०१ जीवब्रह्मणोरभेदनिराकरणम्

ॐ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ

॥ अथ भोक्त्रधिकरणम् ॥

जीवब्रह्मणोरभेदनिराकरणम्

ॐ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ

**सुधा **

ॐ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ ॥ अतीताधिकरणे ब्रह्मणो जगज्जन्मादि-कारणत्वे श्रुतिसंवादित्वेन प्रबलया युक्त्या विरोधः परिहृतः । इदानीं तु श्रतिसिद्ध(लिङ्ग)त्वेन प्रबलया युक्त्या विरोधः परिह्रियते ।

तथा हि । न ब्रह्मणो जगत्कारणत्वं वास्तवं सम्भवति । असर्वकारणेन मुक्ते(क्तजीवे)-नात्यन्ताभिन्नत्वात् । न हि यो येनात्यन्ताभिन्नः स तद्विरुद्धस्वभावो वस्तुत इति क्वचिदुपलब्धम् । न च मुक्तस्यासर्वकारणत्वमसिद्धम्, (सर्वकारणत्वस्य) संसारेऽनुपलम्भात् । संसारे प्रतीयमानस्य कस्यचिदाकारस्यैवापगमो हि मोक्षो न तु अपूर्वाकारोत्पादः, अनित्यत्वप्रसङ्गात् । न चानन्दादेरिव विद्यमानस्यैवाविद्यया तिरोहितत्वात्सर्वकारणत्वस्यानुपलम्भ इति वाच्यम् । प्रमाणाभावात् । आनन्दादेः परमप्रेमास्पदत्वादिना ईषदुपलब्धश्च । न च ब्रह्मणो जगत्कारणत्वश्रवणात्सर्वथाऽनुप-लभ्यमानमपि जगत्कारणत्वं संसारे कल्प्यमिति युक्तम् । श्रुतेः काल्पनिकजगत्कारणत्वानुवादित्वे-नापि सावकाशत्वात् । न च तथाभूतमेव लक्षणमस्त्विति वाच्यम् । अनङ्गीकारात् । काल्पनिकस्य जगत्कारणत्वस्य प्रधानादिष्वपि सम्भवेनातिप्रसङ्गाच्च । अनङ्गीकारात् । काल्पनिकस्य जगत्कारणत्वस्य प्रधानादिष्वपि सम्भवेनातिप्रसङ्गाच्च । स्यादेतत् । काल्पनिकस्य जगत्कारणत्वस्य प्रधानादिष्वपि सम्भवेनातिप्रसङ्गाच्च । स्यादेतत् । मुक्तस्य ब्रह्मणैक्यमेवासिद्धमिति । मैवम् । ‘कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ती’त्यादिश्रुतिसिद्धत्वादिति । तदिदमुक्तं सूत्रकृता भोक्तुर्जीवस्य मोक्षे ब्रह्मत्वापत्तिश्रवणात्तयोरविभागो भेदाभावः । ततश्च न ब्रह्मणो जगत्कारणत्वं वास्तवं युक्तमिति ॥ एवं प्राप्ते सिद्धान्तितम् । भवेदेतदखिलं यदि मुक्तस्य ब्रह्मणाऽभेद एव प्रामाणिकः स्यात् । न चेतदस्ति । श्रौतस्त्वेकीभावप्रयोगः स्याल्लोकवत् । यथा लोकेउदके उदकस्यैकीभावव्यवहारः स्थानैक्यनिबन्धनः । यथा वा प्राग्विभिन्ना ब्रह्मणाः सांप्रतमेकीभूता इति मत्यैक्यनिबन्धनः । तथा प्राग्विभिन्नस्थाना भिन्नमतयश्च जीवा मुक्तौ ब्रह्मणा एकीभवन्ति । एकस्थाना एकमतयश्च भवन्तीत्युपपद्यते । तस्मादसिद्धेनासिद्धसाधनमेतदिति ।

तदेतदयुक्तम् । मुख्यार्थे बाधकाभावात् । विना बाधकेन जघन्यवृत्त्याश्रयणे चातिप्रसङ्गात् । इत्यतो मुख्यार्थे बाधकयुक्तिव्यत्पादनपरत्वेनापि स्याल्लोकवदिति सूत्रखण्डं व्याचष्टे नान्यदिति ।

