०२ परिणामवादिविवर्तवादिनोर्व्याख्याननिरासः

विरोधः सर्ववैशिष्ट्ये या द्वितीये निरस्यते

परिणामवादिविवर्तवादिनोर्व्याख्याननिरासः

विरोधः सर्ववैशिष्ट्ये या द्वितीये निरस्यते

**सुधा **

परिणामवादिनो विवर्तवादिनश्च ब्रह्मणो जगदुपादानत्वं कृत्स्नप्रसक्तिरित्यनेनाक्षिप्य श्रुतेस्त्वित्यादिना समाधीयत इति व्याचक्षते । तथा हि । न ब्रह्म जगदुपादानम् । यतस्तथात्वे कृत्स्नस्यापि ब्रह्मणः कार्याकारताप्रसक्तिः स्यात् । स्थितौ च ब्रह्माभावे तद्दर्शनोपदेशानर्थक्यादि स्यात् । अथैतद्दोषपरिजिहीर्षया ब्रह्म एकदेशेन परिणमते एकदेशेन चावतिष्ठत इत्युच्यते तदा ‘निष्कलं शान्तमि’त्यादिनिरवयवत्वशब्दकोपः स्यादिति । अत्रोच्यते । नायं दोषः । ‘तदात्मानं स्वयमकुरुते’त्यादिश्रुतेर्ब्रह्मणो जगदुपादानत्वस्य कृत्स्नपरिणामाभावस्य चावगमात् । शब्दमूलत्वेन युक्तिविरोधानवकाशाच्च । अपि च सर्वशक्त्युपेता च परदेवता श्रूयते । ‘सर्वकर्मा सर्वकामः’ इत्यादि । ततो निरवयवस्यपि ब्रह्मणः कृत्स्नप्रसक्त्यभावेनैव जगदुपादानत्वमुपपन्नमित्यादि । तदेतद्व्याख्यानमनुपपन्नम् । एवं सति एषां सूत्राणामेतदध्यायान्तर्भावलक्षणसङ्गत्यभावप्रसङ्गात् । तत्कथमित्यत आह विरोध इति ।

अनुव्याख्यानम्

विरोधः सर्ववैशिष्ट्ये या द्वितीये निरस्यते ॥

नारायणस्य त्वध्याये ……. …….

तुशब्दोऽवधारणे । परब्रह्मणो नारायणस्य सर्वस्माच्चेतनादचेतनाच्च वैशिष्ट्ये वैलक्षण्ये परमोत्कृष्टत्वेऽत्यन्तव्यावृत्तत्वे च यो युक्त्यादिविरोधः स एवात्र द्वितीयेऽध्याये निरस्यते । सकलजगदुपादानत्वेन सर्वात्मकत्वं तु न सर्ववैशिष्ट्यम् । नापि तदुपयुक्तम् । प्रत्युत विरुद्धमेव । तत्कथं तत्र विरोधपरिहारोऽत्रान्तर्भावमासादयेत् । ननु जगदुपादानत्वादेव सर्ववैशिष्ट्यं ब्रह्मणः । न हि जगज्जगदुपादानमिति चेत् । तत्किमुपादानोपादेययोर्भेदं मन्यसे । तथा च तदनन्यत्व-मित्युक्तविरोधः । जगद् ब्रह्मणो न भिद्यते ब्रह्म तु जगतो भिद्यत इति चेत् । न । उक्तोत्तरत्वात् ।

