अधिकारं दुरापाद्यमुक्त्वाऽतिसुलभं पुनः
परस्परविसंवादेन पाशुपतादीननामप्रामाण्यम्
अधिकारं दुरापाद्यमुक्त्वाऽतिसुलभं पुनः
सुधा
ननु यथाऽधिकारसाधनयोः सौलभ्यमुक्तमेवं तद्दौर्लभ्यमपि तत्रैवोक्तमिति चेत्तर्हि न केवलं फलविसंवादेन पाशुपतादीनामप्रामाण्यम् । किन्नाम परस्परविसंवादेनापीत्याह अधिकारमिति ।
अनुव्याख्यानम्
अधिकारं दुरापाद्यमुक्त्वाऽतिसुलभं पुनः ।
अशक्यं साधनं चोक्त्वा सुशकं तत्फलाप्तये ।
उच्यतेऽतस्तदुक्तं हि व्यभिचारि फलेऽपि तु ।
कथं प्रमाणतां गच्छेत् ॥ २११ ॥
यस्मात्क्वचिदधिकारं दुरापाद्यमुक्त्वा पुनरपि सुलभं ब्रवीति, यस्माच्च तत्फलाप्तये सम्पदादिफलाप्तये, साधनमशक्यमुक्त्वा सुशकं चोच्यते । यस्माच्च तदुक्तं साधनं फलेऽपि विषये व्यभिचारि अतस्तदुक्तं सा पाशुपताद्युक्तिः कथं प्रमाणतां गच्छेन्न कथमपीत्यर्थः । दुर्लभत्वोक्त्यनुरोधेन सौलभ्यवचनं प्ररोचनार्थं व्याख्यायताम् । तथा च फलविसंवादोऽप्यधिकारादिवैगुण्यनिमित्तो भविष्यति यथा पञ्चरात्रादाविति चेन्न । वैषम्यात् । युक्तं हि पञ्चरात्रादिषु तथा कल्पनम् । श्रुतिमूलत्वेन प्रामाण्यस्य निश्चिततया कल्पकस्य विद्यमानत्वात् । पाशुपतादौ तु तदभावेन विसंवादस्याप्रामाण्यनिबन्धनतोपपत्तौ कल्पकाभावात् । क्वचित्संवादस्तु काकतालीयो वा गुडजिह्विकानिमित्तो वा भविष्यति । तदिदमुक्तं तुशब्देन । तदुक्तं त्विति सम्बन्धः । तदेवं पाशुपतादीनामपस्मृतित्वान्न तद्विरोधेनोक्तार्थासम्भवः शङ्कनीय इति स्थितम् ॥ २११ ॥
वाक्यार्थचन्द्रिका
व्यभिचारि फले त्विति तुशब्दव्यावर्त्यां शङ्कामुत्थापयति दुर्लभत्वोक्त्यनुरोधेनेत्यादिना । गुडजिह्विकानिमित्तो वेत्यत्र लोकव्यामोहनायेति शेषः ॥ २११ ॥
**परिमल **
तदुक्तमिति कर्मणि निष्ठेति भावेनाह यस्माच्च तदुक्तं साधनमिति । भावे निष्ठेत्युपेत्यार्थान्तरमाह तदुक्तं सा पाशुपताद्युक्तिरिति । शङ्कते दुर्लभत्वेति । तदुक्तं त्विति सम्बन्ध इति । पाशुपताद्युक्तिस्त्वित्यर्थः ॥ २११ ॥
श्रीनिवासतीर्थीया
तत्रैवोक्तं तथा च भगवन्मत इवास्मन्मतेऽप्यधिकारस्य दुर्लभत्वात्फलव्यभिचारं वैगुण्यनिमित्तकमेव कल्पयिष्यतीति युक्तं फलसंवादेन पाशुपतादिस्मृतिप्रामाण्यानुमानमिति हृदयम् । पञ्चरात्रपाशुपतस्मृत्योर्विसूचकतुशब्दार्थमाह दुर्लभत्वोक्तीत्यादिना । तदभावेन कल्पकाभावात् । फलविसंवादस्य वैगुण्यनिमित्ततायां कल्पकस्य प्रामाण्यनिश्चयस्याभावादित्यर्थः ॥२११॥
इति स्मृत्यधिकरणम्