०४ मायावादिव्याख्यानम्

शक्तोऽपि ह्यन्यथा कर्तुं स्वेच्छ नियमतो हरिः

मायावादिव्याख्यानम्

शक्तोऽपि ह्यन्यथा कर्तुं स्वेच्छ नियमतो हरिः

**सुधा **

अन्ये पुनरन्यथैतानि सूत्राणि वर्णयन्ति । तथा हि । भावे चोपलब्धेः । मृदादेः कारणस्य भाव एव घटादेः कार्यस्योपलब्धेश्चानन्यत्वं कारणात्कार्यस्य । न हि यद्यतो भिन्नं तत्तद्भाव एवोपलभ्यते । न ह्यश्वो गोतोऽन्यो गोर्भाव एवोपलभ्यते । किञ्च, भावे तिलादौ कारणे, तैलाद्युपलभ्यते । कार्ये च भावे कुण्डलादौ सुवर्णादिकम् । अतश्च तदभेदसिद्धिः ।

सत्वाच्चावरस्य । अवरकालीनस्य कार्यस्य प्रागुत्पत्तेः ‘सदेव सोम्येदमग्र आसी’दिति सत्त्वावधारणाच्चानन्यत्वं कारणात्कार्यस्य ।

असद्य्वपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् । ‘असदेवेदमग्र आसीत्’, ‘असद्वा इदमग्र आसी’दिति प्रागुत्पत्तेः कार्यस्यासत्त्वव्यपदेशान्नेति चेन्न । भवेदेतद्यदि कार्यस्वरूपाभिप्रायेणायं व्यपदेशः स्यात्किन्तु व्यक्तत्वलक्षणधर्मान्तराभिप्रायेण । कुतः । वाक्यशेषात् । असदेवेदमग्र आसीद् इत्यसच्छब्देनोपक्रमे निर्दिष्टं पुनस्तत्सदासीदिति वाक्यशेषे निर्दिशति । असद्वेत्यत्रापि ‘तदात्मानं स्वयमकुरुते’ति । तेन ज्ञायते नासत्कार्यं धर्मान्तरेणैवासत्त्वव्यपदेश इति ।

युक्तेः शब्दान्तराच्च । युक्तेश्च कार्यस्य प्रागुत्पत्तेः सत्त्वं कारणादनन्यत्वं च गम्यते । शब्दान्तराच्च युक्तिस्तावदसदकरणादित्यादिका साङ्ख्योक्ता । वृत्तिविकल्पानुपपत्त्यादिका च सौगतोक्ता । शब्दान्तरं चासद्य्वपदेशादन्यः ‘सदेव सोम्येदमग्र आसी’दित्यादिसद्य्वपदेशः ।

पटवच्च । संवेष्टितप्रसारितपटन्यायेनेदं कारणात्कार्यस्यानन्यत्वं प्रागुत्पत्तेः सत्त्वं च प्रतिपत्तव्यम् ।

यथा प्राणादिः । प्राणायामेन निरुद्धा प्राणापानादयो यथा तथा चेति ।

**शेषवाक्यार्थचन्द्रिका **

‘नित्यभेदो निमित्तेन ह्युपादानेन तु द्वयम्’ इत्युत्तरभाष्ये कार्यस्य निमित्तकारणेन भेद एव नाभेदः । उपादेयस्य चोपादानेन भेदाभेदावेव नाभेद इति प्रतिपादना-नर्थक्यमाशङ्क्य ‘भावे चोपलब्धेः’ इत्यादिसूत्रीयापव्याख्यानप्रत्याख्यानार्थत्वान्न तदिति भावेन तन्निरा-करणपरतयोत्तरभाष्यं योजयितुं भावे चेत्यादिसूत्राणामपव्याख्यानमनुवदति अन्ये पुनरित्यादिना ।

कार्यस्य कारणानन्यत्वेऽनुमानप्रमाणमाह भावे चापलब्धेरिति । कार्यं कारणादभिन्नं, तद्भाव उपलब्धेरित्यापातसिद्धसूत्रार्थे दोषं दृष्ट्वा व्याख्याति मृदादेः कारणस्य भाव एवेत्यादिना । मृदादेरित्यादिपदेन तन्त्वादिपरिग्रहः । घटादेरित्यादिपदेन च पटादिपरिग्रहः । भावे चेति चशब्दे भिन्न क्रम इत्यभिप्रेत्योक्तमुपलब्धेश्चेति । नन्वन्तरेणैव कार्यस्य कारणानन्यत्वं तद्भावे भावस्तदुप-लब्धावुपलब्धिश्च भविष्यति । सत्यपि घटाभावे पटाभावस्य घटोपलम्भे पटोपलम्भस्य च दर्शनात् । ततश्चाप्रयोजत्वान्नोक्तहेतुना कार्यस्य तदनन्यत्वसाधनं सम्भवतीत्याशङ्क्यानन्यत्वमन्तरेणापि तत्त-द्भावोपलम्भसम्भवेऽपि नियततद्भावोपलम्भानुपपत्त्या हेतूच्छित्तिरेव विपक्षे बाधिकेति नाप्रयोजकत्व-मित्याशयेनाह न हीति । अन्यस्य भावोपलम्भयोरन्यस्य भावोपलम्भावनियतावित्यत्र दृष्टान्तमाह न हीति । न च गवाश्वयोरकार्यकारणत्वात्तद्भावोपलम्भानियमेऽपि कार्यकारणयोरनन्यत्वमन्तरेणैव कार्यकारणभावमात्रेण तद्भावोपलब्धिनियमोऽपि स्यादिति वाच्यम् । कुलालघटयोः सत्यपि निमित्तनैमित्तिकभावे तद्भावोपलम्भानियतेरेव दर्शनेन कार्यकारणभावमात्रेण तद्भावोपलम्भनियमानु-पपत्त्याऽनन्यत्वमन्तरेण नियमघटितहेतुसमर्थनायोगादिति भावः । परस्परस्वभावानुगतिदर्शनादपि तयोरभेद इति सूत्रस्यार्थान्तरमाश्रित्याह किञ्चेति । परिणामवादिमतेनापि सूत्रार्थमाह किञ्चेतीति ।