**शेषवाक्यार्थचन्द्रिका **

‘विरोधः सर्ववैशिष्ट्ये’ इत्याद्युत्तरभाष्यानर्थक्यमाशङ्क्य कृत्स्नप्रसक्ति-रित्याद्ये तदधिकरणीयापव्याख्याननिरासार्थत्वान्न तदिति भावेन तन्निरासकतया तद्योजयितुं तदनुवदति परिणामवादिन इत्यादिना । यदि क्षीरमिव दध्यात्मना ब्रह्म जगदाकारेण परिणमेत्तदा साकल्येन वैकदेशेन वा परिणमेदिति विकल्पं मनसि निधायाद्यं दूषयति यतस्तथात्व इति । अस्तु कृत्स्नस्य ब्रह्मणः कार्यरूपेण परिणामः किं तावतेत्याह स्थितौ चेति । कृत्स्नस्यापि ब्रह्मणः कार्याकारताप्रसक्तौ स्थितायामित्यर्थः । ततश्च ब्रह्माभावः स्यादित्याशयः । अस्त्वेवं ब्रह्माभावस्ततोऽपि किमित्याह ब्रह्माभाव इति । ‘आत्मा वा ओ द्रष्टव्यः’ इति तद्द्रष्ट्रव्यतोपदेशानर्थक्यं स्यादित्यर्थः । कार्यस्यायत्न-दृष्टत्वात्तद्-व्यतिरिक्तस्य च ब्रह्मणो भावादिति भावः । आदिपदेन ब्रह्मणः साकल्येन कार्यात्मना जन्माभ्युपगमे ‘न जायते न म्रियत’ इत्यजत्वादिप्रतिपादकश्रुतिस्मृतिव्याकोपपरिग्रहः । अस्तु तर्हि द्वितीयस्तत्रोक्तदोषाप्रसरादिति शङ्कते अथेति । इत्यादीत्यादिपदेन ‘निरवद्यं निरञ्चनं,’ ‘दिव्यो ह्यमूर्त इत्यादिवाक्यपरिग्रहः । ‘तदात्मानं स्वयमकुरुते’त्यादिश्रुतेरित्यत्रादिपदेन ‘सेयं देवतैक्षत हन्ताह-मि’मास्तिस्रो देवता’ इत्यादिश्रुतिपरिग्रहः ॥ कृत्स्नपरिणामाभावस्य चेति । तदिति कर्तृतया निर्दिष्टस्यापरिणतभागस्यापि श्रवणादिति भावः ।

ननु विरोध इत्युत्तरभाष्ये परकीयसूत्रव्याख्याननिरासो न प्रतीयत इति न तत्परतया भाष्य-योजनमुचितमित्यतो न सूत्रार्थनिराकरणमेव तन्निराकरणम् अपि त्वसङ्गतिनिरूपणमपि । तथा चासङ्गतिनिरूपणपरस्यास्य युक्तं तन्निरासकत्वमिति भावेनासङ्गत्युपपादकतया तद्योजयितुमध्याया-सङ्गति तावदुद्भावयति एवं सतीति । उपादानोपादेययोरभेदेन जगदुपादानस्य ब्रह्मणो जगदुपादानत्वे तदुपादेयस्य जगतोऽपि जगदुपादानत्वावश्यम्भावान्न जगदुपादानत्वं सर्ववैशिष्ट्ये हेतुर् अन्यथो-पादानोपादेययोर्भेदप्रसक्तेरित्याशयेन परिहरति तत्किमिति । इष्टापत्तिं निरस्यति तथा चेति । जगतो ब्रह्माभेदेन जगन्निष्ठविशेषणस्य ब्रह्मणि प्रसक्तावपि ब्रह्मणो जगद्भिन्नत्वेन ब्रह्मनिष्ठस्य जग-दुपादानावस्य जगत्यप्राप्तेर्युक्तं तस्य वैशिष्ट्योपपादकत्वमिति शङ्कते जगदिति ॥ उक्तोत्तरत्वादिति । ब्रह्मणो जगदन्यत्वे जगतोऽपि न तदनन्यत्वं स्यात् । न हि यद्यतोऽत्यन्तभिन्नं तत्तेनात्यन्ताभिन्नमिति सम्भवत्यतिप्रसङ्गादिति ‘कथं च तदनन्यते’त्येतद्-व्याख्यानावसरे उक्तोत्तरत्वादित्यर्थः ।

