ॐ एतेन शिष्टा अपरिग्रहा अपि व्याख्याताः ॐ
मायावादिव्याख्याननिरासः
ॐ एतेन शिष्टा अपरिग्रहा अपि व्याख्याताः ॐ
**सुधा **
अत्र सूत्रम् ॐ एतेन शिष्टा अपरिग्रहा पि व्याख्याता इति ॥ तत्केचिव्द्याचक्षते । एतेन ‘न विलक्षणत्वादि’त्यादिना प्रकृतेन शिष्टैः केनचिदंशेन परिगृहीतस्य प्रधानकारणवादस्य निराकरणेन शिष्ठैर्मनुव्यासप्रभृतिभिः केनचिदप्यंशेनापरिगृहीता येऽण्वादिकारणवादास्तेऽपि व्याख्याता द्रष्टव्या इति । तदिदं दूषयति न चेति ।
अनुव्याख्यानम्
ॐ एतेन शिष्टा अपरिग्रहा अपि व्याख्याताः ॐ ॥
न च शिष्टागृहीतत्वं निरीशादीशवादिनः ॥
आस्तां तावदभ्यधिकाशङ्काप्रकारः, परिहारातिदेशप्रकारश्च । यत्तावदुक्तम् ‘साङ्ख्यादपि वैशेषिकादेरतिशयेन शिष्टागृहीतत्वं’ तदति(तीव)विरुद्धम् । साङ्ख्यस्य निरीश्वरत्वात् । वैशेषिकादेस्तु सेश्वरत्वात् । वैपरीत्यस्यैवोचितत्वात् । इह हि ब्रह्मणो जगत्कारणत्वे विप्रतिपत्तयो निरस्यन्ते । तत्र साङ्ख्यो ब्रह्मैव नाभ्युपैति । कुतस्तदीयं जगत्कारणत्वमित्यतिशयेन वेदान्तवादविरोधित्वाच्छिष्टापरिगृहीतः । वैशेषिकादिस्तु, ब्रह्म तस्य जगन्निमित्तत्वं चाङ्गीकृत्यो-पादानतामात्रं नाङ्गीकुरुत इतीषद्विरोधित्वाद् ईषच्छिष्टापरिगृहीत इति युक्तम् । सत्कार्यवादित्वादिकं तु प्रकृतासङ्गतमेव । अन्यथा यागीयहिंसानिषेधादिना विपरिवर्तः स्यात् । अथ वेद-संवादबाहुल्याबाहुल्यप्रयुक्तमिदम् । मैवम् (तन्न । तत्त्वानां) प्रतिपाद्यानामपरिसङ्ख्यातत्वादिति ।
किं तर्ह्यस्य सूत्रस्याभिदेयमित्यत आह अत इति ।
अनुव्याख्यानम्
अर्थाऽवशिष्टजीवादिकर्तृताऽत्र निषिध्यते ॥
अर्तान्तरस्य निराकृतत्वादित्यर्थः । अपव्याख्याननिराकरणस्य स्वव्याख्यानदार्ढ्यार्थ-त्वान्नासङ्गतमिति सूचयितुमत इत्युक्तम् । अवशिष्टा निराकृताया अभावकर्तृतायाः, जीवादिकर्तृता, जगत इति शेषः । अनेन निराकृतादवशिष्टा वेदापरिगृहीता जीवप्रधानासत्कालस्वभावादिवादा निराकृता इति व्याख्यातं भवति । तत्र शिष्टा इत्येवोक्ते ब्रह्मकारणवादोऽपि प्राप्नोति । तदर्थम-परिग्रहा इत्युक्तम् । तन्मात्रे तूक्ते अभावकर्तृत्ववादोऽपि गृह्येत । तथा च पुनरूक्तिरतिदेशानुपपत्तिश्च स्यात् । अतः शिष्टा इत्युक्तम् । अभ्यधिकाशङ्कासद्भावसूचनेन सूत्रारम्भोपपादनार्थं च शिष्टाः शिष्टतया प्रतीताः, न तु तत एव निराकृततयेति ।
