ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ
॥ अथ असदधिकरणम् ॥
अधिकरणोपाधिनिरूपणम्
ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ
**सुधा **
॥ ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ॥ ननु च() नारम्भणीय-मेवेदमधिकरणम् ‘न विलक्षणत्वादि’त्यनेनैव वेदस्य सकलयुक्तिविरोधानां परिहृतत्वात्, दृढयुक्तिविरोधपरिहारस्य चाभिमान्यधिकरणन्यायसिद्धत्वात्; इत्यतो परिहरन्नधिकरणस्योपाधि-मा(प्य)ह अल्पवाक्येति ।
अनुव्याख्यानम्
॥ ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ॥
अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी ॥
यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ॥
विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः ॥
यत्र यदा वेदस्य वाक्ययुता युक्तिविरोधिनी स्यात्, तत्र तदा, वस्तुनिर्णयः कथं स्याद् इति पूर्वपक्षिणेरिते सति तद्विरोधियुक्तीनां बाहुल्यात् प्राबल्याद् वस्तुनिर्णयो भवेदिति सिद्धान्तः । इत्येषोऽत्राधिकरणे न्यायो विनिश्चितः ।
**शेषवाक्यार्थचन्द्रिका **
ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ॐ ॥ नन्वल्पवाक्ययुतेत्युत्तर-भाष्यमनर्थकम् । न च पूर्वाधिकरणीयपूर्वपक्षसिद्धान्तन्यायापेक्षयैतदधिकरणीयपूर्वपक्षसिद्धान्त-न्याययोर्भेदोपदर्शनार्थं तदिति वाच्यम् । तदुपदर्शनस्याप्यनर्थकत्वात् । न च गतार्थताशङ्का-निरासस्तत्प्रयोजनमिति वाच्यम् । निरसिष्यमाणविरोधस्य प्रागपरिहृतत्वेन गतार्थताशङ्काया एवानुदयेन तन्निरासार्थत्वानुपपत्तेरित्यतो गतार्थताशङ्कोत्थापनपूर्वकं तन्निरासार्थं न्यायवैषम्योपदर्शनपरतयोत्तरभाष्यं योजयितुं तच्छङ्कां तावदुत्थापयति नन्विति ॥ उपाधिमप्याहेति । अन्यथाऽस्येदमेवोदाहरणमिदं नाति विवेकानुपपत्तेरिति भावः । साकाङ्क्षतया वाक्याभासत्वशङ्कापरिहारार्थमपेक्षिताध्याहारप्रदर्शनपूर्वकं न्यायवैषम्योपदर्शकतया भाष्यं व्याचष्टे यत्रेत्यादिना । बाहुल्यादित्यस्यैव व्याख्यानं प्राबल्यादिति ।
**परिमल **
असदिति चेत् । अधिकरणोपाध्युक्तौ बीजमाह ननु चेत्यादीना ॥ परिहारस्य चेति । प्रतीतार्थप्रच्यावनेनाविरूद्धार्थान्तरकल्पनरूपस्येत्यर्थः । अल्पपदस्य कृत्यम् अग्रे विवक्षुर् वाक्य-युतेत्येवानूदितवान् । बाहुल्यादित्यानुवाद, प्राबल्यादिति व्याख्या । वस्तुनिर्णयपदस्यावृत्तिं, भवे-दित्यस्यानुवृत्तिं च मत्वाह वस्तुनिर्णयो भवेदितीति ॥ अत्रेति शेषः । तस्यार्थो ऽधिकरण इति ।
**यादुपत्यम् **
ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ॥ बाहुल्यादित्यनूद्य प्राबल्यादिति व्याख्यानम् ।
**वाक्यार्थरत्नमाला **
ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ । अनारम्भणीयमेवेदमिति मूले पाठः स्वरस एव । नारम्भणीयमेवेदमिति पाठे तु नैवारम्भणीयमिति योज्यम् । आरम्भणीयमेव नेति यथाश्रुतैवकारप्रयोजनाभावात् । न्यायापेक्षयेति टीका । यौ न्यायौ तदपेक्षयेत्यर्थः । तद्विरोधीति मूलम् । पूर्वपक्ष्युत्प्रेक्षितयुक्तिविरोधीत्यर्थः । एवमुत्तरत्र व्याख्यानमिति । अनूद्य व्याख्यानमित्यर्थः ।