अनवस्थाऽन्यथा हि स्यात्सर्वत्रोत्पत्तिनाशयोः
उत्पत्तिविनाशव्यवस्थाभावप्रसङ्गः
अनवस्थाऽन्यथा हि स्यात्सर्वत्रोत्पत्तिनाशयोः
**सुधा **
स्यादेतदुक्तं यद्यसत्त्वं प्रागुत्पत्तेः कार्यस्य स्यात्तदेव कुतः । तथा चात्यन्ताभिन्नं कार्यमुपादानेनेत्यतो विपक्षे बाधकप्रदर्शनेन कार्यस्य प्रागुत्पत्तेरसत्त्वमुपादानाद्भेदं चोपपादयति अनवस्थेति ।
अनुव्याख्यानम्
अनवस्थाऽन्यथा हि स्यात्सर्वत्रोत्पत्तिनाशयोः ॥
अन्यथा कार्यस्य प्रागुत्पत्तेरात्यन्तिके सत्त्वे कारणेनात्यन्ताभेदे चाङ्गीकृते सर्वत्रोत्पत्ति-नाशयोरनवस्था अव्यवस्था स्यात् । तथा हि । पटस्तन्त्वात्मकः प्रागपि सन्नेव । तथा तन्तवोऽपि स्वकारणात्मकाः सन्त एवेत्यनेन क्रमेण सर्वस्य मूलकारणात्मकत्वेनात्यन्तिकं सत्त्वं स्यात् । न च मूलकारणमुत्पद्यते विनश्यति चेति पटादीनामप्युत्पत्तिविनाशौ न स्याताम् । तथा च पटादय उत्पत्तिविनाशवन्त आत्मादयस्तद्रहिता इति लोकवेदप्रसिद्धोत्पत्तिनाशव्यवस्था न स्यादिति । उपलक्षणं चैतत् । पटादीनामुत्पत्तिविनाशाभावे तत्कारकव्यापारवैफल्यं स्यादित्यपि द्रष्टव्यम् ।
**शेषवाक्यार्थचन्द्रिका **
नन्वनवस्थाऽन्यथा हीत्युत्तरभाष्यमनर्थकम् । न चात्यन्तिकसत्त्वे कारणेनात्यन्ताभेदे चोत्पत्तिनाशयोरव्यवस्थाप्रसङ्गोपदर्शनार्थमेतदिति वाच्यम् । तदुपदर्शनस्याप्य-नर्थकत्वात् । न च प्रागुत्पत्तेः कार्यस्यासत्त्वोपपादनार्थत्वान्न तदुपदर्शनानर्थक्यमिति वाच्यम् । प्रागुत्पत्तेः कार्यस्यात्यन्तासत्त्वेऽपि बाधकाभावेनासत्त्वोपपादनस्यापि निष्फलत्वादित्यतः कार्यस्य कारणात्प्रागसत्त्वेन कार्यस्योपादानेन भिन्नाभिन्नत्वसाधनस्य प्रागुक्तस्य समर्थनार्थत्वान्न तद्वैयर्थ्य-मित्यभिप्रेत्य हेत्वसिद्धिव्युत्पादनपूर्वकं भिन्नाभिन्नत्वसाधनानुपपत्तिशङ्कामुत्थापयति स्यादेतदिति । उक्तं कार्यस्योपादानेन भिन्नाभिन्नत्वम् । तदेव कुत इति । सत्त्वे बाधकाभावादिति भावः । यद्यपि पृथगेव कार्यस्य सत्त्वमनुपलब्धिबाधितम्, इति पूर्वमेव सत्त्वे बाधकस्योक्तेर्न पुनरेतच्छङ्कावकाशः । तथाऽपि बाधकान्तरं वक्तुमियं शङ्केति ध्येयम् । नन्वत्रात्यन्तिकसत्त्वादिवाचिपदाश्रवणात्कथ-मात्यन्तिकसत्तास्वीकारे कार्यस्य बाधकोपदर्शनत्वमित्यतोऽत्रान्यथेतिपदमेव तत्परम् । तस्योक्तार्थ-विपरीताभ्युपगमे व्युत्पन्नत्वात् । प्रागुत्पत्तेः कारणाकारेण सत्त्वे सति कार्याकारेणासत्त्वादेरेव पूर्वत्रोक्तत्वेनात्यन्तसत्त्वादिस्वीकारस्यैवोक्तार्थविपरीताभ्युपगमरूपत्वादिति भावेनान्यथेति पदं विपक्षोपदर्शकतया व्याचष्टे अन्यथेति । तथाऽपि