अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः
मायावादिकृतापव्याख्याननिरासः
अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः
**सुधा **
अपरे तु ‘‘न विलक्षणत्वादि’’त्यादीनि सूत्राणि ब्रह्मणो जगदुपादानत्वाक्षेप-समाधानार्थतया व्याचक्षते तत्प्रकृत्यधिकरण एव निराकृतम् ।
**शेषवाक्यार्थचन्द्रिका **
आगमानुग्रहाभाव इति सार्धश्लोकस्य सौत्रसमाघानांशविवरणपरतया योगनायां, तर्काप्रतिष्ठानादित्येतत्सूत्रीयव्याख्याननिरासपरतया स्पष्टप्रतिभासस्य तत्परत्वत्यागः, क्लेशेन कथञ्चित्सौत्रसमाधानांशविवरणपरत्वं च, आगमानुग्रहाभाव इत्याद्यकारिकाया उत्सूत्रार्थविवरण-परत्वेनाभाष्यत्वापत्तेश्चेत्याद्यपरितोषात्तत्सूत्रीयापव्याख्यानिरासपरत्वमेवाश्रित्य तर्ह्यधिकरणार्थस्याप्य-सम्प्रतिपन्नस्य निरस्यत्वात्तमनिरस्यैवाधिकरणैकदेशार्थनिराकरणं भाष्यकाराणामनुचितमित्यतोऽधि-करणार्थस्य प्रागेव निरस्तत्वात्किं पुनरिह तन्निरासेनेत्याशयेन तमनिरस्यैवाधिकरणैकदेशार्थस्यापि तर्काप्रतिष्ठितत्वस्यैव निरसो युक्त इत्यभिप्रेत्य कोऽसावधिकरणार्थः कुत्र च तन्निरास इत्याशङ्का-परिहाराय तदुभयं दर्शयन्नेव प्रागनिराकृतैतदधिकरणैकदेशार्थभूततया परोत्प्रेक्षिततर्काप्रतिष्ठितत्व-निरासपरतयोत्तरभाष्यम् अपरे त्वित्यादिना सार्धश्लोकेनेत्यन्तेन ।
इत्यादीनीत्यतःपरमनिर्मोक्षप्रसङ्ग इत्यन्तान्यष्टाविति शेषः । दृश्यते चेत्यस्य सूत्रस्य परमतेऽसत्वेन न विलक्षणत्वादित्यादिसूत्राष्टकस्यैवैकाधिकरणत्वस्य परैरुररीकृतत्वादिति द्रष्टव्यम् । जगदुपादानत्वा-क्षेपसमाधानार्थतयेति । प्रथमद्वितीयपञ्चमसूत्राणि ब्रह्मणो जगदुपादानत्वाक्षेपार्थानि तृतीयचतुर्थ-षष्ठसप्ताष्टमानि तत्समाधानानीत्येवं जगदुपादानत्वाक्षेपसमाधानार्थतयेत्यर्थः । तथा हि । प्रकृतिश्चे-त्यादिना ब्रह्म जगदुपादानमित्युक्तम् । तदाक्षेपार्थं ‘न विलक्षणत्वादि’ति सूत्रम् । न ब्रह्म जगदुपादानम् । कुतः । अस्य जगतः स्थौल्यसावयवत्वाचेतनत्वपरिच्छिन्नत्वादिना ब्रह्मविलक्षणत्वात् । न चाप्रयोजकत्वम् । रुचकादीनां मृद्विकारत्वस्य शरावादीनां च सुवर्णविकारत्वस्यादर्शनेन समान-रूपयोरेव प्रकृतिविकृतिभावस्थित्या विलक्षणयोर्ब्रह्मजगतोस्तदयोगात् । न च ब्रह्मजगतोरपि वैलक्षण्यासिद्धेर्युक्तः प्रकृतिविकृतिभावस्थित्वा इति वाच्यम् । विज्ञानं चाविज्ञानं चेत्यादिशब्दादेव तत्सिद्धेरिति प्रथमसूत्रार्थः ॥ ननु मृदब्रवीदापोऽब्रुवन्नित्यादिश्रुत्या जगतोऽपि चेतनरूपत्वसिद्धे-र्वैलक्षण्यमसिद्धमिति युक्तः प्रकृतिविकृतिभाव इत्यत्रोत्तरं पठति अभिमानीति (ब्र.सू. २-१-६) । अत्र सूत्रे तुशब्दः शङ्कामपनुदति । न मृदब्रवीदित्येवञ्जातीयकया श्रुत्या मृदादीनां चेतनत्वमाशङ्क-नीयम् । यतोऽभिमानिव्यपदेश एषः । मृदाद्यभिमानिन्यश्चेतना देवता वदनादिषु चेतनोचितेषु व्यवहारेषु व्यपदिश्यन्ते न मृदादिमात्रम् । कस्मात्, विशेषात् । ‘एता ह वै देवता अहं श्रेयसे विवदमानाः’ इति कौषीतकीब्राह्मणे प्राणसंवादे करणमात्राशङ्कानिवृत्तयेऽधिष्ठातृचेतनपरिग्रहाय देवता-शब्देन विशेषणात् । अनुगताश्च सर्वत्राभिमानिन्यश्चेतना देवता मन्त्रार्थवादे इतिहासपुराणादि-भ्योऽवगम्यन्ते । अग्निर्वाग्भूत्वा मुखं प्राविशदित्येवमादिकया श्रुत्या करणेष्वनुग्राहकदेवतानुगतिदर्श-नाच्च । तस्माद्विलक्षणमेवेदं ब्रह्मणो जगत् । विलक्षणत्वाच्च न ब्रह्मप्रकृतिकमित्याक्षिप्ते सिद्धान्तयति दृश्यते त्विति (ब्र.सू. २-१-३-७) । तुशब्दः पक्षं व्यावर्तयति । यदुक्तं विलक्षणत्वाज्जगन्न ब्रह्मप्रकृतिकमिति न तद्युक्तम् । वैलक्षण्येऽपि गोमयवृश्चिकादेः प्रकृतिविकृतिभावदर्शनेन समान-रूपयोरेव तद्भावनियमास्थित्या विलक्षणयोरपि ब्रह्मजगतोः प्रकृतिविकृतिभावो युक्त इत्यर्थः ॥ उक्तमर्थमाक्षिप्य समाधत्ते असदिति चेदिति (ब्र.सू २-१-४-८) ॥ ननु तर्ह्यचेतनरूपं जगत्प्रागुत्पत्तेरसत्प्रसज्येत तदा चेतनमात्रावस्थानात् । अनिष्टं चेतत्सत्कार्यवादिनस्तवेति चेन्न । कार्यस्य कारणाभिन्नतया कारणरूपेण सत्वसम्भवात् । सत्कार्यवादप्रतिषेधस्य प्रतिषेधमात्रत्वात् । सत्कार्यवादप्रतिषेधासमर्थत्वादित्यर्थः ॥
पुनरुक्तमाक्षिपति अपीताविति (ब्र.सू. २-१-४-९) । एवं तर्हि स्थौल्यसावयवत्वाचेतनत्व-परिच्छिन्नत्वाशुद्ध्यादिधर्मकं कार्यं प्रलये कारणाविभागमापद्यमानं कारणमात्मीयेन धर्मेण दूषयेदिति अपीतौ कारणस्यापि ब्रह्मणः कार्यस्येवाशुध्द्यादिप्रसङ्गात्सर्वज्ञं ब्रह्म जगतः कारणमित्यसमञ्जस-मित्यर्थः ॥ समाधत्ते न तु दृष्टान्तभावादिति (ब्र.