ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ
॥ अथ शब्दमूलत्वाधिकरणम् ॥
ईश्वरस्य सर्वकर्तृत्वसमर्थनम्
ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ
**सुधा **
॥ ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ ॥ नन्वीश्वरस्यापि कर्तृत्वं न युज्यते । जीव-वत्कृस्नप्रसक्तेः । न हि ब्रह्माण्डपिपीलिका(ण्ड)निर्माणे समं सामर्थ्यं प्रयुञ्जानः प्रेक्षावान्भवति । गत्यन्तराभावान्न दोष इति चेन्न । ईश्वरत्वव्याघातात् । अथैतत्परिहारार्थमेकदेशेन प्रवृत्तिरङ्गीक्रियते तदा ‘नेह नानेत्यादि’निरवयवत्वशब्दकोपः स्यात् ॥ शरीरेन्द्रियादिविकलत्वाच्च न कर्तृत्वम् ॥ न हि कश्चिच्छरीरादिविकलः कर्तोपलब्धः । भूम्याद्याधारविधुरत्वाच्च । एवं दौर्घट्येऽपि यदि कर्तृत्वमीश्वरस्य स्यात्तदा जीवस्यापि किन्न स्यात् । विशेषादर्शनात् । एवञ्च सर्वकर्तृत्वं दूरनिरस्तमित्ययं पूर्वपक्षोऽत्राधिकरणे निरस्यते । तस्य तात्पर्यमाह तस्य त्विति ।
अनुव्याख्यानम्
ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ ॥
तस्य त्वशेषशक्तित्वाद्युज्यते सर्वमेव च ॥
तुशब्दो जीवाद्विशेषं द्योतयति । चशब्दो हेतुसमुच्चये । ईश्वरस्यालौकिकत्वश्रुतेरागमैकगम्यत्वेन युक्तिविरोधानवकाशात् ‘विचित्रशक्तिः पुरुषः’, ‘सर्वैर्युक्ता शक्तिभिर्देवता सा’ इत्यादिश्रुतिभि-र्विचित्राशेषशक्तित्वावगमाच्च । सर्वं भिन्नांशरहितस्यापि कार्येषु कृत्स्नप्रसक्त्यभावः, स्वरूपांशबाहुल्येऽपि भेदाभावः, अंशतः कार्यकरणेऽपि निरवयवत्वशब्दकोपाभावः, देहादि-रहितस्यापि कर्तृत्वनिर्वाह इत्यादि, युज्यत इति ।
ननु दुर्घटमपि जीवकर्तृत्वमीश्वरशक्त्या घटत इत्यतीताधिकरणेऽभिहितम् । तथा च कथमत्र पूर्वपक्षावकाशः । यो हि परत्र प्रमितं घटयितुमीष्टे सः स्वस्मिन्न ईष्टे इत्यसम्भावितम् । उच्यते । नैषोर्थः सूत्रकृताऽतीताधिकरणेऽभिहितः । किन्त्वागामिनमर्थं मनसि निधाय जीवकर्तृत्व-वादनिरास एव विहितः । भाष्यकारेण तु शिष्यहितैषिणा वक्ष्यमाणमप्यर्थमाकृष्य पूर्वोत्तरविरोधः परिहृत इति ।
