०२ युक्तिविरुद्धश्रुतेरप्रामाण्यशङ्का

ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ

युक्तिविरुद्धश्रुतेरप्रामाण्यशङ्का

ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ

**सुधा **

एतदुक्तं भवति । ‘मृदब्रवीत्, आपोऽब्रुवन्, तत्तेज ऐक्षत, ता आप ऐक्षन्त, ृणोत ग्रावाणो, विदुषोऽनुप्राणाः, अहं श्रेयसि व्यूदिरे, आपो वा अकामयन्ते’त्यादिवेदस्तावन्न प्रमाणम्, युक्तिविरुद्धार्थाभिधायित्वात्, नीलं नभ इतिवत् । मृज्जलादीनां बुद्धिवागादिमत्त्वं खल्वस्यार्थः । स च, विमता मृन्न वक्त्री मृत्त्वात्संप्रतिपन्नमृद्वदित्यादियुक्तिविरुद्धः । तथा च वेदवाक्यान्तरेऽप्यप्रामाण्यमनुमास्यते ।

ननु ‘न विलक्षणत्वादि’त्यनेनैव न्यायेनायमपि विरोधः परिहरणीयः । मैवम् । तन्न्याय-सञ्चाराविषयत्वात् । तत्र हि यथोक्तानुष्ठानेऽपि फलव्यभिचारश्चेद्धेतुस् तदाऽऽपाततस्ताव-त्सन्दिग्धविशेषणासिद्धिः । कर्त्रादिवैगुण्यस्यापि सम्भवात् । नित्यत्वेन वेदप्रामाण्यस्य स्थितौ तु विशेषणासिद्धिनिश्चय एव । फलव्यभिचारमात्रस्य हेतुत्वे तु अनैकान्तिकत्वमित्येवं व्याप्ति-पक्षधर्मताविरहव्युत्पादनेन युक्तिविरोधः परिहृतः । न चास्या युक्तेर्व्याप्त्याद्यङ्गवैकल्यं शक्य-व्युत्पादनम् । व्याप्त्यादेः प्रमाणदृष्टत्वात् । न खलु मृत्त्वादिकमवक्तृत्वादिना न सम्बद्धम् । प्रसिद्धमृदादौ तथोपलम्भात् । न च तत्रापि बुध्द्यादिसद्भावः, कदाऽपि तत्कार्यस्यादर्शनात् । नापि सम्बद्धमपि व्यभिचीर्णम् । व्यभिचारानुपलम्भात् । न चानुपलभ्य मानव्यभिचारमपि सोपाधिकम्, उपाधेरनिरूपणात् । बुध्द्यादिमत्त्वे च मृददीनां शरीरेन्द्रियवत्ताऽपि स्यात् । अकरणक-क्रियाऽदर्शनात् । न च तद्युक्तमिन्द्रियादीनामपि वक्तृत्वादिवददर्शनात् । ततोऽनुकूलतर्कसनाथे-नोपाधिव्यभिचारानुपलम्भसहकृतेन सहभागग्राहकेण प्रमाणेन सिद्धा मृत्त्वादीनामवक्तृत्वादिना व्याप्तिः । न च मृदादिषु मृदादित्वं (मृत्त्वादिकं) नास्तीति युक्तम् । व्याघातात् । मृद-ब्रवीदित्यादिप्रयोगायोगाच्च । ततः पक्षधर्मताऽपि सिद्धैवेति ।

