०४ श्रुतिभिरपि सर्ववैशिष्ट्यविरोधः परिहृतः

सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम्

श्रुतिभिरपि सर्ववैशिष्ट्यविरोधः परिहृतः

सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम्

**सुधा **

ननु च श्रुतीनां परस्परविरोधोऽपि द्वितीयेऽध्याये न वियदश्रुतेरित्यादिना परिहृतः । तत्कथमुच्यते ब्रह्मणः सर्ववैशिष्ट्ये विरोधो द्वितीये निरस्यत सति तत्राह सृष्टीति ।

अनुव्याख्यानम्

सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम् ।

अप्यन्योन्याविरोधस्तु द्वितीयाध्यायगोचरः ॥

जीवरूपाभिधायिनां वाक्यानाम् । उपलक्षणमेतत् । प्राणादिविषयाणां चेत्यपि द्रष्टव्यम् । सृष्ट्यादिविशेषणमुपपत्तिसूचनार्थम् । तुशब्दो विशेषार्थः । यो द्वितीयाध्यायगोचरो वाक्यानाम-न्योन्याविरोधः सोऽपि पारमेश्वरसर्ववैशिष्ट्यविरोधपरिहार एव । किन्तु प्रथमद्वितीयपादयोः साक्षात्तृतीयचतुर्थयोस्तु व्यवधानेनेति विशेषः । तथा हि ॥ श्रुतीनां परस्परविरोधपरिहारः किं तत्प्रमाण्यनिर्णयमात्रफलः किंवा प्रमेयनिर्णयफलः । नाद्यः । मीमांसाया न्यायशास्त्रत्वापत्तेः । किञ्चैवं सति वियदादिसृष्ट्यादिविषयवाक्यविरोधपरिहार एव कस्मात्क्रियते । उदितहोमादि-वाक्यानामपि न्यायदर्शन इवोपादानोपपत्तेः । आकाशवाय्वादिक्रमश्चात्र नात्यन्तमुपयुज्यते । द्वितीयेऽपि किं सृष्ट्यादिकमेव प्रमेयमुत तदङ्गिभृतमन्यत् । नाद्यः । तस्य स्वरूपतोऽप्रयोजनत्वात् । प्रथमाप्रतिपाद्यत्वाच्च । अन्यथा पुनरुदितहोमादिवाक्यविरोधपरिहारोऽपि कार्यः स्यात् । सृष्ट्यादिविषयनिष्कर्षोऽपि निर्हेतुकः । अतो द्वितीय एव परिशिष्यते । न चान्यदस्ति सृष्ट्यादिप्रमेयस्याङ्गि प्रथमोक्तं द्वितीयसूत्राभिहिताद्ब्रह्मणः सर्ववैशिष्ट्यात् । अतो युक्तमुक्तम् । तदेवं परोक्तसूत्रार्थस्य द्वितीयाध्यायान्तर्भावलक्षणसङ्गतत्यभावाद्विरोधाच्चोक्त एव सूत्रार्थ इति सिद्धम् ।

