१२ कारणान्तराङ्गीकारोऽयुक्तः

ॐ असद्य्वपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ

कारणान्तराङ्गीकारोऽयुक्तः

ॐ असद्य्वपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ

**सुधा **

ॐ असद्य्वपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ इति सूत्रम् । तत्र आक्षेपस्यायमर्थः । ‘नासदासीन्नोसदासीत्तदानीमि’ति महाप्रलये मूर्तामूर्तादेरशेषस्यासत्त्व-व्यपदेशात्कारणोपलब्धिपरिचोदना, तस्येश्वरवशस्याङ्गीकारेण समाधानं च नोपपद्यते । न चायं पक्षः ‘असदिति चेत्’ इत्यादिनैव निराकृतः । तत्रेश्वरस्याप्यनङ्गीकारात् । इह पुनरीश्वरमङ्गीकृत्य कारणान्तरनिराकरणात् । न च ‘अद्य्भः सम्भूतः’ इत्यादिविरोधः । अत्र महाप्रलये कारणान्तर-सद्भावस्याश्रवणात् । ईश्वरातिरिक्तकर्तृकासु सृष्टिष्वबादिकारणसद्भावपरत्वाच्च । एवञ्चारम्भण-शब्दादयोऽपि समञ्चासा भवन्तीति ॥ (अत्र) नेति सिद्धान्तांशं व्याचष्टे द्रव्यमिति । न महाप्रलये कारणान्तरस्याभावो वाच्यः । किन्तु तद्वशस्य भाव एव । तस्य तद्वशत्वं कुत इति चेत् । द्रव्यमिति श्रुतेरिति ।

**शेषवाक्यार्थचन्द्रिका **

ॐ असद्य्वपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ ॥ अस्मिन्पक्षे ‘न पर इत्यत’इत्युत्तरखण्डस्य पूर्वेण सह सङ्गत्यलाभाद्वैयर्थ्यमित्यतस्तत्परित्यागेन द्रव्य-मित्यादेरसद्य्वपदेशादित्येतत्सूत्रस्थ‘न’ इति सिद्धान्तखण्डव्याख्यानत्वेन तच्छेषत्वान्न वैयर्थ्य-मित्यभिप्रेत्य तच्छेषतया योजनां दर्शयितुं स्पष्टतया शिष्यैरेव व्याख्यातुं शक्य इति भावेन भाष्य-कृताऽव्याख्यातमेत्सूत्रीयपूर्वपक्षखण्डं सूत्रमुपन्यस्य स्वयं व्याचष्टे असदित्यादिना ॥ विरोध इति । अत्र कारणान्तरश्रवणादिति भावः । न कारणान्तरसद्भावश्रवणस्य नासदासीदिति तदसत्त्व-व्यपदेशविरोधित्वं कालभेदेनोपपन्नतत्सत्त्वासत्त्वविषयत्वेन श्रवणद्वयस्य भिन्नविषयत्वात् । किन्तु यत्कालावच्छेदेन नासदासीदिति कारणान्तरस्यासत्त्वं वर्णितं तत्कालावच्छेदेन कारणान्तर-सत्त्वाभिधानस्यैव । न चाद्य्भः सम्भूत इति कारणान्तरबोधकवाक्यं महाप्रलये तत्सद्भावमवगमयति येन विरोधः स्यादित्याशयेन परिहरति अत्रेति । नासदासीदितीश्वरकर्तृकसृष्टौ कारणान्तरासद्भावपरम् । तस्य चेश्वरकर्तृकसृष्टावेव कारणान्तरसद्भावश्रवणेन विरोधो वाच्यः । न चाद्य्भः सम्भूत इतीश्वर-कर्तृकसृष्टौ कारणान्तरसद्भावपरं, येन तद्विरोधः स्यात्किन्तु, तदतिरिक्तकर्तृकासु सृष्टिष्वबादि-कारणान्तरसद्भावपरं तत्कथं विरोध इत्याह ईश्वरेति ॥ एवञ्चेति । प्रकारद्वयेन वाक्यद्वयस्य भिन्नविषयतायां सिद्धायामित्यर्थः ॥ समञ्जसं भवतीति । तेषां स्वारस्येन सर्वथा कारणान्तरा-भावावगमकत्वादीश्वरकर्तृकसृष्टौ च तद्बोधितस्य सर्वथा कारणान्तराभावस्य च सत्त्वात्सामञ्जस्य मन्यथा त्वीश्वरकर्तृकसृष्टावपि स्वतन्त्रकारणान्तरनिषेधकत्वादसामञ्जस्यं तेषामिति भावः । इतिशब्दस्य इत्ययमर्थ इति सम्बन्धः । द्रव्यमित्यादेर्भाष्यस्य न साक्षात् ‘न’इतिसिद्धान्तांशव्याख्यानत्वं सम्भवतीत्यत आकाङ्क्षाक्रमेणापेक्षितपूरणपूर्वकं तद्योजयति नेत्यादिना ।