**शेषवाक्यार्थचन्द्रिका **
ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ ॥ श्रुतेस्त्वित्यधिकरणस्य मूलेऽ-व्याख्यातत्वात्स्वव्याख्यानदृढीकरणार्थापव्याख्याननिराकरणपरोत्तरभाष्यानर्थक्यमाशङ्क्य पूर्वाधिकरण-शेषतया योजितस्य ‘तस्य त्वि’त्यादिभाष्यस्यैवैतदधिकरणव्याख्यानरूपत्वान्न भाष्ये स्वव्याख्यान-दृढीकरणार्थापव्याख्याननिराकरणपरोत्तरभाष्यानर्थक्यमित्यभिप्रेत्यैतदधिकरणतात्पर्यकथनरूपतया भाष्यं योजयितुमेतदधिकरणपूर्वपक्षमनुवदति नन्विति । कृत्स्नप्रसक्तावनुभवविरोधस्य पूर्वत्रेवात्रा-योगात्तत्प्रयुक्तदोषान्तरमाह न हीति ॥ न दोष इति । समसामर्थ्यप्रयोगो नाप्रेक्षावत्त्व-प्रसङ्गरूपदोषहेतुरित्यर्थः । नन्वेकदेशेन प्रवृत्तावपि ‘नेह नाने’त्यादिश्रुतिविरोधः । एकदेशस्य भेदानङ्गीकारादित्यतो ‘विकरणत्वादि’त्यादिना बाधकतया शङ्कितं ‘सम्बन्धानुपपत्तेरि’त्यादिनाऽ-न्यत्रोपपादितं हेत्वन्तरमाह शरीरेति । ‘अधिष्ठानानुपपत्तेश्चे’ति सूत्रोक्तं हेतुमाह भूम्यादीति । यद्यप्यारम्भणाधिकरणे स्वाधीनसत्ताशक्त्यादिमदुपादानादिकमस्तीति समर्थितं तथाऽपि स्वाधीन-सत्ताशक्यादिमति स्वयं कथं तिष्ठेदित्याशयेनेदमुक्तमिति ध्येयम् । ननु चैतेषां जीवपक्ष एव दोषत्वं नेश्वरपक्षेऽपीति न तस्य कर्तृत्वानुपपत्तिरित्यत आह विशेषेति । ईश्वरे तदस्पर्शे निमित्तस्य जीवादतिशयस्यादर्शनादित्यर्थः । ततश्च विशेषमन्तरेणापि दोषासंस्पर्शे किं जीवेनापराद्धमिति भावः । भाष्ये तुशब्दस्यानर्थक्यमाशङ्क्येश्वरे दोषास्पर्शे निमित्तभूतस्य जीवापेक्षयाऽतिशयस्य तदभावशङ्का-परिहाराय द्योतनार्थत्वान्नानर्थक्यमित्यभिप्रायेण तदर्थमाह तुशब्द इति । अनेन तुशब्दो विशेषार्थ इत्युक्तं भवति । ‘श्रुतेस्तु शब्दभूलत्वादि’ति सूत्रे श्रुतेरित्यनेन श्रुतिमूलत्वादित्यनेन चोक्तहेतुभ्यां सह ‘आत्मनि’ इति, ‘सर्वोपेता’ इति सूत्रद्वयकथितयुक्तेः समुच्चये भाष्ये एवशब्द इत्याह चशब्द इति । अनेनाशेषशक्तित्वाच्चेति भिन्नक्रमतया चशब्दसम्बन्ध उक्तो भवति । समुच्चयहेतुरूपं दर्शयन्प्रकृता-शेषाक्षेपसमाधानपरतया वाक्यं योजयति ईश्वरस्येत्यादिना । देहादीत्यादिपदेनेन्द्रियादिपरिग्रहः । इत्यादीत्यादिपदेन भूम्याधाररहितस्यापि कर्तृत्वनिर्वाहपरिग्रहः ।
‘तस्य त्वशेषशक्तित्वादि’ति भाष्यानुरोधादशेषशक्तित्वयुक्तिः पूर्वाधिकरणोक्तैवेति मत्वाऽधि-करणारम्भमाक्षिपति नन्विति । उक्तयुक्तेः पूर्वाधिकरणे सूत्रकारेणानुक्तेर्न गतार्थत्वमित्याह उच्यत इति । कथं तर्हि पूर्वाधिकरणसिद्धान्तनिर्वाह इति शङ्कते किन्त्विति । परिहरति आगामिनमिति । कथं तर्हि भाष्येऽशेषशक्तित्वोपन्यास इत्यत आह भाष्यकारेण त्विति ॥ पूर्वोत्तरविरोध इति । कृत्स्न-प्रसक्तिरिति पूर्वस्य कर्ता शास्त्रार्थवत्त्वादित्याद्युत्तरेण विरोध इत्यर्थः ।