**शेषवाक्यार्थचन्द्रिका **
न चेत्याद्युत्तरभाष्यानर्थक्यमाशङ्क्योत्तरसूत्रापव्याख्याननिरासार्थत्वान्न तदिति भावेन तत्सूत्रमुपन्यस्य तदपव्याख्यानप्रकारप्रदर्शनपूर्वकं दूषकतयोत्तरभाष्यं योजयति अत्र सूत्रमित्यादिना ॥ केनचिदंशेन कार्यकारणयोरनन्यत्वादिनेति यावत् । अण्वादीत्यादिपदेन स्वभाववादपरिग्रहः ॥ व्याख्याता इति । निराकृता इत्यर्थः ।
अस्तां तावदभ्यधिकाशङ्कप्रकार इति । न च ब्रह्मणो जगदुपादानत्वं युक्तम् । पटादिभ्यो न्यूनपरिमाणानामेव तन्त्वादीनां पटाद्युपनादानत्वदर्शनेन कार्यादल्पपरिमाणस्योपादानत्वनियमस्थित्या अत्यन्ताल्पपरिमाणादुपादेयाज्जगतः परममहतश्चिदात्मन एव उपादानत्वायोगात् । तस्मा-द्यत्रेदमल्पतारतम्यं विश्राम्यति यतो न क्षोदीयः सम्भवति, तज् जगतो मूलकारणं परमाणुः । क्षोदीयोन्तरानन्त्ये सावयवत्वेन मेरुसर्षपयोस्तुल्यपरिमाणत्वप्रसङ्गोऽनन्तावयवत्वादुभयोः । तस्मा-त्परममहतो ब्रह्मण उपादानादभिन्नमुपादेयं जगत्कार्यमभिदधती श्रुतिः प्रतिष्ठितप्रामाण्यतर्कविरोधा-त्सहस्त्रवत्सरसत्रगतसंवत्सरश्रुतिवज्जघन्यवृत्त्यैव कथञ्चिद्य्वाख्येया । न तु तदनुरोधेन ब्रह्मणो जगदुपादानत्वसिद्धिरिति भामतीरीत्या गतार्थताशङ्कानिरासायाभ्यधिकाशङ्काप्रकार आस्तामित्यर्थः ॥ परिहारप्रकारातिदेशश्चेति । परमगम्भीरस्य जगत्कारणस्य तर्कानवगाह्यत्वं, तर्कस्य चाप्रतिष्ठितत्व-मन्यथाऽनुमानेऽप्यनिर्मोक्ष, आगमविरोधश्चेत्येवंरूपं निराकरणकारणमत्रापि तुल्यमिति परिहारातिदेश-प्रकारश्चास्तामित्यर्थः । आस्तामित्यरुचिमत्र सूचयति । तद्बीजं तु एवम् । अधिकाशङ्कासद्भावेनास्य पूर्वाधिकरणेनागतार्थत्वप्राप्तावपि ‘एतेन सर्वे व्याख्याताः’ इत्यनेन गतार्थत्वमवर्जनीयमेव, त्वया तत्राप्यस्यैवार्थस्योक्तत्वादिति ॥ वैपरीत्यस्यैवेति । वैशेषिकादेरीषच्छिष्टापरिगृहीतत्वं साङ्ख्यस्यातिशयेन शिष्टापरिगृहीतत्वमिति वैपरीत्यस्यैवेत्यर्थः । तदेवोपपादयति इह हीत्यादिना ।
