ततस्तन्नामकः कश्चित्पुमानन्यो भवेदिति
वेदप्रामाण्यसमर्थनम्
ततस्तन्नामकः कश्चित्पुमानन्यो भवेदिति
**सुधा **
सिद्धान्तमाह तत इति ।
अनुव्याख्यानम्
ततस्तन्नामकः कश्चित्पुमानन्यो भवेदिति ॥
युक्त्यागमाविरोधेन प्राप्तमत्राभिधीयते ॥
वेदस्य युक्तेश्च निरवकाशत्वं तत इति परामृशति । तन्नामको मृदादिनामकः कश्चिदिति अस्मदाद्यतीन्द्रियत्वमभिप्रैति । पुमांश्चेतनोऽन्योऽस्मदादिविलक्षणोऽन्तर्धानादिशक्तिमान्भवेत् । अस्यां श्रुतौ वक्तृत्वादिना प्रतिपाद्यत इति शेषः । इतिशब्दस्य प्राप्तमित्यनेनान्वयः । प्राप्तं प्रमितम् । युक्त्यागमविरोधेनेत्यर्थापत्तिं सूचयति ।
ततश्चायमर्थः । न मृदब्रवीदित्यादिवाक्यानां युक्तिविरोधेनाप्रामाण्यं वक्तव्यम् । अत्र हेतुत्वे अतिप्रसङ्गात् । अचेतनमृदादिपक्षीकारे च प्रकृताविरोधात् ।
ननु कथं चेतनेषु मृदादिशब्द(प्र)वृत्तिः । अभिधानशक्त्येति ब्रूमः । मृदाद्यभिमानित्वात् । पृथिव्यादिषु तदभिमतत्वेन मृदादिशब्दप्रवृत्तिः । नन्वेतेऽभिमानिनः किमभिमतार्थव्यापिनस्तदेक-देशवृत्तयो वा । आद्ये(ऽपि)सदेहा विदेहा वा । आद्ये तदुपलम्भप्रसङ्गः । द्वितीये तेषामिन्द्रिया-भावेन वक्तृत्वाद्यनुपपत्तौ पुनर्युक्तिविरोधतादवस्थ्यम् । तृतीये तद्वैयर्थ्यं तदनधिष्ठितप्रदेशवत् प्रदेशन्तरप्रवृत्तिंभवादिति । मैवम् । व्यापकानां सदेहानामपि पिशाचादिवदन्तर्धानशक्ति-योगाददृश्यत्वोपपत्तेः ।
**शेषवाक्यार्थचन्द्रिका **
तत इत्यादेः सिद्धान्तग्रन्थत्वज्ञापकाभावादाह सिद्धान्तमाहेति । मूले तत इत्याद्यनेकशब्दग्रहणानर्थक्यमाशङ्क्य पूर्वोक्ताक्षेपपरिहारार्थं तदिति भावेन प्रकृतोपयोगितया तत इत्यादि व्याचष्टे वेदस्येत्यादिना । कथमेतेषां विशेषणानां प्रकृताक्षेपपरिहारकतेत्यत आकाङ्क्षाक्रमेण तं दर्शयितुं प्रतिजानीते ततश्चेति । मूले चेतनस्य मृदादिनामकत्वस्य प्रकृतोपयोगं तावद्दर्शयति न मृदब्रवीदित्यादीति । चेतनविषयत्वेऽपि कुतो न युक्तिविरोध इत्यतः किमत्र विरोधित्वेनोक्तयुक्तिश्चेतन-पक्षिकेत्यभिमतं किंवाऽचेतनपक्षिकेति विकल्पं मनसि निधायाद्यं दूषयति तथा चेति । चेतनेषु जडत्वा-वान्तरजातिरूपमृत्वादेरभावाच्चेतनमात्रनिष्ठस्य दृष्टान्तेऽभावादिति भावः । ननु न मृत्वादिकं जाति-विशेषरूपं दृष्टान्तमात्रानुगतं न वा चेतनमात्रानुगतं यत्किञ्चिद्देतुतया विवक्षितं, येनोक्तदोषो भवेत् । किन्नाम मृदादिशब्दवाच्यत्वरूपमेव । तच्च पक्षे दृष्टान्ते चाविशिष्यमिति नासिद्धिसाधनवैकल्ये इत्यत आह शब्दमात्रेणेति । शब्दसाम्यमात्रेणैकसाध्यसाधकत्वे इत्यर्थः ॥ अतिप्रसङ्गादिति वागादीनापि गोत्वेन ृङ्गित्वसाधनप्रसङ्गादित्यर्थः । अस्तु तर्ह्यचेतनपक्षिकेति द्वितीयः । तत्रासिध्द्याद्यभावादित्य-तस्तर्ह्युदाहृतयुक्तेरचेतनमृदादीनामवक्तृत्वादिप्रतिपादकत्वाच्छुतेश्च चेतनस्य मृदादेर्वक्तृत्वादि-प्रतिपादकत्वाच्छुतियुक्त्योभिन्नविषयकत्वेन परस्परवार्तानभिज्ञतया नोदाहृतयुक्तेः प्रकृतवेदप्रामाण्य-विरोधकत्वमित्याशयेन तं दूषयति अचेतनेति । अचेतनपक्षत्वे प्रसिद्धमृदादेः सिद्धान्ते वक्तृत्वाद्यनङ्गी-कारत्सिद्धसाधनमित्याहाचेतनेतीत्यप्याहुः ।
मूले तन्नामकत्वोपपादकानुक्तिदोष इत्यतोऽभिमानीति सौत्राभिमानिपदसूचितयुक्त्यैव तदुप-पादनेनोपपादकयुक्त्यन्तरानपेक्षत्वान्न तदनुक्तिर्दोष इत्यभिप्रेत्य तत्सूचितयुक्त्या तदुपपादयितुं तन्नाम-कत्वानुपपत्तिशङ्कामुत्थापयति नन्विति । मृदादिशब्दानां रूढशब्दत्वात्प्रतिनिमित्तापेक्षत्वेन तदपेक्ष-प्रवृत्तीनां मृदादिशब्दानां रूढ्या तत्प्रतिपादकत्वानुपपत्तेर्न तन्नामत्वमुपपद्यत इत्याशयः । तद्गतत्वस्येव तदधीनताया अपि शब्दप्रवृत्तिनिमित्तत्वस्य ‘स्वातन्त्र्यं तद्गतत्वं चे’त्यादिना पूर्वत्र व्यवस्तापितत्वात् । मृदादिशब्दप्रवृत्तिनिमित्तस्य मृदादेश्चेतनगतत्वाभावेऽप्यचेतनगतमृत्वादेश्चेतनाधीनत्वेन स्वातन्त्र्यरूप-शब्दप्रवृत्तिनिमित्तस्य चेतनेष्वपि सत्वेन तदपेक्षप्रवृत्तिकानामपि मृदादिशब्दानां रूढ्या चेतन-प्रतिपादकत्वोपपत्तेस्रन्नामत्वं युक्तमित्याशयेनोत्तरमाह अभिधानेति । भवेदेवं यदि प्रसिद्धमृदादि-गतमेत्वादेश्चेतनाधीनत्वं स्यात् । तदेव इत्यतस्तेषां मृदाद्यभिमानित्वेन मृदादिगतमृत्वादेस्तान्प्रति यथेष्टविनियोगार्हत्वेन स्वत एव चेतनानां तत्र स्वातन्त्र्योपपत्तेरित्याशयवानाह मृदादीति । तर्हि प्रसिद्धमृदादिप्रतिपादकत्वाभावात्तत्र प्रयोगानुपपत्तिरित्यतो मृदादिशब्दवाच्यदेवतासम्बन्धनिमित्तक-रूढ्यादिनाऽमुख्यतया जडप्रतिपादक्तत्वस्याङ्गीकाराज् जडेष्वपि युक्तैव मृदादिशब्दप्रवृत्तिरित्यभिप्रेत्याह पृथिव्यादिष्विति ।