कार्यस्य कारणानन्यत्वे श्रुतार्थापत्तिमपि प्रमाणमाह सत्त्वाच्चेति । परिणामवादिमतेनापि सूत्रार्थमाह । अवरकालीनस्य पश्चाद्भाविनः कार्यस्येति यावत् । न प्रागुत्पत्तेः सत्त्वं कारणस्यैवात्र श्रूयते न कार्यस्येति कथमेतस्य तत्र प्रमाणीकरणमिति वाच्यम् । अग्रे सृष्टेः पूर्वमिदं यदिदानीं स्थूलं कार्यं दृष्यते तत्सदेवासीदितीदंशब्दगृहीतस्य कार्यस्य कारणेन सता सामानाधिकरण्येन निर्देशा-त्तदन्यथाऽनुपपत्त्या तत्तादात्म्यावगमेन वस्तुभेदो नास्तीत्याशयात् । प्रागुत्पत्तेः सत्त्वं कारणात्मना कार्यस्येत्युक्तमर्थमाक्षिप्य समाधत्ते असदिति । तत्र चोद्यं विभजते असदेवेत्यादिना । इदंशब्दगृहीतस्य कार्यस्य असता सामानाधिकरण्यदर्शनात् । तदन्यथाऽनुपपत्त्याऽसत्त्वसिद्धिरिति भावः । परिहार-भागमवतारयति नेति । नञर्थमाह भवेदेतदिति । तर्हि केनाभिप्रायेणायमसद्य्वपदेश इत्याशङ्क्य धर्मान्तरेणेति व्याचष्टे । किन्त्विति । तत्र प्रश्नपूर्वकं गमकं कथयति कुत इत्यादिना । सूत्रावयवं व्याख्याति असदेवेदमिति । यथा ‘अक्ताः शर्करा उपदधाती’त्यत्र केनेति तैलघृतादौ सन्देहे ‘तेजो वै घृत’मिति वाक्यशेषाद्घृतेनेति निश्चीयते तथा ‘असदेवेदमि’त्यत्राप्यसच्छब्देन तुच्छमुच्यते, किंवा सदेवानभिव्यक्तनामरूपमिति सन्देहे तत्सदासीदिति वाक्यशेषात्तुच्छव्यावृत्तं सदेवानभिव्यक्तनाम-रूपमसच्छब्दमिति निश्चीयते । तस्य तच्छब्देन परामृष्टस्य सच्छब्देन निर्देशादित्यर्थः । ‘असद्वा इदमग्र आसीदि’त्यत्र तत्सदासीदिति वाक्यशेषाभावात्कुतो निश्चय इत्याशङ्क्याह असद्वा इति । वाक्यशेषस्य सत्कार्यविषयत्वे फलितमाह तेनेति ।

कासौ कार्यस्य प्रागुत्पत्तेः सत्त्वं कारणादनन्यत्वं च साधयन्ती युक्तिरित्यतः साङ्ख्योक्तां तामाह युक्तिस्तावदिति ॥ असदकरणादित्यादिकेति । असदकरणादित्यादिकेत्यर्थः । स चेत्थम् । कार्यं तावत्कारणव्यापारात्प्रागपि सदित्यङ्गीकार्यम् । असदकरणात् । असच्चेत्करणव्यापारात्पूर्वं कार्यं नास्य सत्त्वं शक्यं कर्तुम् । न हि नीलं शिल्पिसहस्त्रेण पीतं कर्तुं शक्यमिति । आदिपदेन कार्येण सम्बद्धं कारणं कार्यस्य जनकमसम्बद्धं वा । आद्ये त्वसता सम्बन्धानुपपत्तेः सत्त्वमङ्गीकार्यम् । नान्त्यः । असम्बद्धत्वाविशेषेण सर्वस्मात्सर्वसम्भवापत्तेरित्यादियुक्तिपरिग्रहः ॥ साङ्ख्योक्तेति । ‘असदकरणा-दुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम्’ इति तद्वचनादिति भावः ॥ वृत्तिविकल्पानुपपत्त्यादिका चेति । अवयवी अवयवेषु किं प्रत्येकं कार्त्स्न्येन वर्तते किं वैकदेशेन । आद्ये अनेकत्व प्रसङ्गः । नान्त्यः । तस्यावयवान्विहायैकदेशाभावात् । भावे वाऽत्रापि वृत्तिविकल्पप्रसङ्गात् । तथा चानवस्थेत्येवं वृत्तिविकल्पानुपपत्तिरित्यर्थः । आदिपदेन केषुचित्तन्तुषु चलत्सु तद्गतोऽवयवी चलति न वा । नेति पक्षेयुतसिद्धिप्रसङ्गः । आद्ये निश्चलावयवाश्रितो न चलतीति चलाचलत्वलक्षणो विरुद्धधर्माध्यासः स्यादित्यस्य परिग्रहः । साङ्ख्याद्युक्तयुक्त्युपजीवनात्स्वातन्त्र्येण युक्तेरिति सूत्रखण्डोक्तयुक्त्युत्प्रेक्षामात्रेऽप्यसमर्थस्य परस्य न तद्भाष्यकर्तृत्वमिति सूचयितुं साङ्ख्योक्तेति चोक्तम् । ननु युक्तेरिव शब्दादपि कार्यस्य प्रागुत्पत्तेः सत्त्वमनन्यत्वं च सिध्यतीति वक्तव्ये कथमन्तरपदमन्तराले प्रयुज्यत इत्यतः शब्दान्तरं विभजते शब्दान्तरं चेति ।