**शेषवाक्यार्थचन्द्रिका **

अत्र मूले मृज्जलादीनां बुद्धिवागादिवाचकवेदस्वरूपस्य विशिष्या-प्रदर्शनम्, वेदार्थस्य युक्तिविरुद्धत्वेन वेदाप्रामाण्यसाधने वैयधिकरण्यप्रसङ्गश्च, विरोधिन्या युक्ते-र्विशिष्यानुपन्यासः, तावता जगत्कारणत्वाभिधायकस्य यतो वेत्यादेर्युक्तिविरुद्धार्थानभिधायकत्वेना-प्रामाण्याप्राप्त्या जगत्कारणत्वाक्षेपानुपपत्तिश्च, युक्तिविरुद्धत्वेनैव वेदाप्रामाण्यसाधनसम्भवान्मूले प्रमितव्याप्तिकत्वाभिधानवैयर्थ्यं चेति न मूलोक्तं द्वेधाऽप्रामाण्यसाधनं सम्भवतीत्यतस्तादृशवेद-स्वरूपोपदर्शनेन, साध्यसाधनयोः सामानाधिकरण्योपदर्शनेन विरोधियुक्तिस्वरूपोपदर्शनेन च मूलोक्तं वेदाप्रामाण्यसाधनं तावदुपपादयति एतदुक्तं भवतीति । अग्रे यतो वेत्यादिवाक्यस्याप्यप्रामाण्य-प्रतिपादनात्तावच्छब्दः । कोऽसौ वेदार्थो यस्य युक्तिविरुद्धत्वमुच्यत इत्यत आह मृज्जलादीनामिति । जगत्कारणत्वाक्षेपानुपपत्तिं पीरहरति तथा चेति । मृदब्रबीदित्यादिवाक्यानामप्रामाण्यसिद्धावित्यर्थः । वेदवाक्यान्तरेऽपि जगत्कारणत्वाभिदायक‘यतो वे’त्यादिवेदवाक्यान्तरेऽपि । अनुमास्यते वेदत्वेनेति शेषः । पूर्वन्यायाविषयत्वोपदर्शकत्वाद्गतार्थताशङ्का निरासार्थत्वेन प्रमितव्याप्तिकत्वाद्युपन्यासस्यार्थ-वत्त्वान्न तद्वैयर्थ्यमित्याशयवांस्तथा योजयितुं गतार्थताशङ्कामुत्थापयति नन्विति । सूत्राणां विश्वतोमुखत्वात्समानविषये न्यायसञ्चारकत्वेन विशेषमात्रनिष्ठत्वाभावादिति भावः ।

