ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ
॥ अथ इतरव्यपदेशाधिकरणम् ॥
भगवतोऽचिन्त्यशक्तया जीवकर्तृत्वम्
ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ
**सुधा **
ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ ॥ अस्मिन्नधिकरणे जीवकर्तृत्वपक्षः श्रुतिप्राप्तो विस्तरान्निराक्रियत इति भाष्यम् । अत्र वक्तव्यम् । किमत्र जीवस्य सर्वथा कर्तृत्वं निराक्रियते । उतेश्वराधीनं तदङ्गीकृत्य स्वातन्त्र्यमात्रम् । नाद्यः । तथा सति कर्ता शास्त्रार्थ-वत्त्वादित्यादिवक्ष्यमाणविरोधापत्तेः । स्वतःकर्तृत्वानुपपत्तिरित्यादिविशेषणवैयर्थ्यप्रसङ्गाच्च । न द्वितीयः । हित करणादिदोषप्रसक्तिरित्यादिसूत्राणां स्वातन्त्र्यनिराकरणपरत्वेन शक्ययोजनत्वेऽपि कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वेत्यस्य सूत्रस्याशक्यव्याख्यानत्वात् । इदं हि सूत्रं सर्वथा कर्तृत्वं निराकुर्वदुपलभ्यते ।
तथा हि । कर्तृत्वं कृत्स्नैकदेशाभ्यां व्याप्तम् । तत्र कृत्स्नप्रसक्तावनुभवविरोधः । एकदेशाङ्गीकारे च ‘अथ यः स जीवः स नित्यो निरवयवः’ इत्यनंशत्वश्रुतिव्याकोपः स्यात् । न हि सामर्थ्या-परपर्यायं प्रयत्नादिरूपं कर्तृत्वमस्माकं जीवाद्भिन्नम् । येन तस्य विचित्रत्वेऽपि जीवस्य निरंशत्वं न व्याहन्येत । ततो व्यापकनिवृत्त्या व्याप्यं कर्तृत्वमपि निवर्तत इति खल्वस्य(त्र) तात्पर्यं प्रतीयते । प्रसङ्गस्य विपर्यये पर्यवसानावश्यम्भावात् ॥ अत जीवकर्तृत्वस्येश्वराधीनतानङ्गीकार एवैर्तो प्रसङ्गावुक्तौ न कर्तृत्वमात्रे । तथा चेश्वराधीनत्वमेव विपर्ययपर्यवसानलभ्यं भविष्यतीति चेन्न । स्यादप्येवं यदि जीवकर्तृत्वस्येश्वराधीनत्वाङ्गीकारेणेमौ प्रसङ्गौ शक्यसमाधानौ स्याताम् । न चैवं पराधीनेनापि खल्वनेन कृत्स्नेन वा कर्तव्यमेकदेशेन वा । तृतीयप्रकाराभावात् । भावे वा तेनैवापराधीनत्वेऽपि कर्तृत्वोपपत्तेः । अतो विपर्ययापर्यवसानान्नैवं व्याख्यानं युक्तमिति कर्तृत्वाभव एव तात्पर्यम् । तथा च वक्ष्यमाणविरोधः ॥ अथ वस्तुतो नास्त्येव जीवस्य कर्तृत्वम्, आभिमानिकं तु तदित्यविरोधः । मैवम् । विहारोपदेशादित्यादिना वास्तवस्यैव तस्य साधयिष्यमाणत्वात् ।
अतो दुर्घटमेतदधिकरणमित्यतो द्वितीयपक्षमङ्गीकृत्य प्रसङ्गौ जीवकर्तृत्वस्येश्वराधीन तानङ्गीकारविषयौ व्याकरिष्यन्नादौ तावदीश्वराधीनताङ्गीकारे प्रसङ्गनिवृत्तिप्रकारमागमवाक्यो-दाहरणेन दर्शयति अनंशस्यापीति ।