संवेष्टितप्रसारितपटन्यायेनेति । यथा हि संवेष्टितपटो न व्यक्तं गृह्यते किमयं पटः किंवान्य-द्द्रव्यमिति । स एव प्रसारितो यत्संवेष्टितं द्रव्यं स पट एवेति प्रसारणेनाभिव्यक्तो गृह्यते । तथा च संवेष्टनसमये पट इति गृह्यमाणोऽपि न विशिष्टायामविस्तारो गृह्यते । स एव च प्रसारणसमये विशिष्टायामविस्तारो गृह्यते न संवेष्टितरूपादन्योऽयं भिन्नः पट इति एवं तन्त्वादिकारणावस्थं पटादि-कार्यमस्पष्टं सत्तुरीवेमकुविन्दादिकारकव्यापाराभिव्यक्तं स्पष्टं गृह्यत इति । संवेष्टितप्रसारितपट-न्यायेनेत्यर्थः ।

प्राणायामेनेत्यादेरयमर्थः । प्राणायामेन निरुद्धाः प्राणापानादयः प्राणप्रभेदाः कारणमात्ररूपेण वर्तमाना जीवनमात्रं कार्यं निर्वर्तयन्ति नाकुञ्चनप्रसारणादिकं कार्यान्तरमपि । त एव च प्राणप्रभेदाः पुनः प्रवृत्ता जीवनादधिकमाकुञ्चनप्रसारणादिकं कार्यान्तरमपि निर्वर्तयन्ति । न च प्राणप्रभेदानां प्रभेदवतः प्राणादन्यत्वं समीरणस्वभावाविशेषात् । एवं कार्यस्य कारणादनन्यत्वमिति ।

परिमल

आद्यसूत्रापव्याख्यानस्य प्राङूनिरासादवशिष्टसूत्रापव्याख्यानमनुवदति भावे चेत्यादिना अत्र सूत्रेति पर्यन्तेन । भावपदस्य कारणं कार्यं चार्थमुपेत्य व्याख्यानान्तरं किञ्चेति । भाव इत्यनुवादः ॥ सुवर्णादिकमिति । उपलभ्यत इत्यन्वयः ॥ अवरकालीनस्येति । पश्चाद्भाविनो ऽग्रे उत्पत्तेः प्राक् इदं कार्यजातं सदेवासीदिति सत्त्वावधारणादित्यर्थः ॥ न चेदिति । कार्यं प्राक् सन्नेतिचेदित्यर्थः ॥ अकुरुतेतीति । निर्दिशतीत्यनुषङ्गः ॥ असदकरणादित्यादिकेति । ‘असद-करणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्यार्यमि’ति साङ्ख्योक्तेत्यर्थः । असतः कृतिविषयत्वाभावात्प्रागपि कार्यं सदेवेत्यन्वयः । समग्रश्लोकार्थः साङ्ख्यनये सुधायां व्यक्तः । वैभाषिकनये वक्ष्यमाणां युक्तिमाह वृत्तिविकल्पेति । स्थितिविषयविकल्पेषु सर्वकल्पानामनुपपन्नत्वादिकेत्यर्थः । कार्यकारणयोर्भेदेन कार्यं कारणाश्रितं चेत्किं कार्यं कारणेषु तन्त्वादिकेष्वेकदेशेन वृत्तिमदुत कार्त्स्न्येन । आद्ये कारणीभूतावयवा(न्यैक)नामेकदेशाभावात् । अन्त्ये तु एकैकतन्तुषु कार्स्न्येनावस्थाने कार्यस्यानेकत्वप्रसङ्गः । एकतन्तुचलने सति चलनं तन्त्वन्तरस्या-चलनादचलत्वमिति विरुद्धधर्मवत्त्वमित्यादियुक्तिरिति भावः ॥ संवेष्टितेति । यथा संवेष्टनदशाया-मव्यक्तः पटः प्रसारितो व्यक्तस् तथा प्रागुत्पत्तेरव्यक्ततया सदेव कार्यं कर्तृव्यापारेण पश्चाव्द्यज्यत इति कारणादनन्यत्वं कार्यस्येत्यर्थः । एतेन प्राणादिदृष्टान्तोपि व्याख्यातः ।