**परिमल **
ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ ॥ ‘तस्य त्वि’त्यादिना तात्पर्योक्तेः कः प्रसङ्ग इत्यतो व्यावर्त्यमाह नन्वित्यादिना । आद्यसूत्रव्यावर्त्यमाह जीववत्कृत्स्नप्रसक्तेरिति । एतेन पूर्वसिद्धन्तन्यायेन प्राप्तः पूर्वपक्षोऽत्रापोद्यते इत्यापवादिकी सङ्गतिरपि सूचिता । अस्तु को दोष इत्यत आह न हीति ॥ एकदेशेनेति । पिपीलिकाण्डनिर्माणादाविति योज्यम् । विकरणत्वान्नेति चेदिति सौत्रशङ्काभागं व्यनक्ति शरीरेति । ‘आत्मनि चैवं विचित्राश्च ही’तिसूत्रव्यावर्त्यमाह एवं दौर्घट्येपीति ॥ हेतुसमुच्चय इति । ‘आत्मनि चैव’मितिसूत्रोक्तविचित्राशेषाक्तित्वादिहेतुना सह श्रुतेस्त्विति सूत्रोक्तालौकिकत्व-श्रवणागमैकगम्यत्वहेतोर्मूलानुक्तयोः समुच्चये वर्तत इत्यर्थः । तदेव व्यञ्जयन् श्रुतेरिति सौत्र हेत्वर्थमाह ईश्वरस्यालौकिकत्वश्रुतेरिति । योऽसौ विरुद्धोऽविरुद्ध इत्यादिभाष्योक्तश्रुतावलौकिकत्वश्रवणा-दित्यर्थः । ‘शब्दमूलत्वादि’ति सूत्रांशतात्पर्यार्थमाह आगमैकेति ॥ युक्तिविरोधेति । एतेन ‘शास्त्रयोनित्वादि’त्यत्र युक्तेरलौकिकार्थे साधकता नेत्युक्तमिह तु विरोधकत्वं नेत्युच्यत इत्यगतार्थता च सूचिता । ‘आत्मनि चैवं विचित्राश्च हि’, ‘सर्वोपेता च तद्दर्शनादि’ति सूत्रद्वयोक्तं मूलोपात्तहेतुं सप्रमाणकमाह विचित्रेति । इत्यादिश्रुतिभिर्भाष्योक्ताभिरिति योज्यम् । सर्वमिति अनुवादः भिन्नेत्यारभ्य इत्यादीत्यन्ते व्याख्या ॥ वक्ष्यमाणमिति । श्रुतेस्त्वित्यत्र नये वक्ष्यमाणमित्यर्थः ॥ पूर्वोत्तरेति । कृत्स्नप्रसक्त्यादिनोक्तकर्तृत्वाक्षेपस्य ‘कर्ता शास्त्रार्थवत्त्वा’दिति वक्ष्यमाणकर्तृत्वस्य च विरोधो ऽचिन्त्य शक्तिकेश्वराधीनकर्तृत्वतात्पर्यकत्वं कर्तृत्वाक्षेपस्येति वर्णनेन परिहृत इत्यर्थः ।
**यादुपत्यम् **
ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ ॥ तुशब्दसूचितं श्रुतेस्वित्यस्य व्याख्यानं दर्शयति अलौकिकत्वश्रुतेरिति । शब्दमूलत्वादित्यस्य व्याख्यानं दर्शयति आगमैकगम्यत्वेनेति । इदमपि तुशब्देनैव सूचितमिति ज्ञातव्यम् ॥ ‘आत्मनि चैवं विचित्राश्च हि,’ ‘सर्वोपेता च तद्दर्शनादि’ति सूत्रद्वयतात्पर्यप्रदर्शकतयाऽशेषशक्तित्वादित्येतद्-व्याचष्टे विचिशिक्तिरित्यादिना ॥ वक्ष्यमाणमिति । आत्मनि चैवमित्यादिना वक्ष्यमाणमित्यर्थः ॥ पूर्वोत्तरविरोध इति । कृत्स्नप्रसक्तिरिति पूर्वस्य, कर्ता शास्त्रार्थवत्त्वादित्युत्तरस्य च विरोधः परिहृत इत्यर्थः ॥