**परिमल **

परमते कृत्स्नप्रसक्तिरिति पूर्वपक्षसूत्रं श्रुतेस्त्वित्यादीनि त्रीणि सिद्धान्तसूत्राणि सर्वोपेता चेति सूत्रद्वयमधिकरणान्तरं तत्र सूत्रचतुष्टयतात्पर्यार्थमनुवदति परिणामेत्यादिना । पूर्वपक्षसूत्रार्थमनुवदति न ब्रह्मेति । तद्दर्शनोपदेशेति । ‘आत्मा वा ओ द्रष्टव्यः’ इति ब्रह्मदर्शनार्थं श्रवणाद्युपदेशस्य ‘सत्यं ज्ञानमि’त्यादि ब्रह्मस्वरूपोपदेशस्य च वैयर्थ्यादित्यर्थः । आदिपदेन ब्रह्मभावापत्तिरूपमोक्षाभावादिग्रहः ॥ अत्रोच्यत इति । एवं पूर्वपक्षे सिद्धान्त उच्यत इत्यर्थः । पररीत्या सूत्रार्थव्यक्तीकरणेन तदीयसिद्धान्तमनुवदति नायं दोष इत्यादिना । श्रुतेस्त्विति सूत्रार्थमनूद्य सर्वोपत्तेत्येतदर्थमनुवदति अपि चेति । ब्रह्मतन्त्रे नारायणस्य का प्रसक्तिरित्यत आह परब्रह्मण इति । ‘स एव ब्रह्मशब्दार्थो नारायणपदोदित’ इति प्रागेवोक्तेरिति भावः । ‘पञ्चमी भयेने’त्यत्र योग-विभागात्समास इति भावेन सर्ववैशिष्ट्य इत्यस्यार्थमाह सर्वस्मादिति ॥ वैलक्षण्य इति । जग-ज्जनकत्वादिविशिष्टलक्षणवत्वे । यद्वा लोकानन्तर्गतत्वेनालौकिकत्व इत्यर्थः । अत्यन्तव्यावृतत्वे च अत्यन्तभिन्नत्वे चेत्यर्थः । भेदाभेदव्यावृत्त्यर्थमत्यन्तपदम् । तुशब्दार्थः स एवेति ॥ विरुद्धमेवेति । सर्वाभेदे सर्वस्माद्वैशिष्ट्यमित्यस्यायोगादिति भावः । उक्तविरोधपरिहारमाशङ्कते ननु जगदिति ॥ उक्तोत्तरत्वादिति । भोक्त्रापत्तेरिति नये ‘नान्यदन्यत्वमापन्नं क्वचिद्दृष्टं कथञ्चने’त्येतद्-व्याख्यावसरे, ‘यः कदाचिद् यतोत्यन्तं भिद्यते नासौ कदाचित्तदैक्यमापद्यते, यथा घटः पटेने’त्युक्तत्वादिति भावः ।

**यादुपत्यम् **

कृत्स्नपरिणामाभावस्य चेति । तदिति कर्तृतया निर्दिष्टस्यापरिणतभागस्यापि श्रवणादिति भावः ॥ उक्तोत्तरत्वादिति । न हि यद्यतोऽत्यन्तभिन्नं तत्तेनात्यन्ताभिन्नमिति सम्भवत्यतिप्रसङ्गाद् इत्युक्तोत्तरत्वादित्यर्थः ॥

**श्रीनिवासतीर्थीया **

कृत्स्नपरिणामाभावस्येति । तदात्मानमित्यत्र निमित्तोपादानत्वस्य प्रतिपादनेन यदा तदिति निमित्तत्वं कथ्यते तदैकदेशेनावस्थितमिति प्राप्त्या कृत्स्नपरिणामाभावो गम्यत इत्यर्थः ॥ प्रत्युतेति । उच्चनीचवस्त्वाकारेण परिणामवतः सर्वोत्तमत्वानुपपत्तेरित्यर्थः । जगत्य-विद्यमानधर्मवत्त्वमेव सर्ववैशिष्ट्यम् । जगदुपादानत्वं तु न जगत्यस्ति । अभेदाद्ब्रह्मणि तु सम्भवति । अतस्तेन धर्मेण युक्तं सर्ववैशिष्ट्यमिति शङ्कते नन्विति ॥ तत्किमिति । जगदुपादानत्वं जगति न सम्भवति । अभेदाद्ब्रह्मणि तु सम्भवतीत्युक्तेर्जगदपेक्षया भेदोऽस्तीति लभ्यत इति ध्येयम् । ओमिति चेत्तत्राह तथा चेति ।