कथं प्रमितव्याप्तिकत्वाद्यभिधानेन गतार्थताशङ्कानिरास इत्यतस्तेन तन्न्यायसञ्चाराविषयत्व-सिद्धेरित्याह मैवमिति । कस्तदधिकरणन्यायः कथं चास्य तत्सञ्चाराविषयत्वमित्यतस्तन्न्यायं तावदुपदर्शयति तत्र हीति ॥ आपातत इति । वेदप्रामाण्यानिश्चयदशायामित्यर्थः ॥ विशेषणेति । यथोक्तानुष्ठानेऽपीत्येतद्विशेषणेत्यर्थः । तामेवोपपादयति ॥ कर्त्रादीति । ननु फलव्यभिचारित्वादित्येव हेतुर्न तु यथोक्तानुष्ठानेऽपीति विशेषणविशिष्टः, तत्कथं सन्दिग्धविशेषणासिध्द्यादीत्यतस्तस्य विशेषणतायामुक्तो दोषोऽविशेषणत्वे तु दोषान्तरं भविष्यतीत्याह फलव्यभिचारमात्रस्येति ॥ अनैकान्तिकत्वमिति । भोजनं तृप्तिसादनमित्याप्तवाक्य इति शेषः । इदानीं तन्न्यायाविषयत्व-मस्योपपादयति न चेति ॥ व्याप्त्यादीति । आदिपदेन पक्षधर्मतापरिग्रहः । कथमेतदनुमानाङ्ग-भूतव्याप्त्यादेः प्रमाणदृष्टत्वमित्यतो व्याप्तेस्तावदुपपादयितुं मृत्त्वादेरवक्तृत्वादिव्याप्तेरेवासत्त्वात्कथं तस्याः प्रमाणदृष्टत्वमिति वदन्तं प्रति किमत्र साधनस्य साध्येन सहभावस्यैवाव्द्याप्त्यभावोऽभिमतः किंवा व्यभिचारादिति विकल्पं मनसि निधायाद्यं दूषयति नेति ॥ तथेति । सहभाववत्तयेत्यर्थः । सहभावोपलब्धावप्यसहभावे च धूमादावपि तत्प्रसक्तेरिति भावः ॥ तत्रापीति । प्रसिद्धमृदादाव-पीत्यर्थः । द्वितीयं प्रतिषेधति नापीति । किमत्र पक्षादन्यत्र स्पष्टदृष्टो व्यभिचारो व्याप्त्यभावो-पपादकतयाऽभिमतः किं वोन्नीतः पक्षीयव्यभिचार इति विकल्पद्वयं निधायाद्यमनुलब्ध्या दूषयति व्यभिचारेति । उन्नीतः पक्षीयो व्यभिचार इति पक्षेऽपि किमुपाधिनोन्नीतत्वमभिमतम् अप्रयोज-कत्वशङ्कया वा इति विकल्पद्वयं मनसि निधायोपाध्यभावान्नाद्य इत्याह न चेति । कुतोऽत्रोपाध्याभाव इत्यत ऐन्द्रियकस्यानुपलम्भबाधितत्वादतीन्द्रियत्वे च प्रमाणान्तरवेद्यत्वप्रसङ्गत्सर्वथाऽप्रामाणिकस्य च शङ्कितुमप्यशक्यत्वान्नात्रोपाधिरस्तीत्युपाध्यभावनिश्चयो युज्यत इत्याशयेनाह उपाधेरिति । अस्तु तर्ह्य-प्रयोजकत्वशङ्कया पक्षे व्यभिचारोन्नयनमिति द्वितीय इत्यतोऽत्रानुकूलतर्कसद्भावेनाप्रयोजकत्व-शङ्कानुदयान्न तस्य व्यभिचारोन्नायकत्वं सम्भवतीत्याशयेनानुकूलतर्कमाह बुध्द्यादिमत्त्वे चेति । पक्षीकृतमृदादेरिति शेषः । शरीरेन्द्रियादिरहितत्वेऽपि बुद्ध्यादिमत्त्वोपपत्तेरप्रयोजकमेतदित्यतोऽकरणक क्रियोत्पत्तिप्रसङ्गस्यैव विपक्षे बाधकत्वान्नाप्रयोजकत्वमित्याशयेनाह अकरणकेति । इष्टापादनत्वं पीरहरति न चेति ॥ इन्द्रियादीनामिति । कदाऽपि तत्कार्यस्यादर्शनादिन्द्रियादेर्वक्तृ-त्वादिवदप्रामाणिकत्वान्न तदापादनस्येष्टापादनत्वमिति भावः ।

नन्वस्तु मृत्त्वादेरवक्तृत्वादिना व्याप्तिः । तस्यास्तु केन प्रमाणेन सिद्धिरित्यतः सहभाव-ग्राहकप्रत्यक्षादेवेति वदन् तर्हि सहभावग्राहकप्रत्यक्षस्य वन्ह्यादावपि भावात्तेन वन्ह्यादेरपि धूमादिना व्याप्तिसिद्धिप्रसङ्ग इत्यतः सहकार्यन्तरविशिष्टसहभावग्राहकप्रत्यक्षस्यैव व्याप्तिसाधकत्वाङ्गीकारेण केवलस्य तस्य तदसाधकत्वात्तद्भावाभावाभ्यां विशेषान्नातिप्रसङ्ग इत्याशयवान्व्याप्तिग्राहकप्रत्यक्षस्य सहकार्यन्तराणि दर्शयन्व्याप्तेः प्रत्यक्षसिद्धत्ववर्णनमुपसंहरति ततोनुकूलतर्कसनाथेनेत्यादिना । अत्रानुकूलतर्कोपाध्यभावनिश्चययोर्व्याप्तिग्राहकप्रत्यक्षसहकारित्वमित्यभिप्रायेण तदुभयोपादानमिति नाभिप्रायः । तर्कं विनाऽपि भूयोदर्शनव्यभिचारादर्शनसहकृतप्रत्यक्षमात्रेण व्याप्तिग्रहेण तयो-र्व्यभिचरितत्वात् । तर्कस्य व्याप्तिज्ञानसापेक्षत्वेनोपाध्यभावनिश्चयस्य च व्याप्तिज्ञानसापेक्षतर्क-सापेक्षत्वेनानुकूलतर्कोपाध्यभावनिश्चययोस्तत्सहकारितायामनवस्थापत्तेश्च । किं तर्हि यत्राप्रयोजकत्व-शङ्का सोपाधिकत्वशङ्का वा तत्रानुकूलतर्क उपाध्यभावनिश्चयश्चापेक्षित इत्यभिप्रेत्यैव तदुभयोपादानम् । एवमेव ‘व्याप्तिग्राहिणः प्रत्यक्षस्य भूयोदर्शनव्यभिचारादर्शनोपाध्यभावनिश्चयाः सहकारिण’ इति पद्धतावुपाध्यभावनिश्चयोक्तेरप्युक्त एवाभिप्रायो बोध्यः । अत एव पद्धतावेव तर्कस्य क्वाचित्कत्वोक्ति-रित्यवधेयम् । व्याप्त्यादेरित्यादिशब्दोक्तपक्षधर्मताया अपि प्रमितत्वमुपपादयति न चेति ॥ व्याघा-तादिति । मृदादिष्वित्युक्त्या तत्र मृदादित्वसत्त्वलाभेन तन्निषेधस्य तव्द्याहतत्वादिति भावः ॥ प्रयोगेति । मृत्त्वादिविशिष्टस्यैव मृदादिपदात्तस्यैव प्राप्तेरिति भाव इतीत्यस्येत्येतदुक्तं भवतीति व्यवहितेन सम्बन्धः ।

