०९ मायावादिव्याख्यानप्रत्याख्यानम्

जगतस्त्वविकारत्व उक्तन्यायेन साधिते

मायावादिव्याख्यानप्रत्याख्यानम्

जगतस्त्वविकारत्व उक्तन्यायेन साधिते

**सुधा **

अपरमपि व्याख्यानं दूषयति कथं चेति । इति प्राहेत्यनुवर्तते । यद्यत्र कार्यमात्रप्रपञ्चस्यानृतत्वं सूत्रकृतोऽभिमतं स्यात् । तदाऽनृतत्वमित्येव ब्रूयात् । तदनन्यत्वमिति कथं प्राह । न हि ब्रह्मानन्यत्वशब्दोऽनृतत्ववाची । तथा सति ब्रह्मणोऽप्यनृतत्वप्रसङ्गात् ।

ननु च तदनन्यत्वं तद्-व्यतिरेकेणाभाव इति व्याख्यातम् । सत्यम् । न तथाऽप्यनृतत्वलाभः । तद्-व्यतिरेकेण नास्तीत्युक्ते तदात्मनाऽस्तीति लभ्यते । न पुनः सर्वथाऽप्यनृतत्वम् । अन्यथा ब्रह्मातिरेकेणासतो जीवचैतन्यस्यापि सर्वथाऽनृतत्वं स्यात् । प्रसिद्धं चैतत् । यद्विशिष्ट-(विषयः)प्रतिषेधो विशेषणमुपसंक्रामतीति ।

सत्यम् । तथाऽपि ब्रह्मविवर्तताज्ञापनायैवमुक्तमिति चेत् (न) । तथा सति तत्रारोपित (त्व मिति वक्तव्यत्वात् । न हि शुक्तिकाशकले कलधौतमारोपितमिति वक्तव्ये ततोऽनन्यदिति प्रयुञ्ज(ज्य)ते ।

अथ ब्रह्मसत्तयैवेदं सत्, नापरा सत्ताऽस्यास्तीति ज्ञापनमेतस्य प्रयोजनमिति चेत् । तर्हि परमार्थसदेवेदमित्यायातमिति कथमनृतत्वम् ।

अथ येयं प्रपञ्चे सत्ताऽवभासते साऽधिष्ठानब्रह्मगतैवारोपितेत्यनेन ज्ञाप्यत इति चेत् । तत्किमन्यथाख्यातिवादिवदनिर्वचनीयख्यातिवादिनोऽप्यारोपिताकारस्यान्यत्र पारमार्थ्यमावश्य-कम् । तथात्वे चाकाशत्वादिकमपि ब्रह्मणि पारमार्थिकमङ्गीकार्यं(रणीयं) स्यात् । रजतत्वादिकं च शुक्तिकायामिति ।