अनुव्याख्यानम्

ॐ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ ॥

नान्यदन्यत्वमापन्नं क्वचिद्दृष्टं कथञ्चन ॥

अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन ॥

**शेषवाक्यार्थचन्द्रिका **

॥ ॐ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ ॥ ननु ‘नान्यदन्यत्व-मापन्नमि’त्युत्तरभाष्यमनर्थकमित्यत उत्तरसूत्रीयसिद्धान्तखण्डव्याख्यानार्थत्वान्न तदनर्थकमित्यभिप्रेत्य भवेदेतदेवं यद्युत्तरसूत्रमेवारम्भणीयं स्यात् । न चेतदस्ति । पूर्वेण गतार्थतया तस्यैवाकर्तव्यत्वा-दित्यतोऽधिकरणद्वयोपाधिभेदोपदर्शनेन गतार्थताशङ्कां तावत्परिहरति अतीताधिकरण इत्यादिना । श्रुतिगुणयुक्तय इत्यनुव्याख्यानोक्तं श्रुत्युपसर्जनत्वं द्विविधं श्रुतिसंवादित्वं श्रुतिसिद्धत्वं चेत्यभिप्रेत्योक्तं श्रुतिसंवादित्वेनेति श्रुतिसिद्धत्वेनेति च । न च पूर्वत्र श्रुतिसंवादितया प्रबलयुक्तिविरोधपरिहारा-त्तन्न्यायेनैव श्रुतिसिद्धतया प्रबलयुक्तिविरोधपरिहारसिद्धेर्गतार्थत्वमवर्जनीयमिति वाच्यम् । तत्रासदादि-शब्दानां पूर्वसिद्धान्तरीत्या ब्रह्मपरतायामपि मुख्यार्थत्वेनासत्कारणत्वे पूर्वपक्ष्युक्तश्रुतिसंवादाभावात् तत्प्रयुक्तप्राबल्यस्याप्यभावसिद्धावपि अत्रैकीभवन्तीत्यादीनामत्रत्यसिद्धान्तरीत्या स्थानैक्यादिपरत्वे मुख्यार्थहानेर् ऐक्ये श्रुतिसिद्धत्वस्यानपायेन तत्प्रयुक्तप्राबल्यसम्भवेन श्रुतिसिद्धत्वेन प्रबलयुक्तिविरोध-शङ्काया अवर्जनीयत्वात् । यद्यपि च भावत्वादिका पूर्वाधिकरणयुक्तिरपि श्रुतिसिद्धैवेति तादृशयुक्ति-विरोधे परिहृते नैतसच्छङ्कोदयोऽपि । तथाऽपि तस्य प्रलयेऽसत्वरूपं साध्यं विनाऽप्युपपत्तेरत्रत्याया जीवाभिन्नत्वादिरूपयुक्तेस्तु असर्वकर्तृत्वरूपं साध्यं विनाऽनुपपत्तेरस्त्येवोक्तविधया शङ्कोदय इति हृदयम् ।