यादुपत्यम्

अनेनेति । उक्तश्रुतिद्योतकेन हिशब्देनेत्यर्थः । उदाहृतशब्दविलक्षणः शब्दः शब्दान्तरमिति व्याख्यानमत्र न सङ्गतमत आह शब्दान्तरं शब्दविशेष इति । नन्वेवं व्याख्यानेऽपि कथं सङ्गतिरित्यत आह विवक्षितार्थेति ॥ अवरकालीनस्येति । नीचकालीनस्येत्यर्थः । पश्चाद्भाविन इति यावत् ॥ सत्त्वावधारणाच्चेति । अग्र इदं सदेवासीदितीदंशब्दगृहीतस्य कार्यस्य कारणेन सत्तासामानाधिकरण्येन निर्देशादिति भावः ॥ असत्त्वव्यपदेशादिति । इदंशब्दगृहीतस्य कार्यस्यासता सामानाधिकरण्येन व्यपदेशादिति भावः ॥ उपक्रमे निर्दिष्टमिति । उपक्रमे निर्दिष्टं यत्तदेव पुनस्तच्छब्देन परामृश्य सदिति निर्दिशति ‘तत्सदासी’दिति वाक्यमित्यर्थः ॥ तदात्मानं स्वय-मकुरुतेति । निर्दिशतीत्यन्वयः । तथा चैवं वाक्यशेषे विशेषणान्नात्यन्तासत्त्वमुपक्रमे निर्दिष्टस्येत्यर्थः ॥ साङ्ख्योक्तेति । यथाऽऽह साङ्ख्यः ‘असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यमि’ति । असदकरणादित्यस्यायमर्थः । कार्यं तावत्करणव्यापारा-त्प्रागपि सदित्यङ्गीकार्यम् । असदकरणात् । असच्चेत्कारणव्यापारात्पूर्वं कार्यं नास्य सत्त्वं कर्तुं शक्यम् । न हि नीलं शिल्पिसहस्त्रेणापि पीतं कर्तुं शक्यमिति । शिष्टं साङ्ख्यपरीक्षायां स्पष्टम् ॥

सौगतोक्तेति । यथाहुः सौगताः । अवयवी किमवयवेषु प्रत्येकं कार्त्स्न्येन वर्तते किं वैकदेशेन । आद्येऽनेकत्वप्रसङ्गः । न द्वितीयः । तस्यावयवान्विहायैकदेशाभावात् । भावे वा तत्रापि वृत्ति-विकल्पप्रसङ्गात् । किञ्च केषुचित्तन्तुषु चलत्सु तद्गतोऽवयवी चलति न वा । नेति पक्षे युतसिद्धिप्रसङ्गः। आद्ये निश्चलावयवाश्रितो न चलतीति चलाचलत्वलक्षणो विरुद्धधर्माध्यासोऽतो न कारणाति-रिक्तोऽवयवी नामास्तीति । अत्र साङ्ख्योक्ता सौगतोक्तेति वचनं यद्यपि न परभाष्येऽस्ति तथाऽप्यत्र तदुक्ता युक्तिः साङ्ख्यादिभिरुक्तैव न नूतना तथा चैवं व्याख्याने सूत्रकारस्यासुज्ञत्वप्रसङ्ग इति सूचनाय स्वेनोक्तमिति ज्ञातव्यम् ॥ संवेष्टितेत्यादि । यथा संवेष्टितः पटो न व्यक्तं गृह्यते किमयं पटः किं वाऽन्यद्द्रव्यमिति स एव प्रसारितो यत्संवेष्टितं द्रव्यं स पट एवेति प्रसारणेनाभिव्यक्तो गृह्यते । एवं तन्त्वादिकारणावस्थं पटादिकार्यमस्पष्टं सत्तुरीवेमकुविन्दादिकारकव्यापाराभिव्यक्तं स्पष्टं गृह्यत इत्यर्थः ॥ प्राणापानादयो यथेत्यादि । यथा लोके प्राणापानादिषु प्राणप्रभेदेषु प्राणायामेन निरुद्धेषु कारणमात्ररूपेण वर्तमानेषु जीवनमात्रं कार्यं निर्वर्त्यते । नाकुञ्चनप्रसारणादिकं कार्यान्तरं तेष्वेव प्राणप्रभेदेषु पुनः प्रवृत्तेषु जीवनादधिकमाकुञ्चनप्रसारणादिकमपि कार्यान्तरं निर्वर्त्यते । न च प्राण-प्रभेदानां प्रभेदवतः प्राणादन्यत्वम्, समीरणस्वभावाविशेषात् । तथा कारणादनन्यत्वं कार्यस्येत्यर्थः ।

श्रीनिवासतीर्थीया

कारणे तिलादौ भावे सति इत्यर्थः । कुण्डलादौ कार्ये भावे सति तत्र कार्ये सुवर्णादिकं कारणं दृश्यत इत्यर्थः ॥ तदिति । तस्य कार्यस्य तेन कारणेनेत्यर्थः ॥ यथा तथेति । तथा च ते सन्त्येव विरोधापगमने व्यज्यन्ते तथा कार्यमपीत्यर्थः ।