परिमल

‘मूर्तं सदिति सम्प्रोक्तममूर्तमसदुच्यते’ इत्यादिवाक्यानुरोधेनार्थमाह मूर्तामूर्तेति । पृथिव्यादित्रयं मूर्तं, अमूर्तं च वायुरन्तरिक्षं च ॥ एवञ्चेति । साधनमात्रस्यासत्त्वेऽङ्गीकृते सति स्वातन्त्र्यापेक्षार्थपर्यन्तत्वकल्पनाक्लेशेन विना स्वरूपमात्राक्षेपपरतया स्वरसा भवन्तीत्यर्थः ।

श्रीनिवासतीर्थीया

ॐ असद्य्वपदेशान्नेति चेन्न धर्मान्तरेण वाक्यविशेषात् ॐ ॥ समाधानं सत्त्वाच्चावरस्येत्यनेनोच्यमानम् । अत्र ‘अद्य्भः सम्भूतः पृथिव्यै रसाच्चे’ति वाक्ये ॥ एवञ्चेति । प्रलये कारणान्तरस्येश्वरातिरिक्तस्याभावेनारम्भणाद्याक्षेपो युक्त इत्यर्थः ।

**वाक्यार्थरत्नमाला **

द्रव्यमित्यादेरिति । आदिपदेन नपर इत्यत इत्येतद्भाष्यपरिग्रहः । न वैयर्थ्यमिति । द्रव्यमित्यादेरिति वर्तते । न पर इत्यस्य वैयर्थ्यपरिहाराय प्रवृत्तेन द्रव्यमित्यादि पूर्वभाष्यस्यापि योजनान्तरेण सार्थक्योक्तया पूर्वमाशङ्कितवैय्यर्थ्यपरिहारः सिद्धो भवतीति भावेन द्रव्यमित्यादिसंपूर्णभाष्यग्रहणमिति ज्ञेयम् । एतेन ‘‘न पर’’ इत्येतद्भाष्यवैय्यर्थ्ये शङ्किते तद्वैयर्थ्यपरिहारमात्रस्य सङ्गतत्वेऽपि द्रव्यमित्यादि पूर्वभाष्यस्यापि वैय्यर्थ्यपरिहारो न सङ्गत इति शङ्का निरस्ता भवति । कारणान्तरसत्वाभिधानस्यैवेत्यनन्तरम् असत्वव्यपदेशविरोधित्वमिति वर्त्तते । नासदासीदितीति । नासदासीदित्येतद्वाक्यमित्यर्थः । सम्भूत इतीति । ‘‘अद्भ्यः सम्भूत’’ इत्येतद्वाक्यमित्यर्थः । स्वारस्येनेति । सत्वाच्चावसरस्येतत्सूत्रोक्त कारणसद्भावमाश्रित्याक्षेपस्यार्था-पत्तिविधयाक स्वतन्त्रकरणाक्षेपकत्वे तु न स्वारस्यं सर्वथा कारणान्तराभावावगमकत्व त्वितरा-पेक्षाभावात्स्वारस्यमित्याशयः । कारणान्तराभावस्य सत्वादिति पाठः । चशब्दोऽधिको लेखकागतः । मूलकोशेऽपि शोधितस्यैव सत्वात् । कारणान्तराभावस्य सत्वं च नासदासीदित्यादिसिद्धमिति प्रयोगे वोक्तमित्याशयः । सामंजस्यमिति । स्वारस्ये प्रतिपादितार्थपरित्यागाभावादित्याशयः । अन्यथा-त्विति । सर्वथा कारणान्तराभावावगमकत्वातिरिक्त स्वतन्त्रकारणान्तरनिषेधकत्वाभ्युपगमे त्वित्यर्थः । ईश्वरकर्तृकसृष्टावपीत्यनेनेदमाह । ईश्वरकर्त्तृकसृष्टिर्हि नासदासीदित्यादिना सर्वथा कारणान्तर-सद्भावशून्यतया प्रमिता तस्यामारम्भणशब्दादिना कारणान्तराभावमात्रप्रतिपादनमेव स्वरसम् । स्वतन्त्रकारणान्तरनिषेधस्त्वप्रसक्तिपराहत इति स्वतन्त्रकारणान्तरप्रसक्तिशून्यायामपीश्वरकर्तृकसृष्टौ स्वतन्त्रकारणान्तर निषेधस्यानुपपन्नत्वात्तन्निषेधकारम्भणशब्दादेरस्वारस्यमवर्जनीयमेवेति । स्वतन्त्रकारणान्तरनिषेधकत्वात्तस्य चायोगादिति शेषः ।


