१३ वेदोक्ताधिकारपाशुतादिस्मृत्युक्ताधिकारयोर्वैलक्षण्यम्

वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा

वेदोक्ताधिकारपाशुतादिस्मृत्युक्ताधिकारयोर्वैलक्षण्यम्

वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा

सुधा

ननु च पञ्चरात्रादिस्मृतीनां प्रामाण्यमङ्गीकुर्वाणैः सर्वथा प्रवृत्तिसामर्थ्यमङ्गीकरणीयम् । व्यभिचारस्य च कर्तृकरणादिवैगुण्यनिबन्धनत्वमभ्युपेयम् । अन्यथा फलव्यभिचारि च प्रमाणं चेति व्याघातापातात् । तथा च फलसंवादेनापि प्रामाण्यादिसाधनं सुशकमेवेति किमुच्यते, न च तद्युक्तिमूलतेति सुहृद्भावेन पृच्छन्तं प्रत्याह वेदोक्तस्येति ।

अनुव्याख्यानम्

वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा ।

नियमो व्यभिचारो वा नैव ज्ञातुं हि शक्यते ॥

वैदिकग्रन्थोपदिष्टानुष्टाने वेदोक्ता निषेकादिसंस्कारा एवाधिकारतामापद्यन्त इति वेदोक्तस्येत्युक्तम् । यद्वा वेदशब्देन पञ्चरात्रादयोऽपि गृह्यन्ते । अधिकारस्येत्युपलक्षणम् । साधानानुष्ठानस्येत्यपि द्रष्टव्यम् । दुर्निरूपत्वमस्मदाद्यप्रत्यक्षत्वम् । सदेति स्वभावत एव न तु देशादिव्यवधानेनेत्यर्थः । नियमो व्यभिचारो वा फलस्येति शेषः । हिशब्दो यस्मादित्यर्थे । तस्मात्फलसंवादेन प्रामाण्यादि नानुमीयत इति शेषः ।

एतदुक्तं भवति । प्रमितं खलु लिङ्गमनुमितेः करणम् । न सत्तामात्रेण । अतिप्रसङ्गात् । अत्र (च) एवं प्रयोक्तव्यम् । पञ्चरात्रादिकं प्रमाणम् । समर्थप्रवृत्तिजनकत्वात्सम्प्रतिपन्नवदिति । तस्य चायमर्थः । एतद्विहितसाधनानुष्ठानवद्भिस्तत्फलस्य नियमेन प्राप्तेरिति । न चैतल्लिङ्गं शक्यावधारणम् । व्यभिचारस्य बहुलमुपलम्भेन नियमस्य प्रत्येतुमशक्यत्वात् । तदवधारणे च काकतालीयतायाः शङ्कनात् । तत्रेतावद्वक्तव्यम् । कार्यं कारणसामग्रीसम्पाद्यं न तु तदेकदेशेन । तथात्वेऽतिप्रसक्तेः । प्रकृते चोभयकुलशुद्धिवैदिकनिषेकादिसंस्काराद्यधिकारपूर्वकं विशुद्धाभिसन्ध्यादिमता सम्यगनुष्ठितं कर्म असति प्रतिबन्धके, सति चेश्वरेच्छादौ हि सहकारिणि, सम्पदादिफलजननायालम् । तथा च यत्र फलं नोपलब्धं तत्राधिकारादिवैगुण्यमितरत्र तु तत्साद्गुण्यमित्यतो नियमनिश्चय इति । न चैतद्युक्तम् । परगतयोरधिकारादिभावाभावयोरस्मदादिभिरवगन्तुमशक्यत्वात् । न हि खलु परकीयपितृपितामहादीनां मानसादिविशुद्धिर्वा, निषेकादिसमीचीनता वा, मन्त्राणामयातयामत्वादिकं वा, द्रव्यादीनां शुचित्वादिकं वा, अर्वाचीनैरवगन्तुं शक्यते । तथा चास्य फलनियम एव व्यभिचारस्तु वैगुण्यनिमित्त इति वाऽस्तु । व्यभिचार एवास्य । क्कचित्फलोपलम्भस्तु काकतालीयोऽन्यनिमित्त एवेति वा भवत्विति सन्देहो न निवर्तते । न च सन्दिग्धेन प्रामाण्यानुमानं युज्यते । प्रामाण्यसिद्ध्युत्तरकालं तु व्यभिचारस्य वैगुण्यनिमित्तताकल्पनायामितरेतराश्रयत्वं स्यात् । वेदसंवादेन तु प्रामाण्येऽवधारिते शक्यते फलव्यभिचारस्यान्या गतिः कल्पयितुम् । अतो वेदसंवादेनैव प्रामाण्यं पञ्चरात्रादीनामवधार्यते न प्रवृत्तिसामर्थ्येनेति ।