**परिमल **

अभ्यधिकाशङ्काप्रकारं दर्शयितुमाह एतदुक्तमिति । मृदादिशब्दैरादिकालीन-पृथिव्यादिग्रहः । प्राणा इन्द्रियाणि । अहं श्रेष्ठ इत्यर्थे विवादमकुर्वन्नित्यर्थः । इत्यादिवेदा इत्याऽऽदि-पदेन ‘ओषधयः संवदन्ते, यं पृथिवी न वेद (ऋ. १०-९७ २२) इत्यादिग्रहः । सर्वोप्यमानमिति पश्चाद्वक्ष्याम इति तावच्छब्दः ॥ इतिवदिति । नभो (न नीलरू)नीरूपं विभुत्वादित्यादियुक्तिविरुद्धं नीलं नभ इति प्रत्यक्षं यथेत्यर्थ । हेतोरसिद्धि निगह मृदिति । इत्यादीति आदिपादेनाप्तेजस्त्वादिग्रहः । जडत्वं घटवदिति च गृह्यते । तावता न विष्णुकारणत्वादिव्याघात इत्यत आह तथा चेति । एकदेशस्याप्रामाण्ये सति यतो वा इत्यादिवाक्यान्तरेपि ‘तत्सामान्यादितरेषु तथात्वमि’ति जैमिनि-न्यायेनाप्रामाण्यं वेदवाक्यत्वहेतुतद्ष्टान्तेनाऽनुमास्यत इत्यर्थः । दृष्टव्याप्तीत्येतदभिप्रायं विवृण्व-न्नभ्यधिकाशङ्काप्रकारं व्यनक्ति मैवमित्यादिना सिद्धैवेत्यन्तेन ॥ तन्न्यायसंचाराविषयत्वमेव व्यनक्ति तत्र हीत्यादिना । पूर्वाधिकरण इत्यर्थः । परिहृत इत्यन्वयः ॥ हेतुरिति । वेदाद्याप्रामाण्य इति योज्यम् ॥ आपातत इति । प्रामाण्यानिश्चयदशायामित्यर्थः ॥ नित्यत्वेनेति । स्वतन्त्रपुरुषाप्रणीतत्वे-नापवादकदोषाभावेन ज्ञानजननशक्तित एव प्रमाजनकत्वरूपप्रामाण्यस्थितौवित्यर्थः ॥ विशेषणेति । यथोक्तानुष्ठान इत्युक्तविशेषणेत्यर्थः ॥ अनैकान्तिकत्वमितीति । फलहेतुतया निर्णीते विगुण-तयाऽनुष्ठितलौकिकक्रियादाविति, भावः । एवं पूर्वतनयुक्तेः सावकाशत्वमुक्तवा अत्रत्यविरोधि-युक्तर्निरवकाशत्वेन दृढत्वमाह न चास्या इत्यादिना । एतेन पूर्वत्र सावकाशयुक्तिविरोधो निरस्तः, अत्र तु निरवकाशदृढयुक्तिविरोधो निरस्यत इति पूर्वानन्तर्यसङ्गतिरप्युक्ताध्येया । व्याप्त्यादेर् व्याप्ति-पक्षदर्मतयोः । विपक्षे बाधकमनुकूलतर्कं च व्याप्तिनिर्णायकमाह बुध्द्यादिमत्वे चेति । पक्षीकृत-मृदादेरिति शेषः । एवं व्याप्तिमुपपाद्य मूलमुपलक्षणमित्युक्तत्वात् पक्षधर्मतामपि व्यनक्ति न च मृदादिष्विति ॥ व्यागातादिति । मृदादिष्वित्यस्य मृत्वादिमस्वित्यर्थत्वादिति भावः ।

