जगतस्त्वविकारत्व उक्तन्यायेन साधिते
श्रुतीनामर्थन्तरपरता
जगतस्त्वविकारत्व उक्तन्यायेन साधिते
**सुधा **
नन्वेवमुपपत्तिविरुद्धाऽपि जगतो ब्रह्मानन्यताऽङ्गीकरणीया । अन्यथैतदात्म्यमिदं सर्वमित्यादिश्रुतीनामप्रामाण्यप्रसङ्गादित्यत आह कथं चेति । अविकारित्वेऽपि विकारत्वादन्यस्मिं-स्तदधीनत्वादौ श्रुत्यर्थे ‘स्वातन्त्र्ये च विशिष्टत्व’ इत्युक्तन्यायेन साधिते सति कथं तदनन्यताऽङ्गी-कर्तुमुचिता । सावकाशश्रुतिप्रतीतोऽप्यर्थो निरवकाशोपपत्तिविरोधात्त्याज्य एव । यथोक्त-मभिमान्यधिकरण इति भावः ॥
**शेषवाक्यार्थचन्द्रिका **
विषयान्तरोपदर्शनेन श्रुतिप्रामाण्यसमर्थनपरतयाऽपि भाष्यं योजयितुं श्रुत्यप्रामाण्यशङ्कामुत्थापयति नन्विति ॥ अन्यथेति । उपपत्तिविरोधेन श्रुतेस्तदन्यार्थकत्वाभाव इत्यर्थः। अप्रामाण्येति । न च तद्युक्तमपौरुषेयत्वेन निर्दोषायास्तदयोगादिति भावः । तावता कथमुक्त-शङ्कापरिहार इत्यतोऽभिप्रायमाह सावकाशेति । नन्वेतदयुक्तम् । यद्युक्तिविरोधेन श्रुतेः स्वार्थात्प्रच्यावनं तस्याः सकलप्रमाणापेक्षया प्राबल्यात् । यत्किञ्चित्स्वार्थात्प्रच्यावनं तदुपजीव्यविरोध एव । न चात्र तथेत्याशङ्क्याह यथेति । अयं भावः । श्रुतेरर्थप्रच्यावनस्यायुक्ततां वदतः कोऽभिसन्धिः । किं विरुद्धयोरेव प्रामाण्यमुत वेदविरुद्धाया युक्तेरप्रामाण्यमिति । नाद्यः । वस्तुनि विकल्पप्रसङ्गात् । नान्त्यः । व्याप्तिपक्षधर्मतोपेतायास्तदयोगात् । कथं त‘र्ह्युपजीव्यविरोधे त्वि’त्युक्तमिति चेदुपलक्षण-त्वेनेति ब्रूमः । उपजीव्यं खलु नोपजीव्यमित्येव बाधकं किन्तु प्रबलत्वेन । तद्यदि युक्त्यन्तरस्यापि स्यात्तदा कुतो न बाधकतेत्यभिमान्यधिकरणे ‘दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः’ इति कारिकाखण्डेन भाष्यकृतोक्तमित्यर्थः ।
परिमल
इत्युक्तन्यायेनेति । जिज्ञासासूत्रानुव्याख्यानोक्तन्यायेनेत्यर्थः ॥ निरवकाशोप-पत्तीति । विरुद्धधर्माधिकरणत्वादिरूपोपत्तिविरोधादित्यर्थः ॥ यथोक्तमिति । तत्र मृत्त्वजडत्वादि-युक्तिविरोधेन मृदब्रवीदित्यादेः प्रतीतार्थप्रच्यावनस्य कृतत्वादिति भावः ।
श्रीनिवासतीर्थीया
यथोक्तमिति । ‘दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः’ इत्युक्तत्वादिति ध्येयम् ।
**वाक्यार्थरत्नमाला **
विरुद्धयोरेवेति । द्वयोरपीति योज्यम् ।