**वाक्यार्थरत्नमाला **

कल्पतरूक्तरीत्यावतारयति । कार्यं कारणादभिन्नमित्यादि । दोषं दृष्ट्वेति । यद्भावे यदुपलभ्यते तत्तेनाभिन्नमिति यमो नास्ति । गोर्भावे उपलभ्यमानस्याप्यश्वादे-स्तदभेदाभावादिदोषं दृष्ट्वेत्यर्थः । व्याख्यातीति । मृदादेः कारणस्य भावे एवेत्यवधारणेन व्याख्यानात् । गोर्भावे उपलभ्यमानस्याप्यश्वादेस्तद्भाव एवोपलभ्यमानत्वाभावेन व्यभिचाराप्रसङ्गाद्युक्तं कारणभूतमृदादेर्भाव एवोपलभ्यमानस्य घटादिरूपकार्यस्य तदनन्यत्वमिति भावः प्रतीयत इत्याशयः । भाव एवेत्यादिनेति प्रतीकोपादनपाठः स्वरसः । तद्भावे तद्भावस् तदुपलब्धावुपलब्धिश्चेति । यद्यपि कारणस्य भाव एव कार्यस्योपलब्धेरिति परभाष्यानुसारिमूलग्रन्थे कारणस्य भावे भाववत्वे सति तदुपलब्धावुपलभ्यमानत्वरूपविशिष्टहेतुर्न प्रतीयत इति तद्भावे तद्भावस्तदुपलब्धावुपब्धिश्चेत्यर्थद्वयस्य हेतुशरीरान्तर्गत्यभावात्तदप्रयोजकत्वशङ्कानवकाशमर्हति । तथापि अलं प्रपञ्चेनेति वक्ष्यमाणमूलाशय-कथनपरटीकोक्तरीत्याऽत्र भावोपलब्धिशब्दयोः कार्यकारणनिष्टाभावोपलब्धिमात्रपरता न । किंतु भावपदमुपलब्धिमपि कारणे प्रतिपादयति । उपलब्धिपदं च कार्ये भावमपि प्रतिपादयति । उपलब्धि-विषयरूपभाववाचिपदस्य विषयविषयिपरत्वात् । विषयिवाच्युपलब्धिपदस्यापि विषयविषयिपरत्वात् । तथा च कारणाभावोपलम्भयोर्विद्यमानयोः कार्यभावोपलम्भावित्यर्थलाभे विशिष्टहेतुलाभा-त्तद्विवरणरूपेण तद्भावे भावश्चेत्यादिकथनं युक्तम् । उक्तं च भामत्याम् । विशिष्टहेतुशरीरं व्युत्पाद्य तत्र यथोक्तस्य हेतोरेकदेशाभिधानेनोपक्रमते भाष्यकारः ।

इतश्च कारणादनन्यत्वमित्यादि । एवं च यथाभाव इत्येवसूत्रे उक्तावपि भाव एवेति सूत्राभि-प्रेतमवधारणं भाष्ये दर्शितम् । तथा भाष्ये भावोपलब्ध्योरेकदेशकीर्तनेऽप्येकदेशान्तरं भाष्याभिप्रेतं भामतीकृता स्पष्टीकृतमस्तीति तदनुसारेण हेतुर्भाष्याभिप्रेत एवात्र टीकायामाशङ्कित इत्यदोषः । अत एव सत्यपीत्यनेनापि विशिष्टहेतोरेवाप्रयोजकत्वोपपादनम् । दर्शनादित्युक्तया मुखतः प्रतिपाद्यम् अप्रयोजकत्वमेव । तदुन्नेयश्च दोषो व्यभिचारः सोऽप्यर्थालब्ध इति सूचितम् । वक्ष्यमाणरीत्या सत्यपीति वाक्यस्य कुण्डलीकाकारेण मूलकोशे नाशितस्य भाव इति पक्षत्वे तद्ध्वाक्ययोजनाश्रमा-भावः । अप्रयोजकत्वोन्नेयो व्यभिचारस्थलान्तर इव बहिरेव ज्ञाप्यो भविष्यति । तथा विपक्षे बाधका-भावप्रयुक्ताप्रयोजकत्वशङ्कापरिहाराय हेतूच्छितिरूपविपक्षे बाधककथनं च मूलकारीयं युज्यते । तन्निय-मोक्तयैव चाप्रयोजकत्वोन्नेयव्यभिचारपरिहारस्यापि लाभोपपत्तिः । अप्रयोजकत्वपरिहारमुख-सत्वादेवान्तरेणैवेति पूर्वशङ्कानुसारेणानन्यत्वमन्तरेणोत्यादेरप्यधिकस्य सार्थक्यम् । न हि यदिति वाक्ये हि । उपलभ्यते चेद तद्भाव एव । अन्यथा गवाश्ववत्तद्भाव एवोपलम्भो न स्यादिति हेतूच्छित्यभिधान एव तात्पर्यमिति न तदनभिधानशङ्कावकाशोऽपि । शिष्टं व्युत्पादनं भवक्ष्यमाणभामत्यनुवादावसरे भविष्यतीति ज्ञेयम् । नन्वत्र मूले कारणस्य एवेत्यवधारणप्रयोगात्तदनुसारेण कारणस्य भाव एव भावस्तथा तदुपलब्धावेवोपलब्धिरित्येव लब्धमिति तथैव प्रयोगः कार्योऽतस्तद्भावे भाव इत्यादि-र्निरवधारणप्रयोगायोगः । सावधारणे तात्पर्याङ्गीकारेऽपि न वक्ष्यमाणव्यभिचारसूचकाप्रयोजकत्वोप-पादनं सम्भवति । न हि घटभाव एव भावादिकमस्ति । तथा व्यभिचारफलकाप्रयोजकत्वोपपादनपरे सत्यपीति वाक्येऽपि निरवधारणप्रयोगायोग एव । न च तत्राप्यवधारणे तात्पर्यमस्त्विति वक्तुं शक्यम् । उक्तानुपपत्तेरेव । तथा सति नियतेति विशेषणेनोत्तरपरिहारायोगश्चेति चेत् ।

अत्र ब्रूमः । तद्भावे भाव इत्यादौ सावधारणप्रयोगस्यैवाभिप्रेतत्वान्नाद्यस्तावद्दोषः । नापि तथा सति घटभाव एव पटभावादिकं नास्तीति व्यभिचारोक्तिरनुपपन्नेति द्वितीयः । कस्यचिद्घटादिविशेषस्य काकतालीयन्यायेन तद्भाव एव तदन्यस्य भावादेरप्युपपत्या व्यभिचारचोदनस्य युक्तत्वान् नापि तत्रावधारणप्रयोगाभावलक्षणो दोषस्तृतीयः । काकतालीयन्यायेन कदाचिद्घटभावादावेव भावोप-लम्भवत्पटादेरुपादानेनैवावधारणार्थस्य प्रतीतेः । न हि कदाचिद्घटभावोपलम्भ एव पटादिभावोपलम्भ इत्युक्ते कदाचिद्घटभावोपलम्भे पटादिभावोपलम्भ इत्युक्ते च कश्चिदतिशयो नातिशयश्च प्रतीयते । ततोवधारणानुक्तावपि तदर्थावभासाद्वा तत्र तात्पर्याद्वा न दोषः । सत्यपीत्यस्य सत्येवेत्यर्थाद्घटभाव एव सतीति लभ्यते इत्याहुः ।