ननु ‘नान्यदन्यत्वमापन्नमि’त्यादेः ‘स्याल्लोकवदि’ति सूत्रखण्डव्याख्यानता नोपपद्यते । तस्य भाष्यादावन्यथाव्याख्यातत्वात् । न चेदं प्रकारान्तरेण तव्द्याख्यानमिति वाच्यम् । तस्याप्यनर्थकत्वात् । न च भाष्यकारीयव्याख्यानोपपादनार्थत्वान्न तदिति वाच्यम् । तव्द्याख्यानेऽनुपपत्त्यप्रसक्त्या तस्योप-पादनानपेक्षत्वादित्यतो भाष्योक्तरीया सूत्रयोजनाप्रकारप्रदर्शनपूर्वकं तत्रानुपपत्तिं प्रदर्श्यतत्परिहारकतया योजनान्तरस्यावष्यकतां दर्शयितुं भाष्यदिशाऽधिकरणशरीरं तावद्दर्शयति तथा हीत्यादिना । उपन्यस्तानुमाने विशेषव्याप्तौ दृष्टान्ताभावेन तदसम्भवेऽपि सामान्यव्याप्तिरविकलेत्यभिप्रेत्य व्यभिचार-निरासोपदर्शनव्याजेन तां सूचयति न हीति । संसारिण इव मुक्तस्य सर्वकारणत्वे प्रत्यक्षादि-विरोधाभावेन सर्वकर्तृत्वमेवेत्यसर्वकारणेनेति विशेषणासिद्धिरित्याशङ्कते न चेति । मुक्तस्य सर्वकारणत्वं वदन्प्रष्टव्यः । किं तस्य पूर्वमपि सर्वकारणत्वं सदिति किंवा ततः पूर्वमसतोऽपि तस्य मुक्तिवज्ज्ञानेन तस्मिन्नुत्पत्तिरिति । आद्येऽपि किमात्मस्वरूपवदतिरोहितं किंवाऽऽनन्दादिव-त्तिरोहितमिति विकल्पान्मनसि निधायानुपलम्भतर्कबाधान्नाद्य इत्याह संसार इति । दृष्टान्तासिध्द्या द्वितीयं संसार इति । आद्यद्वितीयमाशङ्कते न चेति । नानुपलम्भमात्रमसत्त्वव्यवस्थापकं तथा सत्यनुपलम्भसाम्येन संसारवस्थायामानन्दादेरप्यसत्त्वप्रसङ्गात् । किन्तु योग्यानुपलम्भ एव । न चासाविहास्ति । आनन्दादेरिव सर्वकारणत्वस्यापि अविद्यया आवृतत्वेन सतोऽप्ययोग्यतया अनुप-लम्भोपपत्त्या अनुपलम्भस्यान्यथासिद्धत्वादिति भावः । नानन्दादिदृष्टान्तेन सर्वकारणत्वस्या-विद्ययाऽऽवृतत्वं कल्पयितुं शक्यम् । तथा सति शशविषाणादेरप्यावृतत्वेनानुपलम्भप्रसङ्गात् । किन्तु प्रमाणेन वस्तुसिद्धौ सत्याम् । तथा च ‘नित्यानन्दज्ञानबला इत्यादिप्रमाणानुसारेणानन्दादेः-स्वरूपात्मतया सत्त्वसिद्धेर्युज्यतेऽविद्ययाऽऽवृतत्वेनानुपलम्भान्यथासिद्धिवर्णनम् । न च तद्वत्प्रकृते सर्वकारणत्वस्य जीवे सत्त्वसाधकं प्रमाणमिहास्ति । येन तस्याप्यविद्ययाऽऽवृतत्वकल्पनयानुप-लम्भस्यान्यथासिद्धिवर्णनमवकाशं लभेतेत्याह प्रमाणाभावादिति । किञ्च न वयमनुपलम्भमात्रेण सर्वकारणत्वं निराकुर्मो जीवस्य, किन्नाम सर्वथाऽप्यनुपलम्भेन । न चानन्दादेः सर्वथाऽप्यनुप-लम्भोऽस्ति । तत्कथं तद्वदविद्ययाऽऽवृतत्वकल्पनमित्याशयेनाह आनन्दादेरिति । ननु जीवाभिन्नस्य ब्रह्मणो जगत्कारणत्वप्रतिपादकश्रुतिरेव जीवस्य सर्वकारणत्वे प्रमाणमिति प्रमाणबलाज्जगत्कारण-त्वस्यापि सत्त्वसिद्धेर्युज्यते संसारे तस्याविद्याऽऽवृतत्वकल्पनमित्याशङ्कते न चेति । भवेदियं ब्रह्मणो जगत्कारणत्वाभिधायिनी श्रुतिस्तदभिन्नजीवस्य सर्वकारणत्वेऽपि प्रमाणं, यदि सा तस्याकल्पित-जगत्कारणत्वाभिधायिनी स्यात् । न चैतदस्ति । तस्याः काल्पनिककारणत्वानुवादकत्वेन तदभावात् । तत्कथं सा जीवस्य सर्वकारणतायां प्रमाणं स्यादित्याह श्रुतेरिति ।

