ततस्तन्नामकः कश्चित्पुमानन्यो भवेदिति
श्रुतियुक्तयोर्नविरोधः
ततस्तन्नामकः कश्चित्पुमानन्यो भवेदिति
**सुधा **
नन्वेवं सति कल्पनागौरवमापद्येत । केषाञ्चिच्चेतनानां मृदाद्यभिमानित्वं ततस्त-च्छब्दानां तेषु वृत्तिर्व्यापकत्वं सदेहत्वमन्तर्धानशक्तिस्तत्परता च श्रुतेरित्यनेकस्य कल्प्यमानत्वात् । मैवम् । अर्थापत्तितः सर्वस्यास्य सिद्धत्वात् । श्रुतिर्हि मृदादीनां वक्तृत्वादिकं प्रतिपादयति, युक्तिश्च तदभावम् । न च वास्तवो विरोधः सम्भवति । वस्तुविकल्पापत्तेः । न चायं विरोधो विनै-तत्कल्पनया शाम्यति । जडस्वीकारे युक्तिविरोधात् । अनभिमानिस्वीकारे च पृथक् शब्दशक्तौ प्रमाणाभावात् । अव्यापकत्वाद्यङ्गीकारे चोक्तानुपपत्तेः । न च श्रुतियुक्त्योरन्यतराप्रामाण्ये-नाप्युपपद्यत एतदिति वाच्यम् । उक्तरीत्या द्वयोरपि निरवकाशत्वात् । न हि परेणापि विद्वेषेणैवागमाप्रामाण्यमभिधातुं युक्तम् । किन्नामोपपत्तिमाश्रित्यैव । तथा च कथं वेदप्रामाण्येऽपि न दीयते दृष्टिः । तदेवं युक्त्यागमविरोधेनास्यार्थस्य प्राप्तत्वान्न किञ्चित्कल्पनागौरवमिति ।
नन्वेतदुत्सूत्रितं कथमुच्यत इत्यत आह अत्रेति ।
इत्युक्तमेतत्सर्वम् अत्र ‘अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामिति’ सूत्रेऽभिधीयत इत्यर्थः । यद्वाऽत्राभिधयित इति सिद्धान्तोपक्रमवाक्यम् । तस्यैवं प्राप्ते सूत्रकृता समाधानमभिधीयत इत्यर्थः । एवं सूत्रमवतार्य तत इत्यादिना व्याख्यातमिति ।
**शेषवाक्यार्थचन्द्रिका **
युक्त्यागमविरोधेन प्राप्तमित्यर्थापत्त्योक्तस्य प्रमेयस्य प्रमितत्व-वर्णनानर्थक्यमाशङ्क्य कल्पनागौरवदोषपरिहारार्थत्वान्न तदिति भावेन तव्द्यावर्त्यतया तद्दोषशङ्का-मुत्थशपयति नन्वेवमिति । कल्पनागौरवमेवोपपादयति केषाञ्चिदित्यादिना ॥ वस्तुविकल्पापत्ते-रिति । वस्तुनो मृदादेर् वक्तृत्वतदभावरूपविरुद्धाकारद्वयापत्तेरित्यर्थः ॥ एतत्कल्पनयेति । अव्यापकत्वपक्षे तदनधिष्ठितप्रदेशवत्प्रदेशान्तरस्यापि प्रवृत्तिसम्भवात्तद्वैयर्थ्यम् । विग्रहरहितत्वे चेन्द्रियरहितत्वेन वक्तृत्वाद्यनुपपत्तौ पुनयुक्तिविरोधतादवस्थ्यमित्युक्तदोषापत्तेरित्यर्थः । तथाऽपि भाष्ये तत इत्यंशवैयर्थ्यमित्यतो युक्त्यागमरूपप्रमाणद्वयस्यानवकाशत्वद्योतनार्थत्वान्न तद्वैयर्थ्यमिति भावेन किं तन्निरवकाशत्वद्योतनस्यापि प्रयोजनमित्यतोऽर्थापत्तेरन्यथोपपन्नत्वेनाभासत्वशङ्कापरिहारस्तत्प्रयोजन-मित्यभिप्रेत्यान्यथोपपत्तिशङ्कामुत्थापयति न चेति । उपपद्यते एतद्विरोधस्य वास्तवत्वमिति शेषः ॥ उक्तरीत्येति । प्रमितव्याप्तिपक्षधर्मताकत्वेन युक्तेर्निरवकाशत्वं, विलक्षणसिद्धान्तोक्तरीत्या वेदस्यापि तदित्यर्थः ॥ न दीयते दृष्टिरिति । वेदप्रामाण्येऽप्यतीताधिकरणे दृढतरोपपत्तेर्दर्शितत्वादित्यर्थः ।