सू. २-१-४-१०) नैवास्मदीये दर्शने किञ्चिद-सामञ्जस्यमस्ति । यत्तावदभिहतं कारणभावं गच्छत्कार्यं कारणामात्मीयेन धर्मेण दूषयेदिति । तददूषणम् । कस्माद् दृष्टान्तभावात् । सन्ति हि दृष्टान्ता यथा कारणमपि गच्छत्कार्यं कारणमात्मीयेन धर्मेण न दूषयति । तद्यथा शरावादयो मृत्पकृतिका विकाराः प्रलीनाः सन्तो न प्रकृतिमात्मीयेन संसृजन्ति । रुचकादयश्च सुवर्णविकारा अपीतौ न सुवर्णमात्मीयेन धर्मेण संसृजन्ति । पृथिवीविकारश्चतुर्विधो भूतग्रामो न पृथिवीमपीतावात्मीयेन धर्मेण संसृजति । यथा च मायास्वप्नादयः प्रलीना न मायादिस्वप्नद्रष्टादीन्स्वधर्मेण संसृजन्ति । ततश्च कारणस्य कार्यदोषासंसर्गे मृदाद्यनेक-दृष्टान्तभावान्न कार्यधर्मेण ब्रह्मणोऽप्यशुद्ध्यादिप्रसङ्ग इत्यर्थः ॥
दूषणान्तरमाह स्वपक्षदोषाच्चेति (ब्र.सू २-१-४-११) । न विलक्षत्वादुपादानतेत्यादयो ये दोषा ब्रह्मणो जगदुपादानतायामभिहितास्ते साङ्ख्यमतेऽपि समाना एवशब्दादिहीनात्प्रधानाच्छब्दादिमतो जगत उत्पत्त्यभ्युपगमात् । अत एव विलक्षणकार्योत्पत्यभ्युपगमात्समानः प्रागुत्पत्तेरसत्कार्यप्रसङ्गः । तथाऽपीतौ कार्यस्य कारणाविभागाभ्युपगमात् तद्वत्त्वप्रसङ्गोऽपि समानः । ततश्च स्वपरसाधारणत्वा-न्नेतेऽस्मत्पक्षे चोदयितव्या इत्यदोषा एवैत इतिनैतैर्ब्रह्मणो जगदुपादानत्वनिरास इति भावः दूषणान्तरमाह तर्केति (ब्र.सू. २-१-४-१२) न तर्केण ब्रह्मणः श्रौतकारणत्वापह्नवो युक्तः । तर्काणामप्रतिष्ठितत्वादित्यर्थः । शङ्कते अन्यथेति (ब्र.सू.२-१-४-१२) । अन्यथा तर्कस्याप्रतिष्ठा यथा न भवति तथा सूक्ष्मबुद्धिभिरनुमेयमिति चेदित्यर्थः । परिहरति एवमपीति (ब्र.सू. २-१-४४४-१२) । एवमपि विषयान्तरे तर्कस्य प्रतिष्टितत्वेऽप्यतिगम्भीरशब्दैकसमधिगम्ये जगत्कारणे तर्कस्याप्रतिष्ठितत्व-दोषादनिर्मोक्षप्रसङ्ग इत्यर्थ इति जगदुपादानत्वाक्षेपसमाधानार्थतया व्याख्यानप्रकाराऽनुसन्धेयः । न केवलं जगदुपादानत्वाक्षेपसमाधानार्थतयेत्येतद्वस्तुस्थितिकथनमात्रपरं किन्तु ‘न विलक्षणत्वादित्यादि’ सूत्राणां पूर्वपक्षसूत्रत्वसूचनव्याजेन परकीयव्याख्याने पूर्वपक्षसूत्रत्वानुपपत्तिरूपदोषसूचनार्थं च । तथा हि । अस्मद्रीत्याऽभिमानिव्यपदेशस्त्वित्यादिरवश्यवक्तव्यश्रुतिसंवादियुक्यविरोधोक्त्या सिद्धान्तसूत्रत्वेन प्रत्येकमधिकरणत्वे सम्भवति, आद्यद्वितीयपञ्चमसूत्राणां पूर्वपक्षसूत्रत्वेन, तृतीयादीनां च सिद्धान्त-सूत्रत्वेनानभिप्रेतस्य