०६ अभिमानिनां देहसद्भावः

दृश्यन्ते चाधिकारिभिः

अभिमानिनां देहसद्भावः

दृश्यन्ते चाधिकारिभिः

**सुधा **

ये तु मीमांसकंमन्या विग्रहवतीं देवतां न सहन्ते तेऽप्यनेनैव निरस्ता भवन्ति । अर्थापत्या प्रत्यक्षेण च तत्सिद्धेः । समर्थितं चागमानां सिद्धार्थे प्रामाण्यम् । अनुपलम्भो ऽनेकत्र युगपत्सन्निधानं च शक्तिविशेषादुपपद्यते पिशाचादिवत् । न च पिशाचादयोऽपि न सन्ति । मन्त्रौषधादिनाऽस्मदादिभिरप्युपलभ्यमानत्वात् । अर्थक्रियया संवादेन च प्रामाण्योपपत्तेः । वक्ष्यति च सूत्रकारो ‘देवादिवदि’त्युक्त्वा तत्रापि गोपदवत् । न चाचेतनमात्रे तत्प्रयोगोऽस्ति । न च चेतनो मुक्तः प्रलीनो वा तद्वाच्यः । जगव्द्यापारसम्बन्धिन्यपि प्रयोगात् । न चासौ विग्रहविधुरः सम्भवतीत्यलम् ।

**शेषवाक्यार्थचन्द्रिका **

येत्विति । चतुर्थ्यन्तशब्दस्यैव देवतात्वात्तस्य च जडत्वान्न विग्रहवत्त्वं देवताया इत्याशयः ॥ अर्थपत्त्येति । युक्त्यागमविरोधसूचितार्थापत्त्येत्यर्थः ॥ प्रत्यक्षणेति । दृश्यते चेत्युत्तरसूत्रोक्तप्रत्यक्षेणेत्यर्थः ॥ तत्सिद्धेरिति विग्रहविशिष्टचेतनरूपदेवतासिद्धेरित्यर्थः । ऐन्द्रादि-यागशेषार्थवादतन्मन्त्रेषु विग्रहविशिष्टस्यैवेन्द्रादेस्तत्तद्यागादिना प्रीतेरुक्तत्वेन विग्रहविशिष्टचेतनस्यैव देवतात्वसिद्धेश्च, न चतुर्थ्यन्तशब्दस्य देवतात्वं युक्तमित्यभिप्रेत्य, कार्यपरत्वादागमस्य न सिद्धेऽर्थे प्रामाण्यमिति न मन्त्रार्थवादादिना तत्सिद्धिरिति शङ्कामुक्तस्मारणेन परिहरति समर्थितं चेति । ‘कार्यता च न काचित्स्यादि’त्यादिनेति शेषः । न च मन्त्रार्थवादादेरनुष्ठेयप्रकाशनस्तुत्यादिपरत्वात्कथं तत्र प्रामाण्यमिति वाच्यम् । विरोधाभावेऽपि स्वार्थपरत्वाभावेऽतिप्रसङ्गेन विशिष्टदेवतापरत्वस्य न्याय्यत्वात् । न च देवादयो न शरीरिणो मातापितृरहितत्वाद्धटवदित्यनुमानं तत्र बाधकमिति बाधका-भावोऽसिद्ध इति वाच्यम् । तस्य यूकादावनैकान्तिकत्वेनाभासतयाबाधकत्वादिति भावः ।

