०७ कर्तृत्वस्वरूपनिरूपणम्

बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिति निश्चितम्

कर्तृत्वस्वरूपनिरूपणम्

बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिति निश्चितम्

**सुधा **

नन्वस्तु निषेधैकस्वरूपत्वं, कर्तृत्वं च; को विरोधः । घटाद्यभावस्याकर्तृत्वेऽपि प्रलयकालीनोऽभावः कर्ता भविष्यतीत्यतः कर्तृत्वनिषेधैकस्वरूपत्वयोर्विरोधं स्फोरयितुं कर्तृत्व-स्वरूपमाह बुद्धीति ।

अनुव्याख्यानम्

बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिति निश्चितम् ॥

प्रवृत्तिर् इच्छाप्रयत्नादिका । निश्चितं सर्वैरपि परीक्षकैः । वृक्षेण स्थीयत इत्यादौ कर्तृत्वं पारिभाषिकं न तु स्वाभाविकमिति हि सर्वेऽपि प्रतिपन्नाः ।

अत्र बुद्धिपूर्वकतत्प्रवृत्तिरित्येतद्बुध्द्या विविच्य व्याख्येयम् । तथा हि । स्यात्कर्तृ-निषेधैकस्वरूपत्वयोरविरोधः, यदि तृतीयादिविषयत्वमेव कर्तृत्वं स्यात् । न चैतदस्ति । अपि तर्हि इच्छाप्रयत्नादिरूपा प्रवृत्तिरेव । सर्वैरपि परीक्षकैस्तस्या एव कर्तृत्वेन निश्चितत्वात् । प्रकरणाच्चैतदेव निश्चितम् । अत्रैव हि विप्रतिपत्तिर्नान्यत्र । सा चेयं प्रवृत्तिर्बुद्धिपूर्वा बुद्धिव्याप्ता । कार्यायाः प्रवृत्तेर्बुद्धिकारणकत्वात् । अकार्यायाश्च बुद्धिव्यभिचाराद्यदर्शनात् । न च कर्तृत्वापरपर्यायायाः प्रवृत्तेर्व्यापिका बुद्धिरभावे सम्भवति । ततो व्याप्यं कर्तृत्वमपि न सम्भवत्येवेति कथं कर्तृत्व-निषेधैकस्वरूपत्वयोर्न विरोध इति ।

अत्र कर्तृत्वानुवादेन बुद्धिपूर्वप्रवृत्तिरिति व्याख्यानान्निश्चितमिति नपुंसकोपपत्तिः । भावे वा क्तप्रत्यय इति ।

**शेषवाक्यार्थचन्द्रिका **

ननु भाष्ये बुद्धिपूर्वेति कर्तृत्वनिरूपणमनर्थकम् । न च निषेधैक-स्वरूपत्वकर्तृत्वयोर्विरोधप्रदर्शनार्थं तदिति वाच्यम् । तस्याप्यनर्थकत्वादित्यतोऽप्रयोजकत्वशङ्का-परिहारार्थं तदिति भावेन तच्छङ्कापरिहारकतयोत्तरवाक्यं योजयितुमप्रयोजकत्वशङ्कामुत्थापयति नन्वित्यादिना । प्रवृत्तिशब्दस्य प्रयत्नमात्रार्थत्वप्रतीतिनिरासायाह इच्छाप्रयत्नादिकेति । प्रयत्नानन्तरभाव्यात्मपरिस्पन्दसङ्ग्रहायादिपदम् । अत एव चिकीर्षाव्यतिरेकेण कृतिमात्रजन्ये, मत्तो भूतमिदं न मया कृतमिति व्यवहारः, अकामकृते मुख्यकर्तृत्वाभावात्प्रायश्चित्तभेदश्चोपपद्यते । अन्यथा कर्तृत्वविशेषात्कामकृते सम्पूर्णप्रायश्चित्तमन्यत्र तदर्धमिति नियमो न स्यादित्यवधेयम् । नन्विच्छादि-योगित्वरूपकर्तृत्वस्य चेतनमात्रनिष्ठत्वेनाचेतनसाधारणत्वाभावदननुगम इत्यतोऽचेतनस्य कर्तृताया एवाभावान्न तदननुगमो दोषायेत्यभिप्रेत्य, तथा सत्यचेतने कर्तरि विहितत्वात्तृतीयादेः, ‘वृक्षस्तिष्ठति, वृक्षेण स्थीयते’ इत्यादिव्यवहारो न स्यादित्यतोऽचेतनस्येच्छादियोगित्वरूपमुख्यकर्तृत्वाभावेऽपि तृतीयादिप्रयोजकपारिभाषिकवैयाकरणाभिमतकारकान्तरानपेक्षत्वरूपामुख्यकर्तृतायाः सत्वादुक्तविधकर्तृत्वव्यवहारो गौण एवेत्यभिप्रेत्य तद्गौणतायां न्यायवाचस्पत्युदयनादिसम्मतिमाह वृक्षेणेति । आदिपदेन घटस्तिष्ठतीत्यादेः सङ्ग्रहः । यद्यपि वृक्षस्य अचैतन्यपक्षेऽपि तत्र मुख्य-कर्तृत्वाभावात्तव्द्यवहारस्य गौणत्वप्राप्तावपि चैतन्यपक्षे मुख्यमेव कर्तृत्वं सम्भवतीति तव्द्यवहार-स्यामुख्यत्ववर्णनमनुचितम् । तथाऽप्यत्रातद्गुणसंविज्ञानबहुव्रीहिणा घटस्तिष्ठति घटेन स्थीयत इत्यादेरे-वौपचारिकव्यवहारत्वेनाभिमतत्वान्नानुपपत्तिर् अत एव न्यायवाचस्पतिना घटस्तिष्ठतीत्यौपचारिकः प्रयोग इत्येवोक्तमित्यवधेयम् । वस्तुतो वृक्षस्य स्वस्थित्यनुकूलेच्छाप्रयत्नसद्भावे मानाभावान्न मुख्यकर्तृत्वमिति यथाश्रुत एवायं ग्रन्थः साधुः । बुद्धिपूर्वप्रवृत्तिरित्युक्त्या प्रसक्तां विशिष्टस्य कर्तृत्वरूपतां परिहरति अत्रेति ।

