यदि भागेन कार्येषु जीवशक्तिं न योजयेत्
ईश्वराधीनं जीवकर्तृत्वम्
यदि भागेन कार्येषु जीवशक्तिं न योजयेत्
सुधा
एवमुपोद्घातप्रक्रियया विपर्ययपर्यवसानोपपत्तिमुक्त्वेदानीं विवक्षितार्थे सूत्रं योजयति यदीति ।
अनुव्याख्यानम्
यदि भागेन कार्येषु जीवशक्तिं न योजयेत् ॥
हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंऽशिताऽपि वा ॥
भागेन कार्यानुगुणांशेन । अत्र यदीश्वराधीनतया कर्ता न स्यादिति वक्तव्ये यदि भागे-नेत्यादिवचनं प्रसङ्गस्फुटीकरणार्थम् । ईश्वराधीनत्वप्रकारप्रपञ्चनार्थं च । सर्वत्र तृणादानादावपि कृत्स्नयत्नोंऽशितापि वा प्रसज्येत । तथा चानुभवश्रुतिविरोधः । तस्मात्परमेश्वराधीन एव जीवः कर्तेति शेषः । न चोपाधिकृतांशकल्पनया कर्तृत्वस्याविद्यकत्वेन (वो)चोपपत्तिः । अनंश-स्यापीत्यादिप्रमाणसिद्धोपपन्नोपपादकपरित्यागेनाप्रामाणिकानुपपन्नस्वीकारस्यायुक्तत्वात् ।
**शेषवाक्यार्थचन्द्रिका **
ननु जीवकर्तृत्वस्येश्वरानधीनत्वे प्रसङ्गावादावुक्त्वा तद्विपर्यया-पर्यवसानशङ्कायां विपर्ययपर्यसवानोपपत्तिं वक्तुमागमोदाहरणं कर्तव्यं तत्कथमादावेव तदुपपत्ति-कथनमित्यत उक्तम् उपोद्घातप्रक्रिययेति ॥ विवक्षितार्थे जीवकर्तृत्वस्येश्वराधीनत्वे । भागेन कार्यानुगुणांशेनेत्येतत्किञ्चित्सामर्थ्ययोजनां कार्यानुगुणसामर्थ्यप्रयोगमितिवद्य्वाख्येयम् । प्रसङ्गस्फुटी-करणार्थमिति । यदि जीवः स्वतः कर्ता स्यात् तदा कृत्स्नप्रयत्नो ऽंशिता वा प्रसज्यत इत्युक्ते स्वतः कर्तृत्वेऽपि कुतः कृत्स्नप्रयत्नांशिते इत्याशङ्कया प्रतिबन्धेन निमित्तनैमित्तिकभावस्यास्फुटत्वात्प्रसङ्गस्या-स्फुटत्वम् । यदि भागेन कार्येषु जीवशक्तिं न योजयेद्धरिस्तदा हि सर्वत्रकृत्स्नप्रयत्नोंऽशिता वा स्यादित्युक्ते तु निमित्तनैमित्तिकभावस्य स्फुटत्वेन तच्छङ्काविरहात्प्रसङ्गस्य स्फुटत्वमिति तदर्थं यदि भागेनेत्याद्येवोक्तमित्यर्थः ॥ ईश्वराधीनत्वप्रकारेति । यदि जीव ईश्वराधीनतया कर्ता न स्यादित्युक्ते जीवकर्तृत्वस्येन्वराधीनत्वमात्रप्राप्तावपि कथं जीवकर्तृत्वस्येश्वराधीनत्वमिति कथमाकाङ्क्षापूरकतत्प्रकार-विशेषानुक्तेः ‘यदि भागेन कार्येषु जीवशक्तिं न योजयेत्’ इत्युक्ते तु जीवनिष्ठकर्तृतायां कार्यानु(रूप)-गुणांशरूपप्रकारस्य कथमाकाङ्क्षापरूकस्य समर्पणलाभाच्च तत्समर्पणार्थं यदि भागेनेत्याद्येवोक्त-मित्यर्थः । महाभारशिलोद्धरणादौ कृत्स्नप्रयत्न इष्ट एवेत्यतः सर्वत्रेत्यस्य तात्पर्यमाह तृणादानादाव-पीति । अस्तु कृत्स्नप्रयत्नत्वादीत्यत आह तथा चेति । कृत्स्नप्रयत्नेऽनुभवविरोधः । अंशितायां श्रुतिविरोध इत्यर्थः । प्रसङ्गप्रदर्शनरूपे भाष्ये विपर्ययपर्यवसानानुक्त्या प्रसक्तां न्यूनतां शेषोक्त्या परिहरति तस्मादिति ।