ननु तथाऽपि भाष्ये कश्चिदन्य इत्यंशवैयर्थ्यम् । न चाभिमानिदेवतानामस्मदाद्यतीन्द्रियत्वान्तर्धान-शक्तिमत्वप्रतिपादकत्वात्तस्य न तदिति वाच्यम् । अभिमानिदेवतानां विग्रहरहितत्वैकदेशवृत्तित्वयोरपि सम्भवेन तदुपलम्भप्रसङ्गस्यानवकाशादित्यतस्तपक्षे तदुपलम्भप्रसङ्गस्यानवकाशेऽपि तस्य सिद्धान्त्य-नभिमतत्वात्तदभिमतव्यापित्वसदेहत्वपक्षे तत्प्रसङ्गो दुर्वार एवेत्यभिप्रेत्य पक्षान्तरे दूषणोपदर्शनपूर्वकं विग्रह त्त्वव्यापित्वपक्षे तदुपलम्भप्रसङ्गमुत्थाप्य तत्परिहारकतया तमंशं योजयितुमत्र सम्भावित-विकल्पानुपदर्शयति नन्विति ॥ किमभिमतेति । अभिमन्यमानेत्यर्थः । तेषां विदेहानामभिमानिनाम् ॥ इन्द्रियाभावेनेति । इन्द्रियाणां देहाश्रितत्वेन देहाभावे तदयोगादिति भावः ॥ वक्तृत्वाद्यनुपपत्ता-विति । अन्यथाऽकरणकक्रियोत्पादप्रसङ्गादिति भावः ॥ तृतीय इति । द्वितीयत्वेऽप्यस्य पक्षस्योक्तरीत्या द्वेधा विकल्पितप्रथमापेक्षया तृतीयत्वमित्यभिप्रेत्य तृतीयत्वमिति ज्ञेयम् ॥ प्रदेशान्तरेति । तदधिष्ठितप्रदेशान्तरेत्यर्थः । आद्येऽप्याद्यमङ्गीकृत्य कश्चिदन्य इति भाष्यखण्डाभि-प्रेतयुक्त्या तत्पक्षदोषं परिहरति मैवमिति ।
**परिमल **
वेदस्येति । पूर्वाधिकरणे सम्यगुपपादितप्रमाणभावतया प्राप्तं पूर्वश्लोके तथापीत्यनेन सूचितं वेदस्य निरवकाशत्वमिति भावः ॥ युक्तेश्चेति । दृष्टप्तीत्यनेन प्रागुक्तयुक्तेर्निरवकाशत्वमिति भावः ॥ धरादेव्याः स्त्रीत्वादाह पुमांश्चेतन इति ॥ अर्थापत्तिमिति । तदुभयाविरोधन्यथानुपपत्तिं सूचयतीत्यर्थः । मृत्वादित्यत्र मृत्वरूपजडगतधर्मः कश्चिदभिमतोऽथ मृत्पदवाच्यत्वं न द्वयमपीति क्रमेण निराह तथाचेत्यादिना ॥ अतिप्रसङ्गादिति । पृथिव्यादेरपि गोपदवाच्यत्वेन सास्न्नादि-मत्वप्रसङ्गादित्यर्थः ॥ प्रकृतेति । मृदब्रवीदित्यादौ चेतनस्यैवोक्त्यङ्गीकारेण तद्वाक्यार्थाविरोधादित्यर्थः । यदि मृत्वादिकं चेतनेष्वसिद्धं तर्हि तन्नामक इत्ययुक्तं प्रवृत्तिनिमित्ताभावात् । अमुख्यवृत्या चेन् मुख्यन्यायविरोध इति शङ्कते नन्विति । अभिदानशक्त्या मुख्यया वृत्येत्यर्थः । मृद्गतमृत्वरूपधर्मस्य चेतने अभावेपि जडगतमृत्वरूपधर्मं प्रति स्वातन्त्र्यरूपनिमित्तमस्तीति भावेनाह मृदाद्यभिमानि-त्वादिति । पराधीननियन्तृत्वरूपाभिमानवत्वादित्यर्थः । विवरिष्यते चैतदग्रे । तर्हि जडेषु प्रयोगो न स्यादित्यतस्ततो न्यूनवृत्त्येत्याह पृथिव्यादिष्विति । तदभिमतत्वेन तच्छब्दवाच्यचेतनसम्बन्धेनेत्यर्थः । ‘शरीररूपकविन्यस्तगृहीतेरि’त्यत्रोक्तदिशेति भावः । तत्राव्यक्तादिशब्दवाच्येश्वरसम्बन्धादन्यत्र शब्द प्रयोग इत्युक्तेः । कश्चिदन्य इति पदद्वयतात्पर्यं शङ्कोत्तराभ्यां व्यनक्ति नन्वेत इत्यादिना ।
