ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ
सनाभिर्
न्यायसुधा
षट्टिप्पणीसमेता
द्वितीयाध्यायस्य प्रथमः पादः
॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मक लक्ष्मीहयग्रीवाय नमः ॥
॥ अभिमान्यधिकरणम् ॥
ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ
अधिकरणवैयर्थ्यशङ्कापरिहारः
**सुधा **
॥ ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ ॥ युक्त्यन्तरविरोधं वेदस्य परिहर्तुमिदमारभ्यते । स्यादेतत् । युक्तिविरोधाः किं प्रत्येकं पीरहरणीया उतोपलक्षणया । नाद्यः निरसनीययुक्त्याभासानन्त्येन शास्त्रापर्यवसानप्रसङ्गात् । सूत्रत्वव्याघाताच्च । द्वितीये त्वनारभ्य एवास्याधिकरणस्य । निरन्तरातीताधिकरणेनैवोपलक्षणया सकलयुक्तिविरोधानां पीरहृतत्वादिति । मैवम् । अभ्यधिकाशङ्कासद्भावेन तदुपपत्तेरित्याशयवान्पूर्वपक्षं तावदाह तथाऽपीति ।
अनुव्याख्यानम्
॥ ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ ॥
तथाऽपि मृज्जलादीनां बुद्धिवागादिवाचकः ॥
***दृष्टव्याप्तिविरुद्धत्वात्तत्र मानं कथं भवेत् ॥ ***
यद्यपि फलव्यभिचारादिविरोधो वेदस्य परिहृतस्तथाऽपीत्यर्थः । मृज्जलादीनामित्यादिपदेन तेजःप्रभृतीनां ग्रहणम् । बुद्धिर्ज्ञानं, वाग्वक्तृत्वम् । आदिग्रहणेन श्रोतृत्वादिकम् । वेद इत्यनुवर्तते । दृष्टा प्रमिता व्याप्तिर्यस्या युक्तेः सा तथोक्ता । व्याप्तिग्रहणं पक्षधर्मताया अप्युपलक्षणम् । क्वचि-त्तन्नियमानभ्युपगमात्स्वशब्देनासङ्कीर्तनम् । तया विरुद्धत्वात् । तत्र मृज्जलादीनां बुद्धिवागादौ । कथमित्याक्षेपे । प्रतिपाद्यान्तरं तु नास्त्यप्रतीतेरिति शेषः ।
**शेषवाक्यार्थचन्द्रिका **
॥ ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ ॥ ननु तथाऽपीत्युत्तरभाष्यमनर्थकम् । न चैतदभ्यधिकाशङ्काप्रदर्शनपरमिति वाच्यम् । प्रागपरिहृतयुक्ति-विरोधपरिहारकतयाऽपतार्थत्वेनाधिकरणारम्भस्य सुस्थतया तदारम्भसमर्थनस्याभ्यधिकाशङ्कनिरपेक्ष-त्वादित्यतो गतार्थताशङ्कामुत्थाप्याधिकाशङ्काप्रदर्शनपरतया भाष्यं योजयितुं तस्या विषयोपस्थिति-सापेक्षत्वात्तदर्थं विषयं तावदाह युक्त्यन्तरेति । विषयमुक्त्वा गतार्थताशङ्कामाह स्यादेतदिति । प्रत्येकं युक्तिविरोधानां परिहरणीयत्वात्कथं गतार्थतेत्यतोऽस्मिन्पक्षे गतार्थताशङ्काऽनुदयेप्यस्य पक्षस्य सिद्धान्त्यनभिमतत्वात्तदभिमतेचोपलक्षणया युक्तिविरोधानां परिहरणीयत्वे तच्छङ्कोदयान्नानुपपत्ति-रित्यभिप्रेत्य कुतोऽस्य पक्षस्य सिद्धान्त्यनभिमतत्वमित्यतः सम्भावितविकल्पप्रदर्शनपूर्वकं तस्य अनभिमतत्वमुपपाद्य द्वितीयपक्षे गतार्थताशङ्कामुत्थापयति युक्तिविरोधा इति ॥ सूत्रत्वव्याघाताच्चेति । सूत्राणां विश्वतोमुखत्वानुरोधेन विषयविशेषमुपलक्षणतयोपादाय समानविषये न्यायसञ्चारकत्वनियमात् प्रत्येकं युक्तिविरोधपरिहारकत्वे च समानविषये न्यायसञ्चारकत्वाभावप्राप्त्या सूत्रत्वव्याघातादित्यर्थः ॥ अभ्यधिकाशङ्केति । पूर्वोक्तन्यायविषयत्वाच्छादिका शङ्काऽभ्यधिकाशङ्केत्यर्थः ॥
तदुपपत्तेरिति । अधिकाशङ्कया तन्न्यायविषयत्वाभावे परेण शङ्कितेऽधिकाशङ्कानिराकरणेन पुनस्तन्न्यायविषयत्वप्रदर्शनार्थत्वादधिकरणान्तरारम्भस्य न तदनुदयप्रसङ्ग इति भावः । मूले तथाऽ-पीत्युक्त्या लब्धमर्थं दर्शयति यद्यपीति तेजःप्रभृतीनामिति । प्रभृतिग्रहणं ग्रावादिपरिग्रहार्थम् । श्रोतृत्वादिकमित्यादिपदेन कामकलहादिपरिग्रहः ॥ अनुवर्तत इति । ‘प्रमाणं वेद एवैकः’ इति पूर्ववाक्यादिति शेषः । ननु दृष्टव्याप्तिविरोधपरिहारकत्वेन युक्तिविरोधपरिहारकत्वाभावादस्याधिकरणस्य न पादेऽन्तर्भावः स्यादित्यतो बहुव्रीह्याश्रयणेन दृष्टव्याप्तिपदस्य युक्तिपरत्वान्नानुपपत्तिरितिभावेन बहुव्रीहिसमासमाह दृष्टेत्यादिना । दर्शनस्य भ्रमत्वे दृष्टव्याप्तित्वेन विरोधकयुक्तेः प्रामाण्यसमर्पणा-योगाद्दर्शनपदं प्रमाणपरमभिप्रेत्य तद्-व्याख्याति प्रमितेति । ननु च प्रमितव्याप्तिकत्वमात्रस्य प्रामाण्य-प्रयोजकत्वेऽतिप्रसङ्गाद्विरोधकयुक्तेस्तत्समर्पणाय प्रमितव्याप्तिकस्येव प्रमितपक्षधर्मताकत्वस्यापि भाष्यकृताऽवश्यं वक्तव्यत्वात्तदनुक्तिर्दोष इत्यतोऽत्र व्याप्तिग्रहणस्य पक्षधर्मत्वोपलक्षणत्वेन दृष्टव्याप्ति-पदेनैव सिद्धत्वान्नानुपपत्तिरित्याशयेनाह व्याप्तिग्रहणमिति । तथाऽपि व्याप्तिपक्षधर्मतयोरुभयोरपि तत्प्रामाण्यौपयिकत्वाविशेषाद्य्वाप्तेः स्ववाचकशब्देन पक्षधर्मतायाश्च लक्षकशब्देन सङ्कीर्तनमयुक्त-मेवेत्यतोऽत्रोभयोरपि स्वशब्देन सङ्कीर्तनेऽनुमितिमात्रे उभयनियमप्रतीतिप्रसङ्गात्तन्निरासार्थत्वेन तस्य युक्तत्वादिति भावेनाह क्वचिदिति । क्वचिदित्यतःपरं व्यभिचारेणेति शेषः ॥ तयेति । प्रमित-व्याप्तिपक्षधर्मताकयुक्त्येत्यर्थः ॥ तत्र मृज्जलादीनां बुद्धिवागादाविति । तत्रेत्यनेन मृददिपरामर्शे तस्य युक्त्यविरुद्धत्वेन युक्तिविरुद्धार्थाभिधायकत्वहेतोरपक्षधर्मत्वप्रसङ्गात्तत्रेत्यनेन बुध्द्या विवेकेन बुद्धिवागादेरेव परामर्श इति भावः ॥ आक्षेप इति । प्रतिवचनाभावेन प्रश्नार्थत्वानुपपत्तेरिति भावः । तर्ह्यविरुद्धमर्थान्तरमादाय वाक्यप्रामाण्योपपत्ते कथं तदप्रामाण्येन पूर्वपक्ष इत्यतो यत्र विरुद्धार्थान्तर सद्भावस्तत्र विरुद्धार्थपरित्यागेनाविरुद्धार्थप्रामाण्यसम्भवेऽपिहि तत्साधकाभावादर्थान्तरस्यैवासत्त्वेन तत्र प्रामाण्यायोगाद्युक्तः सर्वथाऽप्रामाण्येन पूर्वपक्ष इत्यभिप्रेत्यापेक्षितं पूरयति प्रतिपाद्यान्तरं त्विति ।
**परिमल **
ॐ अभिमानिव्यपदोशस्तु । शङ्कोत्थापनायाह युक्त्यन्तरेति ॥ सूत्रत्वेति । अनन्यलभ्यार्थकत्वरूपसारवत्त्वलक्षणवत्त्वव्याघातइत्यर्थः । उपलक्षणतया सर्वयुक्तिविरोधनिरासलाभे प्रातिस्विकतन्निरासाय सूत्रान्तरकरणायोगादिति भावः । यद्वा विश्वतोमुखत्वव्याघात इत्यर्थः । अनेक-शेखानिर्णायकत्वस्येवाऽनेकविरोधनिरासकत्वस्यापि विश्वतोमुखत्वशब्दार्थत्वात् ॥ फलव्यभिचारा-दीति । प्राप्तोक्तत्वगुणाभावविरोध आदिपदार्थः ॥ ज्ञानमिति । ईक्षणशब्दितमित्यर्थः ॥ श्रोतृ-त्वादिकमिति । विवादकामसंवादादिरादिपदार्थः । वाचक इत्यत्राकाङ्क्षां पूरयति इत्यनुवर्तत इति ।
**यादुपत्यम् **
ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ ॥ श्रोतृत्त्वादिकमिति । आदिपदेन कामकलहादिग्रहणम् । क्वचिदित्यनन्तरं व्यभिचारेणेति शेषः ।
**श्रीनिवासतीर्थीया **
ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ ॥ श्रोतृत्वादिक-मित्यत्रादिपदेन कलहेच्छयोर्ग्रहणम् । तत्र प्रतीतार्थे मानं मा भवतु अर्थान्तरे भविष्यतीति सिद्धान्ति-भिरुक्ते पूर्वपक्षो निर्दलःस्यादतोऽर्थान्तरस्याप्यक्षेपस्तस्याभिप्रेत इत्याह प्रतिपाद्यान्तरं त्विति ।
**वाक्यार्थरत्नमाला **
अधिकशङ्कयेति । आकाशो ऽत एव प्राण इत्यादावेवं पूर्वन्यायातिदेशवद् इह सम्पूर्णातिदेशाभावेऽपि किञ्चिद् युक्तिविरोधप्रयुक्तं कर्त्रादिवैगुण्यं यथा कल्पितं तथेहाधिकरणेऽपि तत्प्रयुक्तं वक्तृत्वादिना देवतादिकं कल्प्यते इत्यंशमात्रे पुनस्तन्न्यायसञ्चारोक्तिरिति न दोषः । यदि नियमस्तर्हि तस्य क्वचिद् अनभ्युपगमो न युक्त इत्यतो नेदं क्वचिद् इत्येतदनभ्युपगमविशेषणम् अपि तु निमित्तविशेषाभाव इतरलक्षणानामिवास्या अध्याहृतेन व्यभिचारेणेत्यस्येत्यतो न कश्चिद्दोष इत्याह । क्वचिदित्यतः परमिति । प्रसङ्गात्तत्रेति । प्रसङ्ग इत्यतः परं तत्त्परित्यागेनेति शेषः । तत्साधका-भावादित्यत्र तच्छब्देन बुद्धिप्रकृतमर्थान्तरं गृह्यते । इहार्थान्तरस्यैवासत्वेनेत्यत्र तत्साधकाभावादिति हेतुकथनरूपमिति योज्यम् ।