ननु विग्रहवत्वे कथमनुपलम्भः । किञ्चैव सति ऋत्विगादिवत्सन्निधानेन कर्माङ्गत्वं स्यात् । न च तद्युज्यते । बहुषु श्राद्धेष्वेकस्य ब्राह्मणस्याङ्गभावादर्शनेन बहुषु यागेषु युगपदेकस्येन्द्रादेः सन्निधाना-योगादित्यतोऽन्तर्धानशक्तियोगेनानुपलम्भस्य शक्तिविशेषेण युगपदनेकत्र ऋत्विगादिवत्सन्निधाने-नाङ्गभावस्य चोपपत्तेर्न दोषद्वयमपीत्याशयवानाह अनुपलम्भ इति । ‘दुर्घटा शक्तितापि हि पिशाचानां हि दृश्यते । देवानां किमु किम्वेवं परमस्य हरेः प्रभोरि’ति ब्रह्मतर्कोक्तेरिति भावः ॥ शक्तिविशेषा-दिति । यद्यप्यत्र यथैकं ब्राह्मणमुद्दिश्य युगपन्नमस्कारः क्रियते बहुभिस् तथा स्वस्थानस्थितामेकां देवतामुद्दिश्य बहुभिर्यजमानैर्नानादेशावस्थितैः स्वं स्वं हविस्त्यज्यते तस्याश्च तत्रासन्निहिताया अपि स्वस्थानस्थिताया एव युगपद्विप्रकृष्टानेकार्थोपलम्भसामर्थ्येनानेकयजमानदत्तहविरादिस्वीकारसम्भवा-न्नानेकयागेषु ऋत्विगादिवत्सन्निधानापेक्षेत्येव वक्तुं युक्तमिति नानेकत्र युगपत्सन्निधानोपपादनाय शक्तिविशेषाश्रयणमुचितम् । तथापीन्द्र आगच्छ, हरिव आगच्छेत्यादिनाऽऽव्हानेन सन्निधानसिध्द्या स्वस्थाने स्थिताय एव देवताया अनेकयजमानदत्तहविरादिस्वीकर्तृत्वकल्पनाऽयोगाद् युगपत्सन्निधान-मङ्गीकृत्य तदुपपादकतया शक्तिविशेषाश्रयणमित्यवधेयम् ॥ पिशाचादिवदिति । ‘देत्यरक्षः-पिशाचकाः’ इत्युक्तपिशाचानामत्र ग्रहणात्तेषां चांशतो व्याप्तेः सत्वादनेकत्र युगपत्सन्निधानोपपत्तिरिति ध्येयम् ।

ननु मन्त्रौषधादिना तदुपलम्भस्य भ्रमत्वात्कथं तेन तत्सिद्धिरित्यत आह अर्थक्रियेति ॥ वक्ष्यति चेति । ‘देवादिवदपि लोके’ इत्यत्रेति शेषः ॥ जगव्द्यापारसम्बन्धिन्यपीति । जगव्द्यापारकर्तर्य-पीत्यर्थः ॥ असाविति । जगव्द्यापारकर्तेत्यर्थः । कतृत्वस्य शरीरित्वव्याप्यत्वेन तन्निवृत्तौ निवृत्त्य-वश्यम्भावादिति भावः । नन्वशरीरस्यापि जगव्द्यापारकर्तृत्वे बाधकाभावाव्द्याप्तिविधुरोऽयं प्रसङ्गः । कारकप्रयोक्तृत्वं हि कर्तृत्वं, न तु शरीरित्वमित्यत आह अलमिति । कारकप्रयोक्तृत्वरूपत्वेऽपि कर्तृत्वस्य प्रयत्नाविनाभूतत्वात्, प्रयत्नस्य चेच्छाऽविनाभूतत्वात्, इच्छायाश्च ज्ञानाविनाभूतत्वात्, देहिनामेव जाग्रतां ज्ञानदर्शनेन, ओहिनां च सुप्तप्रलीनानामदर्शनेन, ज्ञानस्य च देहाविनाभूतत्वेन, उत्तरोत्तरव्यापकनिवृत्तौ तत्तव्द्याप्यनिवृत्त्यवश्यम्भावेनाशरीरस्य कर्तृत्वानुपपत्तेरिति तदर्थः ।