ननु साङ्ख्यस्य सत्कार्यवादित्वाद्वैशेषिकादेस्तवसत्कार्यवादित्वान्न वैपरीत्यमुचितमित्यतो ब्रह्मणो जगत्कारणत्वे विप्रतिपत्तिनिरासावसरे ब्रह्मतदीयकारणत्वाभ्युपगमतदनभ्युपगमप्रयुक्तवैषम्यस्य ‘ईषच्छिष्टापरिगृहीतत्वातिशयेन शिष्टापरिगृहीतत्वा’ अद्योतकत्वेऽपि सत्कार्यवादित्वासत्कार्यवादित्व-प्रयुक्तवैषम्यस्योक्तविभागागमकत्वेन प्रकृतासङ्गतत्वान्नोद्भावितवैपरीत्यनिरासकत्वमित्याह सत्कार्येति । अवान्तरप्रमेयाभ्युपगमानभ्युपगमप्रयुक्तवैषम्यस्याप्युक्तविभागप्रयोजकत्वे बाधकमाह अन्यथेति ॥ यागीयहिंसानिषेधादिनेति । साङ्ख्येन यागीहिंसाया निषिद्धत्वाभ्युपगमात्स एव चातिशयेन शिष्टापरिगृहीतः । वैशेषिकादिना तु यागीहिंसाया धर्मसाधनत्वस्वीकारास ईषच्छिष्टापरिगृहीत इति विपरिवर्तो वैपरीत्यं स्यादित्यर्थः । साङ्ख्यस्य यागीयहिंसानिषेधाभ्युपगमस्तु तद्ग्रन्थादवगम्यते । तथा हि तद्ग्रन्थः ‘दृष्टवदानुश्राविकः स ह्यविशुद्धिक्षयातिशययुक्त;’ इति । व्याख्यातं चैतत्तत्वकौमुद्याम् ‘गुरुपाठादनुश्रूयत एव न तु केनचित्क्रियत इति अनुश्रवो वेदस्तत्र भव नुश्राविको वेदज्ञात इति यावत् । आनुश्राविकोऽपि कर्मकलापः दृड्टवदेव दृष्टेन तुल्यं वर्तत इति दृष्टवत् । ऐकान्तिकात्यन्तिक-दुःखप्रतीकारानुपायत्वस्योभयत्रापि तुल्यत्वात् ।
न चैवं विवेकज्ञानस्याप्यात्मा ज्ञातव्यः प्रकृतितो विवेक्तव्य इत्यनुश्रवणेनानुश्राविकत्वाद् आत्यन्तिकदुःखनिवृत्तिसाधनत्वं न स्यादिति वाच्यम् । आनुश्राविक इति सामान्याभिधानस्य कर्मकलापाभिप्रायकत्वेनाविरोधात् । नन्वानुश्राविकत्वाविशेषात्कथमेकस्यात्यन्तिकदुःखप्ररीकारा-नुपायत्वमपरस्य च तदिति वैषम्यनियामकाभावेनोभयोरप्येकप्रकारत्वस्यैवावश्यकत्वादित्यत उक्तं ‘स ह्यविशुद्धिक्षयातिशय युक्तः’ इति । तत्राविशुद्धियुक्तत्वं सोमयागादेः पशुबीजादिवधसाधनत्वात् । तस्य च ‘न हिंस्यात्सर्वभूतानी’ति निषिद्धत्वादवसीयते । न ‘न हिंस्यात्सर्वभूतानि’ इति निषेधस्य सामान्यशास्त्रत्वेन दुबलत्वादग्नीषोमीयं पशुमालभेतेति यागविधेश्च विशेषशास्त्रत्वेन प्रबलत्वात् । प्रबलशास्त्रानुसारेण निषेधशास्त्रस्याविहितहिंसानिषेधकत्व एव पर्यवसानात्पश्चादिवधसाधस्यापि सोम-यागादेरनिषिद्धत्वात् कथमविशुद्धत्वमिति वाच्यम् । विरोध एव हि बलीयसा दुर्बलं बाध्यते । न चानयोः शास्त्रयोर्विरोधोऽस्ति भिन्नविषयत्वात् । तथा हि । न हिंस्यादिति निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यते । न तु हिंसाया अक्रत्वर्थत्वमपि । अग्नीषोमीयादिवाक्येन च हिंसायाः