वस्तुतोऽन्यभावेऽपीति भामत्यनुसारेणापिपदम् । काकतालीयन्यायेन कदाचित्तद्भावादावेव तद्भावादिकमाश्रित्य व्यभिचारचोदनादुक्तानुपपत्तेरेवेति चतुर्थोऽपि न दोषः । नियतेति विशेषणेन परिहारस्तु स्पष्ट एव । कदाचिद्घटभावादावेव पटादिभावादिसत्वेऽपि नियमेन तद्भावादौ तद्भावादेर-भावात् । नियमेनेत्यनेनाशङ्कितकादाचित्कत्वव्युदासेन सार्वकालिकत्वप्रतिपादनेन तद्व्यावृत्तिसम्भवात् । अत एवोत्तरग्रन्थेनियतादिपदं कादाचित्कत्वसार्वकालिकत्वपरमिति परिहारसम्भवः । अत एव चोक्तग्रन्थानुसारेण मूलेऽपि नियतपदार्थो योज्यः । एवकारप्रयोगेऽपि काकतालीयकादाचित्कनियम-व्यावर्त्तनायावश्यकत्वादित्यादि द्रष्टव्यम् ।

इदं च नन्वन्तरेणैवेत्यादिना इत्याशयेनाहेति न हीत्यवतारसद्भावे व्युत्पादनम् । यदि पुन-र्मूलकोशस्थ ‘‘यद्यप्यत्र कारणस्येत्यादिग्रन्थस्येवास्यापि कुण्डलिकाकारेण नाशः । भावे चेति चशब्दो भिन्नक्रम इत्यभिप्रेत्योक्तमुपलब्धेश्चेतीति वाक्यानन्तरं नन्वित्यादि भविष्यतीत्यनन्तरं ततश्चा-प्रयोजकत्वादिरेव पाठः । सत्यपीत्यादिदर्शनादित्यन्तवाक्यमात्रभावस्तदपि तद्भाव इत्यादाव-वधारणतात्पर्यमात्रकल्पनेऽपि इतरप्रयासाभावत इत्याद्याहुः । केचित्वेवकारसार्थक्यं दर्शयितुं व्यतिरेकेण गमकत्वप्रदर्शनेनाप्रयोजकत्वनिराकरणस्पष्टत्वायेति प्रतिपादयन्ति । मम तु प्रवृत्तमूले एवकाराति-रेकेणावशिष्टस्य व्यभिचाराद्याशङ्कनेनाप्रयोजकत्वाभिधानम् एवकारसाहित्यलब्धनियतपदार्थप्रदर्शनेन प्रतिभाति । मूले तावद्भाष्यानुसारेण तद्भाव एवोपलम्भमात्रमेव हेतुतयोक्तम् । यदि तस्य तद्भाव एव भाववत्वे सतीत्यादिविशिष्टहेतौ तात्पर्यं भवेत्कथं तर्हि व्याप्यव्यापकभावादिनान्यथासिद्धिर्मूलकारेण वक्ष्यमाणं सङ्गता स्यात् । नहि वह्निभाव एवोपलम्भवतो धूमस्य तद्भाव एव भाववत्वे सति तदुपलम्भ एवोपलभ्यमानताऽस्ति । येन धूमस्येव व्याप्यव्यापकभावेनापि तदुपपद्येत यदि वा विशिष्टहेतुकरणं टीकाकृतः संमतं स्यात्कथं तर्हि धूमादिवद्य्वाप्यव्यापकभावेनान्यथासिद्धिं मूलोक्तामुद्धर्त्तुमधिकरणान्ते अलं प्रपञ्चेनेत्येतदर्थकथनावसरे विशिष्टहेतौ तात्पर्यं टीकाकृदभिदध्यात् । विशिष्टस्य हेतोर्मूलाभि-प्रेतत्वमुपवर्णयता तस्यैवान्यथासिद्धिर्मूलकृतोक्तेत्यङ्गीकर्त्तव्यतया तादृशान्यथासिध्युद्धाराय पुनर्विशिष्ट-हेतूकरणं च कथं कुर्यात् । कथं च तेनान्यथासिद्धिनिरासोऽपि भवेत् । तस्माद्भाव एवोपलभ्य-मानत्वमात्रहेतोरेव व्याप्यव्यापकभावेनान्यथासिद्धिव्युप्तादनं मूलटीकयोरभिप्रेतमिति परोक्तानुवादावसरे विशिष्टहेतोरकल्पनीयत्वात् तस्याप्रयोजकत्वशङ्कायाश्चायोगात्तन्निरासाय न हीत्युत्तरवाक्यप्रवृत्तेरपि टीकाकृदसंमतत्वाद् विशिष्टहेतुयुक्तपाठष्टीकाकृदसंमत एव । किंतु प्रथमतो विशिष्टहेतुतात्पर्याशयेन यद्यप्यत्रेत्यादिग्रन्थ आसीत्तच्छेषभूतोऽयमपि ग्रन्थश्चासीत् । टीकाकृता वक्ष्यमाणग्रन्थमर्यादामालोच्य विशिष्टहेतुतात्पर्यादिकमलमित्येतदर्थतयैवोक्तम् ।