**शेषवाक्यार्थचन्द्रिका **

ननु सृष्टिसंहारवाक्यानामिति श्रुतीनां परस्परविरोधपरिहारस्य द्वितीयाध्यायार्थत्ववर्णनमनर्थकमित्यतः सर्ववैशिष्ट्यविरोधपरिहारस्य प्रागुक्तद्वितीयाध्यायार्थत्व-समर्थनार्थत्वान्न तदिति भावेन तदुपपादकतया तद्योजयितुं सर्ववैशिष्ट्यविरोधपरिहारस्य द्वितीया-ध्यायार्थत्वानुपपत्तिशङ्कामुत्थापयति ननु चेति । सृष्टिसंहाराभ्यां समस्तस्यापि वाक्यपदस्य योग्यत्वा-द्बुद्ध्या विवकेन जीवरूपाभिधायिनामित्यत्रापि विशेष्यतया सम्बन्ध इत्यभिप्रेत्याह जीवरूपाभि-धायिनां वाक्यानामिति । ‘तथा प्राणा’ इत्यादेरपि सङ्ग्रहार्थमाह उपलक्षणं चैतदिति ॥ उपपत्तीति । वाक्यविरोधपरिहारस्य प्रामाण्यमात्रनिर्णयफलकत्वाभावे प्रमेयनिर्णयफलकत्वे सृष्ट्यादेरेव प्रधान-प्रमेयत्वाभावे वेति शेषः । भाष्ये तुशब्दानर्थक्यमाशङ्क्य तृतीयचतुर्थपादप्रतिपाद्यवाक्यद्वयाविरोधस्या-त्रोक्तसर्ववैशिष्ट्यविरोधपरिहारकत्वोपपादकविशेषसूचनार्थत्वान्नानर्थक्यमिति भावेन तदर्थकथनपूर्वकं तत्सूचितविशेषं च दर्शयति तुशब्द इत्यादिना । ननु तृतीयचतुर्थयोर्वाक्यद्वयविरोधपरिहारकत्वमेवास्तु किं व्यवधानेन सर्ववैशिष्ट्यविरोधपरिहारकत्वकल्पनयेत्यतोऽन्यथाऽऽनर्थक्यप्रसक्तेरिति भावेन तदुप-पादयति तथा हीति । न्यायशास्त्रत्वेति । प्रमाणशास्त्रत्वेत्यर्थः । ततश्च प्रमेयशास्त्रत्वभङ्ग इति भावः ॥ उपपत्तेरिति । वाक्यप्रमाण्यफलकत्वस्योभयत्र साम्येनैकमात्रस्वीकारस्य निर्हेतुकत्वादिति भावः ॥ स्वरूपत इति । ततश्च न स्वरूपेण जिज्ञास्यतेति भावः ॥ प्रथमेति । प्रथमाध्यायेत्यर्थः । ततश्चोक्तेऽर्थे विरोधपरिहारकत्वाभावादसङ्गतिः स्यादिति भावः ॥ अन्यथेति । स्वरूपतोऽप्रयोजनस्य प्रथमाध्याया-प्रतिपाद्यस्यापि सृष्ट्यादेरेव प्रधानप्रमेयत्वे इत्यर्थः । तत्राप्युदितहोमादेरेव स्वप्रधानप्रमेयत्वोपपत्त्या प्रमेयनिर्णयफलकत्वाविशेषादिति भावः । अस्तु सृष्ट्याद्याङ्गिभूतमन्यत् । तत्तु सर्ववैशिष्ट्यमिति कस्मादवसीयत इत्यतस्तदन्यस्य कस्यचित्सृष्ट्याद्युपयोगित्वेनोक्तशङ्गत्वादन्यस्य च प्रथमोक्तत्वादि-गुणविशिष्टस्याभावात्सर्ववैशिष्ट्यमेव तदित्याह युक्तमुक्तमिति । तृतीयचतुर्थयोर्व्यवधानेन सर्ववैशिष्ट्य-विरोधपरिहारकत्वं यदुक्तं तद्युक्तमित्यर्थः ।

**परिमल **

वाक्यानामिति पदस्य बुद्धिविभागेनोत्तरत्राप्यन्वय इति भावेनाह वाक्यानामिति ॥ उपपत्तीति । सा किञ्चैवमित्यादिनाऽग्रे व्यक्ता ॥ विशेषार्थ इति । सोऽपि किन्तु प्रथम-द्वितीयपादयोरित्यादिनाऽग्रे विवरिष्यते । वाक्यं योजयति य इति । अविरोधपदं विरोधपरिहारपरमिति भावेनाह सोपीति ॥ व्यवधानेनेति । वाक्यानामन्योन्यविरोधनिरासद्वारेत्यर्थः । सोऽपीत्यादिनोक्तं व्यनक्ति तथा हीत्यादिना ॥ उदितहोमेति । ‘प्रातः प्रातरनृतं ते वदन्ति पुरोदयाच्च जुह्वति येऽग्निहोत्रम् । दिवा कीर्त्यमदिवा कीर्तयन्तं’ इति । ‘यथाऽतिथये प्रद्रुतायान्नं हरेयुस् तादृक् तद्यद्युदिते जुहोति’ इति परस्परनिन्दयोदितानुदितहोमवाक्ययोविरोधस्य प्रतीतेस्तन्निरासाय तादृशवाक्यानामपि अत्रोपादानं स्यादित्यर्थः । एवं सतीत्यापादकानुकर्षः । आकाशेति, न वियदिति, एतेन मातरिश्वेति, तेजोऽत इति, आप इति, पृथिव्यधिकाररूपेति यः क्रमः सः प्रामाण्यनिर्णयमात्रफलत्वेऽनुपयुक्तः स्यात् । प्रमेयनिर्णयफलत्वे तु अस्ति भाष्याद्युक्तदिशा भगवतः स्वातन्त्र्यादिनिर्णयार्थत्वादस्त्युपयोग इति भावः । तदङ्गिभूतमिति । सृष्ट्यादिप्रमेयमङ्गं कृत्वा यत्प्रधानतया वर्तते प्रमेयं तदित्यर्थः ॥ स्वरूपतोऽप्रयोजनत्वादिति । सृष्टिलयादिस्वरूपमात्रनिर्णयस्य मुक्त्यनुपायत्वादिति भावः ॥ प्रथमेति । सृष्टिलयादिरूपप्रमेयमात्रस्य प्रथमाध्यायाप्रतिपाद्यत्वाच्चेत्यर्थः । प्रथमाध्यायप्रतिपादित-प्रमेयनिर्णयस्यैव द्वितीयेऽध्याये विरोधनिरासेन कार्यत्वादिति भावः ॥ अन्यथेति । प्रथमाध्यायानुक्ते प्रमेयविरोधनिरासे सतीत्यर्थः ॥ द्वितीय एवेति । तदङ्गिभूतमन्यदस्तीति पक्ष इत्यर्थः । अस्त्वेवं तावता तत्सर्ववैशिष्ट्यमिति कुत इत्यत आह न चेति । प्रथमाध्यायोक्तमङ्गि सर्ववैशिष्ट्यादन्यन्न चास्ति किन्तु तदेवेत्यर्थः ॥ विरोधाच्चेति । सर्वोपादानत्वेन सर्वात्मकत्वरूपार्थस्य पूर्वाध्यायोक्तसर्ववैशिष्ट्य-विरोधादिति वा प्रकृत्याद्यधिकरणेषु पराभिप्रेतविवर्तवादविरोधादिति वा कृत्स्नप्रसक्त्यादि-सूत्रोक्तो-पादानादि विरोधादिति वार्थः । विवर्तवादे कृत्स्नप्रसक्त्यादिचोदनानवकाशस्योक्तत्वात् ॥

