०५ अभेदवादप्रत्याख्यानम्

नित्यभेदो निमित्तेन हि

अभेदवादप्रत्याख्यानम्

नित्यभेदो निमित्तेन हि

**सुधा **

अत्र सूत्राक्षराणामार्जवानार्जवादिचिन्ता शिष्यैरेव क्रियतामित्याशयवान् यदुक्तं कारणात्कार्यस्यानन्यत्वं तत्तावन्निराकरिष्यन् किमनेन प्रबन्धेन निमित्तकारणानन्यत्वं कार्य-स्योपपादितम्, उतोपादानकारणानन्यत्वमिति विकल्पं चेतसि निधायाद्यं निराकरोति नित्यभेद इति ।

अनुव्याख्यानम्

नित्यभेदो निमित्तेन हि ………

नित्यशब्दो नियमार्थः । भेद एवेति । कार्यस्येति शेषः । हीति सर्वप्रमाणप्रसिद्धिं सूचयति । तथा च सर्वमिदं बाधितविषयमिति ।

न द्वितीयः, प्रकृतानुपयोगात् ।

**शेषवाक्यार्थचन्द्रिका **

ननु ‘नित्यभेदो निमित्तेन ह्युपादानेन तु द्वयम्’ इत्युत्तरभाष्ये ‘भावे च’ इत्यादिसूत्राणामार्जवानार्जवादिचिन्ता न क्रियत इति कथमस्यापव्याख्याननिरासकत्वम् । न च सूत्राक्षराणामार्जवानार्जवादिचिन्ताकरणस्य तस्य दूषणत्वेऽपि न तदेव तद्दूषणं किन्नाम प्रमेय-निराकरणमपि । तथा च नित्यभेद इत्युत्तरभाष्यस्य सूत्राक्षराणामार्जवानार्जवादिचिन्ताकरण-रूपत्वाभावेऽपि कार्यस्य कारणानन्यत्वरूपतत्प्रमेयनिरासकत्वाद्युक्तमस्य तत्प्रत्याख्यानत्वमिति वाच्यम् ॥ प्रमेयनिराकरणापेक्षयाऽऽर्जवानार्जवादिचिन्ताकरणस्यान्तरङ्गतया सति सम्भवे तत्परित्यागेन प्रमेयमात्रनिराकरणायोगात् । उपादेयस्योपादानादनन्यताया एव भावे चेत्यादिसूत्रप्रमेयतया परस्यभि-मतत्वेन कार्यस्य निमित्तकारणादन्यतायास्तदभिमतत्वेन ‘उपादानेन तु द्वयमि’त्येतावतैवाभिमतप्रमेय-निराससिद्ध््या कार्यस्य निमित्तकारणेनात्यन्ताभेदाभावोपपादकस्य नित्यभेदो निमित्तेन हि’ इति भाष्य खण्डस्यानर्थक्यानिस्ताराच्चेत्यतोऽन्तरङ्गत्वेऽप्यार्जवानार्जवादिचिन्तायाः स्पष्टत्वेन शिष्यैरेव कर्तुं शक्य-त्वान्न स्वयं तत्करणमुचितमित्याशयवतो भाष्यकारस्य तत्परित्यागेन प्रमेयमात्रनिराकरणं न दोषाये-त्यभिप्रेत्य भाष्यकारीयमार्जवानार्जवादिचिन्ताऽकरणं तावदुपपादयति अत्रेति । स्पष्टत्वादिति शेषः ।

कार्यस्योपादानानन्यतायाः सूत्रप्रमेयतया परस्याभिमतत्वेऽपि कार्यस्य कारणानन्यत्वमिति परोक्तेः सामान्यत्वेन तदुक्त्या प्रसक्तस्य कार्ये उपादानानन्यत्वस्य ‘उपादानेन तु द्वयम्’ इत्यनेन निराससिद्धावपि तदुक्त्यैव प्रसक्तस्य निमित्ताभेदस्य तेनानिरस्ततया तन्निरासार्थत्वान्न नित्यभेद इत्युत्तरभाष्यखण्डवैयर्थ्यमपीत्यभिप्रेत्य प्रसक्तपक्षद्वयनिरासकतया भाष्यखण्डं योजयितुं सम्भावित-विकल्पप्रदर्शनपूर्वकं तदनुक्त्याऽपि प्रसक्तां भाष्ये न्यूनतां परिहरति यदुक्तमित्यादिना । भेदस्य नित्यताकथनस्य प्रकृतानुपयोगात्प्रकृतोपयुक्तमर्थमाह नित्यशब्द इति । तदेव दर्शयति भेद एवेतीति । प्रतिबन्द्यनुक्तेराह कार्यस्येति शेष इति । भाष्ये हिशब्दस्यानर्थक्यमाशङ्क्य कार्यस्य निमित्तेनात्यन्तभेद-प्रतिपादकप्रमाणसिद्धिसूचनार्थत्वान्न तदित्याह हीति सर्वेति । उक्तार्थस्य सर्वप्रमाणप्रसिद्धत्व-सूचनेनापि किमित्यत आह तथा चेति ॥ सर्वमिदमिति । कार्यस्य कारणानन्यत्वसाधकतयोपन्यस्तं युक्तिजातमित्यर्थः । अत्र पक्षे प्रकृतानुपयोगरूपस्पष्टदोषानुक्तिर्भाष्यकाराणामयुक्ता इत्यत उक्त-प्रायत्वात्पृथक्तदनुक्तिर्न दोषायेत्यभिप्रेत्य स्वयं प्रकृतानुपयोगमाह प्रकृतेति ।

परिमल

आर्जवानार्जवेति । यथाक्रमं स्वपरपक्षयोरिति भावः ॥ शिष्यैरिति । सा च चिता चन्द्रिकाकारैः कृता ध्येया । अत्राप्यग्रे अनवस्थेति वाक्यव्याख्यानान्तरं करिष्यते । प्रबन्धेनेति । तदनन्यत्वमित्यादिसूत्रसन्दर्भेणेत्यर्थः ।

यादुपत्यम्

आर्जवानार्जवादिचिन्तेति । अस्मन्मते आर्जवं परमते त्वनार्जवमिति चिन्तेत्यर्थः। आदिपदेन प्रकृतानुगुण्यागतार्थत्वादिपरिग्रहः ॥ उक्तप्रायमिति । प्रकृत्यधिकरण इति शेषः ।

**वाक्यार्थरत्नमाला **

तदनभिमतत्वेनोपादानेन तु द्वयमित्येव पाठः । द्वितीयनकरो लेखकागतः। उपादानेन तु द्वयमित्येनेनेति । इत्युत्तरभाष्यखण्डेनेत्यर्थः । नित्यभेद इत्युत्तरभाष्यखण्डेति वक्ष्यमाणानुसारात् । तेन भेदेत्यस्योपादानेन तु द्वयमित्येतदुत्तरत्वप्रतीतिर्निराकृता उत्तरभाष्येति । उत्तरभाष्यपूर्वखण्डेत्यर्थः । तमेव दर्शयति भेदे एवेतीति पाठः । तदेवेति पाठे नियमार्थत्वमेवेत्यर्थः ।