ननु श्रुतेः काल्पनिकजगत्कारणत्वानुवादकत्वेन श्रुत्यवष्टम्भेन माऽस्तु जीवस्य जगत्कारणत्व-प्राप्तिः । तथाऽपि न लक्षणाक्षेपो युक्तः । श्रुतिप्रतिपादितकाल्पनिकजगत्कारणत्वस्य ब्रह्मलक्षण-त्वाङ्गीकारादुक्तरीत्याऽसर्वकारणेन मुक्तेनात्यन्ताभिन्नस्य ब्रह्मणो वास्तवजगत्कारणत्वासम्भवेऽपि लक्षणीभूतकाल्पनिकजगत्कारणत्वसम्भवादित्याशङ्कते न चेति ॥ अनङ्गीकारादिति । भवेदेवं लक्षणाक्षेपानुपपत्तिर्यदि काल्पनिकं जगत्कारणत्वं ब्रह्मलक्षणतया सिद्धान्तिनाऽङ्गीकृतं स्यात् । न चैतदस्ति । तस्य सजातीयविजातीयसमस्तवस्तुव्यावृत्ततया ब्रह्मस्वरूपानवधारकत्वेनोक्तरूपलक्षण-प्रयोजनशून्यत्वेन लक्षणत्वानभ्युपगमात् । किन्त्वकल्पितमेव तत्तथाऽभिमतं तच्चोक्तविधया न सम्भवतीति युक्तो लक्षणाक्षेप इति भावः । अतिव्याप्तत्वादपि न काल्पनिकस्य जगत्कारणत्वस्य लक्षणत्वं सम्भवति किन्त्वकल्पितस्यैवेत्यत आक्षेपोपपत्तिरित्याह काल्पनिकस्येति । प्रदर्शित-पूर्वपक्षस्योत्सूत्रतापरिहाराय सूत्रारूढतां दर्शयति तदिदमिति । न ब्रह्मणो जगत्कारणत्वं वास्तवं युक्तमितीति । यद्यप्यत्र जीवब्रह्मणोरभेदस्य, ब्रह्मणः प्रत्यक्षसिद्धासर्वकर्तृजीवसालक्षण्येनेव, जीवस्य श्रुतिसिद्धसर्वकर्तृब्रह्मसालक्षण्येनापि निर्वाहादतिव्याप्त्या लक्षणाक्षेपः कर्तुं शक्यः । अत एव जगत्कारणत्वादि ईश्वरैकनिष्ठं न भवतीत्यादिना टीकायामतिव्याप्त्या लक्षणाक्षेपो दर्शितः । तथाऽपि प्रत्यक्षस्य प्राबल्याद्ब्रह्मणः प्रत्यक्षसिद्धासर्वकर्तृजीवसालक्षण्यमेव वक्तव्यमित्यभिप्रेत्यासम्भव एवात्र निर्धारित इत्यवधेयम् । ‘एकीभूता इती’त्यतः परमेकीभावव्यवहार इत्यनुवर्तते ।