**शेषवाक्यार्थचन्द्रिका **

अपरमिति । विवर्तवादिव्याख्यामित्यर्थः । परव्याख्यानस्य सूत्राक्षरा-ननुगुणतां दर्शयितुं योग्यं पूरयति इतीति । ‘भोक्त्रापत्तेरिति प्राहे’ति पूर्ववाक्यादिति शेषः । सूत्राक्षराननुगुणतामभिनयेन दर्शयति यद्यत्रेति । नन्वनृतशब्दस्येव तदनन्यत्व शब्दस्याप्य-नृतत्ववाचकत्वादनृतत्वमित्येव ब्रूयादित्यापादनं निर्बीजमित्यतो भवेदेवं यदि तदनन्यत्वशब्दस्यानृतत्व-वाचकत्वं स्यान्न च तदस्तीत्याह न हीति । अभिधानाद्यभावादिति भावः । न केवलं साधकाभावो बाधकं चास्तीत्याह तथा सतीति । ब्रह्मण्यपि ब्रह्मानन्यत्वशब्दप्रयोगादिति भावः ॥ तदात्मनाऽस्तीति लभ्यत इति । ब्रह्मव्यतिरेकेणासत्त्वव्यवहारालम्बस्य जीवचैतन्यस्यानन्दादेश्च तदात्मना सत्त्वदर्शनादिति भावः । तदात्मना सत्त्वलाभमनभ्युपगम्य तद्-व्यतिरेकेण नास्तीत्युक्त्या सर्वथाऽप्यनृतत्वलाभाभ्युपगमे बाधकमाह अन्यथेति । जीवचैतन्यस्येत्युपलक्षणम् । आनन्दादेश्चेत्यपि द्रष्टव्यम् । तद्-व्यतिरेकेण नास्तित्वव्यवहारालम्बनत्वाविशेषादिति भावः । न केवलं विशिष्टनिषेधस्य विशेषणमात्रविषयत्वं दर्शनादिबलमात्रसिद्धं किन्तु न्यायसिद्धं चेत्याह प्रसिद्धं चैतदिति । यद्यपि ‘सविशेषणे विधिनिषेधौ विशेषणमुपसंक्रामतः’ इत्येवात्र न्यायः पठितो न तूक्तरूपस्तथाऽप्यर्थत एकदेशस्य प्रकृतोपयोगाभि-प्रायेणायं पाठ इति ध्येयम् । विशेषणमुपसंक्रामत इतीति । विशेष्यमात्रोपस्थितेर्निषेधानुपयोगादितरा-व्यावृत्ततया तत्स्वरूपोपास्थितेश्च स्वत एवेतरव्यावृत्तविशेषणोपस्थितिं विनाऽयोगेन निष्कृष्ट-विशेष्योपस्थित्यपेक्षया विशेषणोपस्थितेः पूर्वभावित्वेन विशेषणस्य प्राप्तत्वादित्यर्थः । यस्तु क्वचिद्विशिष्टस्यापि निषेधान्वयो दृश्यते ‘नैव शून्यगृहे स्वपेदि’ति, स त्वगतिकतया । यथा चैतत्तथोपपादितं जिज्ञासासूत्रे ग्रन्थकारेण विवृतं च वाक्यार्थचन्द्रिकाकृतेति ध्येयम् । नन्वनृतत्वमित्येव वक्तव्यत्वेऽपि तथाऽनुक्त्वा प्रयोजनविशेषसिद्ध्यर्थं तदनन्यत्वमिति वचनं सङ्गच्छत एवेत्यतः किमन्यत्र ब्रह्मण्यारोपितत्वज्ञानं तदनन्यत्वोक्ते प्रयोजनमभिमतम् । किंवा ब्रह्मसत्तयैवेदं सत्तावन्नापराऽस्य सत्ताऽस्तीति ज्ञापनम् । अथवा येयं प्रपञ्चे सत्ताऽवभासते साऽधिष्ठानब्रह्मगतारोपितेति ज्ञापनमिति विकल्पत्रयं मनसि निधायाद्यपक्षमाशङ्कते सत्यमिति । तथा सति वक्तव्यानुक्त्यवक्तव्योक्तिप्रसङ्ग इत्याशयेन वक्तव्यानुक्तिमुपपादयति तथा सतीति । तत्रारोपितत्वमिति वचनस्यैव ब्रह्मविवर्तता-ज्ञापकत्वेन तेन विना तदसिद्धेरिति भावः । अवक्तव्योक्तिप्रसङ्गमप्युपपादयति न हीति । अन्यथा रजतस्य शुक्तिविवर्तताज्ञापनाय ततोऽनन्यत्वप्रयोगप्रसक्तेरिति भावः । द्वितीयं पक्षमुत्थापयति अथेति ॥ तर्हीति । अन्यथा ब्रह्मसत्तयैव सत्तावतो जीवचैतन्यस्यानन्दादेर्वा तदभावप्रसक्त्याऽनृतत्व-प्रसङ्गादिति भावः । तृतीयमाशङ्कते अथेति । तथा सत्यन्यथाख्यातिवादित्वापत्त्याऽनिर्वचनीय-ख्यातिवादित्वभङ्गप्रसङ्ग इत्याह तत्किमिति । आरोपिताकारस्यान्यत्र पारमार्थिकत्वस्यान्यथाख्याति-वादिपक्षत्वादिति भावः । नन्वयं न तेषामेव पक्षः किन्तु ममापीति नारोपिताकारस्यान्यत्र पारमार्थ्य-नियममात्रेणान्यथाख्यातिवादित्वप्रसङ्ग इत्यत आह तथात्वे चेति । किमत्र यद्यत्प्रपञ्चेऽवभासते तत्सर्वं तदारोपाधिष्ठाने ब्रह्मणि पारमार्थिकमिति विशेषनियमो विवक्षितः किंवाऽऽरोपितनिष्ठतया यद्यद्भाति तत्तदारोपाधिष्ठाने पारमार्थिकमिति सामान्यनियम इति विकल्पद्वयमभिप्रेत्याद्यं दूषयति आकाश-त्वादिकमपीति ॥ द्वितीयमपि प्रत्याह रजतत्वादिकं चेति ।