अत्रत्यो यद्यपीत्यादिग्रन्थस्तु शिष्यं प्रति नाशाय विहितः । तत्र शिष्येण यद्यपीत्यादिकं कुण्डलिकाकारेण विनाश्यापि ‘‘नन्वन्तरेणैवे’’त्यादिकं न विनाशितं न वा तदा वाचितं येन वाचनोत्तरमेवंविधविन्यासनाशनाय विधान्तरेण विन्यासलेखनाय वा नियुज्येत । किं तु नहीत्युत्तर-वाक्यावतारस्यावश्यकत्वबुद्ध्या तावन्मात्रमेव शेषितवानित्याद्यकामैरपि वाच्यमिति तत्पाठपरित्यागेन पाठान्तरं टीकाकृतोऽभिप्रेतं प्रदर्श्यते । नन्वन्तरेणैवानन्यत्वं तद्भाव एवोपलभ्यमानत्वं भवतु विपक्षे बाधकाभावादित्यतो हेतूच्छित्तिरेव विपक्षे बाधिकेत्याशयेन व्यतिरेकमुखेनास्य गमकत्वमुपपादयति । नहीति । अन्यस्य भावे अन्यस्योपलम्भो न नियत इत्यत्र दृष्टान्तमाह । न हीतीति । अत एव भामत्यां नहीति प्रथमवाक्यं व्यतिरेकमुखेनास्य गमकत्वमाहेत्येवावतारितम् । गवाश्वयोरकार्यकारणत्वात्तद्भावे त्याद्युत्तरग्रन्थे तु गोर्भावेऽश्वस्योपलब्धिरित्याद्यर्थोपपत्तेर्यथाश्रुत एव पाठ इतीति सुधीभिराकलनीयम् । कार्यकारणाभिन्नं तद्भावादावेव भावादिति विवक्षितप्रयोगस्वरूपं सिद्धवत्कृत्य तत्रान्वयव्याप्तौ दृष्टान्तस्य प्रतीतेः सामान्यतो व्यतिरेकव्याप्तिमभिप्रेत्योक्तं न हि यद्यत इत्यादि मूलम् । तद्-व्याप्तौ दृष्टान्तानुक्तेस्तत्प्रदर्शनाय नहीति द्वितीयं वाक्यमित्याशयेन तथा तद्योजयति । अन्यस्य भावेति । अत्र साध्याभावहेत्वभावयोर्मेलने नान्यस्येत्याद्युक्तावपि यद्यतोऽन्यत्तद्भावादावेव भावादिमन्नेति व्यतिरेक-व्याप्तिशरीरम् । तत्र गोतोऽन्य इत्यनेन गवाश्वरूपं दृष्टान्तमाहेत्यर्थः । अश्वो हि गोतोऽन्यो भवतीति तत्र साध्याभावकीर्तनम् । गोर्भावादावेव भावादिमात्रेत्यनेन साधनाभावकीर्त्तनमिति विवेकः । तथाचोक्त-व्याप्तिग्रहणस्थलं गवाश्वरूपमनेनोक्तमिति ज्ञेयम् । कुलालघटयोरिति । न च कार्यकारणभावमात्रेण तद्भावोपलम्भनियमासम्भवेऽपि मृद्घटादावुपादानोपादेयभावस्य सत्वात्तन्मात्रेणोक्तनियमोपपत्तिरित्य-प्रयोजकत्वशङ्का दुर्वारेति वाच्यम् । न च कुलालभाव एवेत्यादिभाष्याद्यनुसारेण कार्यकारण-भावमात्राश्रयणेन हेतोरप्रयोजकत्वशङ्कनतत्परिहारायोरावश्यकत्वेऽपि उपादानोपादेयभावेनान्यथासिद्धि-शङ्कातत्परिहारयोः परभाष्यादावप्रवृत्तत्वेन तच्छङ्काया ग्रन्थकृताप्यप्रवर्त्तनेन च तथा शङ्काया अकर्त्तव्य-त्वात् । किञ्चैतद्योजनादूषणावसर एव मूलेऽन्योपरक्तबुद्धिर्वा सामानाधिकरण्यबुद्धिर्वेति शङ्किताया बुद्धरेप्यभेदमात्रेण चारितार्थ्यान्नात्यन्ताभेदसाधकत्वमित्यादिदूषणस्य वक्ष्यमाणतया तत्प्रकारेणैव तद्भाव एवोपलम्भस्योपादानोपादेयभावमात्रेणोपपत्तेर्नानन्यत्वसाधकत्वमिति दूषणस्याप्यभिप्रेतत्वेन सिद्धान्तोक्तदूषणस्येहाशङ्क्य परिहारायोगेन शङ्कामात्रस्याकर्त्तव्यत्वादिति ज्ञेयम् । उक्तव्याख्यानस्य भाष्येऽनुपलम्भात्पूर्वसमुच्चयेन व्याख्यानेऽरुचिं मनसि निधायाह । परिणामवादिमतेनापीति ।

न केवलं श्रुतिर् उपपत्तिश्चात्र भवतीति भामतीम् अवरकालीनस्य कार्यस्य श्रूयते सदेव सोम्येदमग्र इति भाष्यं च मनसि निधायाह । श्रुतार्थापत्तिमपीति । इदंशब्दगृहीतस्येत्यादिभाष्यविवरणरूपेणाशङ्क्य निराकरोति । न च प्रागुत्पत्तेरित्यादिना । समाधत्त इति । समादधत्सूत्रमुपन्यस्य व्याचष्ट इत्यर्थः । तथैव पाठस्तु स्वरस एव ।

