०५ चतुर्थपादार्थनिरूपणम्

श्रुतिप्रायोपपत्तिभिः

चतुर्थपादार्थनिरूपणम्

श्रुतिप्रायोपपत्तिभिः

**सुधा **

चतुर्थपादादस्याधिकरणस्य वैलक्षण्यं दर्शयितुमल्पेत्याद्युक्तम् । तदविशदम् । वैलक्षण्यज्ञानस्योभयस्वरूपज्ञानाधीनत्वात् । अतश्चतुर्थपादार्थं दर्शयति श्रुतीति ।

अनुव्याख्यानम्

……… श्रुतिप्रायोपपत्तिभिः ॥

अविरोधश्चतुर्थे तु पादे सम्यक् समर्थ्यते ॥

श्रुतीनां प्रायो बाहुल्यम् । तत्सहिताभिरुपपत्तिभिः । श्रुतिप्रधानकोपपत्तिभिरिति यावत् । अविरोधो विरोधाभावः । श्रुतीनामिति शेषः ।

यद्वा श्रुतिप्रायशब्देन श्रुतिकल्पत्वमुच्यते । श्रुतिगृहीताभिरुपपत्तिभिरित्यर्थः । अत्र तु स्वतन्त्राभिरिति स्फुटमेव । अथवाऽत्रोक्तार्थस्यैव तत्र प्रपञ्चनान्न दोषः । यथा प्रथमपादार्थप्रपञ्चनाद् द्वितीयपादस्य इत्याशयेनोक्तं सम्यगिति । यद्वा क्वापीति अत्र सम्बध्यते । तेन क्वाप्यध्यात्मलक्षणे विषये, अत्र त्वन्यत्रेति भेदः सूचितो भवति । यद्यप्येतत्प्रागेव वक्तव्यं तथाऽप्यसत्कार्य-मित्यादेर्वक्ष्यमाणस्य, सूत्रस्य व्याख्यानान्तरत्वद्योतनाय व्यवधानेनोक्तम् । अन्यथा पूर्वमेव व्याख्यानम्, इदं तु तदुपपादनायोपयोगीति विज्ञायेत ।

**शेषवाक्यार्थचन्द्रिका **

श्रुतिप्रायोपपत्तिभिरिति भाष्यमनर्थकम् । न च श्रुतियुक्तिविरोध-परिहारकस्यास्य तादृशे चतुर्थपाद एव कर्तव्यताशङ्कापरिहाराय ततो वैलक्षण्योपदर्शनमेतदिति वाच्यम् । ‘अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी’त्येतदधिकरणोपाधिकथनपरे वाक्ये वाक्ययुक्तिविशेषणाभ्या-मल्पत्वबहुत्वाभ्यामेव तद्वैलक्षण्योपदर्शनादित्यतस्तद्विशदीकरणार्थत्वान्न वैयर्थ्यमित्यभिप्रेत्य विशदी-करणे निमित्तोपदर्शनपूर्वकं तत्परतयोत्तरवाक्यं योजयति चतुर्थपादादिति ॥ वैलक्षण्यज्ञानस्येति । तत्र चैतदधिकरणपूर्वपक्षसिद्धान्तन्यायोपदर्शनेऽपि चतुर्थपादीयपूर्वपक्षसिद्धान्तन्यायानुपदर्शनात्तदुभय-स्वरूपज्ञानाभावान्न तददीनवैलक्षण्यज्ञानं सम्भवतीति भावः । नन्वस्मिन्नप्यधिकरणे बहुलश्रुति-सहितोपपत्तिभिः श्रुतीनां विरोधनिरासात्कथमयं चतुर्थपादार्थ इत्यतोऽत्र श्रुतिप्रायोपपत्तिभिरित्यस्य श्रुतिप्रधानकोपपत्तिभिरित्यर्थकत्वेन बहुलश्रुतिसहितोपपत्तिभिरित्येतावत्तात्पर्यकत्वाभावाद्बहुलश्रुति-सहितोपपत्तिभिः श्रुतीनां विरोधनिरासकस्याप्यस्य श्रुत्युपसर्जनयुक्तिविरोधनिरासकत्वेन श्रुतिप्रधानो-पपत्तिभिस्तदनिरासकत्वान्न तन्निरासार्थकचतुर्थपादे प्रवेशोऽस्येतिभावेनाह श्रुतिप्रधानकेति । अविरोधो विरोधभाव इत्येतत्पादोपक्रम एव प्रपञ्चितम् । ‘युक्तिसहितश्रुतिविरोधं श्रुतीनामि’ति भाष्यं ‘श्रुत्यर्थः श्रुतियुक्तिभ्यामि’ति चतुर्थपादीयानुव्याख्यानं च मनसि निधायापेक्षितं शेषं पूरयति श्रुतीनामिति शेष इति ।

