०४ मायावादिभास्करव्याख्यानिरासः

भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः

मायावादिभास्करव्याख्यानिरासः

भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः

**सुधा **

केचिदिदं सूत्रमन्यथा व्याचक्षते । पूर्वं किल चेतनाचेतनात्मकस्य प्रपञ्चस्य ब्रह्मोपादनत्वेन ब्रह्मानन्यत्वमुक्तम् । तदाक्षिप्य समाधातुमिदं सूत्रम् । तथा हि । यदि चेतना-चेतनात्मकस्य जगतो ब्रह्मनन्यत्वं स्यात्तदा चेतनो भोक्ता भोग्याश्चाचेतना विषया इत्ययं विभागो न स्यात् । कुतः । भोग्यस्यापि भोक्तृत्वापत्तेः । भोक्तुरपि भोग्यत्वापत्तेः । भवितव्यं चानेन विभागेन । प्रत्यक्षादिसिद्धत्वादिति चेत् । स्याल्लोकवत् । यथा लोके समुद्रात्मनामपि फेन-तरङ्गादीनां नेतरेतरभावापत्त्या विभागभङ्गः, यथा वा महाकाशात्मनामपि घटमठाद्याकाशानां, तथा प्रकृतेऽपि स्यादिति ॥ तदिदं दूषयति भोक्तृत्वेति ।

अनुव्याख्यानम्

भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः ॥

भोक्त्रापत्तेरिति प्राहः ॥ २-१-५ ॥

यद् यदि भोक्त्रापत्तेरित्यत्र भोक्तृत्वापत्तेरिति व्याख्यानं सूत्रकारस्यापि(भि)मतं स्यात् तत् तर्हि कुतो हरिः सूत्रकृद् भोक्त्रापत्तेरिति (प्र)आह । भोक्तृत्वापत्तेरित्येव ब्रूयात् । न चैवमब्रवीत् । ततो नायमभिप्रायः सूत्राकारस्येति ।

यद्यप्यत्र परेषामस्माकं चाध्याहारसाम्यम् । तथाऽपि भावप्रत्ययाभावः परस्याधिकः ।

**शेषवाक्यार्थचन्द्रिका **

‘भोक्तृत्वापत्तितः’ इत्यादौ तत्सूत्रव्याख्यानत्वाभावादानर्थक्यमित्यत-स्तदभावेऽप्येतत्सूत्रीयापव्याख्याननिरासार्थत्वान्न तदितिभावेन तन्निरासकतयोत्तरवाक्यं योजयितुं तदनुवदति केचिदित्यादिना ॥ पूर्वमिति । प्रकृतिश्चेत्यादाविति शेषः । नन्वापादकानुक्तेर-विभागापादनमयुक्तम् । न च भोक्त्रापत्तिरेव तदापादिकेति वाच्यम् । भोक्तृभोग्ययोरैक्यस्य परेणानुक्ततया तस्यासिद्धत्वेन तदयोगादित्यतो जगतो ब्रह्मोपादनकत्वेन प्राप्तं ब्रह्मानन्यत्वमेव तदापादकमित्याशयेनापादकप्रदर्शनपूर्वकमविभागापादनमुपपादयति यदीति । तर्ह्येतावतैव जगदुपादानत्वाक्षेपसिद्धेर्भोक्त्रापत्तेरिति पूर्वपक्षांशवैयर्थ्यमित्याशङ्क्य ब्रह्मानन्यत्वेऽपि विभागोऽ-स्त्वित्यप्रयोजकताशङ्कापरिहारार्थत्वान्न तदिति भावेनोक्तरीत्या तं योजयितुमप्रयोजकत्वशङ्कामुत्थापयति कुत इति । न वयं जगतो ब्रह्मानन्यत्वेन साक्षादविभागमापादयामो येनाप्रयोजकत्वं शङ्क्येत किन्तु चेतनाचेतनात्मकप्रपञ्चस्य ब्रह्मानन्यत्वेनेतरेतरभावापत्तिमापाद्यतया विभागाभावमापादयाम इति नाप्रयोजकत्वमित्याशयेनेतरेतरभावापत्तिसमर्पकतया भोक्त्रापत्तेरित्येतद्योजयति भोग्यस्यापीत्यादिना । अविभागापादने इष्टापत्तिं परिहरति भवितव्यं चेति । उक्तविभागस्य द्वैतग्राहिप्रत्यक्षादिप्रमाणसिद्धत्वेन तदभावस्य प्रमाणबाधितत्वान्नेष्टापत्तिरित्यर्थः । न चाद्वैतबोधकश्रुत्या बाधितत्वेन द्वैतग्राहि-प्रत्यक्षस्याप्रामाण्यान्न द्वैताभावस्य प्रमाणबाधितत्वमिति वाच्यम् । श्रुतेरुपचरितार्थत्वेन सावकाशतया निरवकाशप्रत्यक्षस्यैव प्राबल्यादित्यत्र तात्पर्यात् । सूत्रे स्याच्छब्दो न केवल‘मविभागः स्यादि’ति, किन्तु ‘स्याल्लोकवदि’त्युत्तरेणापीति भावेन तथैवोपादत्ते स्यादित्यादिना ॥ लोकवदिति । सप्तम्यन्ताद्वतिरित्यभिप्रेत्य व्याख्याति यथेति । समुद्रशब्द उदकपरः । आदिपदेन वीचीबुद्बुदादीनां परिग्रहः । ननु फेनादीनां समुद्रकार्यत्वाद्युक्तस्तदभेदो, भोक्ता तु न ब्रह्मविकारः । ‘तत्सृष्ट्वा तदेवानुप्राविशदि’ति स्त्रष्टुरविकृतस्यैव कार्यानुप्रवेशवचनादित्यतः कार्यमनुप्रविष्टस्याप्यस्त्येवोपाधि-निमित्तो विभागः । अनुप्रविष्टाकाशस्य घटपटाद्युपाधिनिमित्तविभागदर्शनादित्यभिप्रेत्योक्तशङ्कामनुगुण-दृष्टान्तान्तरोक्त्या परिहरति यथा वेति । ननु भोक्तुर्भोग्यत्वापत्तेर्भोग्यस्य भोक्तृत्वापत्तेरिति परकीय-योजनायां भोग्यत्वापत्तेरित्यादेरिव स्वपक्षे ब्रह्मत्वस्येत्यस्याध्याहारेणाध्याहारस्योभयत्र समानतयोभय-समादेयत्वेन कथं परं प्रति तात्पर्यानुयोग इति शङ्कते यद्यपीति । भोक्तुर्भोग्यत्वापत्तेरिति परकीय-योजनाया भोक्तुर्ब्रह्मत्वापत्तेरिति स्वकीययोजनायाश्चैकपदाध्याहारेण साम्येऽपि भोग्यस्य भोक्तृत्वा-पत्तेरिति परकीययोजनाया भोक्तुर्ब्रह्मत्वापत्तेरिति स्वकीययोजनायाश्च न साम्यम् । भोग्यस्येति पदाध्याहारस्य भोक्तृशब्दे भावप्रधानतायाश्चाश्रयणेनानेकाध्याहारात् । स्वमते तु ब्रह्मत्वस्येत्यद्याहारे-णाल्पाध्याहारात् । न चाल्पाध्याहारेणोपपत्तावनेकाध्याहाराश्रयणं युक्तमिति युक्त एव पर्यनुयोग इत्याह तथाऽपीति ।

