कथं च तदनन्यता
परिणामवादिव्याख्याननिरासः
कथं च तदनन्यता
**सुधा **
तत्राद्यं व्याख्यानं तावन्निराकरोति कथं चेति ।
अनुव्याख्यानम्
ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ ॥
……. …… …… कथं च तदनन्यता ॥
कथमित्याक्षेपे । चशब्दः पूर्वसूत्रापव्याख्यानाक्षेपेणास्य समुच्चयार्थः । जगत इति वक्ष्य-माणमत्रापि सम्बध्यते । ‘अत्र प्रतिपाद्या स्यादि’ति शेषः ।
अयमाशयः । यो हि ब्रह्मोपादानतां जगतोऽभ्युपगम्यापि तदन्यतां मन्यते सोऽत्र पूर्वपक्षी-करणीयः । न च वैशेषिकादिस्तथेति प्राप्त्यभावान्न तदनन्यत्वोक्तेरवसरोऽस्ति ब्रह्मोपादानता-मनङ्गीकुर्वाणं प्रति तु सैव समर्थनीया । न तु तदनन्यता । तदधीनसिद्धित्वादस्याः । अथ ब्रह्मोपादानताप्यत्र समर्थ्यत इति चेत् । न । तथा सति प्रकृत्यधिकरणवैयर्थ्यापत्तेः । प्रकृत्यधि-करणन्यायेनो(यो)पपादि(तं)तब्रह्मोपादानता(त्व)मभ्युपेत्यापि तदन्यतां मन्यमानोऽत्र पूर्वपक्षीति चेत् । न । किमिदं ब्रह्मोपादानत्वं ब्रह्मसमवायित्वं वा, ब्रह्मपरिणामत्वं वा; यत्परेणाङ्गीकारितम् । नाद्यः (कल्पः) तस्यानन्यत्वविरोधात् । समवायस्य निराकरिष्यमाणत्वाच्च । द्वितीये प्रयत्न-वैयर्थ्यमेव । न हि कोऽपि परिणामवादमङ्गीकृत्य कार्यकारणयोरत्यन्तभेदमङ्गीकुरुते, यं प्रतीदमारभ्येत इति ।
**शेषवाक्यार्थचन्द्रिका **
आक्षेप इति । न कथमपीत्याक्षेप इत्यर्थः । उत्तरत्र परिहाराभावेन प्रश्नार्थत्वायोगादिति भावः ॥ चशब्द इति । अनेन तदनन्यता चेति चशब्दसम्बन्धः सूचितो भवति । ब्रह्मणो ब्रह्मानन्यतायाः सिद्धान्तेऽपि सत्त्वेन जगत इतीति । कार्यस्य कारणानन्यतायाः सूत्राप्रतिपाद्यताया भाष्येऽनुक्तत्वात्तल्लाभायापेक्षितशेषं पूरयति अत्रेति । ‘कथञ्च तदनन्यते’ति मूले आक्षेपार्थककथंशब्देन न कथञ्चिदिति केनापि प्रकारेण तदनन्यतायाः सूत्राप्रतिपाद्यत्वमुपदर्शितं तत्कथमित्यतस्तद्दर्शयन्पूर्वपक्षासम्भवनिमित्तं तावदाह अयमाशय इति । ननु वैशेषिकरीत्या स्वरूपकार्यव्यपदेशादिभेदेन कार्यस्य कारणानन्यत्वासिध्द्या जगतो ब्रह्मानन्यत्वाक्षेपस्य प्रदर्शित-त्वात्कथमत्र पूर्वपक्षासम्भव इत्यतो भवेदेवं यद्यत्र वैशेषिकादेः पूर्वपक्षितोपपद्येत । न च सोपपद्यत इत्याह यो हीति । तं प्रत्येवानन्यत्वप्रतिपादनस्य श्लिष्टत्वादिति । भावः । ननु च मयाऽप्यत्र यो ब्रह्मोपादानत्वमङ्गीकृत्यापि तदनन्यत्वं न मन्यते तस्यैव पूर्वपक्षीकरणान् न पूर्वपक्षासम्भवः; इत्यतो भवेदेतदेवं यदि तव पूर्वपक्षित्वेनाभिमतो वैशेषिकादिर् जगतो ब्रह्मोपादानत्वमङ्गीकृत्य तदनन्यत्वं न मन्यत इति स्यात् । न चैतदस्ति । वैशेषिकादिभिर्जगतो ब्रह्मानन्यताया इव ब्रह्मोपादानताया अप्यनभ्युपगमेन तेषामुक्तरूपत्वाभावादित्याह न चेति । माऽस्तु वैशेषिकादेस्तथात्वं किं तावता प्रकृते समायातमित्यत आह इतीति । इतिशब्दो हेतौ । वैशेषिकादेरतथात्वेन तद्रीत्या जगतो ब्रह्मो-पादानकत्वमभ्युपगम्य ब्रह्मानन्यत्वशङ्कारूपपूर्वपक्षानुदयात्तं प्रत्यनन्यत्वप्रतिपादनमनवसरग्रस्तमिति भावः । अनवसरमेवोपपादयति ब्रह्मेति ॥ सैवेति । प्रथममिति शेषः ॥ न त्विति । प्रथममिति शेषः। तत्र हेतुमाह तदिति । तदनन्यतायास्तदुपादानकत्वैकप्रमाणकत्वात्तदसिद्धौ न सा समर्थयितुं शक्यत इत्यर्थः । ननु ब्रह्मोपादानतामनङ्गीकुर्वाणं प्रति तस्या अप्यत्र साधनादत्रोक्तन्यायोपपादित-ब्रह्मोपादानतामङ्गीकृत्य तदन्यतां मन्यमान एवात्र पूर्वपक्ष्यभिमतः । तं प्रति चास्त्येवोक्तरीत्या जगतो ब्रह्मान्यत्वप्राप्तिरिति न तदनन्यत्वप्रतिपादनस्य सूत्रेऽनवसरग्रस्तत्वमित्याशयेन शङ्कते अथेति ॥ न तथा सतीति । तदधिकरणव्युत्पाद्यप्रमेयस्यानेनैव सिद्देरिति भावः । नन्वत्र न वैशेषिकादिः पूर्वपक्षी येनोक्तदोषः किन्तु जगतो ब्रह्मोपादानतामभ्युपगम्यापि तदन्यतां मन्यमान एव । तत्कथमनन्यत्व-प्रतिपादनस्यानवसरग्रस्तत्वमित्याशङ्कते प्रकृत्यधिकरण इति ॥ अङ्गीकारितमिति । प्रकृत्यधिकरण इति शेषः ॥ विरोधादिति । समवायस्यान्यत्वेनैव सहवृत्तेः सर्वत्र दर्शनेनान्यत्वेन विरोधादित्यर्थः । अङ्गीकृत्य च समवायं विरोधोद्भावनमिदम् । वस्तुतस्तु स एवासिद्धः । ‘समवायाभ्युपगमाच्चे’त्यादिना वैशेषिकपरीक्षायां तस्य निराकरिष्यमाणत्वादित्याह समवायस्येति ॥ प्रयत्नवैयर्थ्यमिति । अधिकरणा-नारम्भप्रसङ्ग इत्यर्थः । एतदेव विशदयति न हीति । आरभ्येतेतीत्यत्रत्येतिशब्दस्य ‘अयमाशय’ इति पूर्वेण सम्बन्धः ।
परिमल
तर्हि वैशेषिकादिकं प्रति कीदृशोक्तेरवसर इत्यत आह ब्रह्मोपादानतामिति ॥ अङ्गीकारितमिति । प्रकृत्यधिकरणन्यायेनेति योज्यम् ।
यादुपत्यम्
अवसराभावमेवोपपादयति ब्रह्मोपादानतामिति ॥ अङ्गीकारितमिति । प्रकृत्यधिकरण इति शेषः ॥
श्रीनिवासतीर्थीया
सा ब्रह्मोपादानता । आक्षेपेण निराकरणेन ॥ तदिति । ब्रह्मोपादानत्वे सिद्धे उपादानोपादेययोरनन्यत्वं स्वयमेव भविष्यतीत्यस्या अनन्यताया उपादानत्वाधीनसिद्धिकत्वात्सैव समर्थनीयेत्यर्थः ॥ मन्यमान इति । वैशेषिकातिरिक्त इत्यर्थः ॥ अथेति । न केवलं तदनन्यतेत्यपि-शब्दार्थः । परेण तार्किकेण, त्वयेति शेषः । तस्येति । ब्रह्मसमवायित्वं जगतोऽङ्गीकृत्य प्रवृत्तं प्रति कथं त्वया अनन्यत्वं साध्यते, तदनन्यत्वतत्समवायित्वयोर्विरोधादित्यर्थः ॥ निराकरिष्यमाणत्वाच्चेति । तथा च ब्रह्मसमवायिकारणकत्वरूपं ब्रह्मोपादानकत्वं कथं परेणाङ्गीतकृमिति भावः ॥ प्रयत्नेति । अनन्यत्वसाधनप्रयत्नेत्यर्थः । तदुपपादयति न हीति ।
**वाक्यार्थरत्नमाला **
तावदाहेति । सूत्राप्रतिपाद्यत्वं तावदाहेत्यर्थः । पूर्वपक्षीकरणादिति । पूर्वपक्षित्वेनाङ्गीकारादित्यर्थः ।