**यादुपत्यम् **

न्यायदर्शन इवेति । ब्रह्मतर्कशास्त्र इवेत्यर्थः ॥ प्रथमेति । प्रथमाध्याया-प्रतिपाद्यत्वाच्चेत्यर्थः ।

**श्रीनिवासतीर्थीया **

जीवरूपेति । जीवस्वरूपेत्यर्थः ॥ प्राणादीति । ‘तथा प्राणाः’ इत्यादि-चतुर्थपादीयानामित्यर्थः । किन्त्वित्यनेन विशेषार्थमित्युक्तं प्रदर्शितम् । सृष्ट्यादिग्रहणमुपपत्ति-सूचनार्थमित्युक्तं प्रदर्शयति तथा हीत्यादिना ॥ तदिति । श्रुतीत्यर्थः ॥ न्यायेति । ब्रह्मतर्केत्यर्थः । एवं सति श्रुतिप्रामाण्यनिर्णयमात्रफलकत्वेन न्यायशास्त्रत्वस्येष्टत्वे ॥ न्यायदर्शन इवेति । यथा ब्रह्मतर्कशास्त्रे उदितहोमादिवाक्यस्य विरोधपरिहारेण तत्प्रमाण्यं समर्थितमेवमत्रापि स्यादित्यर्थः ॥ अत्यन्तमिति । यदि प्रमेयनिर्णयः फलं तर्ह्येव ‘न वियत्’, ‘एतेन मातरिश्वा’, ‘तेजोऽत’, ‘आपः’, ‘पृथिवी’त्यादि-क्रमेणोपादानं युज्यते तथोत्पन्नत्वादिति युक्तम् । अत्र श्रुतिप्रामाण्यमात्रनिर्णयफलकपक्षे व्यत्यासेनापि कुतो न निर्णीतमिति भावः । आकाशाद्वायुरिति श्रौतक्रममपेक्ष्यैवं क्रमेण विरोधः परिहृत इति चेत् । सत्यम् । अत एवात्यन्तेत्युक्तम् । तदङ्गि तस्य सृष्ट्यादिप्रमेयस्याङ्गि प्रधानभूतमित्यर्थः । तस्य सृष्ट्यादिप्रमेयस्य । प्रथमेति । अध्यायेत्यर्थः । यतोऽत्र प्रथमाध्यायोक्तार्थ एव विरोधः परिह्रियते । न हि केवलं सृष्ट्यादि तत्प्रतिपाद्यम् । किन्तु तत्कारणत्वमेवेत्यर्थः ॥ अन्यथेति । प्रथमाप्रतिपादितेऽपि प्रमेये यदि विरोधः परिह्रियत इत्यर्थः । निष्कर्षो निष्कृष्य सृष्ट्यादिविषयवाक्योपादानमित्यर्थः । प्रथमाध्यायोक्तं सृष्ट्यादिप्रमेयस्याङ्गि द्वितीयसूत्राभिहिताद्ब्रह्मणो वैशिष्ट्यादन्यत्र चास्तीत्यन्वयः ॥ विरोधाच्चेति । सकलजगदुपादानत्वेन सर्वात्मकत्वं तु न सर्ववैशिष्ट्यम् । नापि तदुपयुक्तम् । प्रत्युत विरुद्धमेवेत्युक्तरीत्या विरोधाच्चेत्यर्थः ।