क्रत्वर्थत्वम् । न चानर्थहेतुत्वक्रतूपकारत्वयोः कश्चिद्विरोधः । सा हि पूरुषस्य दोषमावक्ष्यति क्रतोश्चोपकरिष्यतीति । ततश्च भिन्नविषयत्वेनाविरुद्धतया विशेषशास्त्रेण सामान्यशास्त्रस्य बाधायोगाद्युक्त एव ‘न हिंस्यादि’ति यागीयहिंसाया अपि निषेध इति निषिद्धत्वात्सोमयागादिकर्मणामविशुद्धत्वमेवेति युक्तमुक्तं यागीय-हिंसानिषेधादिनेति दिक् ।
प्रतिपाद्यानामिति । साङ्ख्यशास्त्रे वैशेषिकशास्त्रे च प्रतिपाद्यानामित्यर्थः ॥ अपरिसङ्ख्या-तत्वादिति । निरवधिकत्वादित्यर्थः । प्रतिपाद्यानामर्थानामेतावत्त्वमेवेति निश्चये हि वैशेषिकापेक्षया साङ्ख्यशास्त्रे वेदसंवादबाहुल्यं तदपेक्षया च वैशेषिकशास्त्रे तदल्पत्वमिति वेदसंवादबाहुल्यनिश्चयो भवेत् । ततश्च तदधीन उक्तविभागोऽपि सिध्येत् । प्रतिपाद्येयत्तानिश्चय एव चाशक्यः प्रतिपाद्या-नामनन्तत्वादित्याशयः । इतिशब्दो व्याख्याननिराससमाप्त्यर्थः । ‘सूत्रारम्भोपपादनार्थं चे’त्यतः परं ‘शिष्टाः’ इत्युक्तमनुवर्तते । कथमनेनाधिकाशङ्कासूचनमित्यतस् तदुपयोगितया तद्-व्याचष्टे शिष्टाः शिष्टतया प्रतीता इत्यादिना ।
**परिमल **
अत्रेति । अधिकरणे चरमं सूत्रमित्यर्थः । अधिकाशङ्काप्रकारादेरदूषणादनुमतत्व-भ्रान्तिं निराह आस्तामिति । तावच्छब्देन तयोरप्यनुपपन्नत्वं सूचयति । तच्च व्यक्तं चन्द्रिकायाम् । ननु सत्कार्यवादस्य महदादितत्वगणादेश्च शिष्टसम्मतस्य वैशेषिकादिभिरनङ्गीकाराच्छिष्टापरिगृहीतत्व-मित्यतस् तदप्रयोजकं, विप्रतिपन्नप्रधानप्रमेयविषये साङ्ख्यस्येव वैशेषिकादेरतिविरोधाभावादिति भावेन वैपरीत्यौचित्यं व्यनक्ति इह हीति ॥ प्रकृतेति । विप्रतिपन्नप्रमेयासङ्गतमित्यर्थः ॥ यागीयेति । साख्येन यागीयहिंसाया निषेधाद्वैशेषिकादिना तदनिषेधाद्विपरीतत्वमेव शिष्टापरिगृहीतत्वस्य स्यादित्यर्थः ॥ अतिदेशानुपपत्तिरिति । अभेदे तदयोगादिति भावः ।
**यादुपत्यम् **
ॐ एतेन शिष्टा अपरिग्रहा अपि व्याख्याताः ॐ ॥ आस्तां तावदभ्यधिका-शङ्काप्रकार इत्यादि । श्रुत्यवष्टम्भेन जगदभिन्नं ब्रह्म उपादानमिति पूर्वमभिहितं, तदयुक्तम् । कार्यकारणयोरभेदस्य बाधितत्वात् । अभेदे कारणरूपवत्कार्यत्वानुपपत्तेः, करोत्यर्थानुपपत्तेश्च । अभूतभवनं हि तदर्थः । न चास्य कारणात्मत्वे किञ्चिदभूतमस्ति । यदर्थमयं पुरुषो यतेत । अभिव्यक्त्यर्थमित चेन्न । तस्या अपि कारणात्मत्वेन सत्त्वात् । असत्वे वाऽभिव्यङ्ग्यस्यापि तद्वत्प्रसङ्गेन कारणात्मत्वव्याघातात् । भेदाभेदयोश्च परस्परविरोधेनैकत्र सहासम्भवात् । तस्मात्कार्यात् कारणमेकान्तत एव भिन्नम् । न च भेदे गवाश्ववत्कार्यकारणभावानुपपत्तिरिति ६साम्प्रतम् । अन्यत्वा-विशेषेऽपि समवायभेदस्यैवोपादानोपादेयभावनियामकत्वात् । यस्याभूत्वाभवतः समवायस्तदुपादेयम् । यत्र च समवायस् तदुपादानम् । उपादानत्वं कारणस्य कार्यादल्पपरिमाणस्य दृष्टम् । यथा तन्त्वादीनां पटादिभ्यो न्यूनपरिमाणत्वम् । चिदात्मनस्तु परममहत उपादानान्नात्यन्ताल्पपरिमाणमुपादेयं भवितुमर्हति । तस्माद्यत्रेदमल्पतारतम्यं विश्राम्यति यतो न क्षोदीयः सम्भवति तज्जगतो मूलकारणं परमाणुः । क्षोदीयोऽन्तरानन्त्ये तु मेरुसर्षपयोस्तुल्यपरिमाणत्वप्रसङ्गोऽनन्तऽवयवत्वादुभयोः । तस्मात्परममहतो ब्रह्मण उपादानादभिन्नमुपादेयं जगत्कार्यमभिदधती श्रुतिः प्रतिष्ठितप्रामाण्यतर्क-विरोधात्सहस्त्रसंवत्सरसत्रगतसंवत्सरश्रुतिवत्कञ्चिज्जघन्यवृत्त्या व्याख्येयेत्यभ्यधिकाशङ्काप्रकारः । तुल्य-मत्रापि परमगम्भीरस्य जगत्कारणस्य तर्कानवगाह्यत्वं तर्कस्य चाप्रतिष्ठितत्वमन्यथाऽनुमानेऽप्यनिर्मोक्ष आगमविरोधश्चेत्येवं जातीयकं निराकरणकारणमिति परिहारातिदेशप्रकारश्चेत्यर्थः । आस्तामित्यनेने-रुचिः सूचिता । तद्बीजं त्वेवमभ्यधिकाशङ्कासद्भावेन पूर्वाधिकरणेनागतार्थत्वेऽपि ‘एतेन सर्वे व्याख्याताः’ इत्यनेन गतार्थत्वमस्यापरिहार्यमिति ध्येयम् । ननु शिष्टसम्मतं सत्कार्यवादित्वादिकं साङ्ख्येन स्वीकृतं न वैशेषिकैरतः साङ्ख्य एवातिशयेन शिष्टसम्मत इत्यत आह सत्कार्यवादित्वादिक-मिति । आदिपदेन पुरुषे कर्तृत्वाभावादिकस्य परिग्रहः । तस्यापि वेदान्तिसम्मतत्वात् ॥ यागीय-हिंसेति । साङ्ख्येन यागीयहिंसाया अपि निषिद्धत्वं स्वीकृतमिति साङ्ख्योऽतिशयेन शिष्टापरिगृहीतः; वैशेषिकादिस्तु यागीयहिंसाया धर्मसाधनत्वमङ्गीकरोतीतीषच्छिष्टापरिगृहीत इति विपरिवर्तो वैपरीत्यं स्यादित्यर्थः । आदिपदेनाप्रामाण्यस्वतत्वादिकं साङ्ख्येन स्वीकृतं, वैशेषिकादिभिस्तु तत्परतस्त्वम्; अतोऽपि विपरिवर्त इति ग्राह्यम् ॥ प्रतिपाद्यानामिति । वेदप्रतिपाद्यानां भगवदादितत्वानां साङ्ख्यशास्त्रे परिसङ्ख्यानाभावात् साङ्ख्यशास्त्रप्रतिपाद्यानां स्वतन्त्राणां प्रधानादितत्वानां वा वेदे परिसङ्ख्याना-भावात् । तथाच न साङ्ख्योक्तस्य वेदसंवादः कुतस्तद्बाहुल्यं, ततश्चात्रापि विपरिवर्तः स्यादित्यर्थः ।