ननु कथमस्मिन्पक्षे वाक्यभेदेन योजनेत्यत उक्तं बुद्ध्या विविच्येति, बुद्धिपूर्वा प्रवृत्तिरिति च । बुद्ध्या वाक्यभेदं सम्पाद्येत्यर्थः ॥ तृतीयादिविषयत्वमिति । वैयाकरणाभिमतं पारिभाषिकं तृतीयादिप्रयोजकं कारकान्तरानपेक्षत्वमेवेत्यर्थः । मूले निश्चितमिति पदं प्रवृत्तिरेव कर्तृत्वमिति प्रतिज्ञार्थे हेतुसमर्पकमित्यभिप्रेत्य तथा योजयति प्रकरणाच्चेति । व्युत्पादनीयत्वाच्चेत्यर्थः ॥ एतदेवेति । प्रवृत्तिरेव कर्तृत्वमित्येतदेवेत्यर्थः । कुतोऽस्यैव व्युत्पाद्यत्वेन प्रकृतत्वं तृतीयादिविषयत्वस्यापि तत्सम्भवादित्यत आह अत्रैव हीति । चिकीर्षाकृतिमत्वरूप एव कर्तृत्वे विप्रतिपत्तिर्न तु तृतीयादिविषयत्वरूपे तस्मिन्नित्यर्थः । ब्रह्माब्दोक्तगुणपूर्तिसम्भावकत्वेनास्यैव जन्मादिसूत्रोक्तत्वादिति भावः । तार्ह्येतावतैव कर्तृत्वनिर्वचनेन कर्तृत्वनिषेधैकस्वरूपत्वयोर्विरोधस्फोरणाद् बुद्धिपूर्वेत्यस्य वैयर्थ्यमित्यत उक्तरूप-कर्तृत्वस्यापि तन्मनोऽकुरुतेति श्रुतिबलेन प्रागभावे परेणाङ्गीकारान्न कर्तृत्वनिधैकस्वरूपत्वयो-र्विरोधसिद्धिरित्यप्रयोजकत्वमेवेत्यतः कर्तृतायास्तव्द्यापकव्यावृत्या पक्षे व्यावृत्तिप्रतिपादनार्थत्वान्न तदिति भावेन तदन्वयप्रदर्शनपूर्वकं प्रकृतोपयोगितया तव्द्याचष्टे सा चेयमिति । कुतः प्रवृत्ते-र्बुद्धिर्व्याप्तिर्येन तव्द्यावृत्या तव्द्यावृत्तिर्भवेदित्यत आह कार्याया इति । तथा चाकारणकार्योत्पत्ति-प्रसङ्गरूपविपक्षबाधकतर्कसहकृतसाहचर्यग्राहिप्रत्यक्षादेव तत्सिद्धिरिति भावः । व्यभिचाराद्यदर्शनादिति आदिपदेनोपाधिपरिग्रहः ॥ अभावे सम्भवतीति । तस्याचेतनप्रभेदत्वादिति भावः । ननु या बुद्धिपूर्वप्रवृत्तिरिति बुद्धिपूर्वप्रवृत्त्यनुवादेन तस्याः कर्तृत्वरूपताविधानादुद्देश्यप्रवृत्तिलिङ्गानुरोधेन बुद्धि-पूर्वप्रवृत्तिर्हि कर्तृत्वविधिः स्यात् । न चैवम् । किं तर्हि यत्कर्तृत्वं तद्बुद्धिपूर्वप्रवृत्तिरिति कर्तृत्वानुवादेन तव्द्याख्यानादुद्देश्यकर्तृत्वलिङ्गानुरोधेन निश्चितमिति नपुंसकत्वमुपपन्नमित्याह अत्रेति । यथाश्रुतोद्देश्य-विधेयभावव्यत्यासेन योजनायामितिशब्दस्य भिन्नक्रमत्वाश्रयणादपरितुष्यन्नाह भावे वेति । ‘नपुंसके भावे कः’ इति स्मरणादीति भावः । तथा च ‘इति निश्चितमि’त्यस्य इति निश्चय इत्यर्थकत्वान्न विशेष्यनिघ्नत्वप्रसङ्ग इति द्रष्टव्यम् ।