वाक्यार्थचन्द्रिका

प्रामाण्यादिसाधनमिति । पञ्चरात्रादिस्मृतीनामिति वर्तते ॥ सुशकमेवेति । तथा च युक्तं मदीयं फलसंवादेन पाशुपतादिस्मृतिप्रामाण्यसाधनं व्यभिचारस्य कर्तृकरणादिवैगुण्यनिबन्धनत्वकल्पनं चेति प्रतिबन्दीग्रहण एव शङ्कितुस्तात्पर्यमिति द्रष्टव्यम् । सुहृद्भावेनेति तु गुडजिह्विकामात्रम् । अत एव ‘यदपि प्रतिबन्दीमाददानस्य विवक्षितमि’त्युत्तरत्र वक्ष्यतीति द्रष्टव्यम् । यद्वा यथास्थितैवेयमुक्तिरन्यथा स्वातत्र्येण फलव्यभिचारेणाप्रामाण्यशङ्काया उत्तराधिकरणे निराकरिष्यमाणत्वेन व्यभिचारस्यान्यथासिद्धेरत्राव्युत्पादनीयत्वात्प्रतिबन्द्याश्च मोचितत्वा दुक्तशङ्कानुदयादिति द्रष्टव्यम् । ननु पञ्चरात्रादिस्मृतीनां युक्तिमूलत्वेन प्रामाण्यस्य शङ्कितत्वात्तदभावप्रतिपादनाय स्मार्तकर्मानुष्ठाने स्मृत्युक्ताधिकारस्यैव दुर्निरूपत्वस्य वक्तव्यतया वेदोक्ताधिकारस्य दुर्निरूपत्ववर्णनमसङ्गतमित्यतो वेदोक्ताधिकारातिरिक्तस्य स्मृत्युक्ताधिकारस्यैवाभावात्स्मार्तकर्मानुष्ठानेऽपि वेदोक्त एवाधिकार इति ज्ञापयितुं वेदोक्ताधिकारस्य दुर्निरूपत्ववर्णनमित्याह वैदिकेति ॥ निषेकादीति । गर्भाधानादीत्यर्थः । उपलक्षणमिति । अत एव ‘अशक्यसाधनं चोक्त्वा’ इत्युत्तरत्र वक्ष्यतीति भावः । ननु वेदोक्तस्याधिकारस्य वेदेनैव निरूपणात्कथं दुर्निरूपत्वमित्यत आह दुर्निरूपत्वमिति । ननु समर्थप्रवृत्तिजनकत्वेनैव पञ्चरात्रादेः प्रामाण्यानुमानसम्भवात् । किमिति वेदमूलकत्वाश्रयणमिति शङ्कायां, मूले वेदोक्ताधिकारस्य दुर्निरूपत्वेन फलनियमो व्यभिचारो वा न ज्ञातुं शक्यत इत्युक्तम् । तदयुक्तम् । तावताऽपि समर्थप्रवृत्तिजनकत्वेन प्रामाण्यानुमाने दोषानभिधानेन तस्यादुष्टत्वप्रसङ्गात् । कथं च वेदोक्ताधिकारदुर्निरूपत्वस्य फलनियमव्यभिचारयोरनवधारणप्रयोजकत्वम् । के चात्र वेदोक्ताधिकाराः । कथं च तेषां दुर्निरूपत्वमित्यत आह एतदुक्तं भवतीति ॥ प्रमितं स्वल्विति । अनेन ‘फलस्य नियमो व्यभिचारो वा ज्ञातुं न शक्यते’ इत्यंशेन मूले समर्थप्रवृत्तिजनकत्वरूपालिङ्गस्य सन्दिग्धासिद्धस्वमुच्यत इत्युक्तं भवति ।