**श्रीनिवासतीर्थीया **
ॐ एतेन शिष्टा अपरिग्रहा अपि व्याख्याताः ॐ ॥ केनचिदंशेनेति । उपादानत्वेनेत्यर्थः । साङ्ख्येन सत्कार्यवादस्वीकाराच्छिष्टपरिगृहीतः, वैशेषिकेण तदनङ्गीकारात् स शिष्टापरिगृहीत इति युक्तमिति चेत्तत्राह सत्कार्येति ॥ प्रकृतेति । ब्रह्मणो जगत्कारणत्वे विप्रतिपत्ति-निरासोहि प्रकृत इत्यर्थः ॥ अन्यथेति । यदि प्रकृतासङ्गतमपि वैषम्यं स्वीकृत्य शिष्टापरिगृहीतत्वादिकं व्युत्पाद्यत इत्यर्थः । तर्हि सर्वशिष्टपरिगृहीतयागीयहिंसाकर्तव्यताया वैशेषिकेण स्वीकारात् स शिष्ट-परिगृहीतः, साङ्ख्येन च तदकर्तव्यतास्वीकारात्स शिष्टापरिगृहीत इति विपरिवर्तो वैपरीत्यं स्यादित्यर्थः। इदं शिष्टापरिगृहीतत्वादिकम् ब्रह्मकारणतावादोऽपीति । तस्यापि निराकृताभावकर्तृताया अवशिष्ट-त्वादित्यर्थः । उपपादनार्थं च शिष्टा इत्युक्तमिति वर्तते । तदेवोपपादयति शिष्टतयेति ॥ न त्विति । शिष्टतया निराकृताया असत्कारणतायाः सकाशादवशिष्टतया । प्रतीता वस्तुगत्या वक्ष्यमाणरीत्या युक्तिविरुद्धत्वेन निराकृता एव परन्तु तत एव न्यायेन निराकृतत्वेन न प्रतीयन्तेऽतः शिष्टत्वेन प्रतीता इत्यर्थः । न तु तत एवेत्यनेनाधिकाशङ्काऽस्तीति सूचितं जीवकारणकत्वे घटः, अचेतनकारणकत्वे क्षीरकारणकं दधि, निष्कारणकत्वे कण्टकतैक्ष्ण्यं दृष्टान्त इत्यर्थः ।
**वाक्यार्थरत्नमाला **
एतेन प्रकृतेनेति शाङ्करभाष्यं विवृण्वन्ननुवदति । एतेन न विलक्षण-त्वादित्यादिनेति मूलम् । अत्र प्रधानवादनिराकरणेनेति तद्भाष्यपाठः । तदनुसारेण मूलपाठोऽपि योज्योऽस्ति । चन्द्रिकायामपि प्रधानवादस्य निरासेनेत्युक्तं स्वभाववादेति । उपादानत्वं च कारणस्य कार्यादल्पपरिमाणस्य दृष्टमित्यादिभामत्यनुसारेणाह । न च ब्रह्मण इत्यादिना । यद्यपि न कार्यं कारणादभिन्नमित्यादिनोपादानमित्यन्तेनाप्यधिका शङ्का भामत्युक्ता तथापि तस्या आरम्भणादिकरणे निरसिष्यमाणाया अत्राभ्युच्चयत्वेन प्रदर्शनेन तां परित्यज्यैतदधिकरणनिरस्यत्वेनोपादानत्वं चेत्यादि-नोक्तशङ्कैव दर्शिता । तथैव कल्पतरुकृताप्युक्तमिति ज्ञेयम् । सहस्रसंवत्सरगतसंवत्सरश्रुतिवदति । षष्टस्य सप्तमे परकृतिपुराकल्पमनुष्यधर्मः स्यादर्थाय ह्यनुकीर्तनमित्यधिकरणे ‘‘पञ्चपञ्चाशतस्त्रिवृतः संवत्सराः पञ्चपञ्चाशतः पञ्चदशाः पञ्चपञ्चाशतः सप्तदशाः पञ्चपञ्चाशत एकविंशा विश्वसृजामयनं सहस्रसंवत्सरमुपयन्ती’’त्यत्र संवत्सरशब्दस्योत्पत्तिवाक्ये मुख्यार्थलाभात् तावदायुष्काधिकारि-कत्वेऽङ्गीकर्तव्ये गन्धर्वादीनां सहस्रायुषाम् अग्न्युपसंहारिसामर्थ्येन ब्राह्मण्याद्यभावेन च तदधिकारि-कत्वानुपपत्या मनुष्याणां चाग्न्युपसंहारसामर्थ्यादिसद्भावेऽपि तेषां सहस्रायुष्ट्वासम्भवाज् जीवनोपाय-भूतरसानादि सिद्धसहस्रायुषामधिकारे वक्तव्ये तादृशौषधादेरसायनादिरूपस्याप्रामाणिकत्वेन शतायुः पुरुष इति श्रुतिविरोधेन तावदायुःसंपादनासामर्थ्येन औषधादिकल्पनाया अयोगादेकोऽपि त्रिवृत्स्तोम-तया युक्तः संवत्सरः पञ्चपञ्चाशत्संख्याकैः प्रत्येकं कर्त्तृभूतैस्त्यम्बन्ध्यमानस्तत्संवत्सराख्यो भवति तथा पञ्चदशादयोऽपीति । तेन चतुःसंवत्सरमिदं सत्रमर्धतृतीयैर्यजमानशतैः क्रियमाणसहस्रसंवत्सर-मिति कल्प्यत इत्येवं पञ्चपञ्चाशत इत्यादिसङ्ख्या यजमानाभिप्रायेत्यस्य पक्षस्यापि बुद्धावत्यन्त-मारोहाभावाच्चतुर्विंशति परमाः सत्रमासीरन्निति वचनविरुद्धतया च दुरभ्युपगमत्वात् सङ्ख्यावाचि-सहस्रशब्दस्य वा कालवाचिसंवत्सरशब्दस्य वा गौणतामाश्रित्य मनुष्याधिकारत्वे वक्तव्ये तत्रापि सङ्ख्याशब्दस्य मुख्यार्थतयैकार्थनिश्चयसामर्थ्याच्च स्वार्थत्यागायोगेन कालवाचिसंवत्सरशब्दस्यैव सौरचान्द्रमासाद्यनेकार्थतया प्रचलदवस्थत्वादर्थान्तरपरत्वे वाच्ये ‘‘यो मासःसंवत्सर’’ इति दर्शनेन मासपरत्वस्याधानादूर्ध्वं सहस्रमासजीवनासम्भवेनायोगात् संवत्सरं प्रतिमासे द्वादशरात्रय’’ इति प्रयोगाद्द्वादशरात्रिषु संवत्सरशब्द इत्यादिपक्षान्तरस्य च संवत्सरशब्दस्य प्रतिमासविशेषणत्वेऽपि द्वादशरात्रिषु प्रयोगासिध्यादिनाऽयोगादर्थान्तरासम्भवेन द्वादशाहे त्रयस्त्रिवृतो भवन्ति । पञ्चदशा स्त्रय इत्यादौ त्रिवृदादिशब्दानां त्रिवृदादिस्तोत्रविशिष्टाहपरत्वेन समधिगततया ‘‘पञ्चपञ्चाशतस्त्रिवृतः संवत्सरा’’ इत्यादावप्यहःपरत्रिवृदादिशब्दैर्निश्चितार्थैः सामानाधिकरण्यात्प्रचलदर्थसंवत्सरशब्दस्याहरेव