अनुव्याख्यानम्
ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ ॥
अनंशस्यापि जीवस्य किञ्चित्सामर्थ्ययोजनाम् ॥
कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे ॥
किञ्चित्सामर्थ्ययोजनां कार्यानुरूपसामर्थ्यप्रयोगम् । स्वयम्भुवे स्वतन्त्राय । इति वचना-दवसितोऽयमभिप्रेतो ऽर्थ इत्यनुवर्तते ॥ ततश्चैतदुक्तं भवति । यदि जीवः परमेश्वराधीनतया कर्ताङ्गीक्रियते । तदोपपद्यते एव तस्य कर्तृत्वम् । प्रसङ्गयोः समाधातुं शक्यत्वात् । अनंशत्व-स्याभ्युपगमेन हि न निरवयवत्वशब्दकोपः । अनंशस्यापि परमेश्वराचिन्त्यशक्तिवशेन कार्यानु-रूपसामर्थ्यप्रयोगसम्भवान्न कृत्स्नप्रसक्तिरिति । एतच्चानुपदं स्फुटीभविष्यति ।
**शेषवाक्यार्थचन्द्रिका **
ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ ॥ ननु समयप्राप्तस्य जीवकर्तृत्वस्य समयपादे ‘अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात्’ इत्यत्र निराकरिष्यमाणत्वात् । श्रुतिसंवादियुक्तिप्राप्तस्य च ‘एतेन शिष्टा’ इत्यत्र निषिद्धत्वादनर्थकमेतदिति गतार्थताशङ्का-परिहारेणाधिकरणारम्भस्याधिकरणान्तर इवेहाप्यवश्यं समर्थनीयत्वात्तदसमर्थनं दोषायेत्यतो भाष्य एव तस्य समर्थितत्वान्न तदसमर्थनमात्रं दोषायेत्यभिप्रेत्य गतार्थताशङ्कानिरासकं भाष्यमेवोदाहरति अस्मिन्नधिकरण इति । ननु ‘अनंशस्यापी’त्याद्युत्तरभाष्यमनर्थकम् । न चागमोदाहरणार्थं तदिति वाच्यम् । तस्याप्यानर्थक्यात् ।
न चेश्वराधीनत्वाङ्गीकारे कर्तृत्वस्य प्रसङ्गनिवृत्तिप्रकारोपदर्शनार्थत्वान्न तदिति वाच्यम् । कर्तृ-त्वस्येश्वराधीनत्वाङ्गीकारे प्रसङ्गनिवृत्तिप्रकारोपदर्शनस्याप्यनर्थकत्वात् । न च जीवकर्तृत्वस्येश्वरा-नधीनत्वे ‘कृत्स्नप्रसक्तिरि’ति सूत्रोक्तप्रसङ्गस्य श्लिष्टत्वसिध्द्यर्थत्वान्न तदुपदर्शनस्यानर्थक्यमिति वाच्यम् । जीवस्य कर्तृत्वमात्रेऽपि सूत्रोक्तस्य प्रसङ्गस्य श्लिष्टत्वेन तत्परित्यागेनेश्वराधीनत्वे कर्तृत्वस्य सूत्रोक्तप्रसङ्गव्युत्पादने निमित्ताभावादित्याशङ्क्यैतदधिकरणदुर्घटत्वशङ्कानिरासार्थत्वात्तत्पर्यन्तधाव-नोपपत्तेरित्यभिप्रेत्य, स्यादेतदेवं यद्यधिकरणस्य दुर्घटत्वमेव भवेत् । तदेव कथमित्यतस्तद्दर्शयितुं तावद्विकल्पयति अत्र वक्तव्यमिति ॥ तथा सतीति । आदिपदेन ‘विहारोपदेशादि’ति सूत्रपरिग्रहः । तत्र कर्तृत्वस्य तत्सत्यत्वस्य च समर्थयिष्यमाणत्वादिति भावः ॥ विशेषणवैयर्थ्येति । ‘अश्मादिवच्च तदनुपपत्तिरि’त्येतत्सूत्रभाष्य इति शेषः । तत्रादिपदेनाश्मादिवदस्वतन्त्रत्वादित्यक्तास्वातन्त्र्यपरिग्रहः । कर्तृत्वमात्रनिरासकत्वेऽकर्तृत्वादित्यवक्ष्यदिति भावः । अस्तु तर्हि स्वातन्त्र्यं निराक्रियते इति द्वितीयः, तत्रोक्तदोषाप्रसरादित्यत आह नेति ॥ शक्ययोजनत्वेऽपीति । यदि जीवः स्वतन्त्रकर्तेत्युच्यते, तर्हि हिताकरणमहितकरणं च न स्यात् । न हि स्वतन्त्रः प्रेक्षावान्स्वहितं न करोति स्वाहितं च करोतीति सम्भवति । तथा च सकलस्यापि जनस्य (निज)निर्दुःखपूर्णानन्दत्वप्रसक्तिरित्यतो न स्वतन्त्रकर्ते-त्यादिरूपेण शक्ययोजनत्वेऽपीत्यर्थः । अशक्यव्याख्यानत्वादिति । स्वातन्त्र्यनिराकरणपरत्वेनेति शेषः । तत्कथमित्यतः सर्वथाकर्तृत्वनिरासकत्वप्रतीतेरित्याह इदं हीति ।
नन्वत्र सूत्रे सर्वथा न कर्तेत्यश्रवणात्कथमस्मात्तथा प्रतीतिरित्यतः साक्षात्तथाऽप्रतिभासेऽप्यर्थ-तस्तथा प्रतिभासान्नानुपपत्तिरित्यभिप्रेत्य तथा प्रतिभासमुपदर्शयति तथा हीति । कर्तृत्वमित्यादेरय-मर्थः । जीवः किं स्वकार्येषु सर्वसामर्थ्येन प्रवर्तते उतांशेनेति । नाद्यः । तथा सत्येकेनाङ्गुलिमात्रेण तृणादानादावपि पूर्णशक्त्या प्रवृत्त्यापत्तेरित्यभिप्रेत्य तत्रेष्टापत्तिं परिहरति तत्रेति । नान्त्यो ऽंशाभावादित्यभिप्रेत्य सांशत्वे बाधकमाह एकदेशेति । ननु च जीवस्य निरंशत्वेऽपि सामर्थ्यस्य सांशत्वात्सामर्थ्याशेन प्रवृत्तिर्नानुपपन्ना । न च निरंशजीवाभिन्नसामर्थ्यस्य कथं सांशत्वमपीति वाच्यम् । तस्य जीवभिन्नत्वेन तत्सम्भवादित्यतो येषां पक्षे सामर्थ्यं जीवाद्भिन्नं तेषां पक्षे जीवस्य निरंशत्वेऽपि सामर्थ्यस्य सांशत्वोपपत्त्यैकदेशेन प्रवृत्तावुक्तश्रुतिविरोधाभावेऽप्यस्माकं मते तस्य निरंशजीवाभिन्नत्वेन सांशत्वानुपपत्त्योक्तदोषतादवस्थ्यमेवेत्याह न हीति ॥ व्यापकव्यावृत्त्येति । कृत्स्नैकदेशरूपव्यापकव्यावृत्त्येत्यर्थः ॥ अवश्यम्भावादिति । विपर्ययपर्यवसानहीनस्य प्रसङ्गाभास-त्वादिति भावः ।