नन्वेवमधिकरणस्य चतुर्थपादप्रवेशपरिहारेऽपि तृतीयचतुर्थपादयोः साङ्कर्यादेव चतुर्थपादीयाधि-करणेष्विव तृतीयपादीयेष्वपि तेषु प्रायेण श्रुतिप्रधानोपपत्तिभिः श्रुतीनां विरोधनिरासादित्यत आह यद्वेति ॥ श्रुतिगृहीताभिरिति । श्रुतिगृहीतत्वं च श्रुतिसिद्धव्याप्त्यादिमत्वं द्रष्टव्यम् । एतच्च ‘श्रुत्यर्थः श्रुतियुक्तिभ्यामि’त्युत्तरानुव्याख्यानव्याख्यानावसरे आकर एव स्पष्टम् ॥ अत्र तु स्वतन्त्राभिरिति । श्रुत्यपरिगृहीताभिरित्यर्थः । उपलक्षणं चैतत् । तृतीयपादेऽपीत्यपि द्रष्टव्यम् । श्रुतिप्रायोपपत्तिभिर-विरोधश्चतुर्थपादे समर्थ्यत इत्येतावता चतुर्थपादार्थप्रदर्शनेनास्य ततो वैलक्षण्यसूचनेन तत्साङ्कर्य-शङ्कानिराससिद्धेर्भाष्ये सम्यगित्यस्य वैयर्थ्यमित्यतश्चतुर्थपादस्यैतदधिरणार्थप्रपञ्चकत्वसूचनेनागतार्थ-त्वोपपादनार्थत्वान्न तद्वैयर्थ्यमित्यभिप्रेत्याह अथवेति । एतदधिकरणार्थप्रपञ्चकत्वेन चतुर्थस्योक्त-मवैयर्थ्यं दृष्टान्तेनोपपादयति यथा प्रथमपादार्थप्रपञ्चनादिति ॥ ‘इतरेषां चानुपलब्धेरि’ति प्रथमपादोक्त हेतुत्रयप्रपञ्चनरूपत्वादित्यर्थः । प्रथमपादस्थाधिकरणोक्तोऽप्यर्थः प्रथमपादार्थ एव । अन्यथा पादार्थाप्रतिपादकत्वा‘दितरेषां चानुपलब्धेरि’त्यस्य पादान्तर्भावाभावप्रसङ्गात् । अयमेव च ‘पूर्वपादे-नास्य प्रपञ्च्यकप्रपञ्चभावलक्षणा सङ्गतिरि’ति समयपादीयोक्तेः, ‘प्राधान्याद्युक्तिविरोधपरिहारस्य प्राथम्ये तत्प्रपञ्चात्मकत्वेन समयविरोधपरिहारस्य तदानन्तर्य, इति तृतीयपादीयटीकोक्तेश्चाभि-प्रायोऽनुसन्धेयः । प्रथमपादार्थप्रपञ्चनादित्यनेन प्रथमपादीयोक्ताधिकरणप्रपञ्चकताया एव विवक्षितत्वान्नानुपपत्तिरित्यप्याहुः । ‘अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः’ इत्युत्तरानु-व्याख्यानानुसारेणाध्यात्मविषये युक्तिसहितश्रुतिभिः श्रुतीनां विरोधपरिहारस्य चतुर्थपादार्थत्वस्थित्या युक्तिसहितश्रुतिभिः श्रूतीनां विरोधपरिहारमात्रस्य तदर्थत्वाभावाच्च नास्याधिकरणस्य तेन साङ्कर्य-मित्यभिप्रेत्य तत्सम्बन्धप्रदर्शनपूर्वकमुक्तार्थोपदर्शकत्वोपयोगितया तद्-व्याचष्टे यद्वेति ॥ अन्यत्रेति । अध्यात्मेतरविषये विष्णौ जगत्कारणत्वविषय इत्यर्थः । उपलक्षणं चैतत् । तृतीयेऽध्यात्मेतरविषय इति तस्यापि चतुर्थाद्भेद इत्यपि द्रष्टव्यम् । चतुर्थपादाधिकरणस्य वैलक्षण्यमुपदर्शयितुं चतुर्थपादार्थोप-दर्शकत्वेऽस्य ग्रन्थस्य चतुर्थपादाद्वैलक्षण्योपदर्शकादल्पवाक्ययुतेत्यादिग्रन्थाद् आनन्तर्यमेव स्यान्न तु तेन व्यवधानमित्यत एकार्थोपदर्शकत्वेऽपि ग्रन्थद्वयस्य व्यवधानं प्रयोजनसद्भावाद्युक्तमित्यभिप्रेत्य तदाह यद्यपीत्यादिना ।