**परिमल **

इच्छाप्रयत्नादिकेति । कार्यानुकूलेच्छाप्रयत्नौ । शरीरेन्द्रियादिरादिपदार्थः । नन्वेवं वृक्षेणेत्यादौ कर्तृकरणयोस्तृतीयेति कर्तरि विहिततृतीययाऽवगतकर्तृत्वायोग इत्यत आह वृक्षेणेति । तिष्ठतेरकर्मकत्वेन लः कर्मणि च भावे चाकर्मकेभ्य इति भावलकारे भावार्थकाऽऽख्याततत्क्रियापदयोगे कर्तरि प्राप्तेयं तृतीयेति ज्ञेयम् ॥ पारिभाषिकमिति । स्वतन्त्रः कर्तेति पाणिन्युक्तेः स्थितिरूपक्रियां प्रति स्वातन्त्र्यरूपं कर्तृत्वं पाणिनिपरिभाषितमेवेति न सर्वसम्प्रतिपत्तिरिति भावः ॥ विविच्येति । पूर्ववादिनापीच्छादेरङ्गीकारात्तदभावस्य बुध्द्यभावेनैव साध्यत्वात् प्रवृत्तिर्हि बुद्धिपूर्वेत्येव बुध्द्यैव विवेकं कृत्वा व्याख्येयमित्यर्थः ॥ तृतीयादीति । आदिपदेन कर्तृकर्मणोः कृतीत्यादिना कर्तरि विहित-षष्ठ्यादिग्रहः ॥ प्रकरणादिति । जन्मादिसूत्रोक्तकर्तृत्वस्यैव पूर्वोत्तराधिकरणयोर्विचारस्यैव प्रवृत्तेरिति भावेन प्रकरणादित्युक्तं व्यनक्ति अत्रैव हीति । यद्वा विवादविषयत्वाच्चैतदेव कर्तृत्वमुपादेयं नान्यदिति भावेनाह अत्रैव हीति । ततश्च किं, तादृशकर्तृत्वस्य मयापि स्वीकारादित्यत आह सा चेति । बुद्धिपूर्वकत्वं क्वचिद्बुद्धिकारणकत्वं क्वचिद्बुद्ध्यविनाभूतत्वम् । यद्वा बुद्धिकारणकत्वेनापि बुद्धद्ध्य-विनाभूतत्वमेव विवक्षितमिति भावेन बुद्ध्यविनाभूतत्वरूपबुद्धिपूर्वकत्वं व्यनक्ति कार्याया इत्यादिना ॥ व्यापिका बुद्धिरभावे (न च) सम्भवतीति । एतच्च ‘बुद्धिराहित्यमेव तदि’त्यत्रोपपादयिष्याम इति भावः ॥ इति व्याख्यानादिति । कर्तृत्वं बुद्धिपूर्वप्रवृत्तिरिति निश्चितमिति योजनेति भावः ॥ भावे वेति । ‘नपुंसके भावे क्त’ इति प्रत्यये कर्तृत्वमिति निश्चय इत्यर्थलाभान् न दोष इति भावः ।