उक्ताविति । स्वतन्त्रकर्तृत्वं कृत्स्नैकदेशाभ्यां व्याप्तम् । तत्र कृत्स्नप्रसक्तावनुभवविरोधः । एकदेशाङ्गीकारे चानंशत्वश्रुतिविरोध इति जीवकर्तृत्वस्येश्वराधीनत्वानङ्गीकारे प्रसङ्गावुक्तावित्यर्थः ॥ न कर्तृत्वमात्र इति । येनोक्तरीत्या विपर्ययपर्यवसाने कर्तृत्वनिवृत्त्या सूत्रस्य सर्वथा कर्तृत्वमात्रनिरासकत्वं प्रसज्येतेति भावः । ईश्वराधीनत्वानङ्गीकारे प्रसङ्गोक्तावपि किं सिध्यतीत्यत आह तथा चेति । तथाच स्वातन्त्र्यं निराक्रियत इति द्वितीये नैतत्सूत्रानुपपत्तिरिति भावः । अस्तूक्तरीत्या कृत्स्नप्रसक्तिसूत्रस्य सर्वथाकर्तृत्वाभाव एव तात्पर्यं किं तावताऽपीत्यतस्तथा सति ‘कर्ता शास्त्रार्थवत्त्वादि’ति वक्ष्यमाण-विरोधः’ स्यादित्याह तथा चेति ॥ अथेति । युक्तिविरुद्धस्याविचारितरमणीयतया वास्तवत्वायोगादिति भावः । तर्हि कर्ता शास्त्रार्थवत्त्वादिति वक्ष्यमाणविरोधः स्यादित्यत आविद्यककर्तृत्वपरत्वात्तस्य न विरोधकत्वमित्याह अभिमानिकं त्विति । अत्र तदित्यतःपरं कर्ता शास्त्रार्थवत्वादित्यत्रोच्यत इति शेषः ॥ वास्तवस्यैवेति । विगलिताखिलकल्पने कैवल्येऽप्युपदिष्टस्य विहारादिकर्तृत्वस्य काल्पनिकत्वायोगात् । अन्यथाऽऽत्मनोऽपि तत्प्रसङ्गादिति भावः । आदिपदेन ‘उपादानात्’ इति सूत्रपरिग्रहः ।
द्वितीयपक्षं स्वातन्त्र्यमात्रं निराक्रियत इति द्वितीयपक्षम् । व्याकरिष्यन्निति । ‘यदियागेन कार्येषु’ इत्यादिनेति शेषः ॥ प्रसङ्गनिवृत्तिप्रकारमिति । तेन विनेश्वरानधीनत्वे कर्तृत्वस्य प्रसङ्गयोर्विपर्ययापर्यवसानादिति भावः ।
ननु तृणादानादौ किञ्चित्सामर्थ्ययोजनसम्भवेऽपि महाशिलोद्धरणादौ सम्पूर्णसामर्थ्ययोजन-स्याप्यवश्यम्भावाद्भाष्ये किञ्चिदिति कथमुक्तमित्यतः सर्वसङ्ग्राहकतया तत्तात्पर्यमाह कार्यानुरूपेति । नन्वनंशस्य जीवस्य किञ्चित्सामर्थ्ययोजनाकरणमस्मदादिष्वदृष्टं कथं तस्यापीत्यत उक्तस्य मूले स्वयम्भुव इत्यस्य प्रकृतोपयोगितयाऽर्थमाह स्वतन्त्रायेति । जीवकर्तृत्वस्येश्वराधीनत्वाङ्गीकारे प्रसङ्ग-निवृत्तिप्रकारस्यागमसिद्धत्वलाभाय भाष्येऽपेक्षितमनुवृत्त्या पूरयति इति वचनादित्यादि । श्रुतिपदं वचनमात्रपरमित्यभिप्रेत्य वचनादित्युक्तम् । कथमेतावताऽपि कर्तृत्वस्येश्वराधीनत्वे प्रसङ्गद्वय-निवृत्तिसिद्धिरित्यतो विशेषणतात्पर्योक्त्या तत्सिद्धिं दर्शयति ततश्चेति । ननु ‘व्यतिरेको गन्धवत्’ इत्यत्र जीवानां स्वांशत्वस्य वक्ष्यमाणत्वादनंशस्यापीत्यनंशत्ववचनस्य तद्विरोध इत्यत आह एतच्चेति ॥ अनुपदमिति । ‘अंशिनो हि पटाद्या ये’ इत्यत्रेत्यर्थः ।