ॐ असद्य्वपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ

ॐ असद्य्वपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ

**सुधा **

ननु ‘नासदासीदि’ति सर्वस्यासत्त्वव्यपदेशात्कथं नेत्यत उक्तं ‘धर्मान्तरेण’ इति । तद्-व्याचष्टे तद्वशस्येति । सावधारणं चेदम् । तद्वशस्यैव भावः प्रलये, न स्वतन्त्रस्य । ततः स्वातन्त्र्यलक्षणधर्मविशेषाभिप्रायेणासत्त्वव्यपदेशो युज्यते । उपलक्षणमेतत् । यथोक्तं भाष्ये । यत्खलु परतन्त्रमव्यक्तं कार्यानभिमुखं तदसदिति व्यपदिश्यते ।

**शेषवाक्यार्थचन्द्रिका **

एवं सूत्रे नेति प्रतिषिद्धप्रकारप्रतियोग्याकाङ्क्षितप्रकारविशेषसमर्पकतया ‘तद्वशस्य भावः’ इति भाष्यं योजितम् । इदानीं तु भाष्ये धर्मान्तरेणेति सूत्रखण्डस्य पृथगव्याख्यान-प्रयुक्तन्यूनतापरिहाराय तद्-व्याख्यानतयाऽप्येतदेव व्यापारयितुं सूत्रे धर्मान्तरेणेत्येतन्निरासनीय-शङ्कामुत्थापयति नन्वित्यादिना । तद्वशस्येत्यादेर्धर्मान्तरेणेत्येतद्-व्याख्यानत्वस्फोरणायापेक्षितं पूरयित साधारणं चेदमिति । तदेवाभिनयेन दर्शयति तद्वशस्यैवेति ॥ स्वातन्त्र्यलक्षणधर्मविशेषाभि-प्रायेणेति । स्वातन्त्र्यलक्षणधर्मावच्छिन्नकारणाभावस्य ‘सविशेषणे ही’ति न्यायेन प्रथमप्राप्त-स्वातन्त्र्यरूपविशेषणामात्रविषयत्वमभिप्रेत्येदमुक्तमिति ध्येयम् ॥ उपलक्षणमेतदिति । तद्वशस्यैव भाव इत्येतदव्यक्तकार्यानभिमुखस्यैव च भाव इत्यस्योपलक्षणम् । ततश्च व्यक्तत्वकार्याभिमुखत्व-रूपधर्मविशेषाभिप्रायेणासत्त्वव्यपदेशो युज्यत इत्यपि द्रष्टव्यम् । नन्वत्र तद्वशस्यैव भाव इत्येतद् यथाश्रुतमेवास्तु किमुपलक्षणत्वाश्रयणेनेत्यतो भाष्यानुसारादित्यभिप्रेत्योक्तस्य सर्वस्य भाष्यारूढतां दर्शयति यथोक्तं भाष्य इति । ‘अव्यक्तत्वपारतन्त्र्यादिधर्मान्तरेण हि तदुच्यते’ इति तद्वाक्यादिति भावः। इदं च भाष्यं विशिष्टनिषेधे सति योऽर्थ उपलक्ष्यते तत्प्रदर्शानपरमेव न तु निषेध्यता-वच्छेदकधर्मप्रदर्शनपरमित्यविरोध इत्यवधेयम् । ननु च तद्वशस्यैव भाव इत्यस्यैवोपलक्षणत्वे स्वायत्त-न्यायविरोध इत्यतः स्वतन्त्रप्रयोग एव तथा । न चायं स्वतन्त्रप्रयोग इति भावेन अस्वतन्त्रप्रयोगतां दर्शयति यत्खल्विति ।