**यादुपत्यम् **

इच्छाप्रयत्नादिकेष्वित्यत्रादिपदेन शरीरपरिस्पन्दस्य ग्रहणम् । नन्वेवं वृक्षेण स्थीयत इत्यादौ वृक्षादेः कर्तृता न स्यात्तत्र ज्ञानाद्यभावादित्यत आह वृक्षेणेति । स्वतन्त्रः कर्तेत्यनेन क्रियास्वातन्त्र्यमेव कर्तृत्वमिति वैयाकरणैः परिभाषायाः कृतत्वादिति भावः ॥ तृतीयादिविषयत्व-मेवेति । तृतीयादिविषयश्च क्रियायां यः स्वतन्त्रः स एवेति भावः । अत्रादिपदेन तिङादियुक्तप्रथमा कृद्युक्तषष्ठी च ग्राह्या । ननु ‘तन्मनोऽकुरुते’ति श्रुतिबलादिच्छादिरूपप्रवृत्तिरपि प्रागभावे मयाऽङ्गीक्रियत एवेत्यत आह सा चेयमिति ॥ भावे वेति । ‘नपुंसके भावेक्तः’ इति स्मरणादित्यर्थः । तथा च इति निश्चय इत्यर्थलाभान्न विशेष्यनिघ्नत्वमस्येति भावः ।

**श्रीनिवासतीर्थीया **

अनुमानेऽप्रयोजकतामाशङ्कते नन्वस्त्विति । ननु भवदुक्तं कर्तृत्वं वृक्षेणेत्यादौ नेत्यव्याप्तिरत आह वृक्षेणेति ॥ स्यादिति । तथा च प्रागभावेन स्थीयत इति प्रयोगात्तस्याप्येतादृशं कतृत्वं भवेदिति भावः । एतदेव प्रवृत्तिरेव कर्तृत्वमित्येतदेवेर्थः । अत्र एतादृशकर्तृत्वे । नान्यत्र तृतीयाप्रयोगादिविषयत्वरूपे कर्तृत्वे । तादृशस्य प्रागभावेन स्थीयत इत्यत्रापि सत्वादित्यर्थः । बुद्ध्या विविच्येत्युक्तं दर्शयति सा चेयमिति । प्रवृत्तिर्जन्याजन्यभेदाद् द्विविधा । तत्राद्ये आह कार्याया इति । अस्मादादिप्रवृत्तेरित्यर्थः ॥ अकार्याया इति । तथा चेश्वरादिप्रवृत्तेरजन्यत्वेन बुद्धिकारणकत्वाभावेऽपि तव्द्याभिचारो न, बुद्धिसामानाधिकरण्यं तु तिष्ठत्येवेत्यर्थः ॥ नपुंसक-तोपपत्तिरिति । सामान्ये नपुंसकमिति वचनादिति भावः । अन्यथा ‘प्रवृत्तिकर्तृत्वमिति निश्चिते’इति स्यादिति ध्येयम् ॥ भावे वेति । समाधानान्तरम् । तथा च प्रवृत्तिः कर्तृत्वमिति निश्चितं निश्चय इत्यर्थः। अस्मिन्पक्षेऽपि नपुंसकप्रयोगः । कुत इति चेत् । ‘नपुंसके भावे क्त’ इति स्मरणात् । नपुंसकत्वे विवक्षिते भावे क्तप्रत्ययो भवतीति सूत्रार्थः ।

**वाक्यार्थरत्नमाला **

प्रयत्नानन्तरभावीति । एतच्च स स्वातन्त्र्यात्तत्कर्त्तेत्यादि भाष्यादिसम्बन्धिवर्धमानोक्तरीत्या प्रतिपादितमिति द्रष्टव्यम् । अचेतन इति । व्यवहारो न स्यादिति वक्ष्यमाणेनान्वयः । व्यवहाराभावस्यैवोपपादनं कर्त्तरीत्यादितृतीयादेरित्यादिपदेन प्रथमादिग्रहणम् । तत्र प्रथमाया उदाहरणं वृक्षस्तिष्ठतीति । तृतीयादेरुदाहरणं वृक्षेण स्थीय इत्यादि । आदिपदेन वृक्षस्य स्थितिरित्यस्य सङ्ग्रहः । आदिपदेन घटस्तिष्टतीत्यादेः सङ्ग्रह इत्यप्याहुः । उक्तस्थलीयग्रन्थानुसारेणैव समयपादे प्रथमाधिकरणे सविस्तरमुपपादयिष्यामः । वैय्याकरणाभिमतेत्यादिकं न्यायवाचस्पत्युदय-नेनेत्यादिक औपचारिकः प्रयोग इत्याह ॥ यद्यपि वृक्ष्यस्येति । तथा योजयतीत्यतःपरं सर्वैरपीति प्रतीकोपादनयुक्तः पाठः ।