**वाक्यार्थरत्नमाला **

उत्तरभाष्येति । प्रागुक्ताप्याशङ्का प्रघट्टकविशेषव्यावर्त्यतयात्रोक्तेति पुनरा-शङ्कोक्तिर्युक्तेति ज्ञेयम् । प्रसक्तिरित्यादीति । आदिपदेनावृत्तेन सूत्रशेषपरिग्रहः । तथा च कृत्स्ने-त्येतत्सूत्रमादिर्यस्य तत्तथोक्तमेवंविधं यदेतदधिकरणं तदीयेति योजना । अनेन परपक्षे कृत्स्नेति सूत्रमेतच्छेष इति स्वीकारोऽस्तीत्यस्मन्मतवैलक्षण्यं दर्शितं ब्रह्मैकदेशेन परिणामत इत्युत्तरकल्पानु-सारेण न ब्रह्मजगदुपादानमिति सामान्यस्य विशेषे पर्यवसानं दर्शयितुं कृत्स्नस्य ब्रह्मणः कार्यरूपेण परिणामः प्राप्नोति । निरवयवत्वादित्यादिभाष्याद्यनुसारेण विकल्पयति ॥ यदि क्षीरमेवेत्यादिना । कृत्स्नपरिणामप्रसक्तौ सत्यामित्ये तद्भाष्यानुसारेण व्याचष्टे । कृत्स्नस्यापीति । मूलोच्छेदः प्रसज्येतेति भाष्यानुसारेणोक्तम् । ततश्च ब्रह्माभाव इति । भाष्यानुसारेणैवाह । आत्मा वेत्यादि । अजत्वादिशब्द व्याकोपश्चेति भाष्यानुसारेणाह । आदिपदेनेति । प्रत्येकं नशब्दसम्बन्धाश्रयणं तद्ग्रन्थेऽस्ति । भाष्योक्त-श्रुत्यन्तरमाह । इत्यादीत्यादिपदेनेति । एवं जातीयकादिति । भाष्योक्तश्रुतिरेव तदात्मानमित्येषा मूले उक्ता मुखतो भाष्योक्तश्रुत्यन्तरमादिपदेन ग्राह्यमित्याशयेनाह । तदात्मानं स्वयमिति । आत्मकृतेः परिणामादिति सूत्रे कर्तृत्वं कर्मत्वं च भगवत इत्यर्थे इयं श्रुतिर्भाष्ये उपन्यस्तेति तन्मनसि निधाया-त्रोदाहरणं मूले । तेनापरिणतभागस्य सेयं देवतैक्षतेत्यादावप्रतीतेरियमेवैकदेशेन परिणामप्रतिपादिका श्रुतिरूपन्यसनीयेति परभाष्ये मुखत उपपादनाभावायोग इत्यपि सूचितं भवतीति ज्ञेयम् । तदेतन्मनसि कृत्वा आह । तदितिकर्तृतयेति । जगदुपादानत्वमुपपन्नमित्यादीत्येतन्मूलगतादिपदेनाविद्याकल्पित-रूपभेदाभ्युपगमादित्यादिना स्वाङ्गीकृतपरिणामपक्षे आविद्यकरूपभेदादिव्युत्पादनेन विवर्तवाद उक्त-स्तद्ग्रहणं बोध्यम् । तदुभयपूर्वपक्षदूषणाय सकलजगदुपादानत्वेनेत्यादिमूलं न किन्तु परिणामवाद-निरासकम् । विवर्तवादे तु सर्वथेत्यादिना तद्वादस्य प्रकारान्तरेण निरशिष्यमाणत्वात् । विवर्तवादे उपादानोपादेयाभेदप्रसक्तयभावेनोत्तरमूलासङ्गतिश्च परिणामवादनिरासपरतयैतद्योजने तु नानुपपत्तिरिति ज्ञेयम् । एतमर्थं मनसि कृत्वैतत्किमित्येतद्योजयति । उपानोपादेययोरिति । जगदुपादानस्येति । तत्वेनाभिमतस्येत्यर्थः ।


विरोधः सर्ववैशिष्ट्ये या द्वितीये निरस्यते

विरोधः सर्ववैशिष्ट्ये या द्वितीये निरस्यते

**सुधा **

प्राग्ब्रह्मोपादानत्वस्यानुक्तत्वात्कृत्स्नप्रसक्त्यादिपरिचोदनैवानवकाशा । परिणाम-प्रतिपादकश्रुतेरभावेन गगनादिप्रपञ्चात्मकस्य तदसम्भविशब्दमूलत्वसर्वशक्तित्वाद्यसम्भवेन च समाधानमप्ययुक्तम् । विवर्तवादे तु सर्वथाऽपि नैषा शङ्कावकाशमश्नुते । शुक्त्यादिकमिव रजताद्यारोपस्य ब्रह्माविद्यकप्रपञ्चारोपस्याधिष्ठानमिति स्पष्टमारम्भणाधिकरणेऽभिहितम् । तत्र कथं कृत्स्नैकदेशविचारः । उक्तानवधानाच्छङ्केति चेत् । तर्ह्युक्तं स्मरेति वक्तव्यम् । स्पष्टं चारोपितत्वं प्रपञ्चस्य ब्रह्मण्युपपादनीयम् । श्रुतेस्त्वित्यादेस्तु का सङ्गतिः ।