**परिमल **

ॐ भोक्त्रापत्तेः …॥ पूर्वेण सङ्गत्यगतार्थत्वे सूचयन् अधिकरणोपाधिमाह अतीतेति ॥ श्रुतिसिद्धेति । बहुश्रुतिसिद्धलिङ्गत्वेनेत्यर्थः । तथैव चन्द्रिकोक्तैः, इत्यादिश्रुतीति-वक्ष्यमाणत्वाच्च । एतेन पूर्वत्र श्रुतेः सिद्धान्त्यभिमतार्थस्वीकारो युक्तो मुख्यार्थाहानेः । इह तु न सिद्धान्त्यभिमतस्थानैक्याद्यर्थाङ्गीकरो युक्तः मुख्यार्थहानेः । अतो युक्तेः प्राबल्यमिति प्रत्युदाहरण-सङ्गतिः सूचिता । विरोधप्रकारं तावव्द्यनक्ति न ब्रह्मण इत्यादिना एवं प्राप्त इत्यन्तेन । भेदाभेद-निरासायोक्तमत्यन्ताभिन्नत्वादिति । भेदाभेदनिरासस्तु ‘अत एव चोपमासूर्यकादिवदि’त्यत्र करिष्यत इति भावः । नीरूपेपि गगने कल्पितनैल्यमिव कल्पितः सम्भवतीत्यतो वस्तुत इत्युक्तम् । हेतौ विशेषणासिद्धिं निराह न च मुक्तस्येत्यादिना ॥ अनित्यत्वेति । मोक्षस्येत्यनुषङ्गः । तर्ह्यानन्द-ज्ञानादिरपि जीवस्य स्वभावो न स्यात् संसारेऽनुपलम्भादित्यत आह आनदादेरिति । प्रमाणा-भावादित्यसिद्धमिति शङ्कते न च ब्रह्मण इति ॥ संसार इति । संसारदशायामित्यर्थः ॥ अनङ्गीकारा-दिति । सिद्धान्तिनेति भावः । हेतोर्विशेषणासिद्धिं निरस्य विशेष्यासिद्धिं शङ्कापूर्वं निराह स्यादेतदिति । श्रुतौ सर्व इति बहुवचननोपपत्त्यर्थं कर्माणीत्यंशस्याप्यनुवादः । मुक्तिपरत्वद्योतनाय वा । मुक्तावेव कर्मणां निवृत्तेः । विज्ञानमय आत्मा जीवः ॥ सिद्धान्तितमिति । सूत्रकृतेत्यनुषङ्गः । सप्तम्यन्ता-द्वतिरयमिति भावेनाह यथा लोक इति ॥ विभिन्नस्थाना इति । प्राप्यरूपविशेषापेक्षयैवमुक्तिः । एकमतय एकार्थविषयकमतय इत्यर्थः । इतिशब्दस्य इतिसिद्धान्तितमिति पूर्पेणान्वयः ॥ जघन्य-वृत्त्येति । आद्ये लक्षणा, अत्ये लक्षितलक्षणेति भावः ।

**यादुपत्यम् **

ॐ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ ॥ श्रुतिसिद्धलिङ्गत्वेनेति । अनेन ‘श्रुतिगुणयुक्तय’ इत्यनुव्याख्यानोक्तं श्रुत्यपसर्जनकत्वं युक्तीनां द्विविधम्, श्रुतिसंवादित्वं श्रुति-सिद्धलिङ्गत्वं चेत्युक्तं भवतीति ज्ञातव्यम् । अत्र मुक्तेनैकीभूतत्वलिङ्ग ‘परेऽव्यये सर्व एकी-भवन्ती’तिश्रुतिसिद्धमिति भावः ।

**श्रीनिवासतीर्थीया **

ॐ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ ॥ ब्रह्मण इति । मुक्तेन निश्चितैक्योपेतस्येति शेषः ॥ श्रवणादिति । यतो वेत्यादिश्रुतावित्यर्थः ॥ कल्प्यमिति । कल्प्यं मुक्तस्य संसारे कल्प्य मित्यर्थः । तथा चासर्वकारणेनेति विशेषणासिद्धिरिति भावः ॥ श्रुतेरिति । तथा च ब्रह्मणो जगत्कारणत्वश्रवणमेवासिद्धं श्रुतेस्तत्र तात्पर्याभावादिति भावः । तथाभूतं काल्पनिकमेव जगज्जन्मादिकराणत्वम् । काल्पनिकस्येत्यतः पूर्वमङ्गीकारे चेति शेषः ॥ तस्मादिति । लोके सिद्धेन धूमादिहेतुनाऽसिद्धं वह्न्यादि साध्यते । प्रकृते च मुक्तेनैक्यरूपो हेतुरसिद्धोऽनिश्चितस्तेन कथम-सिद्धस्यानिश्चितस्य जगत्कारणत्वादिलक्षणस्यावास्तवत्वस्य साधनं युज्यत इति भावः ॥ मुख्यार्थ इति । एकीभवन्तीति श्रुतेरैक्यरूपमुख्यार्थे प्रोच्यमान इत्यर्थः ॥ जघन्येति । स्थानैक्यादि तु अमुख्यार्थ इति भावः ।