**परिमल **

अर्थापत्त्येति । ‘युक्त्यागमविरोधेने’त्युक्तार्थापत्त्या, ‘दृश्यन्ते चाधिकारि-भिरि’त्युक्तप्रत्यक्षेण चेत्यर्थः । ‘पृथिव्याद्यभिमानिन्य’ इति स्मृत्या च भावेनाह समर्थितं चेति । अनेकत्रेति । यज्ञादिशालास्वित्यर्थः ॥ अर्थक्रियासंवादेन चेति । मन्त्राणामौषधादिबोधकवाक्यानां चेत्यर्थः । यद्वा उपलम्भो भ्रमोऽस्त्वित्यत आह अर्थक्रिययेति ॥ अपि लोक इतीति । लोकेऽपि पिशाचादयोऽन्तर्धानशक्त्या नोपलभ्यन्ते किम्वीश्वर इति वक्ष्यत इत्यर्थः । अचेतनमात्र इत्युक्त्या अग्न्यादिपदमचेतनस्यापि वाचकमित्युक्तं भवति ॥ प्रलीन इति । लीनदेहो लयवर्तिजीव इत्यर्थः ॥ जगव्द्यापारेति । ‘इन्द्रस्य नु वीर्याणि प्रवोचं यानि चकार प्रथमानि वज्री’ (ऋ. १-३२-१) । ‘अग्नेयं यज्ञमध्वरं विश्वतः परिभूरसि’ (ऋ. १-१-४) । इत्यलमिति । अयं भावः । ‘मस्ति सोम वरुणं मस्ति मित्रम्’ इत्यादौ सोमं प्रति वरुणादीन्मादयस्वेत्युच्यते । न च जडस्य विग्रहादिहीनचेतनस्य वा सोमपानकृतमदः सम्भवति । किञ्च ‘तेषां पाहि श्रुदी हवम्’ (ऋ. ९-९०-५) इति पानस्तोत्र-श्रवणादिकं श्रुयते । न च विग्रहेन्द्रियादिहीनस्य तद्युक्तमित्याद्यूह्यमिति ।

**यादुपत्यम् **

अर्थापत्येति । प्रथमसूत्रोक्तार्थपत्या, द्वितीयसूत्रोक्तप्रत्यक्षेण चेत्यर्थः ॥ समर्थितं चेति । तथा चागमेभ्योऽपि तत्सिद्धिरिति भावः । ननु देवानां विग्रहवत्वेऽनुपलम्भायोगः बहुषु यागेष्वेकस्येन्द्रादेर्हविरादिभोक्तृत्वेन युगपत्सन्निधानायोगश्चेत्यत आह अनुपलम्भ इति ॥ वक्ष्यति चेति । ‘देवादिवदपि लोक’ इति सूत्रे इति शेषः ॥ लोक इतीति । तत्र लोकपदं पिशाचादिपरमिति भावः ॥ न चासाविति । जगव्द्यापारकर्तेत्यर्थः । किञ्च यथा बहुभिर्नमस्कुर्वाणैरेको ब्राह्मणो युगपन्न-मस्क्रियते तद्वदिहोद्दिश्य परित्यागात्मकत्वाद्यागस्य विग्रहवतीमप्येकां देवतामुद्दिश्य बहवः स्वं स्वं द्रव्यं युगपत्परित्यक्ष्यन्तीति नानेकयागेषु ऋत्विगादिवत्तेषां सन्निधानमावश्यकमसन्निधानेऽपि तेषां सर्वज्ञत्वेन स्वस्वस्थानस्थितानामेवानेकयजमानदत्तहविरादिस्वीकारसम्भवादित्याशयवानाह इत्यलमिति ।

