भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः
रामानुजोक्तसूत्रार्थनिरासः
भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः
**सुधा **
ये तु व्याचक्षते ‘चिदचिद्वस्तुशरीरत्वे ब्रह्मणो जीववत्सुखदुःखादिभोक्तृत्वा-पत्तेर्जीवब्रह्मस्वभावविभागो न स्यादिति चेन्न । यथा कान्तारे निपतितस्या(पि) नृपस्य न दंशमशकाद्युपद्रवस्तथाऽत्रापि स्यादि’ति । तेषामप्ययं शब्ददोषः समानः ।
ननु भावप्रधाना निर्देशास्तत्र तत्र बहुलमुपलभ्यन्ते । तत्कथमयं दोषोऽभिधीयते । अयमभि-सन्धिर्भाष्यकारस्य । प्रतिपाद्ये व्यवस्थिते तद्बलाच्छाब्दी गौणता कथञ्चिदनुसर्तव्या । न चास्य सूत्रस्येदं व्यवस्थितम् । जगदुपादानत्वस्य प्रागनुक्तत्वेनानुक्तोपालम्भप्रसङ्गात् । जगच्छरीरत्व-स्यान्तर्याम्यधिकरणे प्रसक्तत्वेऽपि सम्भोगप्राप्तिरित्यनेनैव परिहृतत्वात् । तत्र जीवशरीरगतत्वेन प्रस(क्तं)क्तभोक्तृत्वमपास्तम् । अत्र तु जगच्छरीरत्वेनेति चेन्न । पूर्वोत्तरपक्षयोर्न्यायाविशेषे सूत्रारम्भानुपपत्तेः । अतो निर्निमित्तः शाब्ददोषोऽपि नानुसरणार्ह इति ॥ यद्वैतदर्थप्रतिपादनाया कथं चेत्याद्युत्तरवाक्यमत्रापि संयोज्य व्याख्येयमित्युक्त एव सूत्रार्थ इति ॥ २-१-५ ॥
**शेषवाक्यार्थचन्द्रिका **
रामानुजीयसूत्रव्याख्यानदूषणपरतयाऽपि भाष्यं योगयितुं तदनुवदति ये त्विति ॥ अयं शब्ददोष इति । भोक्तृशब्दे भावप्रधानत्वाश्रयणत्वरूप इत्यर्थः । अस्मद्रीत्या भोक्तुर्जीवस्य ब्रह्मत्वापत्तेरित्यल्पाध्याहारेणोपपत्तौ ब्रह्मणश्चिदचिद्वस्तुशरीरित्वादित्यापादकाध्याहार-स्यापाद्येऽपि दुःखादिपदाध्याहारस्य, भोक्तृशब्दे भावप्रधानतायाश्चाश्रयणमनुचितमिति भावः ॥ तत्र तत्रेति । ‘मुक्तोपसृप्यव्यपदेशात्’, ‘द्य्वेकयोर्द्विवचनैकवचने’ इत्यादावित्यर्थः ॥ प्रागनुक्तत्वेनेति । प्रकृत्यधिकरणस्य ब्रह्मणो जगदुपादानपरत्वस्य तत्रैव निरस्तत्वादिति भावः । ननु मायावादिमतेऽ-नुक्तोपालम्भप्रसक्तावपि रामानुजपक्षेऽन्तर्याम्यधिकरणे चिदचिद्वस्तुशरीरित्वस्य प्रसक्तत्वेन तदाक्षेपकत्वे नानुक्तोपलम्भप्रसङ्ग इत्यत आह जगच्छरीरत्वस्येति ॥ जीवशरीरगतत्वेन प्रसक्तमिति । शरीरान्तरावस्थानमात्रप्रसक्तभोक्तृत्वाशङ्कायास्तत्र निरासः, इह तु शरीरस्वामित्वप्रयुक्तायास्तस्या, इति भेद इत्यर्थः ॥ न्यायाविशेष इति । त्वया तत्र, ‘न हि शरीरान्तर्वर्तित्वमेव सुखदुःखहेतुरपि तु पुण्यपापरूपकर्मवशत्वम्, तत्त्वपहतात्मनः परमात्मनो न सम्भवति’ इत्युक्तत्वात् । अत्र च, न हि जीवस्य शरीरधातुवैषम्यनिमित्तसुखदुःखस्वभोक्तृत्वं शरीरत्वकृतम् अपि तु पुण्यपापरूपकर्मकृतम् । अपहतपाप्मनश्च परमात्मनः स्थूलसूक्ष्मरूपकृत्स्नजगच्छरीरित्वेऽपि कर्मबन्धगन्धो नास्तीत्युक्तत्वा-न्न्यायाविशेष इति भावः ॥ एतदर्थप्रतिपादनायेति । जगदुपादानताया एतदधिकरणप्रतिपाद्यत्वा-व्यवस्थितिप्रतिपादनायेत्यर्थः ॥ इत्युक्त एवेति । अनेनापव्याख्याननिराकरणं स्वव्याख्यानदृढीकरणार्थ-त्वान्नासङ्गमिति स्मारयति ॥ २-१-५ ॥
**परिमल **
ये त्विति । रमानुजीया इत्यर्थः ॥ तत्र तत्रेति । ‘मुक्तोसृप्यव्यपदेशात् । अपीतौ तद्वत्प्रसङ्गादि’त्यादावित्यर्थः ॥ अनुक्तत्वेनेति । प्रकृत्यधिकरणादेरन्यार्थत्ववर्णनादिति भावः ॥ अनुक्तोपालम्भप्रसङ्गादिति । भोक्त्रापत्तेरित्यादिवदतस् तत्पूर्वपक्षिण इति योज्यम् । ‘ये त्वि’त्युक्त-मतान्तरेऽपि दोषमाह जगच्छरीरत्वस्येति ॥ एतदर्थप्रतिपादनायेति । अनुक्तोपालम्भ-प्रसङ्गोपपादनायेत्यर्थः ॥ २-१-५ ॥
**यादुपत्यम् **
ये त्विति । रामानुजीया इत्यर्थः ॥ तत्र तत्रेति । मुक्तोपसृप्य-व्यपदेशादित्याद्यस्मच्छास्त्रे द्य्वेकयोरित्यादिपरशास्त्रे, चेत्यर्थः । रामानुजं प्रत्याह जगच्छरीरत्वस्येति ॥ यद्वैतदर्थेति । मायावादिनोक्तस्यैतदधिकरणप्रतिपाद्यस्याव्यवस्थितत्वप्रतिपादनायेत्यर्थः ॥ २-१-५ ॥
**श्रीनिवासतीर्थीया **
उपद्रव इति । राज्ञ ऐश्वर्येण भृत्यादिभिस्तदुपद्रवपरिहारात् । एवं ब्रह्मणोऽप्यैश्वर्येण सुखाद्यभोक्तृत्वं युक्तमित्यर्थः । तत्र तत्र ‘मुक्तोपसृप्यव्यपदेशादि’त्यादौ शाब्दी गौणता भावप्रधानाध्याहारादिरूपा ॥ प्रसक्तत्वेऽपीति । यस्य पृथिवी शरीरं, यस्यात्मा शरीरमित्यादिना पृथिव्याद्यचेतनचेतनात्मकजगच्छरीरस्योक्तत्वादित्यर्थः । जगच्छरीरत्वेन प्रसक्तं भोक्तृत्वमपास्यत इत्यर्थः ॥ न्यायविशेष इति । उभयोरपि शरीरस्थत्वं पूर्वपक्षन्यायः । ऐश्वर्येण परिहारः सिद्धान्तन्यायः ॥ एतदर्थेति । न चास्य सूत्रस्येदं प्रतिपाद्यं व्यवस्थितमित्युक्त ‘सूत्र-प्रतिपाद्यस्य प्रमेयस्याव्यवस्थितत्व रूपार्थ’ प्रतिपादनायेत्यर्थः ॥ व्याख्येयमिति । तथा च जगतोऽविकारत्वे उक्तन्यायेन साधिते सति, कथं च तदनन्यता जगत एतत्सूत्रप्रतिपाद्या स्यात् । तथा च प्रतिपाद्यस्याव्यवस्थितत्वाद्भावप्रधानतादिरूपा शाब्दी गौणता नानुसरणीयेत्येतावानर्थ इदानीं मूलोपर्येवागत इति ध्येयम् ॥ २-१-५ ॥
**वाक्यार्थरत्नमाला **
सशरीरत्वकृतमिति पाठः ।
॥ इति भोक्त्रधिकरणम् ॥