परिमल

अपरमपीति । विवर्तवादिकृतं सूत्रव्याख्यानमित्यर्थः । आपादकमध्याहृत्य योजयति यद्यत्रेति ॥ प्रसिद्धं चैतदिति । ‘न जीर्णमलवद्वासाः स्नातकः स्यादि’त्यादाविति भावः । शङ्कते सत्यमिति ॥ कलधौतमिति । रजतमित्यर्थः ।

श्रीनिवासतीर्थीया

ब्रह्मणोऽपीति । ब्रह्मणोऽपि ब्रह्मानन्यत्वेन ब्रह्मण्यपि ब्रह्मानन्यत्वशब्दः प्रवर्तते । न हि स्वयं स्वस्मादन्यद्भवति । ततश्च ब्रह्मणोऽपि ब्रह्मानन्यत्वशब्दवाच्यत्वेनानृतत्वं स्यादिति ध्येयम् ॥ प्रसिद्धं चैतदिति । कार्यप्रपञ्चो ब्रह्मव्यतिरेकेण नास्ती निषेधस्य ब्रह्मव्यतिरेकेण तस्य सत्त्वं नास्तीत्यर्थः । अयं विशिष्टनिषेधः । तत्र सत्त्वस्य प्रपञ्चे प्रमितत्वेन निषेधायोगात्सत्त्ववति प्रपञ्चे ब्रह्मव्यतिरिक्तत्वरूपं विशेषणमेव निषिध्यत इति वक्तव्यम् । तथा च तदात्मना नास्तीति लभ्यत इति भावः । शङ्कते सत्यमिति । अनृतत्वमित्येव वक्तव्यमिति यदुक्तं तत्सत्यमित्यर्थः । तर्हि तदनन्यत्वमिति किमर्थमुक्तमित्यत आह तथाऽपीति । तथा च तदनन्यत्वमित्युक्ते प्रपञ्चस्य तेनानन्यत्वं तद्-व्यतिरेकेणा-सत्त्वं तत्रारोपितत्वरूपं ब्रह्मविवर्ततत्वं ज्ञाप्यते । अनृतमित्युक्तौ नेदं ज्ञापितं भवतीति भावः ॥ तर्हीति । ब्रह्मसत्तैवात्र यदि तिष्ठतीत्यर्थः ॥ तथात्वे चेति । आकाशादेर्ब्रह्मण्यारोपितत्वाद् रजतस्य शुक्तावारोपितत्वात् । आरोपिते प्रतीयमानस्याधिष्ठानगतत्वाङ्गीकारादाकाशादौ प्रतीयमानमाकाश-त्वादिकं रजते प्रतीयमानं रजतत्वादिकं चाधिष्ठानभूतब्रह्मशुक्तिकागतमेव प्रतीयत इत्यङ्गीकार्यं स्यादित्यर्थः ॥