**परिमल **

अत्रापि प्रायश्शब्दो बाहुल्यवाची सन्प्राधान्यार्थ इत्याह प्रायो बाहुल्यमित्यादिना । प्रथमपादा(माधिकरण)र्थप्रपञ्चनेति । स्मृत्यधिकरणे ह्यश्रौतस्मृतीनां सर्वासामप्रामाण्ये सङ्क्षेपेणोक्ते सति तत्प्रपञ्चनं समयपादे द्वादशभिरपि नयैः क्रियते । इतरेषां चानुपलब्धरिति सामान्यतो निराकरणं समयानां कृतमित्यादिभाष्योक्तेः । तथाऽत्रापीति भावः ॥ अध्यात्मेति । उपासनापादे ‘अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः’ इति अनुभाष्योक्तेरिति भावः ॥ प्रागेवेति । ‘इति न्यायो विनिश्चितः’ इत्यनन्तरं ‘कथं न निर्णयं कुर्यादि’त्यनन्तरं वे’त्यर्थः ।

**यादुपत्यम् **

प्रथमपादार्थप्रपञ्चनादिति । ‘इतरेषां चानुपलब्देरिति सामान्यतो निराकरणं समयानां कृतम् । विशेषतो निराकरोत्यस्मिन्पादे’इति भाष्येऽभिहितत्वादिति भावः । यद्यपि प्रथमपादीयैतत्सूत्रार्थप्रपञ्चनरूपत्वमेव द्वितीयपादस्यात्राभिहितं न समस्तप्रथमपादार्थप्रपञ्चनरूपत्वं तथाऽप्युक्तार्थविरूद्धानां सर्वयुक्तीनामाभासत्वस्य प्रथमनाद एवोक्तत्वेन विरोधिसमयानुसंहितयुक्ती-नामप्याभासत्वस्य तत्रैव सिद्धात्वाद्य्वर्थोऽयं पाद इत्याशङ्कायामुपलक्षणया यत्सर्वविरोधि-युक्तीनामाभासत्वं प्रथमपादे सङ्क्षेपेणाभिहितं तदत्र तत्तत्प्रमेयेषु परोत्प्रेक्षितयुक्तीनामाभासत्वव्युत्पादनेन प्रपञ्च्यत इत्यभिप्रेतत्वेन प्रथमपादार्थप्रपञ्चनरूपत्वमप्यस्तेवेति ध्येयम् ।

**श्रीनिवासतीर्थीया **

प्राबल्यं प्राधान्यम् ॥ प्रागेवेति । ‘इति न्यायो विनिश्चित’ इत्यनन्तरमेव ‘श्रुतिप्राये’त्यादिवाच्यमित्यर्थः । पूर्वम् ‘असत्कारणं न हि श्रुत्यर्थो भवति क्वापी’त्येतदेवेत्यर्थः । व्याख्यानम् असदिति चेदित्यंशस्य । इदम् असत्कार्यमित्यादिकम् । व्याख्यानान्तरत्व-द्योतककिञ्चेत्यादिशब्दाभावादिति भावः । व्यवधाने तु व्याख्यानान्तरत्वं विज्ञास्यत इति हृदयम् ।

**वाक्यार्थरत्नमाला **

अत्र चेति । अल्पत्वादावित्यर्थः । तत्र चेति पाठेऽप्ययमर्थः । संपूर्ण-पादार्थप्रपञ्चत्वाभावाद्य्वाचष्टे । इतरेषां चेति । इतरेषां चेत्यादिनोक्तहेतुत्रयस्य प्रथमपादीयाधि-करणार्थत्वेऽपि पादार्थत्वाभावात्कथं पादार्थप्रपञ्चत्वोक्तिरित्यतोऽधिकरणार्थस्यापि पादार्थतामुप-पादयति । प्रथमपादस्थेत्यादिना । न केवलमयमर्थोऽत्रैव किं तु स्थलान्तरीयतत्वप्रकाशिका-वाक्ययोरपीत्याह । अयमेवेति । प्रथमपादस्थाधिकरणार्थस्य प्रथमपादार्थत्वात् तत्प्रपञ्चकत्वमित्येष एवेत्यर्थः । आहुरिति । तथा सत्यधिकरणार्थेति वदेत् । पादार्थेति वदतस्तु अभिप्रायान्तरमेव वाच्यमित्यस्वरसमनेनाह । तृतीयचतुर्थासाङ्कर्यसिध्यर्थमाह । उपलक्षणं चैतदिति ।