ननु फलनियमस्य दुरवधारणत्वकथनेन कथमुक्तलिङ्गस्यानवधारणोक्तिलाभ इत्यत आह तस्य चेति ॥ व्यभिचारस्येति । एतत्स्मृतिविहितसाधनानुष्ठानवतामपि तत्पलाभावस्य बहुलमुपलम्भेनेत्यर्थः । कथं तर्हि साधनानुष्ठानेन क्कचित्फलोपलम्भ इत्यत आह तदवधारणे चेति । अत्र साधनानुष्ठानेन क्कचित्कफलोपलम्भ एव तदवधारणपदेन विवक्षितः । अत एव वक्ष्यति ‘क्कचित्फलोपलम्भस्तु काकतालीय’ इत्यादि इति द्रष्टव्यम् । क्कचित्तदनवधारणे चेति पाठः । तत्र ननु लिङ्गस्य नियमगर्भत्वमेव कुत इत्यत आह तदनवधारणे चेति । लिङ्गस्य नियमाघटितत्व इत्यर्थ इति योज्यम् । इदानीं वेदोक्ताधिकारनिरूपणपूर्वकं तेषां दुर्निरूपतायाः फलनियमव्यभिचारयोरनवधारणप्रयोजकत्वमुपपादयितुमुपक्रमते तत्रैतावद्वक्तव्यमित्यादिना ॥ कारणसामग्रीति । कारणपौष्कल्यमित्यर्थः । अयातयामत्वम् अगतर्वार्यत्वम् । आदिपदेनोचितस्वरवर्णाद्युपेतत्वपरिग्रहः ॥

काकतालीय इति । अत्र काकतालशब्दौ वृत्तिविषये काकतालसमवेतक्रियावर्तिनौ तेन काकागमनमिव तालपतनमिव काकतालमिति इवार्थे ‘समासाच्च तद्विषयादि’ति ज्ञापकात्सुप्सुपेति वा समासः । उभयत्रोपमेयदेवदत्तागमनं तदानीमेव दस्योरुपनिपातश्च । तेन देवदत्तस्य दस्योश्च समागमः काकतालसमागमसदृश इति फलति । ततश्च काकतालमिव काकतालीयमिति द्वितीयस्मिन्निवार्थे ‘समासाच्च तद्विषयादि’ति सूत्रेण’ इवे प्रतिकृतौ’इत्याधिकारिकस्थेन छप्रत्ययः । तथा च पतता तालेन काकवधस्येवोपनिपतता दस्युता देवदत्तवध कृत इति तदर्थः । ततश्च काकागमन तालपतनसमागमरूपस्य तालकृतकाकवधरूपस्य चोपमानस्यानुपादानात्प्रत्ययार्थोपमायामुपमानलोपः । समासार्थोपमायां वाचनिकोपमानलोपः सर्वोऽप्ययं लोपश् छप्रत्ययविधायकशास्त्रकृतः । ततश्च यद्यपि ‘‘समासाच्च तद्विषयादि’’ति सूत्रेणेवार्थविषयात्समासादपरस्मिन्निवार्थे छप्रत्ययेन निष्पादितः काकतालीयशब्द उपमाद्वयगर्भस्तथा च काकतालयोरिव यादृच्छिको दस्युदेवदत्तयोः समागम इत्येका समासार्थोपमा । तदानीमेव पतता तालेन काकस्येव दस्युना देवदत्तस्य वधः कृत इत्यन्या तद्धितार्थोपमा चेति यत्रोपमाद्वयं तत्रैवास्य शब्दस्य सम्पूर्णार्थता तथाऽपि यादृच्छिकसमागममात्रेऽप्यस्य प्रचुरः प्रयोगो दृश्यत इत्ययमपि प्रयोगो यादृच्छिकसमागममात्रविषय इति ध्येयम् ॥ अन्यनिमित्तक इति । गुडजिव्हिकानिमित्तक इत्यर्थः ॥ सन्दिग्धेनेति । नियमगर्भप्रवृत्तिजनकत्वरूपलिङ्गेनेति शेषः । ननु प्रामाण्यनिश्चयेनेवोक्तसन्देहनिवृत्तिद्वारा नियमगर्भसमर्थप्रवृत्तिजनकत्वरूपलिङ्गनिश्चयसम्भवात्कथं सन्दिग्धत्वमित्यत आह प्रामाण्यसिद्ध्युत्तरकालं त्विति ॥ इतरेतराश्रयत्वमिति । प्रामाण्यसिद्धौ व्यभिचारस्य वैगुण्यादिनिमित्तताकल्पनयानियमगर्भसमर्थप्रवृत्तिजनकत्वरूपलिङ्गनिश्चयस् तन्निश्चये च निश्चितेन तेन प्रामाण्यनिश्चय इतीतरेतराश्रयत्वमित्यर्थः । वेदसंवादेन तु प्रामाण्यावधारणे नायं दोषः । फलव्यभिचारस्यान्यनिमित्तताकल्पनायाः प्रामाण्यनिश्चयाधीनत्वेऽपि प्रामाण्यनिश्चयस्यान्यनिमित्तताकल्पनाधीनत्वाभावादित्याशयेनाह वेदसंवादेन त्विति ।