**यादुपत्यम् **

वेदवाक्यान्तर इति । ‘यतो वा इमानि भूतानि’त्यादिवेदवास्यान्तर इत्यर्थः । वेदत्वेनेति शेषः । आपातत इति । वेदप्रामाण्यनिश्चयदशायामित्यर्थः ॥ अनैकान्तिकत्वमिति । भोजनं तृप्तिसाधनमित्याद्याप्तवाक्य इति शेषः । अननुष्ठानदशायां भोजनादेः फलव्यभिचारित्वादिति भावः । अनुकूलतर्कमप्याह बुध्द्यादिमत्वे चेति । इदं प्रकृते युक्तिदार्ड्योपपादनायैवोक्तं न तु तर्कोऽपि सर्वत्र व्याप्तिग्राहक इत्याभिप्रेत्य येनानस्था स्यादिति ध्येयम् ।

**श्रीनिवासतीर्थीया **

तथा चेति । एतद्दृष्टान्तेन वेदत्वहेतुना यतो वेत्यादिकारणत्वप्रतिपादक-वाक्यान्तरेऽपीत्यर्थः । तत्र अधिकरणे । हेतुर् वेदस्याप्रामाण्य इति शेषः ॥ आपातत इति । वेदप्रामाण्यानिश्चयदशायामित्यर्थः । तथा च यदि वेदः प्रमाणं तदा प्रमाणभूतवेदोक्तसाधनानुष्ठाने विशेषणमेव वेदोक्तस्याधिकारस्येत्युक्तरीत्या कर्त्रादिवैगुण्यस्यापि सम्भवेन नास्तीति; यदि चाप्रमाणं तर्ह्युक्तरीत्या यथोक्तानुष्ठानरूपविशेषणाभावस्योपपादयितुमशक्यत्वेन यथोक्तानुष्ठानस्यैव सम्भवेन वेदप्रामाण्यास्थितिदशायां सन्दिग्धविशेषणासिद्धिरित्यर्थः । अनैकान्तिकत्वं चरकशास्त्र इत्यर्थः । अनुपलभ्यमानव्यभिचारम् अनुपलभ्यमानस्वाभाविकव्यभिचारोपेतमप्युपाधिप्रयुक्तव्यभिचारोपेत-मित्यर्थः ॥ बुध्द्यादीति । पक्षीकृतमृदादीनामित्यर्थः ॥ शरीरेन्द्रियेति । बुद्द्यादिकारणीभूतेत्यर्थः कुत इत्यत आह अकरणिकेति । तत् शरीरेन्द्रियादिमत्वम् ॥ सहभावेति । प्रसिद्धमृदादावित्यर्थः । मृदादिषु पक्षीभूतेषु । तथा चासिद्धिरिति भावः ।