**श्रीनिवासतीर्थीया **
ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ ॥ हेतुसमुच्चय इति । ‘आत्मनि चैवम्,’ ‘सर्वोपेता चे’ति सूत्रद्वयलब्धहेतुप्रदर्शनमशेषशक्तित्वादित्यनेन कृतम् । श्रुतेस्तु शब्दमूलत्वादिति सूत्रोक्तयोरलौकिकत्वश्रुतिशब्दमूलकत्वेन युक्तिविरोधानवकाशरूपहेत्वोः समुच्चये चशब्द इत्यर्थः ॥ कर्तृत्ववादेति । स्वातन्त्र्येण कर्तृत्ववादेत्यर्थः ॥ वक्ष्यमाणमिति । ‘आत्मनि चैवमि’त्यादिनेति शेषः॥ पूर्वोत्तरेति । ‘इतरव्यपदेशादि’ति पूर्वस्य ‘कर्ता शास्त्रार्थवत्त्वादि’त्युत्तरस्य च विरोधः परिहृत इत्यर्थः ॥
**वाक्यार्थरत्नमाला **
ॐ श्रुतेस्तुशब्दमूलत्वात् ॐ ॥ उत्तरभाष्येति । विरोधः सर्ववैशिष्ट्य इत्युत्तरभाष्येत्यर्थः । आनर्थक्यमिति । आनर्थक्यमित्याशङ्क्येत्यर्थः । भाष्यमिति । तस्य त्वित्येतद्भाष्यमित्यर्थः । कृत्स्नप्रसक्ताविति । अस्तु कृत्स्नप्रसक्तिरितीष्टापत्तिशङ्कायाः परिहारः पूर्वं तथाचानुभवविरोध इत्यनुभवविरोधेन कृतः । तथात्र नेष्टापत्तिपरिहारः सम्भवतीत्यर्थ इत्यर्थः । ईश्वरविषयेऽस्मदनुभवाप्रसरादिति भावः । दोषपदं तद्धेतुत्वार्थतयाऽत्राभिमतमिति द्योतयितुम् । तथैव व्याचष्टे दोषहेतुरित्यर्थ इति । विकरणत्वादित्यादिनेति । आदिपदेन नेति चेदित्यंशपरिग्रहः । सम्बन्धानुपपत्तेरित्यादिनेत्यादिपदेन तत्सूत्रीयभाष्यपरिग्रहः । सूत्रैकदेशोपादानत्वान्न चशब्दा-नुपादानदोषः । अन्यत्रेति । पत्युरसामञ्जस्यादित्यधिकरण इत्यर्थः । सूत्रोक्तमित्यत्राप्यन्यत्रेत्ये-तद्योज्यम् । उक्त एवार्थः । श्रुतिमूलत्वादित्यनेन चेति । सौत्रशब्दपदस्य श्रुतिपदेन व्याख्यानं तु मूले शब्दपदस्यागमार्थतया व्याख्यानं कृतम् । न तत्तावन्मात्र एव पर्यवसायि । किंत्वौपनिषदः पुरुष इत्यादिश्रुतिभिर्भगवत औपनिषदत्वप्रतिपादनादपौरुषेयागमपर्यवसन्नम् । पौरुषेयागमोऽप्यपौरुषेयागम-मूलकतयैव प्रमाणमिति न दोष इति सूचयितुमिति ज्ञेयम् । तस्य त्वशेषशक्तित्वादिति भाष्यानुरोधादिति शक्तिपदयुक्तः पाठः । कर्त्तृपदं लेखाकागतम् । इत्याहेति । इति समाधत्त इत्यर्थः ।