परिमल

यथोक्तं भाष्य इति । ‘अव्यक्तत्वपारतन्त्र्यादिधर्मान्तरेण हि तदुच्यते’ इति धर्मान्तरमप्युक्तमिति अव्यक्तत्वादिधर्मान्तरमपि निषेध्यतयाऽत्र ग्राह्यमित्यर्थः ।

श्रीनिवासतीर्थीया

‘अव्यक्तत्वपारतन्त्र्यादिधर्मानातरेण तदुच्यते’ इत्युक्तं भाष्ये । तदुप-पादयति यत्खल्विति । अव्यक्तमित्यस्य विवरणं कार्यानभिमुखमिति ।

**वाक्यार्थरत्नमाला **

प्रकारप्रतियोगीति । स्वतन्त्रकारणत्वरूप प्रकारविरोधिप्रकारो हि तद्वशकारणत्वं भवतीति तद्वशकारणत्वं प्रतियोगीति भावः । तादृशमपि कारणत्वं कुतोऽभिधेयमित्यत उक्तमाकाङ्क्षितेति । यदि स्वतन्त्रकारणत्वं तर्हि कीदृशं प्रकृत्यादेः कारणत्वमित्याकाङ्क्षितमित्यर्थः । सूत्रे धर्मान्तरेणेत्येतदिति । सूत्रे विद्यमानेत्यर्थः । सूत्रस्थधर्मान्तरेणेत्येतदिति यावत् । प्रथमप्राप्तेति । निष्कृष्य विशेष्योपस्थित्यपेक्षया विशेषणोपस्थितेः प्राथम्येन विशेषणस्य प्रथमप्राप्तत्वादित्यर्थः । विशदं चैतत्प्रागेतन्यायोपपादनावसर इति ज्ञेयम् । उपलक्षणमित्येतद्-व्याख्याने इत्यपि द्रष्टव्यमित्यर्थ इति पाठः स्वरसः । तथा पाठाभावे वा द्रष्टव्यमित्यनन्तरमित्यर्थ इति शेषः । तेन द्रष्टव्यमित्यन्तस्य मूल-व्याख्यानतयेत्यर्थ इत्यस्याभावे मूलार्थत्वालाभ इति परास्तम् । ननु भाष्ये स्वतन्त्रव्यक्तत्वादि-धर्मान्तरावच्छिन्नस्य कारणस्याभावेनासत्वव्यपदेशस्यानुक्तेः परतन्त्रत्वादिधर्मान्तरणैव च तदुक्तेः कथं भाष्यमत्रोक्तार्थे संमतितया वक्तुं शक्यमेकार्थत्वाभावादित्यत आह । इदं च भाष्यमिति । अविरोध इति । संमतितया प्रदर्शनायोगरूपविरोधोनेत्यर्थः । ननु च तद्वशस्यैव भाव इत्यस्येति । अत्र श्रौता तच्छब्दस्येति शेषः । तथा च श्रौतोसत्वव्यपदेशः । उपलक्षणया तद्वशस्यैव भावंप्रतिपादयतीत्यङ्गीकारे स्वायत्तन्यायविरोधः । श्रुतावपि स्वतन्त्रं व्यक्तं कार्याभिमुखं च कारणं नासीदित्येववक्तव्य-तयोपलक्षणया तदर्थप्रतिपादनायासत्वव्यपदेशेऽस्मदायत्ते वाक्प्रयोगे किमित्यवाचकशब्दं प्रयुंज्महीति न्यायविरोधादिति भावः । तद्वशस्यैव भाव इत्यस्येत्यस्येत्यादिरित्यर्थः । तद्वशस्येत्येव भाव इत्या-द्यर्थकत्व पाठस्तु स्वरस एव । केचित्तु तद्वशस्यैव भाव इत्यस्योपलक्षणत्वे अव्यक्तत्वकार्यानभिमुख-त्वोपलक्षणत्व इत्येवार्थः । स्वायत्तन्यायविरोधो भाष्यकारस्य । न चायं स्वतन्त्रेति । असद्य्वपदेशस्य तद्वशस्यैव भाव इत्येतत्स्वातन्त्र्येण व्याख्यानं न, किन्तु परतन्त्रमव्यक्तमित्याद्युत्तरवाक्यैकदेशानु-वादमात्रम् । न चैकदेशान्तरप्रसिद्धे सति एकदेशे एकदेशान्तरलक्षणाशयेनोक्ते स्वायत्तन्यायविरोध इति तथाविधस्थलानां बहूनामुपलम्भेन बहुविप्लवापातादित्याशय इति वर्णयन्ति ।