ननु जीवस्य स्वतः कर्तृत्वेऽपि नोक्तदोषावकाशस्तस्योपाधिकृतांशवत्त्वेन कृत्स्नप्रसक्त्ययोगात् । स्वाभाविकांशाभावेन श्रुतिविरोधाभावात् । यद्वा जीवे कर्तृत्वमाविद्यकमस्तु । न च युक्तिविरोधः । तस्याविद्यात्मकत्वसाधकत्वेन तदबाधकत्वादिति शङ्कते न चेति ॥ उपपादकपरित्यागेनेति । भगवदधीनत्वरूपोपपादकपरित्यागेनेत्यर्थः ॥ अप्रामाणिकेति । जीवस्योपाधिकृतांशवत्तायां जीवकर्तृत्वस्याविद्यकतायां च प्रमाणाभावेन तयोरप्रामाणिकत्वादिति भावः ॥ किं जीवः समस्तोऽप्युपहितस्तदंशो वा । यद्याद्यस्तर्ह्युपाधिकृतांशो न स्यात् । सर्वस्योपाधिग्रस्तत्वात् । नाप्यंश उपहित इति युक्तम् । उपाधिसम्बन्धार्थं स्वाभाविकद्वित्वापेक्षत्वात् । तथा च श्रुतिविरोधः । तस्याप्यौपाधिकत्वे त्वनवस्थेत्युपाधिकृतांशत्वस्य आविद्यकत्वेऽपि कर्तृत्वस्य जीवस्वरूपत्वेन मोक्षेऽप्यनुवृत्तेस्तत्राविद्या(ऽ)प्रसक्त्या मुक्तत्वव्याघातेनाविद्यकत्वस्य च अनुपपन्नत्वादिति भावः ।
परिमल
पर्यवसानोपपत्तिं पर्यवसानस्योपपन्नत्वम् । सर्वत्रेत्यनुवादः, तृणादानादावपीति व्याख्यानम् ॥ अंशितापि वेति । एकदेशेन प्रवृत्तौ इति योज्यम् ॥ अनुभवश्रुतीति । अनुभवश्रुतिभ्यां यथाक्रमं विरोध इत्यर्थः ।
**वाक्यार्थरत्नमाला **
विवक्षितार्थ इति मूलम् । तत्रार्थे बाधकथनपरतयेत्यर्थः । भागेन कार्यानुगुणांशेनेत्येतदिति । ननु तृणादानादौ किञ्चित्सामर्थ्येत्यादिप्रागुक्तरीत्या आशङ्कापरिहाराय सर्वसङ्ग्राहकतया तात्पर्यकथनमेतदिति व्याख्येयमित्यर्थः । कृत्स्नप्रयत्नांशिते इति । कृत्स्न-प्रयत्नांशितावेत्यर्थः । प्रतिबन्धेनेत्यतः पूर्वं तयेति शेषः । निमित्तनैमित्तिकभावस्य स्फुटत्वेनति । स्वतः कर्त्तृत्वे तृणादानादिषु सम्पूर्णसामर्थ्यं योजयति, एकदेशेन वा प्रयोजयतीति पक्षद्वयप्राप्त्या कृत्स्नप्रसक्तयादिप्राप्तमेवेति निमित्तनैमित्तिकभावस्य स्फुटत्वमित्यर्थः । तस्याविद्यकत्वसाधकत्वेनेति पाठः स्वरसः । अविद्यात्मक पाठेऽप्याविद्यकत्वमेवार्थः । उपादानोपादेययोरभेदाशयेन तथोक्ति-रित्यवधेयम् । साधकत्वं तु प्रपञ्चानिर्वचनत्वाङ्गीकारेण प्रपञ्चान्तर्गतकर्तत्वे युक्तिविरोधोऽनिर्वचनीयता-मुपपादयति । युक्तया घटमानत्वेऽविधात्ववत्कर्तृत्वस्य दुर्घटत्वोपपत्तेरित्याशयः । एवम-प्रामाणिकेत्युक्तमप्रमाणिकत्वं व्याख्यायानुपपन्नेत्युक्तानुपपन्नत्वं चोपपादयति । किञ्जीव इति । उपाधिकृतांशत्वस्येति । अनुपपन्नत्वादिति वक्ष्यमाणेनान्वयः । आविकस्य चेति चशब्दयुक्तः पाठः । अनुपपन्नत्वाच्चेति भाव इति पाठः ।