तथाऽप्यत्राभिधीयत इति भाष्यखण्डवैयर्थ्यमित्यत उक्तस्यार्थस्य सूत्रारूढत्वप्रदर्शनार्थं तदिति भावेन किं सूत्रारूढत्ववर्णनेनापीत्यतो भाष्यस्योत्सूत्रत्वशङ्कानिरासस्तत्प्रयोजनमित्याशयवानुत्सूत्रत्व-शङ्कामुत्थापयति नन्वेतदिति । इतिशब्दस्य न केवलं प्राप्तमित्यनेन सम्बधः किन्नामात्राभिधीयत इत्यनेनापीत्यभिप्रेत्योक्तसर्वपरतया तं व्याचष्टे इतीति । इतिशब्दस्यात्रेत्यनेनाप्यन्वयकल्पनायाम-परितोषात्पक्षान्तरमाह यद्वेति । सिद्धान्ताभिधानप्रतिज्ञारूपतया स्पष्टप्रतिभासस्यात्रेत्यादिग्रन्थ-स्योक्तार्थस्य सूत्रारूढत्वकथनपरत्वाश्रयणं क्लिष्टमित्याशयेन वाऽऽह यद्वेति ॥ तस्येति । सिद्धान्तोप-क्रमवाक्यस्येत्यर्थः । अस्य चेत्यर्थ इति वक्ष्यमाणेन सम्बन्धः । अत्रेत्यस्य व्याख्यानमेवं प्राप्त इति । क्वचिदत्रैवं प्राप्त इत्यपि पाठः । तत्रात्रेत्यनुवादेनैवं प्राप्त इति व्याख्यानमित्यवधेयम् ।
**परिमल **
युक्यागमविरोधेनेतिपदतात्पर्यं शङ्कोत्तराभ्यां व्यनक्ति नन्वेवमित्यादिना ॥ अनभिमानस्वीकार इति । पृथिव्याद्यभिमानहीनस्य कस्यचिच्चेतनमात्रस्य मृदब्रवीदित्या दौ प्रतिपाद्यत्वेन स्वीकारे सति । पृथक् मृत्त्वादिधर्मवत्त्वतत्स्वातन्त्र्यरूपनिमित्तद्वयव्यतिरेकेणेत्यर्थः ॥ उक्तेति । तदनधिष्ठितेत्यादिनोत्तेत्यर्थः ॥ उक्तरीत्येति । मृत्वादियुक्तिमित्यर्थः ॥ वेदप्रामाण्येपीति । तस्यापि नित्यनिर्दोषत्वाद्युपपत्त्योपपादितत्वात्पूर्वनय इति भावः । इति पदस्य प्राप्तमित्यनन्तरमन्वय इति प्रागुक्तत्वात्तदनूद्य तस्यार्थमाह इत्युक्तमेतत्सर्वमिति । प्राप्तमित्येतदनन्तरमयं शेषो वा । अत्रेति भाष्यपदानुवादः । तस्य व्याख्या इतिसूत्र इति । एतच्च सूत्रभाष्ये व्यक्तमिति भावः । अत्रेत्यादिकं तत इत्यतः प्रागप (क्रष्टव्य) कर्ष्टव्यमिति भावेन योजनान्तरमाह यद्वेति । तस्येत्यस्य इत्यर्थ इत्यने नान्वयः। अत्रेत्यस्यार्थ एवं प्राप्त इति ।
**यादुपत्यम् **
युक्त्यागमविरोधेनेत्यस्य सार्थक्यं वक्तुमाह नन्वेवं सतीति ॥ उक्तरीत्येति । एतदधिकरणपूर्वपक्ष्युक्तरीत्या युक्तेर्निरवकाशत्वं, न विलक्षणाधिकरणोक्तसिद्धान्तरीत्या वेदस्या-पीत्यर्थः ॥ न दीयते दृष्टिरिति । वेदप्रामाण्येऽप्यतीताधिकरणे दृढोपपत्तेर्दर्शितत्वादिति भावः ।
**श्रीनिवासतीर्थीया **
वस्तुन इति । एकस्यैव मृदाख्यवस्तुनो वक्तृत्वमवक्तृत्वं च स्यादिति भावः । पृथक् यथाऽस्मन्मते तदभिमानित्वात्तेषु तच्छब्दः प्रवर्तत इत्युच्यते, तथा न, किं तु स्वातन्त्र्येणेत्यर्थः । अनभिमानिष्विति शेषः ॥ शब्देति । मृदादिशब्देत्यर्थः ॥ उक्तेति । वैयर्थ्य-रूपेत्यर्थः ॥
**वाक्यार्थरत्नमाला **
अन्यथोपपन्नत्वेनेति । श्रुतियुक्तयोर्वास्तवविरोधसत्वेऽपि न तदन्यथा उपपत्तिः । अन्यतरस्याप्रामाण्येऽपि अग्न्युष्णत्वानुष्णत्वप्रत्यक्षानुमानयोरिव वास्तवविरोधसम्भवात् । उभयोः प्रामाण्यस्वीकारपक्ष एव वस्तुनो द्वैरूप्यापत्तिरायाति नान्यथेति भावः । न चेतीत्यनन्तरम् उपपद्यते एतद्विरोधस्य वास्तवत्वमिति शेष इति पाठः । तत्रैतदित्यस्यैव विरोधस्य वास्तवत्व-मित्यर्थकथनसम्भवे तथाशेषपूरणं यस्य विरोधवास्तवत्वस्यान्यथानुपपत्योक्तविकल्पना तदेतद् वस्तु-विकल्पादिकमपीति विशेषं प्रतिपादयितुम् । ‘‘क्वचिदुपपद्यते विरोधस्य वास्तवत्वमि’’ति शेष इति पाठस्तत्राप्येतदित्यस्योक्तार्थसमर्पकत्वे स्वीकारं सिद्धवत्कृत्योक्तदोषपूरणमात्रमिति न दोषः । विरोधस्यावास्तवत्वमितीति नञ्गर्भपाठस्तु लेखकागत इति ज्ञेयम् ।