**श्रीनिवासतीर्थीया **

प्रत्यक्षेण मुनीनामिति शेषः । विग्रहवत्त्वेऽनुपलम्भबाधादिः स्यादित्यन आह अनुपलम्भ इत्यादि ॥ पिशाचादिवदिति । अत्र ‘दैत्यरक्षःपिशाचकाः’ इत्युक्तपदस्थपिशाचानां ग्रहणात्तेषां चांशतो व्याप्तेः सत्वादनेकत्र युगपत्सन्निधानोपपत्तिरिति ध्येयम् । नन्वस्मदादेः पिशाचाद्युपलम्भोऽप्रमाणं किन्न स्यादित्यत आह अर्थक्रिययेति । पिशाचाद्युचितार्थक्रियायाः प्रत्यक्षसिद्धत्वेन तत्संवादिनोऽप्युपलम्भस्य युक्तं प्रामाण्यमिति भावः ॥ तदिति । तेषामिन्द्रादिपदानां प्रयोगे इत्यर्थः । सम्बन्धिनि तद्वति, तत्कर्तरिति यावत् ।

**वाक्यार्थरत्नमाला **

चतुर्थ्यन्तशब्दस्यैवेति । अपि वाशब्दपूर्वत्वाद्यज्ञकर्मप्रधानं स्याद्गुणत्वे देवताश्रुतिरिति द्वितीयाध्यायद्वितीयपादीयनवमाधिकरणसिद्धान्तसूत्रे देवताया विग्रहाद्यभावेन पूज्यत्वा-भावादेरुक्तत्वात्तदधिकरणभाष्यादावुपपादितप्रकारोऽनुसन्धेयः । अत्र च चतुर्थ्यन्तशब्दस्यैवेत्यस्य शब्दोपहितोऽर्थोपहितो वा शब्दो देवतेत्येतद्भामत्यनुसारेणार्थोपहितशब्दमात्रस्यैवेत्यर्थः । उपलक्षणं चैतत् । शब्दोपहितार्थस्यैव वेत्यपि ज्ञेयम् । चतुर्थ्यन्तशब्दमात्रप्रतीतं शब्दोपहितं तादृगर्थनियमितशब्दो वेति कल्पतरुः । चतुर्थ्यन्तशब्दप्रतीतमात्रमित्यस्य मण्डलादिः प्रसिद्धार्थ इत्यर्थ इति परिमलः । वार्त्तिकादिचन्द्रिकाचावलोक्याऽस्ति । मन्त्रार्थवादेतिहासपुराणश्लोकेभ्यो विग्रहवत्तावगमादित्यादि-शाङ्करभाष्याद्यनुसारेण चाह । ऐन्द्रादीति । यागशेषेति यागविधिशेषेत्यर्थः । इतिहासादेरुपलक्षणं चेदम् । अर्थवादादिनेति वक्ष्यति चेति ज्ञेयम् । न च मन्त्रार्थवादादेरिति । मनुष्यशरीरस्य मातापितृसंयोगजत्वनियमादसति पित्रोः संयोगे कुतः सम्भव इत्यादि भामतिव्याख्यानरूपदेवादयो न शरीरिण इत्यादिकल्पतर्वनुसारेणाह । न च देवादय इति । यूकादाविति । स्वेदजोद्भिज्जादीनां शरीराणामतद्धेतुत्वादित्येतद्भामत्यनुसारेण शिरआदौ जायमानक्रिमिष्वित्यर्थः । यथा बहुभिर्भोज-यद्भिर्नैको ब्राह्मणो युगपद्भोज्यत इति शाङ्करभाष्यं विग्रहवत्वाद्रुत्विगादिवदिन्द्रादीनामपि स्वरूप-सन्निधानेन कर्माङ्गभावोऽभ्युपगम्येतेति च तद्भाष्यं मनसि निधायानेकत्र युगपत्सन्निधानं चेति मूलानुसूचितानुपपत्तिं विवृणोति । किं चैवं सतीति । न खलु बहुषु श्राद्धेष्विति भामतीमनुसृत्य श्राद्धे-ष्वित्युक्तम् । यथा बहुभिर्नमस्कुर्वाणैरेको ब्राह्मण इत्यादिपरभाष्यभामत्यनुसारेण शक्तिविशेषा-श्रयणवैयर्थ्यमाक्षिप्य परिहरति । यद्यप्यत्रेत्यादिनाऽवधेयमित्यन्तेन ।