व्यवस्थाभावरूपाऽऽपाद्यार्थवाचकाभावेन तत्समर्पणासम्भवान्नास्य बाधकोपदर्शनपरत्वमित्यतोऽनवस्थापदमेव तत्समर्पकं बाधितत्वेन प्रसिद्धानवस्थापरतायाः प्रकृतेऽयोगादिति भावेन तत्परतया तव्द्याचष्टे अनवस्थेति । नन्वात्यन्तिक-सत्तास्वीकारे कारणेनात्यन्ताभेदाङ्गीकारेऽपि चोत्पत्तिनाशव्यवस्थोपपत्तेरप्रयोजकत्वमित्यतो नात्रा-त्यन्तिकसत्तादिस्वीकारेण साक्षादव्यवस्थामापादयामः किन्तु पटादीनामुत्पत्तिनाशाभावापादनद्वारा ततो नाप्रयोजकत्वमित्यभिप्रेत्य कथमात्यन्तिकसत्तादिस्वीकारे तेषामुत्पत्तिनाशाभावप्रसङ्ग इत्यतस्त-मुपपादयति यथा हीति । एवमुत्पत्तिनाशाभावापादनमुपपाद्य तेनाव्यवस्थापादनमव्यवस्थाप्रकारदर्शनने दर्शयति तथा चेति । नास्त्येव तादृशी व्यवस्थेति तदभावापादनं नानिष्टमित्याशङ्क्य भाष्ये हिशब्देनोक्तव्यवस्थायाः प्रामाणिकत्वदर्शनेन तदभावस्य प्रामाणिकहानरूपत्वेनानिष्टत्वसूचनात्तदा-पादनमनिष्टमेवेत्यभिप्रेत्य हिशब्दाभिप्रायमाह लोकवेदप्रसिद्धेति । मूले, पटादीनामुत्पत्तिविनाशाभावे तव्द्यवस्थाऽभावापादनं तस्यापि सम्भवामात्राभिप्रायेण न तु दोषान्तराभावाद् इत्यभिप्रेत्यान्तरङ्ग-दोषोपलक्षणपरतया भाष्यं व्याचष्टे उपलक्षणं चैतदिति ।
श्रीनिवासतीर्थीया
आत्यन्तिकसत्त्वे कार्यात्मनाऽपि सत्त्वे ॥ तथा चेति । उत्पत्तेः प्रागसत्त्वाभावे सतीत्यर्थः ॥ आत्यन्तिकेति । कार्यात्मनाऽपीत्यर्थः ।
**वाक्यार्थरत्नमाला **
हेत्वसिद्धीति । हेतुविशेष्यासिद्धीत्यर्थः । आत्यन्तिकसत्त्वादीति । आदिपदेन कारणेनात्यन्ताभेदपरिग्रहः । कथमस्येति । कार्यस्यात्यन्तिकसत्त्वास्वीकारे कथमस्य बाधकप्रदर्शनत्वमिति सम्बन्धः । कार्याकारेणासत्वादेरेवेति । आदिपदेन भेदाभेदपरिग्रहः । अत्यन्तसत्वादीत्यादिपदेनात्यन्ताभेदपरिग्रहः । प्रसिद्धानवस्थार्थकस्यानवस्थापदस्य कथं व्यवस्था-भावार्थत्वमित्यत आह । बाधितत्वेनेति । अनवस्थापदस्येति वचनपरिणामेनानुवर्तते । तत्पर-तयेत्यत्रानवस्थापदमिति यथाश्रुतमेव मण्डूकप्लुत्या अनुवर्त्तते । अत्यन्ताभेदाङ्गीकारेऽपि चेति पाठः । आत्मादयस्त्विति मूलम् । महदादिसृष्टावात्मन उपादानत्वं मन्यमानानामिव प्रकृत्यादेरुपादानत्वं मन्यमानानामपि अत्यन्ताभेदाङ्गीकारे एतद्दूषणानिस्तार इत्याशयेनात्मादय इत्यादिपदप्रयोगः । एतेनोपादानानन्यताया एव परेणाभिधानादुपादानतायाश्चात्मन्येव सत्वेन तन्मात्रोपादनमुचितमिति शङ्का निरस्ता भवति । तस्यापि सम्भवेति । तद्-व्यवस्थाभावापादानरूपदूषणस्यापि सम्भवमात्रेणेत्यर्थः । एतदपि दूषणमत्र सम्भवतीत्याशयेनेति यावत् । भाष्यस्योत्पत्तीत्यतः प्रागेवमिति शेषः ।