**परिमल **

स्मृत्यादिप्रसङ्गे वेदमात्रग्रहणसङ्गतमित्यत आह वैदिकेति ॥ स्मृत्युक्तस्यापि वैदिकत्वादिति भावः ॥ पञ्चरात्रादयोपीति । ‘भारतं पञ्चरात्रं च वेदा इत्येव शब्दिता’इति नविलक्षणत्वनयभाष्योक्तस्मृतेरिति भावः । ‘न च तद्युक्तिमूलते’त्यनेनान्वय इति अर्थतस्तदनुवादेन दर्शयति तस्मात्फलसंवादेनेत्यादिना ॥ तात्पर्यस्यास्फुटत्वादाह एतदुक्तमिति ॥ प्रमितमिति । लिङ्गप्रमितावेव तात्पर्यं न तु लिङ्गकरणतायाम् । परामर्शकरणताया एव तर्कताण्डवे समर्थनात् ॥ तस्य चेति । हेतोरित्यर्थः ॥ काकतालीयताया इति । काकागमनसमय एव तालफलपतनं यथा तथेत्यर्थः । उपमानाच्छ इति छप्रत्ययः । काकागमनतालफलपतनयोर्यथा यादृच्छिकत्वं तथात्वस्येह शङ्कनादित्यर्थः ॥ कारणसामग्रीति । कारणानां मेलनमित्यर्थः ॥ अयातयामत्वादिकं वीर्यवत्त्वादिकमित्यर्थः । प्रवृत्तिसामर्थ्येनेतीतिशब्दस्यैतदुक्तं भवतीतिपूर्वेणान्वयः ।

यादुपत्यं

व्यभिचारस्य बहुलमुपलम्भेनेति । एतत्स्मृतिविहितसाधनानुष्ठानवतामपि तत्फलाभावस्य बहुलमुपलम्भेनेत्यर्थः । ननु फलस्यापि क्वचिदवधाणेनोक्तलिङ्गावधाणमपि किन्न स्यादित्यत आह तदवधारण इति । क्वचित्साधनानुष्ठानेन फलावधारण इत्यर्थः ॥ निषेकादीति । गर्भाधानादीत्यर्थः । अयातयामत्त्वमगतवीर्यत्वम् । आदिपदेनोचितस्वरवर्णाद्युपेतत्वं ग्राह्यम् ॥ अन्यनिमित्त एवेति । पूर्वोदृष्टनिमित्त एवेत्यर्थः । यद्वा स्मृतिकर्तृर्गुडजिह्विकानिमित्त एवेत्यर्थः ॥ सन्दिग्धेनेति । नियमगर्भेण प्रवृत्तिजनकत्वेनेत्यर्थः । ननु प्रामाण्यनिश्चयेनैवोक्तसन्देहनिवृत्तिर्भविष्यतीत्यत आह प्रामाण्यसिध्द्युत्तरेति । प्रामाण्यसिद्धौ व्यभिचारस्य वैगुण्यादिनिमित्तताकल्पनया नियमगर्भसमर्थप्रवृत्तिजनकत्वनिश्चयः । तन्निश्चये च तेन प्रामाण्यनिश्चय इतीतरेतराश्रयत्वं स्यादित्यर्थः।

