०७ सत्कार्यवादभङ्गः

असद्यत्कार्यरूपेण कारणात्मतयाऽस्ति हि

सत्कार्यवादभङ्गः

असद्यत्कार्यरूपेण कारणात्मतयाऽस्ति हि

**सुधा **

यच्च कार्यस्य प्रागुत्पत्तेः सत्त्वमुक्तं तदपि नोपपन्नमित्याह असदिति ।

यद् घटादिकं प्रागुत्पत्तेरस्तीत्यावयोः सम्मतम् । तदेव तदाऽसच्च यस्मात्तस्मात्सदसदेवेति सत्कार्यवादोऽनुपपन्न एव । तस्यैव तदैव तत्रैव सत्त्वमसत्त्वं च विरुद्धमिति चेन्न । रूपभेदेन अविरोधाद् इत्याशयेनोक्तं कारणात्मतया कार्यरूपेणेति । नन्वेवं सति किञ्चित्सदेव किञ्चिद् असदेव सदसत्तु न किमपि स्यात् । न स्यात् । तयोरपि रूपयोरत्यन्तभेदाभावादिति ।

**शेषवाक्यार्थचन्द्रिका **

उक्तयोजनायां कार्यस्य कारणानन्यत्वरूपप्रमेयैकदेशस्य भाष्ये निरासेऽपि सत्कार्यवादरूपप्रमेयैकदेशस्यानिरस्ततयाऽधिकरणप्रमेयस्य प्रागुत्पत्तेः कार्यस्य सत्त्वं कारणानन्यत्वं चेत्यस्य निरासो न सिध्यतीत्यतस्तत्सिद्ध्यर्थमसद्यदिति भाष्यमेव तन्निरासपरतयाऽपि योजयति यच्चेति । अत्र पूर्वयोजना न सङ्गतेत्यर्थतः सत्कार्यवादनिरासोपयोगितया भाष्यं योजयति यद्घटादिकमिति । एवं प्रयोजनायां कार्यरूपेण कारणात्मतयेति विशेषणनैरपेक्ष्येणैव सत्कार्यवाद-निराससिद्धेस्तद्वैयर्थ्यमित्यतो विरोधशङ्कापरिहारार्थत्वान्न तदिति भावेन विरोधशङ्कानिवर्तकतया तद्योजयितुं तच्छङ्कामुत्थापयति तस्यैवेति । अत्र तस्यैवेति प्रतियोगिभेदनिराकरणम् । तदैवेति कालभेदनिराकरणं तत्रैवेत्याश्रयभेदनिराकरणम् । अयमर्थः । भेदो हि विरोधशान्तिहेतुः । तथा हि । क्वचित्प्रतियोगिभेदः । यथा गवयो गोघटाभ्यां सदृशो विसदृशश्चेति । क्वचित्कालभेदो यथा मधुरायामेव देवदत्तस्य भावा भावौ । क्वचिदाश्रयभेदो यथा मधुरायाम् । देवदत्तस्य भावः सृध्ने तदभावः । न चात्र विराधशान्तिहेतुभूतः क्वचिदपि भेदोऽस्ति । तत्कथं न विरोध इति । न देशकालप्रतियोगिभेदमात्रं विरोधशान्तिहेतुः । एकस्यैव घटस्यैकत्रैकदैव घटत्वेन रूपेण सद्भावस्य पटत्वेन रूपेणासद्भावस्य च दर्शनेन देशादिभेदस्यैव रूपभेदस्यापि विरोधशान्तिहेतुत्वेन क्लृप्तत्वात्तदिहापि प्रतियोग्यादिभेदाभावेऽपि रूपभेदेन भावाभावयोरुपपत्तेरित्याशयेनाह रूपेति । कार्यकारणाकारयोरत्यन्तभेदं मन्वानश्शङ्कते नन्विति । भवेदेतदेवं यदि तयो रूपयोरत्यन्तभेदः स्यान्न चैवमित्याह न स्यादिति ।

परिमल

चशब्दाध्याहारेणार्थमाह असच्चेति । हेरर्थो यस्मादिति ॥ किञ्चिदिति । कारण-मित्यर्थः । पुनः किञ्चिदित्यस्य कार्यमित्यर्थः । निराह न स्यादिति । अनवस्था स्यादित्यनूदितस्यार्थ इति सर्वजनसम्मता व्यवस्था न स्यादिति ।

श्रीनिवासतीर्थीया

सत्त्वमुक्तम् अत्यन्तसत्त्वमुक्तम् । किञ्चित् कारणरूपम् । किञ्चित् कार्यरूपम् । किमपीति । एकं वस्त्वित्यर्थः ॥ अत्यन्तेति । तथा च कार्यात्मकत्वकारणात्मकत्वरूपयो रूपिणः सकाशादभेदस्यापि सत्त्वेनैकमेव वस्तु सदसदात्मकमित्यर्थः ।

**वाक्यार्थरत्नमाला **

सत्कार्यवादरूपप्रमेयैकदेशस्येति । एकदेशान्तरस्येत्यर्थः । विशेषमेव संश्रित्य ‘‘विशेषो बलवानि’’त्येतद्वैशेषिकपरीक्षानुव्याख्यानव्याख्यानरूपमूलोक्तव्युत्पादनानुसारेणाह । अयमर्थः । भेदो हीति । अभेदवादिशङ्कात्वायोगादाह । अत्यन्तभेदं मन्वान इति ।