आनन्दगिर्याद्यनुसारेणाह । तत्र चोद्यमित्यादि । गमकमिति सौत्रं गमकमित्यर्थः । साङ्ख्य-परीक्षाव्याख्यानानुसारेणाह । असच्चेत्कारणव्यापारादित्यादि । उपादानग्रहणादित्येतद्-व्याख्यानरूप-साङ्ख्यपरीक्षाव्याख्यानानुसारेणोपादानग्रहणरूपहेतुमादिपदेन दर्शयन् सर्वसम्भवाभावादिहेतूनप्याह । आदिपदेन कार्येणेति । उपादानानि कारणानि तेषां ग्रहणं कार्येण सम्बन्धः । उपादानैः कार्यस्य सम्भवादिति यावत् । एतदुक्तं भवति । कार्येण सम्बन्धमित्यादेरुत्तरत्रोक्तत्वादिति ज्ञेयम् । अवयवी अवयवेष्विति । इयं चानुपपत्तिर् वैभाषिकसौत्रान्तिकनिरासकसमुदायउभयहेतुकेऽपीत्यधिकरणे व्युत्पादितेति ज्ञेयम् । केषुचित्तन्तुषित्यादि । इयमपि विकल्पानुपपत्तिरुक्तस्थल एवोक्ता ज्ञेया । सिध्यतीति वक्तव्य इति । सिध्यतीत्येतत्प्रतिपादनाय शब्दाच्चेति वक्तव्य इत्यर्थः । पटवच्चेति सूत्रस्य वृत्तिकारान्तरोक्तरीत्या व्याख्याने यः संवेष्टितप्रसारितपटन्याय उपपादितस्तत्प्रकारेणोक्तन्याय-मुपपादयति । यथा हि संवेष्टित इति । यथा हीत्युक्तग्रहणोत्तरभावितया प्राप्तं यद्ग्रहणं तत्प्रदर्शनपरं शाङ्करभाष्यम् । अत उक्तं संवेष्टितपटग्रहणानन्तरभावि संवेष्टितपटग्रहणप्रकारमपि शाङ्करभाष्योक्त-रीत्याह । तथा चेति । पूर्वपक्षे पटो वाऽन्यद्रव्यं वेति सन्देहे सति प्रसारणेन पट एवेति ज्ञानेन सन्देहनिवृत्तिर्भवतीति फलितम् । अत्र पक्षे तु पट एवेति ज्ञानेऽपि तत्पटीयायामविस्तारविशेषस्य प्रसारणात्पूर्वमव्यक्तस्य किं यदायामादिविशिष्ट इति जिज्ञासितस्य प्रसारणेन पट एवेति ज्ञाने सति यत्पटगतायामादिकं विवक्षितं तद्वाऽन्यद्वेति सन्देहनिवृत्तिर्भवतीति विवेकः । तदेवं ग्रहणद्वयस्य पूर्वोत्तरभावित्वेन द्वितीयग्रहणप्रकारमात्रस्य भाष्ये प्रदर्शनेऽपि प्रथमप्रकारस्यापि पूर्वभावितया भाष्यसंमतत्वस्य वक्तुं शक्यत्वाद्भाष्योक्तरीत्या सूत्रार्थकथनावसरे वृत्तिकारान्तरोक्तन्यायप्रकारस्यापि प्रदर्शनं युक्तम् । अत एव मूले अनन्यत्वमिति भाष्योक्तरीत्योक्तं, प्रागुत्पत्तेः सत्वं च प्रतिपत्तव्य-मित्यधिकं चोक्तम् । अत एव च भावे चेति सूत्रव्याख्यावसरे किं च भावे तिलादौ कारणे तैलाद्युप-लभ्यते । कार्ये च भावे कुण्डलादौ सुवर्णादिकम् अतश्च तदभेदसिद्धिरिति ‘‘भावे चोपलब्धे’’रित्यस्य वृत्तिकारान्तरोक्तं व्याख्यानमपि मूलकृता प्रदर्शितमिति द्रष्टव्यम् । संवेष्टितरूपादन्य इति । अत्र संवेष्टितरूपादन्य इत्येतद्दृष्टान्ततयोपात्तम् । यथायं विशिष्टायामविस्तारविशिष्टः पटः संवेष्टितरूपादन्यो न भवति यथेति पूर्वोक्तं दृष्टान्ततयोक्तम् । तथा भिन्नो न भवति आयामविस्तारान्तरयुक्तो यः पटः स न भवतीत्यर्थः । विशिष्टायामविस्तारो यः पटः संमतः । स एवायम् । नत्वन्यः पट इति यावदिति शाङ्करवाक्यस्य योजना ज्ञेया । टीकायामुदाहृतत्वादेतद्वाक्ययोजना कृतेत्यदोषः । इतीत्यनन्तरं गृह्यत इति वर्तते । पटन्यायेनेत्यनन्तरं कारणात्कार्यस्यानन्यत्वादिकं प्रतिपत्तव्यमित्येतदनन्तरमित्यर्थ इति पाठः । यद्यपि शाङ्करीये अनन्यत्कार्यमित्यर्थ इत्येकमेवोक्तं तथापि वृत्तिकारान्तरोक्तस्यापि मूलकृता तत्र तत्रापेक्षितस्य व्यवहारात्प्रागुत्पत्तेः सत्वं चेत्यधिकमुक्तमिति तदनुसारेण टीकायामप्यादिपदमिति न दोषः । यथा प्राणादिरित्येतत्सूत्रीयभाष्यानुसारेणार्थमाह । प्राणायामेनेत्यादि ।