ब्रह्मजगतोर्विकारविकारिभावस्योक्त्या एकाधिकरणत्वकल्पनाऽनुपपत्तिः । यदि च तुशब्दप्रयुक्तत्वात् ‘दृश्यते त्वि’तिसूत्रस्य तत्पूर्वसूत्रयोः पूर्वपक्षत्वं ‘तर्ह्यभिमानिव्यपदेशस्तु विशेषानु-गतिभ्याम्’, ‘असम्भवस्तु सतोऽनुपपत्तेरि’त्यादौ तुशब्दश्रवणात्तत्तत्पूर्वपक्षसूत्रसद्भावात्, इह च त्वन्मते प्रथमाध्याये तदभावेनान्यत्रापि सूत्रकृतः पूर्वपक्षत्वसूचकजैमिन्यादिग्रहणाभावे व्याकरण-कल्पसूत्रादाविव पूर्वपक्षसूत्राकरणशैलीनिश्चयान्न ‘न विलक्षणत्वा’दित्यादिसूत्राणां पूर्वपक्षसूत्रत्व-कल्पनमुचितमिति ।
प्रकृत्यधिकरण एव निरस्तमिति । ‘न च प्रकृतिशब्देन ब्रह्योपादानमुच्यत’ इत्यादिनेति शेषः । यद्यप्यत्र सूत्राक्षरानानुगुण्यव्युत्पादनेन परव्याख्यानस्यासाधुत्वं व्युत्पादयितुं शक्यते । तथाऽपि प्रमेयनिराकरणेनैव तदाक्षेपसमाधानाभ्यां तत्प्रतिपादकतया परव्याख्यानस्यासाधुत्वे सिद्धे नाक्षरानु-गुण्यानानुगुण्यचिन्ताऽप्यावश्यकी । तदावश्यकतायामपि वा शिष्यैरेव तदुह्यतामित्याशयवता न विशिष्य तद्-व्युत्पादितम् । एतदभिप्रेत्य विशिष्यैतद्-व्युत्पानं चन्द्रिकायां कृतमित्यवधेयम् ।
**परिमल **
तदिति । ब्रह्मणो जगदुपादानत्वमित्यर्थः । सर्वत्र दूषणं तु चन्द्रिकायां व्यक्तम् ।
**यादुपत्यम् **
अपरे त्विति । ‘न विलक्षणत्वादि’त्यादि ‘एवमप्यनिर्मोक्षप्रसङ्गः’ इत्यन्तं सूत्राष्टकमेकमधिकरणम् । ‘न विलक्षणत्वादि’त्यनन्तरं ‘दृश्यते त्वि’ति सूत्रं नास्त्येव । अस्य जगतः स्थौल्यसावयवत्वाचेतनत्वपरिच्छिन्नत्वादिना ब्रह्मविलक्षणत्वान्न ब्रह्मोपादानकत्वं, तथात्वं च वैलक्षण्यं ‘विज्ञानं चाविज्ञानं चे’त्यादिशब्दादिति आद्यसूत्रेणोक्त्वा, ‘न च मृदब्रवीदित्यादिश्रुत्या जगदपि चेतनरूपमेवेति वैलक्षण्यमसिद्धमिति वाच्यं तत्राभिमानिदेवताव्यपदेशादि’ति द्वितीयसूत्रेणोक्तम् । तथा चैते पूर्वपक्षसूत्रे ॥ एवं प्राप्ते वैलक्षण्येऽपि गोमयवृश्चिकादेः कार्यकारणभावो दृश्यत इति तृतीयसूत्रेण सिद्धान्तयित्वा, ‘ननु तैर्ह्यचेतनरूपजगत् प्रागुत्पत्तेरसत्प्रसज्येत तदा चेतनब्रह्म-मात्रावस्थानात् । तच्चानिष्टं सत्कार्यवादिनस्तवेति चेन्न । कार्यस्य कारणाभिन्नतया कारणरूपेण सत्त्वसम्भवात् । सत्कार्यवादप्रतिषेधस्य प्रतिषेधमात्रत्वात् । सत्कार्यवादप्रतिषेधासमर्थत्वादि’ति