श्रीनिवासतीर्थीया

अन्यथा व्यभिचारस्य वैगुण्यनिबन्धनताऽनङ्गीकारे । ननु पञ्चरात्रादिवैदिकग्रन्थोक्तानुष्ठाने वैदिकोक्तस्येति वक्तव्यं वेदोक्तस्येति कथमुक्तमित्यत आह वैदिकेति । तस्य हेतोः । तदवधारणे पलविसंवादेन लिङ्गावधारणे शङ्कनात् फलसंवादस्येति शेषः । निश्चय इति एतावद्वक्तव्यमित्यन्वयः । सामग्री साकल्यम् । द्रव्यस्य शुचित्वं नाम न्यायार्जितत्वम् । सन्दिग्धेन फलोपलम्भरूपेण लिङ्गेन । ननु न भविष्यति सन्देहः फलनियममेवाङ्गीकृत्य फलसंवादेन प्रामाण्यसिध्द्यनन्तरं फलव्यभिचारस्य वैगुण्यनिमित्तताकल्पनसम्भवेनैककोटेर्निश्चितत्वादित्याशङ्क्य फलसंवादेन प्रामाण्यसिद्धौ तदन्यथाऽनुपपत्त्या व्यभिचारस्य वैगुण्यनिमित्तत्वं कल्पनीयम् । व्यभिचारस्य वैगुण्याऽदिनाऽन्यथासिद्धौ कल्पितायां फलनियमसम्भवेन फलसंवादेन प्रामाण्यसिद्धिरित्यन्योन्याश्रयः स्यादत एककोटिनिश्चायकाभावेन सन्देहः स्यादेवेति न सन्दिग्धेन फलसंवोदन प्रामाण्यानुमानं युक्तमित्याशयेनाह प्रामाण्यसिद्धीत्यादिना ।

