगतं च तदधीनं चेत्युक्त्या तच्छब्दानां भगवति शक्तितात्पर्ये स्त इत्युच्यत इति प्रमेयविशेषेण न पुनरुक्तिरित्यर्थः ॥ मेयैक्येपीति । तच्च प्रकटितं प्राक् यो हीत्यादिना किमर्थमपेक्षत इत्यन्तेन ॥ मानविशेषेणेति । स चापाणिपाद इत्यादिनाऽग्रे व्यक्तः ॥ यथेति दृष्टान्तोक्तितात्पर्यम् उक्तं परिहारेत्यादि । सत्वादित्युक्तं व्यनक्ति इह हीति । मेयेत्यस्य प्रकृतोपयुक्ततयैव योजयति यद्वेति ॥ विशेषविषयेणेति । देहेन्द्रियादिविशेषविषयेण मानेन देहादिहीनस्य न कर्तृत्वमिति एवंरूपविशेषानुपपत्तेः परिहारः क्रियत इत्यर्थः ॥ तथापीति । अपुनरुक्तावपि सर्वानुपपत्तेः परिहाराद् विकरणत्वादिति चेद् इत्याक्षेपो न युक्त इत्यर्थः ॥ विशेष-जिज्ञासयेति । मानविशेषमेयविशेषबुभुत्सयोपपत्तेरित्यर्थः ॥ २-१-८ ॥
**यादुपत्यम् **
ॐ विकरणत्वान्नेति चेत्तदुक्तम् ॐ ॥ मेयैक्येऽपीति । अघटितमपि सर्वं भगवति विचित्रशक्त्या घटत इति मेयैक्येऽपीत्यर्थः । विशेषविषयेणैवेति । शरीरेन्द्रियादिरूपविशेष-विषयेणैवेत्यर्थः ॥ तथाऽप्याक्षेप इति । सर्वस्यापि दौर्घट्यस्य परिहृतत्वादिति भावः ॥ २-१-८ ॥
**श्रीनिवासतीर्थीया **
ॐ विकरणत्वान्नेति चेत्तदुक्तम् ॐ ॥ कारकाधिष्ठानस्य दण्ड-चक्रादिकारकप्रेरणस्य । आगन्तुकम् उत्पत्तिमत् ॥ अपेक्षेतेति शरीरव्यवधानं वेन्द्रियाणि वा क्षित्याधारं वेत्यर्थः । उक्तानतिरिक्तोक्तिर् उक्तापेक्षयाऽधिकोक्त्यभावः । प्रमेयैक्ये अघटितमपि भगवतः कर्तृत्वं विचित्रशक्या घटत इत्येवंरूपे । प्रमाणभेदस्येत्युक्तं प्रमाणभेदं दर्शयति इह हीत्यादिना ॥ सामान्येत्यादि । भगवतः कर्तृत्वं न युक्तं कृत्स्नप्रसक्त्यादेरिति सामान्यतोऽनुपपत्तौ चोदितायां सर्वशक्तित्वाद्युक्तमित्यतीतसूत्रैः सामान्यतः प्रतिपादितम् । इह तु करणाभावान्न कर्तृत्वमिति विशेषानुपपत्तौ सत्यां करणाभावेऽपि कर्तृत्वं युक्तमिति विशेषविषयकप्रमाणोदाहरणेन परिहारः क्रियत इति प्रमेये प्रमाणे च विशेषोऽस्तीत्यर्थः ॥ तथाऽपीति । सर्वस्यापि दौर्घट्यस्य परिहृतत्वदिति भावः
॥ २-१-८ ॥
॥ इति शब्दमूलत्वाधिकरणम् ॥