परिमल
ॐ इतरव्यपदेशात् । ‘स्वयं कृतापि तद्-व्याख्ये’त्याद्युक्तेर्भाष्यविवरणपरमेतदनु-भाष्यमिति व्याकरिष्यन् भाष्यवाक्यं पठित्वा तद्विवरणबीजानुपपत्तिं दर्शयति अस्मिन्नित्यादिना ॥ इत्यादिविशेषणेति । भाष्योक्तस्वत इति विशेषणेत्यर्थः । आदिपदेन जीवे दृश्यमानोऽपि कार्योप-संहारोऽस्वातन्त्र्यात्परकृत एवेति भाष्यवाक्योक्तविशेषणग्रहः ॥ शक्ययोजनत्वेऽपीति । भाष्य-(उक्त)दिशेति भावः ॥ कृत्स्नप्रसक्ताविति । तृणोद्धरणादौ कार्य इति योज्यम् । प्रयत्नादिरूप-मित्यत्रादिपदेन जीवे दृश्यमानेच्छाबुद्ध्योर्ग्रहः ॥ व्यापकेति । कृत्स्नप्रसक्त्येकदेशरूपव्यापकेत्यर्थः ॥ अत्रेति । कृत्स्नेति सूत्रे । नन्वत्र सूत्रे आपाद्यमात्रोक्तेः कथं कर्तृत्वनिवृत्तिरित्यन्ततात्पर्योक्तिरित्यत आह प्रसङ्गस्येति ॥ विपर्ययापर्यवसानादिति । विपर्यये पर्यवसन्नस्य पराधीनकर्तृत्वस्यापि कृत्स्नप्रसक्त्यादि-युक्तिबाधि(पराह)तत्वादिति भावः ॥ नैवमिति । अथ जीवेत्यादिनोक्तव्याख्यानमित्यर्थः ॥ वक्ष्यमाणेति । ‘कर्ता शास्त्रार्थवत्त्वादि’ति वक्ष्यमाणेत्यर्थः ॥ वास्तवस्यैवेति । विहारकर्तृत्वस्य मुक्तिगतस्य तत्रोक्तेरिति भावः ॥ प्रसङ्गनिवृत्तीति । कृत्स्नप्रसक्त्यादियुक्तिबाधरूपानिष्टापादान-निवृत्तीत्यर्थः ॥ प्रसङ्गयोरिति । कृत्स्नप्रसक्तिर्निरवयवत्वश्रुतिव्याकोपरूपयोरित्यर्थः ॥ अनुपदमिति । ‘नैवमेव हि चेतनाः’’ इत्यादौ । तथाच ‘व्यतिरेको गन्धवदि’त्यत्र वक्ष्यमाणसांशत्वविरोधो न शङ्क्य इति भावः ।
यादुपत्यम्
ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ ॥ स्वतः कर्तृत्वेति । इदम् ‘अश्मादिवच्च तदनुपपत्तिरि’ति सूत्रभाष्यम् । तत्र स्वत इति विशेषणवैयर्थ्यप्रसङ्गादित्यर्थः । आदिपदेनाश्मादिवदस्वतन्त्रत्वमित्युक्तास्वातन्त्र्यपरिग्रहः । अन्यथाऽकर्तृत्वमिति वक्तव्यत्वात् ॥ सामर्थ्यापरपर्यायमिति । अत्रागमविसंवादपरिहाराय सामर्थ्यापरपर्यायमित्युक्तम् । जीवकर्तृत्व-निराकरणस्यैतदधिकरणप्रतिपद्यतया भाष्य उक्तत्वात् । तद्विसंवादपरिहाराय कर्तृत्वमित्युक्तम् । अनुव्याख्यानुसारेणाप्रयत्नादिरूपमित्युक्तम् । प्रयत्नपूर्वककार्योत्पादनस्यैव कर्तृत्वरूपत्वाद् यद्यपि ‘इच्छापूर्वं क्रियादानं कर्तृत्व मि’ति श्रुतिरस्ति तथाऽप्यनिष्टार्थेऽपि जीवस्य कर्तृत्वदर्शनात् । तत्सङ्ग्रहाय प्रयत्नादिरूपमित्युक्तम् । वक्ष्यमाणेति । कर्ता शास्त्रार्थवत्त्वादित्यत्र वक्ष्यमाणेत्यर्थः ॥ वास्तवस्यै-वेति । मुक्तेषूपदिष्टस्यावास्तवत्वानुपपत्तेरिति भावः । ननु ‘व्यतिरेको गन्धवदि’त्यत्र जीवानां सांशत्वस्य वक्ष्यमाणत्वात्कथमनंशस्यापीत्युक्तमित्यत आह एतच्चानुपदमिति । ‘अंशिनो हि पटाद्या ये’ इत्यत्रेत्यर्थः ।
**श्रीनिवासतीर्थीया **
तत् कर्तृत्वम् ॥ विशेषणेति । स्वत इत्युक्तस्वातन्त्र्यरूपेत्यर्थः ॥ अनुभवविरोध इति । तृणोद्धारात्कृत्स्नसामर्थ्यप्रयोगस्यानुभवविरुद्दत्वादिति भावः ॥ तस्य उक्त-रूपकर्तृत्वस्य ॥ परेति । पराधीनकर्तृत्वोपेतेनाप्यनेन जीवेनेत्यर्थः ॥ तेनैव कर्तृत्वघटकेन तृतीय-प्रकारेणैव ॥ वक्ष्यमाणेति । ‘कर्ता शास्त्रार्थवत्त्वादि’ति वक्ष्यमाणेत्यर्थः । अभिमानिकम् आविद्यकम् । अवास्तवं मिथ्याभूतमित्यर्थः ॥ वास्तवस्येति । न हि निवृत्तावविद्यायां मुक्तौ विद्यमानमवास्तवं भवतीति भावः ॥ द्वितीयपक्षमिति । ईश्वराधीनं कर्तृत्वमङ्गीकृत्य स्वातन्त्र्यमात्रं निराक्रियत इति द्वितीयपक्षमित्यर्थः ॥ जीवेऽचिन्त्यशक्त्यभावमुपपादयितुमाह न हीति ॥
**वाक्यार्थरत्नमाला **
ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ ॥ अस्मिन्नधिकरणे जीवेति मूलं न केवलमुत्तरग्रन्थोपक्षेपाय प्रवृत्तमिति न तस्य वैयर्थ्यमित्येव अपि तु गतार्थताशङ्का-निरसनेनैतदधिकरणारम्भसमर्थनस्यानुव्याख्यानेऽभावप्रयुक्तन्यूनताशङ्कापरिहारायापि प्रवृत्तमित्यत-स्तद्वैयर्थ्याभाव इत्याशयेन गतार्थताशङ्काप्रदर्शनपूर्वकं तन्निरासाभावप्रयुक्तन्यूनताशङ्कामुथाप्य तत्परिहारायोत्तरमूलस्य पर्याप्तत्वात्तदभिप्रायं कथयन्नेव तच्छङ्कानिरासकतयोत्तरमूलं तत्वप्रकाशिकां चन्द्रिकाञ्च मनसि निधायावतारयति । ननु समयेत्यादिना ॥ शङ्कान्तरनिरासकेनाप्यनेन मूलेन जीवकर्त्तृत्वनिरासरूपे प्रमेये उपक्षिप्ते सति अस्त्युत्तरग्रन्थावकाश इत्याशयेन मूलसङ्गततयोत्तरमूलं योजयति । नन्वनंशस्यापीत्यादि । न चेति । कर्त्तृत्वस्येश्वरेति पूर्वेण सम्बन्धः । प्रसङ्गेति । ततश्च कर्त्तृत्वस्येश्वराधीनत्वानङ्गीकारे यौ प्रसङ्गौ कृत्स्नप्रसक्तिनिरवयवत्वशब्दव्याकोपप्रसङ्गौ तयोः कर्त्तृ-त्वस्येश्वराधीनत्वानङ्गीकारे यो निवृत्तिप्रकार इति योजना ॥ तावदीश्वराधीनताङ्गीकारे प्रसङ्ग-निवृत्तीत्युत्तरमूलानुवादरूपत्वात्स्पष्टं प्रसङ्गादिनिरूपणाभावो न दोषायेति ज्ञेयम् । एवमुत्तरत्रापि प्रसङ्गनिवृत्तिपदस्यार्थो ज्ञेयः । सूत्रोक्तेति । अत्र कृत्स्नप्रसक्तिरितीत्यस्य प्रतीकग्रहणतया संपूर्ण-सूत्रपरत्वात्तत्सूत्रोक्तो यः प्रसङ्गस्तस्येति । जातावेकवचनम् । प्रसङ्गयोरिति यावत् । एवमुत्तरत्रापि । तत्पर्यन्तेति । ईश्वरानधीनत्वपर्यन्तेत्यर्थः । निराकुर्वदुपलभ्यते इत्येतन्मूलानन्तरं तथाहीत्यादि तात्पर्यं प्रतीयत इत्यन्तं मूलम् । तत्र तात्पर्यस्य प्रतीयमानत्वात् सूत्रस्य निराकुर्वदुपलभ्यमानतयाविवक्षितत्वेन तात्पर्यं प्रतीयत इत्यस्य तात्पर्यप्रतीतेरिति हेत्वर्थकत्वान्निराकुर्वदुपलभ्यत इति प्रतिज्ञायां हेतुलाभा-त्तदनुक्तिशङ्कानवकाश इति बोध्यम् । खलिवत्यस्यैव हिशब्दवद्धेत्वर्थकत्वात् तात्पर्यप्रतीतेरित्यर्थलाभ इत्यप्याहुः । कर्तृत्वमित्यादेरयमर्थ इत्यस्यैकदेशेत्यत्रत्येतिशब्देन सम्बन्धः । तत्रेतिशब्दावृत्तेरभि-प्रेतत्वात् । इति शब्दद्वययुक्तपाठस्तु स्पष्ट एव । आद्यस्य प्रतीकोपादानार्थत्वं, द्वितीयस्य तु अयमर्थ इत्यनेनेत्ययमर्थ इत्यर्थकथनसमाप्त्यर्थत्वमिति विवेकोपि तत्र स्पष्ट एवेति बोध्यम् ।
इदं चार्थकथनं तत्वप्रकाशिकै तन्मूलयोरेकार्थत्वकथनाय । अन्यथा तत्रोक्तेकेनाङ्गुलिमात्रेणेत्यादि दूषणस्यात्राभावेन न्यूनताशङ्का स्यात्ततोऽवश्यं वक्तव्यमधिकं तत्वप्रकाशिकानुसारेणात्र ज्ञेयमित्याशयेन विकल्पविवरणपूर्वकमधिकांशस्य स्वयमभिधानपूर्वकमितरांशकथनपरतया मूलं योजितमिति द्रष्टव्यम् । उतांशेनेतीति पाठः । मूलकाशे सत्वात्तत्वप्रकाशिकायामंशेन वेत्युक्तत्वाच्चेति ज्ञेयम् । उत नेतीति पाठस्तु लेखकागतः । तेषां पक्ष इति । वक्तुश्रुतिविरोधाभावेपीति सम्बन्धः । ….. सारेणाह । विगलिताखिलेति । कर्तत्वस्येश्वरानधीनत्व इति सम्बन्धः । प्रकृतोपयोगितयेति । अन्यथा-हेतुकथनाभाव प्रसङ्गेन तथाव्याख्येयत्वादिति भावः । न च स्वयंभूत्वमपि जीवव्यावृत्तमिति वाच्यम् । उत्पादकशून्यत्वादिरूपस्य तस्य जीवेऽपि स्वरूपापेक्षया सम्भवेन तस्य तद्-व्यावर्तकत्वादयोगादिति तात्पर्यम् । आगमसिद्धत्वलाभायेति । आगमसिद्धत्वोक्तिलाभायेत्यर्थः । अनंशत्वाभ्युपगमेन हीति मूलम् । अनंशत्वस्यैवाङ्गीकारान्न निरवयवत्वशब्दव्याकोप इत्यर्थः ।