**वाक्यार्थरत्नमाला **

ॐ भोक्त्रापत्तेरविभागश्चेत्स्यल्लोकवत् ॐ ॥ अनर्थकमिति । भोक्त्रा-पत्तेरित्याद्युत्तरसूत्रगतभागव्याख्यानार्थकताया अभावेन सार्थक्यासम्भवादिति भावः । सिद्धान्त-खण्डेति । पूर्वपक्षखण्डव्याख्यानत्वाभावेऽपीति पूरणीयम् । व्याख्यानार्थत्वादित्यस्य व्याख्यानान्तरार्थत्वादित्यर्थः । एतच्च नान्यदन्यत्वमापन्नम् इत्यादिर् उत्तरटीकायां स्पष्टम् । एतद् अनारम्भणीयत्वम् । कर्तुमशक्यत्वादित्यर्थः । अनारम्भणीयत्वाकर्तव्यत्वयोरेकरूपत्वेन हेतुहेतु-मद्भावानुपपत्तिरिति शङ्कानवकाशः । एतेनैव पूर्वेण गतार्थत्वादित्येतावतैव पूर्तेर् अधिकं व्यर्थमित्यपि निरस्तम् । उक्तरीत्या अकर्तव्यत्वादित्यस्य अधिकार्थप्रतिपादकत्वाद् इति ज्ञेयम् । तावदिति । अनेनारम्भणीयत्वेऽपि भाष्यदिशोक्तसूत्रखण्डव्याख्यानसिद्धेरत्र पुनस्तद्-व्याख्यानमनर्थकमित्यादि-शङ्कापरिहारोऽप्युत्तरत्र करिष्यत इति सूचितं भवति । श्रुत्युपसर्जनत्वमिति । श्रुतिरुपसर्जनभूता यासां तास्तथोक्ता इति बहुव्रीहिः । द्विविधमिति । श्रुतिगुणेत्यस्याधिकरणद्वयोपाधिकथनपरत्वादिति भावः ।