**यादुपत्यम् **
असिद्धेरिति । चेतनेषु जडत्वावान्तरजातिरूपमृत्वादेरसिद्धेरित्यर्थः । ननु मृत्वादिकं न जातिविशेषरूपं हेतुतया विवक्षितम् । किन्तु मृदादिशब्दवाच्यतारूपं तच्च चेतनेप्यस्त्येवेति नासिद्धिरित्यत आह शब्दमात्रेणेति । गोशब्दवाच्यत्वात्पृथिव्या अपि गोवच्छङ्गसाधनं स्यादित्यति-प्रसङ्गादित्यर्थः ॥ प्रकृताविरोधादिति । प्रकृतवाक्यानां चेतनपरत्वेन भिन्नविषयकत्वादिति भावः । तन्नामक इत्येतदुपपादयितुं शङ्कते ननु कथमिति । कया वृत्त्येत्यर्थः ।अभिधानवृत्तिरेव कुत इत्यत आह मृदाद्यभिमानित्वादिति । तथा च तदधीनत्वादिति न्यायोऽत्र साधक इति भावः । इदं च सौत्राभि-मानित्वामिति ध्येयम् । नन्वेवं प्रसिद्धिविरोध इत्यत आह पृथिव्यादिष्विति । तदभिमतत्वेनेत्यस्य तच्छब्दवाच्यदेवतासम्बन्धनिमित्तकरूढ्यादिनेत्यर्थः । तथा च समाकर्षादिति न्यायोऽत्र साधक इति भावः । कश्चिदन्य इति पदद्वयार्थस्य प्रकृतोपयोगं वक्तुमाह नन्वेत इति । इदं तु सौत्रविशेष-पदलब्धार्थप्रदर्शनमिति द्रष्टव्यम् ।
**श्रीनिवासतीर्थीया **
ननु यद्यप्यापोऽब्रुवन्नित्यादौ तदभिमानिनां वरुणादीनां पुरुषत्वा-त्पुमान्प्रतिपाद्यो भवेदिति तत्र सम्भवति, यत्र मृदब्रवीदित्यादौ तदभिमानिनी स्त्री प्रतिपाद्या भवति, तत्र पुमानित्यस्यासम्भवादतः कथमेतत्; आह पुमांश्चेतन इति । ननु जडवाचकत्वेन प्रसिद्धस्य मृदादिशब्दस्य कथं चेतनेऽर्थाभिदानसामर्थ्यरूपा शक्तिरित्यतस्तदुपपादयति मृदादीति ॥ मृदाद्यभिमानित्वाद्देवतासु मृदादिशब्दप्रवृतिरित्यर्थः । जडे तामुपपादयति पृथिव्यादिष्विति । जडेषु त्वित्यर्थः । मृदादिशब्दवाच्यदेवताभिमन्यमानत्वेन जडेषु पृथिव्यादिषु मृदादिशब्दप्रवृत्तिरित्यर्थः ॥ इन्द्रियेति । इन्द्रियाणां शरीरसम्बन्धित्वाच्छरीराभावे वागादीन्द्रियमपि नेत्यर्थः । तद्वैयर्थ्यं तेषामेक-देशेऽप्यवस्थानस्य वैयर्थ्यमित्यर्थः । ननु न तद्वैयर्थ्यं तदेकदेशप्रवृत्त्यर्थं सार्थक्यादित्यत आह तदिति ।
**वाक्यार्थरत्नमाला **
परस्परवार्त्तेति । विरोधो समानविषयतायाः प्रयोजकतया भिन्नविषयोर्न विरोध इति भावः । स्वत एवेति । स्वत्वस्य यथेष्टविनियोगार्हत्वरूपत्वादिति भावः ।