संवत्संर इत्यहन्यपि दृष्टप्रयोगस्याहर्लक्षकत्वमाश्रित्य सहस्रसवंत्सरशब्दः सहस्रदिवससाध्यकर्मपर इत्येवं जघन्यवृत्या संवत्सरश्रुतिर्नेयेति निर्णीतमिति भावः । अभ्यधिकाशङ्काप्रकारदर्शनवैयर्थ्यं परिहरति । गतार्थतेति । तुल्यमात्रापि परमेति भाष्यानुसारेणाह । परमगम्भीरेति । चन्द्रिकानुसारेणाह तद्बीजंत्विति । दृष्टवदिति साङ्ख्यश्लोकस्य तद्विपरीतश्रेयान्व्यक्ताविज्ञानादिति उत्तरार्धः । परन्तूप-योगानुसारेण पूर्वार्धस्यैवोपादानं व्याख्यानोपपादने चेति ज्ञेयम् । तत्र प्राप्त्या ज्ञात इति यावदिति । साङ्ख्यपरीक्षाभामत्यनुसारेण भव इत्यस्य प्राप्त इत्यर्थमाश्रित्यास्य तात्पर्यं ज्ञात इतीत्येतन्मनसि निधाय तात्पर्यार्थमेवाह । वेदज्ञात इति यावदिति । यद्यपि चानुश्राविक इत्यादि भामतीमतमनुसृत्याह । न चैवमित्यादिना । अस्यां प्रतिज्ञायां हेतुमाहेत्यादि भामतीं विवृण्वन्नाकाङ्क्षाक्रमेण साङ्ख्यकारिकार्धमुप-पादयति । आनुश्रविकत्वाविशेषादित्यादिना दिगित्यन्तेन । टीकाप्यनुसृता अवलोकनीयाऽस्ति । यत्वन्यथाख्यातौ यागीयहिंसानिषेधादिनेत्यादिपदेन प्रामाण्यस्वतस्त्वादिकं साङ्ख्येन स्वीकृतम् । वैशेषिकादिभिस्तु तत्परतस्त्वमतोऽपि विपरिवर्त इति ग्राह्यमित्युक्तम् । तद्विपरिवर्तस्य वैपरीत्य-भ्रान्तिमूलम् । वेदानुसारिभिर्हि प्रामाण्यस्वतस्त्वमुक्तमिति साङ्ख्योऽपि प्रामाण्यस्वतस्त्वमभ्युप-गच्छन्नीषच्छिष्टापरिगृहीतः । नैय्यायिकादिस्तु प्रामाण्यपरतस्त्वमभ्युपगच्छतीत्यशिष्टापरिगृहीत इत्येव प्रामाण्यस्वतस्त्वपरस्त्वरूपप्रमेयस्वीकारे विपरिवर्तस्यैव प्राप्तेः । तथा च यागीहिंसाया निषेधेन साङ्ख्यस्य शिष्टापरिगृहीतत्वप्राप्त्या यागीयहिंसास्वीकारिवैशेषिकादिरेव शिष्टैः परिगृहीत इत्यर्थ-प्रतिपादनानन्तरमादिपदेन प्रामाण्यस्वतस्त्ववादी साङ्ख्य ईषच्छिष्टपरिगृहीतः । तत्परतस्त्ववादी वैशेषिकादिस्तु शिष्टैरपरिगृहीत इति विपरिवर्तस्य परं प्रत्यापाद्यतयाऽर्थत्वेन कथं ने भ्रान्तिरेव मूलमिति स्पष्टमित्येतत्प्रमेयं दूषणग्रन्थे निवेश्य पूर्वमेव दुष्टत्वायेन तत्पुस्तके रक्तमृत्तिकालेपनात् । तदर्थमिति मूलम् । अत्रार्थशब्द आवर्त्तनीयः । आद्यो निवृत्तिवचनः । द्वितीयस्तु प्रयोजनवचनस्तेन तन्निवृत्यर्थ-मित्यर्थलाभ इति ज्ञेयम् ।