**वाक्यार्थरत्नमाला **

अत्र न्याय इति । न्यायभाष्यादावित्यर्थः । विशेषणमुपसङ्क्रामतीति प्रतीकोदपादनम् । विशेषणव्यावृत्तेरपीतराधीनत्वेऽनवस्थेतद्भाष्य उक्तं स्वत एवेतरेति । विवृत्तं चेति । तदप्यस्माभिस् तद्-व्याख्यावसरे विवृतमिति ज्ञेयम् ।


जगतस्त्वविकारत्व उक्तन्यायेन साधिते

जगतस्त्वविकारत्व उक्तन्यायेन साधिते

**सुधा **

यद्वा स्याल्लोकवदिति भोक्तृभोग्यप्रपञ्चस्य सत्यतामभिधायेदानीं कथं च तदनन्यतेति तद्विरुद्धमनृतत्वं प्राहेति योजना । ननु सूत्रकारः परमार्थाभिप्रायेण तदनन्यत्वमित्याह । व्यवहाराभिप्रायेण तु स्याल्लोकवदिति । तत्कुतो विरोध इति चेन्न । प्रतारकत्वप्रसङ्गात् । अन्यथा प्रत्याचक्षीत । अप्रत्याख्यायैव कार्यप्रपञ्चं, परिणामप्रक्रियामाश्रयति; सगुणेषूपासनेषूपयोक्ष्यत इ(ती)ति चेत् । किं सगुणोपासनविषयप्रयोजने प्रकृतविषयप्रयोजनानुकूले, उत तद्विरुद्धे, अथोदासीने । नाद्यः भेदविषयत्वात्, सांसारिकफलत्वाच्च । भेदवासना हि सुदृढा तामेवोपोद्बल-येत् । अत एव न तृतीयोऽपि । न द्वितीयो ऽनाप्तत्वापरिहारादिति ।

**शेषवाक्यार्थचन्द्रिका **

एवमपव्याख्यानस्य सूत्राक्षरानानुगुण्यव्युत्पादकतया ‘कथं च तदनन्यते’ति भाष्यं योजितम् । इदानीं तु परोत्प्रेक्षितविरोधपरिहाराभासं दूषयितुं तच्छङ्कोत्थापनाय तथा व्याख्याने सूत्रकारस्य पूर्वोत्तरविरोधव्युत्पादकतयाऽपेक्षिताध्याहारेण तद्योजयति यद्वेति । अत्राभ्युपगम्य चेममित्यादिना सङ्करोक्तं विरोधपरिहाराभासप्रकारं शङ्कते नन्विति । तथा सति भोक्त्रापत्तेरित्यंशे सूत्रकारस्य यथाभूतार्थोपदेष्टृत्वाभावादनाप्तत्वं स्यादित्याह प्रतारकत्वप्रसङ्गादिति । उपलक्षणं चैतत् । भोक्त्रापत्तेरिति प्रमाणस्य सूत्रस्यानृतविषयत्वेऽप्रामाण्यं स्यादित्यपि द्रष्टव्यम् । ननु च प्रत्यक्षादि-प्राप्तप्रपञ्चसत्यताया अत्रानूद्यमानत्वेन तत्सत्यतायामतात्पर्यान्नाप्रामाण्यापत्तिस्तात्पर्यविषयीभूतार्थ-बाध्यताया एव तत्र प्रयोजकत्वात्तस्याश्च प्रकृतेऽभावादित्यतः; स्यादेवं कथञ्चिद्यदि प्रत्यक्षादिप्राप्त-प्रपञ्चसत्यताऽनुवादितोपपद्येत । न चेयमुपपद्यते अनुवादस्य निष्फलत्वात् । तथा हि । किमयं निषेधार्थानुवादो विधानार्थो वेति विकल्पं मनसि निधायोत्तरत्रानिषेधान्न निषेधार्थोऽनुवाद इत्याशयेनाद्यं प्रत्याह अन्यथेति । सूत्रस्य भोक्तृभोग्यलक्षणप्रपञ्चसत्यतायां तात्पर्ये हि प्रतारकत्वमापादितम् । तत्परिहाराय तात्पर्यं परित्यज्य निषेधायानुवादत्वाश्रयणे सूत्रकार उत्तरत्र तत्सत्यतां प्रत्याचक्षीत । न च तदस्तीत्यर्थः । द्वितीयमाशङ्कते अप्रत्याख्यायैवेत्यारभ्य उपयोक्ष्यत इत्यन्तेन । कार्यप्रपञ्चमप्रत्याख्याय तत्सत्यतामप्रतिषिध्यैव तत्परिणामप्रक्रियामेवाश्रयति सूत्रकारः । तस्याः सगुणोपासनोपयोगित्वात् । तस्याश्च मोक्षार्थनिर्गुणोपासनार्थत्वादित्यर्थः । भवेदेवं यदि सगुणोपासननिर्गुणोपासनयोः साध्य-साधनभाव एव स्यात् । न चासावुपपद्यत इत्यभिप्रेत्य तत्र सम्भावितविकल्पप्रदर्शनपूर्वकं तन्निरासेन साध्यसाधनभावासम्भवमेव दर्शयति किमित्यादिना ॥ प्रकृतेति । अथातो ब्रह्मजिज्ञासेति प्रतिज्ञा निर्गुणोपासनविषयप्रयोजनेत्यर्थः । सगुणोपासनविषयप्रयोजनयोः कथं प्रकृतोपासनविषयप्रयोजना-ननुकूलत्वमित्यतस्तत्स्फोरणाय सगुणोपासनविषयप्रयोजने दर्शयति भेदविषयत्वादित्यादिना । तयोरननुकूलतां दर्शयति भेदवासना हीति ॥ अत एवेति । सगुणोपासनविषयप्रयोजनयोः प्रकृत-विषयप्रयोजनप्रतिकूलत्वादेवेत्यर्थः ॥ अनाप्तत्वेति । प्रतिकूलतया तदसाधनस्यैव तत्साधनत्व-वर्णनादिति भावः ।