**परिमल **

केचिदिति । ब्रह्मपरिणामवादिनः । यदित्यनुवादः, यदीति व्याख्या । तत्तर्हीत्यपि तथा ध्येयम् ॥ अध्याहारेति । मायिमते भोक्तुर्भोग्यत्वापत्तेर् भोग्यस्य च भोक्तृत्वापत्तेरिति व्याख्यातत्वात्; भोग्यस्येत्यस्य परमते, स्वमते च मोक्षे ब्रह्मत्वेत्यस्याध्याहारादिति भावः ।

**यादुपत्यम् **

अध्याहारसाम्यमिति । भोक्तुः शरीरस्य भोग्यत्वापत्तेर्भोग्यस्य च शब्दादे-र्भोक्तृत्वापत्तेस्तयोरविभागः स्यादिति परेण व्याख्यातत्वात् । अस्माभिरपि भोक्तुर्जीवस्य मोक्षे ब्रह्मत्वापत्तिश्रवणादिति व्याख्यातत्वादिति भावः ॥

**श्रीनिवासतीर्थीया **

भोक्तृत्वापत्तेरिति । भोक्त्रभिन्नब्रह्मात्मकत्वाद्भोग्यस्येत्यर्थः । यद्यदभिन्नाभिन्नं तत्तेनाभिन्नमिति व्याप्तेरिति ध्येयम् ॥ भोग्यत्वेति । भोग्याभिन्नब्रह्मात्मकत्वा-द्भोक्तुरित्यर्थः । उक्तव्याप्तेरिति ध्येयम् ॥ सिद्धत्वादिति । तस्माज्जगतो ब्रह्मानन्यत्वं नास्तीति शेषः ॥ इतरेतरेति । फेनस्य तरङ्गतापत्त्या, तरङ्गस्य फेनतापत्त्येत्यर्थः । विभागो भेदः ॥ तथाऽपीति । परमते भोग्यस्येत्यस्यावश्याध्याहार्यत्वाद्भोक्तुरित्यत्र त्वप्रत्ययस्याप्यध्याहारादध्याहारद्वयं, स्वमते तु ब्रह्मत्वस्येत्येकस्यैवाध्याहार इति भेदः ।

**वाक्यार्थरत्नमाला **

विभागोऽस्त्वीतीति । एको भोक्ता अन्यद्भोग्यमिति भोक्तृभोग्य-विभागोऽस्त्वित्यर्थः । एवमुत्तरत्रपि विभागपदार्थो ज्ञेयः । अधिकरणान्तं व्याख्येयमस्ति ।