**शेषवाक्यार्थचन्द्रिका **

ननु पूर्वपक्षसिद्धान्तानुपपत्तिव्युत्पादनेनाप्यपव्याख्यानस्य निराकर्तृं शक्यत्वात्किमित्यसङ्गतिमात्रव्युत्पादनेन तन्निराकरणं भाष्यकाराणमित्यतस्तदनुपपत्तिप्रदर्शनपूर्वकं तदनुक्तौ निमित्तं वदन्नेव भाष्यकृदुद्भावितासङ्गत्युक्तिं समर्थयते प्रागित्यादिना । यद्वा तत्किमसङ्गतिरेव दोषो व्याख्यानं तु परोक्तमदुष्टमेवेत्यत आह प्रागिति । ‘न च प्रकृतिशब्देन ब्रह्मोपादानमुच्यते’ इत्यादिना प्रकृत्यधिकरणस्य ब्रह्मोपादानत्वानभिधायकत्वस्य तदधिकरणव्याख्यानावसरे उपपादि-तत्वादिति भावः ॥ परिणामप्रतिपादकश्रुतेरभावेनेति । ‘सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते’ इत्यादिना ब्रह्मणो जगदुपादानत्वे प्रमाणतया पराभिमतश्रुतीनां तत्परत्वाभावव्युत्पादनान्न परिणाम-प्रतिपादिका श्रुतिरस्तीति भावः ॥ असम्भवेन चेति । अन्यथोपादानोपादेययोर्भेदप्रसक्त्या तदनन्यत्व-मित्युक्तविरोधापत्तेरिति भावः । अनवकाशमेवोपपादयति शुक्त्यादिकमेवेति । उक्तानवधानादित्युप-लक्षणम् । पूर्वोक्तक्षीरादिदृष्टान्तात्परिणामित्वभ्रमाच्चेत्यपि द्रष्टव्यम् ॥ का सङ्गतिरिति । सिद्धान्ते विवर्तविवक्षायां द्वितीयसूत्रे शब्दगम्यत्वतर्कागम्यत्वेन वाच्ये तयोर्भ्रान्त्यधिष्ठानतायामनुपयुक्तत्वादिति भावः ॥

**परिमल **

अनुक्तत्वादिति । प्रकृत्याद्यधिकरणानामप्यन्यथा व्याख्यानादिति भावः । श्रुतेर-भावेनेति । ‘तदात्मानं स्वयमकुरुते’त्यस्य ‘आत्मकृतेरि’त्यत्रान्यथैव व्याख्यानादिति भावः ॥ शङ्काऽनवकाशमेव व्यनक्ति शुक्त्यादिकमिवेति ॥ आरम्भणेति । तदनन्यत्वमारम्भणेत्यत्र ।

**श्रीनिवासतीर्थीया **

श्रुतिशब्दमूलत्वविचित्रशक्तिभ्यो हेतुभ्यः समाधानं त्वन्मते न युक्तमित्याह परिणामेति । श्रुतेरभावेन समाधानमयुक्तमित्यन्वयः ॥ श्रुतेरभावेनेति । तदात्मानमिति श्रुतेरन्यार्थ-त्वादिति भावः ॥ तदसम्भवीति । गगनादिप्रपञ्चेऽसम्भावितेत्यर्थः ॥ उक्तेति । तदनन्यत्व-मित्यत्रोक्तार्थविस्मरणाच्छङ्केत्यर्थः ॥ तत्रेति । आरोपाधिष्ठान इत्यर्थः ।

**वाक्यार्थरत्नमाला **

एवं कृत्स्नेत्येतत्सूत्रोक्तशङ्कापरिहारयोः परिणामवादे अनुपपत्तिं प्रदर्श्य विवर्तवादे तदयोगं दर्शयति । विवर्त्तवादे त्विति मूलम् । एषा शङ्केति मूलम् । कृत्स्नप्रसक्तयादि शङ्केत्यर्थः । पूर्वपक्ष इति वक्तव्ये पूर्वपक्षोऽपि सूत्रव्यावर्त्यशङ्कैवेत्याशयेन शङ्केत्येवोक्तम् । पूर्वाधि-करणोक्तक्षीरदृष्टान्तात्परिणामित्वभ्रमे तन्निरासात्सङ्गतिमाहेति कल्पतरौ क्षीरादिदेवादिदृष्टान्तेन पुन-स्तद्वारस्तवत्वप्रसङ्ग इत्येतद्भामती ग्रन्थाशयो निरूपितस्तमाह । उक्तानवधानादित्युपलक्षणमिति । द्वितीयसूत्र इति । श्रुतेस्त्वित्येतत्सूत्र इत्यर्थः । शब्दगम्यत्वेति । शब्दमूलत्वादित्येतत्सूत्रखण्डो हि भाष्ये एवं व्याख्यातः । शब्दमूलं च ब्रह्म शब्दप्रमाणकम् । नेन्द्रियादिप्रमाणकमितीति भावः ।