तथा च पूर्वत्र श्रुतिसंवादीत्यादिचन्द्रिकोक्तरीत्या शङ्कामुथाप्य तत्रासदादिशब्दानामित्यादि चन्द्रिकानुसारेण समाधत्ते । न च पूर्वत्रेत्यादिना । मुख्यार्थत्वेनासत्कारणत्व इति । यदिब्रह्मपरता-तर्हिमुख्यार्थहानिः स्यादतोऽर्थान्तरपरत्वायोगादसत्परत्वमेवाश्रयणीयमिति श्रुतिसंवादसिद्धिरिति न वक्तुं शक्यम् । ब्रह्मपरत्वेऽपि मुख्यार्थत्वेन पूर्वपक्ष्युक्तदूषणानवकाशात् । ततः पूर्वपक्ष्युक्तयुक्तेः श्रुतिसंवादा-भावान्न तत्प्रयुक्तं प्राबल्यमित्यस्य सिद्धावपीत्यर्थः । मुख्यार्थहानेरिति । यदि स्थानैक्यादिपरता तर्हि मुख्यार्थहानिः स्यादतोऽर्थान्तरपरत्वायोगान् मुक्तब्रह्मैक्यमेवार्थत्वेनाश्रयणीयमिति पूर्वपक्ष्युक्तयुक्ते श्रुतिसंवादसिद्धिरिति वक्तुं शक्यत एव । स्थानैक्यादिपरत्वे एकीभवन्तीत्यस्य लाक्षणिकत्वप्रसङ्गेन मुख्यार्थत्यागावारणादित्यर्थः । ऐक्ये श्रुतिसिद्धत्वस्याभावात् तत्प्रयुक्तप्राबल्याभावो न सिद्धान्तरीत्येति चन्द्रिकायोजनां मनसि निधायफलितमेवाह । अवर्जनीयत्वात् प्रागुक्तन्यायेनापरिहृततया प्रत्येकं परिहारणीयत्वादित्यर्थः । पूर्वाधिकरणेति । पूर्वपक्षयुक्तीत्यर्थः । नैतच्छङ्कोदयोऽपीति । भावत्वा-दियुक्तिमूलकशङ्कोदयसमुच्चयापि पदं तस्येति । सूत्रखण्डस्येत्यर्थः । योजनान्तरस्येति । प्रवृत्ति-वर्णनेनेति शेषः । आवश्यकतेति दर्शयितुमिति योज्यम् । सर्वकर्त्तृत्वमेवेत्यस्य तत्सम्भवत्येवेत्यर्थः । इतिशब्दो हेतौ । नाद्य इत्याहेति । पूर्वविकल्पीयाद्यकल्पीयः प्रथमतो नेत्याहेत्यर्थः । द्वितीयं दूषयतीति । आद्यविकल्पीयद्वितीयं कल्पं पूर्वमसतोऽपि जगत्कारणत्वस्य मुक्तिवज्ज्ञानेनोत्पत्तिरित्येवं रूपमित्यर्थः । जगत्कारणत्वोत्पत्तिनिराकरणाय मोक्षे आकारान्तरस्य निराकर्त्तव्यतयामोक्षस्या-कारान्तरोत्पदरूपतानिराकरणासङ्गतिरित्यतो मोक्षवत्कारणत्वस्योत्पत्तिरिति वदन्तं प्रति मोक्ष-स्योत्पत्तिरिति हि कस्यचिदाकारस्योत्पत्तिरिति मत्वा त्वयोक्तम् । न चैतदस्ति । मोक्षस्य पूर्वप्रतीयमानाकारनिवृत्तिरूपत्वेनागन्तुकाकारोत्पत्तिरूपत्वाभावात् । तथाच दृष्टान्तसिद्ध्या तद्दष्टान्तेन जगत्कारणत्वस्योत्पत्तिरित्यप्ययुक्तमित्येतदभिप्रायेण मोक्षस्याकारान्तरोत्पादरूपतानिराकरणमिति नासंगतिरिति भावेनोक्तं दृष्टान्तासिद्ध्येति । अत्र विकल्पक्रममविवक्षित्वेति पूरणीयमित्यभिप्रायान्मूले क्रमाननुसरणं न दोषायेत्यप्युक्तटीकायां सूचितमिति ज्ञेयम् । आद्यद्वितीयमिति । आद्येऽपि य आद्य इत्याद्यशब्द आद्यविकल्पीयाद्यकल्पपरः । आद्ये द्वितीय आद्यद्वितीय इति सप्तमीसमासः । ततश्च विकल्पीयाद्यकल्पेऽपि यो द्वितीय इत्युक्तं भवति । आद्यकल्पेऽप्यस्ति विकल्पेन कल्पद्वयम् । तत्र द्वितीयः कल्प आनन्दादिवत्तिरोहितं कारणत्वमिति । तन्निराकरोतीत्यर्थः । एतेनाद्यविकल्पीय-द्वितीयपक्षस्य मुक्तिवदुत्पत्तिरित्येवंरूपस्य प्राङ्निराकृतत्वान् नचानन्दादेरिवेत्यनेनाशङ्कनाप्रतीतेश्च कथं तदाशङ्कापरतयैतद्वाक्यावतरणमिति शङ्का निरस्ता वेदितव्या । उक्तविधयेति । असर्वकारण-मुक्ताभिन्नत्वेनेत्याद्युक्तविधयेत्यर्थः । एकत्रैव विशिष्टरूपत्यागेन ब्रह्मणः प्रत्यक्षेत्यादि सुधायां तु प्रत्यक्षस्याप्राबल्यादित्यादि चन्द्रिकां मनसि कृत्वाह । यद्यप्यत्र जीवेत्यादि । ‘‘यथा लोके उदके इत्यादिमूले स्थानैक्यमत्यैक्ये उपपादिते तदुपपादनं तत्वनिर्णयटीका तद् व्याख्यानयोर्ज्ञेयम् । अधिकं लक्षणाद्युपपादनं तूक्तव्याख्यानप्रकाशेऽस्मदुक्त प्रकारेण ज्ञेयम् । उपयुक्तं लेख्यं च पृथगधिकरणेऽ-स्माभिस्तदुपपादयिष्यते । ब्रह्मणैक्यमनेनोच्यत इतीत्यतः परमुच्यत इत्यनुवर्तते ।