**वाक्यार्थरत्नमाला **

विशिष्याप्रदर्शनमिति । अस्येति न मूलोक्तं द्वेधाऽप्रामाण्यसाधनं सम्भवतीति वक्ष्यमाणेनान्वयः । वेदस्वरूपस्य विशिष्याप्रदर्शनात्तत्पक्षीकारेणाप्रामाण्यानुमानं सम्भवतीति योजना । एवं प्रसङ्गश्चानुपन्यास इत्यत्रापि वक्ष्यमाणेतिशब्देनान्वय प्रसङ्गादनुपन्यासाच्चेति लभ्यते । तावतेति । मृदब्रवीदित्यादेर्वेदस्य युक्तिविरुद्धार्थाभिधायकत्वेनाप्रामाण्यप्राप्तावपीत्यर्थः । अप्रामाण्याप्राप्त्येति । तद्वाक्यपक्षीकरणाभावात्तत्र मृदब्रवीदित्यादिवाक्याप्रामाण्यापादकविरोधियुक्तेः प्रसराभावाच्चेत्याशयः । अनुपपत्तिश्चेति । आक्षेपोपपत्तिराक्षेपलाभेन सम्भवतीत्यर्थः । अस्याप्युत्तर-त्रोक्तेतिशब्देनान्वयः । उपदर्शनेनेत्यादि तृतीयान्तस्योपपादयतीति वक्ष्यमाणेनान्वयः । आक्षेपानु-पपत्तिमिति । आक्षेपलाभाभावामित्यर्थः । पूर्वन्यायेति । अत्र प्रमितव्याप्तिकत्वाद्युपन्यासस्यार्थवत्वे हेतुर्गतार्थताशङ्कानिरासार्थत्वेनेति । कथं तन्निरासोऽनेनेत्यतस्तदुपपादनं पूर्वन्यायेऽतीति योज्यम् । सोपाधिकत्वेनेपि व्यभिचारस्यैव प्राप्तेरप्रयोजकताशङ्कयाऽपि व्यभिचारस्यैव प्राप्तेः सोपाधिकत्वादि-निरासकोत्तरग्रन्थे सोपाधिकमित्याद्युक्तिरत्र पुनर्व्यभिचीर्णमित्युक्तिरित्युक्तवैषम्ये निमित्ताभाव इत्यत-स्तद्घटयितुं मूलकाराभिप्रेतं विकल्पं प्रदर्श्य तत्तत्पक्षनिरासपरतयोत्तरवाक्यानि योजयति । किमत्र पक्षादित्यादिना । अनेन मूले व्यभिचीर्णमित्येतत्पक्षादन्यत्र स्पष्टदृष्टव्यभिचारमिति व्याख्यातं भवति ।

एवमनुपलभ्यमानं व्यभिचारपदमपि पक्षादन्यत्र स्पष्टदृष्टव्यभिचारकं न भवतीति व्याख्यातं द्रष्टव्यम् । बुध्यादिमत्वे च मृदादीनां शरीरेन्द्रियेति पाठे शेष पूरणस्यानावश्यकत्वेपि बुध्यादिमत्वे च शरीरेन्द्रियेति पाठे शेषपूरणमावश्यकमित्याशयेनाह । पक्षीकृतमृदादेरिति शेष इति । इदमपि शेषपूरणं न प्राञ्चं किन्तु प्रागविद्यमानमेव शोधितमिति बोध्यम् । तत्कार्यस्येति । तच्छब्देन बुद्धि-प्रकृतेन्द्रियादिग्रहणम् । इन्द्रियादेरित्यादिनोक्ते हेतुः कदापि तत्कार्यस्येत्यादि योज्यम् । व्याप्ति-ग्रहणोपायकथनस्थलीयतर्कताण्डवानुसारेणाह । अत्रानुकूलतर्कोपाध्यभावनिश्चययोरित्यादिना । तर्कं विनापीति । उपाध्यभावनिश्चयं विनापीत्यपि द्रष्टव्यम् । उपाध्यभावनिश्चयस्य तर्कापेक्षतया तर्कानपेक्षतोक्तयैव तदनपेक्षापि लब्धा भविष्यतीत्याशयेनोपाध्यभावस्योपलक्षणया ग्रहणमिति बोध्यम् ।