परिमल

सत्यतामभिधायेति । फेनतरङ्गदृष्टान्तेन भोक्तृभोग्ययोरसाङ्कर्योक्तौ सत्यत्वाभि-धानस्य प्राप्तत्वादिति भावः ॥ अन्यथेति । प्रागुक्तसत्यत्वस्यानभिप्रेतत्व इत्यर्थः । शङ्कते अप्रत्याख्यायैवेति ॥ प्रकृतेति । शुद्धब्रह्मरूपविषयतज्ज्ञानप्रयोजनेत्यर्थः ॥ उपोद्बलयेदिति । कार्यप्रपंचपरिणामप्रक्रियेति वा सगुणोपासनमिति वाऽनुषङ्गः ॥ अत एवेति । भेदवासनोपोद्बल-कत्वादेवौदासीन्यपक्षो न युक्त इत्यर्थः ।

श्रीनिवासतीर्थीया

अन्यथेति । यद्यप्रतारक इत्यर्थः । उपयोक्ष्यत इति । जगज्जन्मादिकर्तृत्वेन सगुणोपास्तौ कार्यप्रपञ्च उपयुक्तः । अन्यथा तत्कर्तृकत्वेनोपास्तेरयोगात् ॥ प्रकृतविषयेति । तदनन्यत्वेति जगदारोपाधिष्ठानत्वेन प्रोच्यमाननिर्गुणब्रह्मरूपविषयतदैक्यापत्तिरूपप्रयोजनेत्यर्थः । तां भेदवासनाम् । अत एव भेदविषयकत्वेन विरुद्धत्वादुदासीनत्वं नास्त्येवेत्यर्थः ॥ अनाप्तत्वेति । प्रकृत विषयप्रयोनविरुद्धविषयप्रयोजनोपयुक्तं कार्यप्रपञ्चं ‘स्याल्लोकवदि’ति प्रतिपाद्य तन्निराकरण-मकुर्वन्कथमनाप्तो न स्यादिति भावः ॥

**वाक्यार्थरत्नमाला **

तथा व्याख्यान इति । परापव्याख्यान इत्यर्थः ।