चतुर्थसूत्रेणोक्त्वा, ‘ननु तर्हि प्रलये कार्यं कारणाविभागमापद्यमानं कारणमात्मीयेन धर्मेण दूषयेदिति कार्यवद्ब्रह्मणोऽप्यशुध्द्यादिप्रसङ्गादसमञ्जसमिदमिति पञ्चमेन पूर्वपक्षयित्वा, ‘मैवं शरावमायास्वप्नादिषु प्रलीनेषु ततद्धर्माणां मृन्मायाविस्वप्नद्रष्ट्रादिष्वदर्शनेन कारणस्य कार्यदोषासंसर्गे दृष्टान्तसद्भावादिति षष्ठेन सिद्धान्तयित्वा, किञ्च न विलक्षणत्वादनुपादानतेत्यादयो दोषाः साङ्ख्यमतेऽपि समाः शब्दादि-हीनं प्रधानं शब्दादिमज्जगदुपादानमिति साङ्ख्यैः स्वीकारात्’इति सप्तमेनोक्त्वा, ‘किञ्च न तर्केण ब्रह्मणः श्रौतकारणत्वापह्नवो युक्तस् तर्काणामप्रतिष्टितत्वात् । नन्वन्यथा तर्कस्याप्रतिष्ठा यथा न भवति तथा सूक्ष्मबुद्धिभिरनुमेयमिति चेदेवमपि विषयान्तरे तर्कस्य प्रतिष्ठितत्वेऽप्यतिगम्भीरे शब्दैकगम्ये जगत्कारणे तर्कस्याप्रतिष्ठितत्वदोषादनिर्मोक्षः’ इत्यष्टमेन उक्तमिति व्याचक्षत इत्यर्थः ॥
**वाक्यार्थरत्नमाला **
त्याग इति । भवतीति शेषः । परत्वं चेति । आश्रयणीयं भवतीति शेषः । आपत्तेश्चेति । भवतीति शेषः । अधिकरणार्थस्यापीति । अत्र निराकृतैकदेश्यतिरिक्त संपूर्णाधि-करणार्थस्येत्यर्थः । निरस्यत्वे हेतुरसंप्रतिपन्नस्येति । दृश्यते चेत्यस्य सूत्रस्येति । अयमर्थः । न विलक्षणत्वादित्यस्यानन्तरं दृश्यते त्विति सूत्रं नास्त्येव । अभिमानिव्यपदेशस्त्वित्यनन्तरं दृश्यते त्विति सूत्रसद्भावेऽपि दृश्यते चेति सूत्रं नास्ति । तथा च सूत्राष्टकमेव संपन्नमिति । तथाहि प्रकृतिश्चेत्यादि-नेति भाष्यभामत्याद्युक्तरीत्या क्वचिच्चन्द्रिकानुसारेण चोपयुक्तानुवादोऽयम् । तद्ग्रन्थो व्याख्येयोऽस्ति । सूचनव्याजेन परकीयेत्यत्र व्याजेनेत्यतः परं प्रवृत्तेति शेषः । चन्द्रिकानुसारेणास्मद्रीत्येत्यादिग्रन्थः शैलीनिश्चयादित्यन्तः । तर्ह्यभिमानीति । यद्यपि तत्पूर्वसूत्रस्य पूर्वपक्षसूत्रत्वं परेणाङ्गीकृतमेवेतीष्टा-पादनमेतद्भाति । तथाप्यभिमानीत्येतद्विवक्षया न तथात्वं परेणाङ्गीकृतम् । तथास्यापि पूर्वपक्षसूत्र-त्वेनाङ्गीकृतस्य सिद्धान्तसूत्रत्वं तुशब्दबलायातं तदनिष्टमेवेति भावः । तदूह्यतामिति । अक्षरानु-गुण्यानानुगुण्यमित्यर्थः । एतदेवेति । मूलकृता शिष्यैरूह्यत्वाशयेन अक्षरानुगुण्याद्यव्युत्पादित-मित्येतदेवेत्यर्थः ।