वाक्यार्थरत्नमाला

ननु पञ्चरात्रादीत्यादिसुहृद्भावेन पृच्छंतं प्रतीत्यंतग्रन्थतात्पर्यमन्यथा प्रतीतिनिरासायाह । तथाच युक्तं मदीयमिति । तथासति सुहृद्भावेनेत्यस्यासङ्गतिप्रसङ्ग इत्यत आह । सुहृदिति । वक्ष्यमाणग्रन्थानुसारेण प्रतिबन्दीपरत्वं स्पष्टं चेत्याह । अत एवेति । अयमत्राशयः । प्राक्फलव्यभिचारेण पाशुपतादिस्मृतेरप्रामाण्याङ्गीकारे तद्-व्यभिचारेणैव पञ्चरात्रादिस्मृतेरप्यप्रामाण्यं स्यादिति प्रतिबन्द्याशङ्कायास् त्वया फलसंवादेन प्रमाण्यस्याङ्गीकृतत्ववन्मया तस्याङ्गीकृतत्वाभावेन तद्-व्यभिचारेणाप्रामाण्यस्यास्मृतिष्वप्रसङ्गादिति परिहृतं न च तद्युक्तिमूलतेत्यनुव्याख्यानेन । न चैतावता प्रतिबन्दीमोचनं समाप्तम् । पूर्वपक्षिणा प्रामाण्यावधारणस्य युक्तिमूलत्वं सिद्धान्तिनाऽप्यङ्गीकारयित्वा स्वाभिलषितं च प्रतिबन्दीफलं सूचयितुं सिद्धान्तिनैव तदङ्गीकारयित्वा प्रतिबन्द्या अपरिहार्यत्वे शङ्किते वैषम्यान्तरप्रतिपादनेन तत्परिहाराय वेदोक्तस्योत्यादेरनुव्याख्यानस्य प्रवृत्तत्वात् । अतः सुहृद्भावेनेत्येतदन्यथैव योज्यम् । यदपीति वक्ष्यमाणग्रन्थेऽपि अत्राशङ्कितफलस्य दूषणेनास्य तावत्पर्यन्तमेव तात्पर्यं वाच्यमिति । अत्र तात्पर्यमित्यनंतरमिति द्रष्टव्यमित्येतदधिकं लेखकागतम् । वक्ष्यतीति दृष्टव्यमित्येतत्पर्यन्तत्वादस्य ग्रन्थस्य पूर्वेणेति दृष्टव्यमित्यनेन कृत्याभावादिति बोध्यम् । सुहृद्भावेनेति पदस्वारस्यमात्रमाश्रित्य प्रकारान्तरमाह । यद्वेति । अत्र यद्वेत्यनास्थासूचनायां वस्तुतः पूर्वोक्तमेव व्याख्यानं युक्तम् । न च यद्वेति पक्षोक्तदोषावकाशः । कर्त्तृकरणादिवैगुण्यकल्पनेन फलव्यभिचारान्यथासिद्धेरुत्तराधिकरणव्युत्पाद्याया उपजीवनेन पूर्वपक्षिणाऽत्र शङ्कनेऽपीह तदन्यथासिद्धिप्रतिपादनाभावात् । न च तद्युक्तिमूलतेति प्रतिबन्दीपरिहारकानुव्याख्यानोक्तस्यैव समर्थनेन प्रतिबन्दीमोचनस्यासमाप्तत्वाच्च । अत एव यदपीति वक्ष्यमाणग्रन्थव्याख्यावसरे अनेन प्राचीना सुहृद्भावेन पृच्छन्तमित्युक्तिर्गुडजिह्विकामात्रमित्युक्तं भवतीति पूर्वव्याख्यानमेव साधकतया वक्ष्यतीति विद्वद्भिः परिभावनीयम् । इत्याहेति । इत्याशयेनाहेत्यर्थः । लिङ्गस्येति । समर्थप्रतीत्युक्तलिङ्गस्येत्यर्थः । ननु सामग्रयाः कारणत्वाव्यभिचाराकारणत्वं सामग्रीविणं न युक्तं कारणसाकल्यस्यैव प्रतिपादनीयतया सामग्रीपदप्रयोगायोग एवेत्यतो जिज्ञासाधिकरणीयपूर्वपक्षे कारणसामग्रीसद्भावादित्येतन्मूलोक्तिं घटयितुं समग्रस्य भावः, सामग्री साकल्यमित्यर्थः । औचितीत्यादिवद् ब्राह्मणादित्वात् ष्यञ् षित्वात् ङीषिति प्रतिपादितरीत्योपपादनं ज्ञेयमित्याशयेन तात्पर्यार्थमाह । कारणपौष्कल्येत्यर्थ इति । औचितीत्यादिदृष्टान्तदार्ष्टान्तिकोपपादनं चोक्तटीकाव्याख्यावसरे प्रागेवास्माभिः कृतम् । तत एव प्रतिपत्तव्यम् । कारणपौष्कल्येत्यर्थ इति पाठः स्वरस एव । पौष्कल्यमिति पाठस्तु बुध्या विविच्य सामग्रीपदव्याख्याना शयेनेति ज्ञेयम् । अत्र प्रकरणे मध्येदीपिकान्यायेन काकतालीयशब्दव्याख्यानं मध्ये इति न दोषः ।

वृत्तिविषय इति । समासरूपवृत्तिविषय इत्यर्थः । अनेन केवलयोः काकतालशब्दयोः काकतालरूप एवार्थ इति ध्वनितम् । एतदभिप्रायेणैव कैय्यटेपि वृत्तिविषय इत्युक्तमिति ज्ञेयम् । ज्ञापकादिति । इवार्थविषयात्समासादित्युक्तया लक्षणान्तराभावेपि अनेनैव ज्ञापकेन समाससिद्धिरिति भावः । एवं ज्ञापनेन समासस्य छप्रत्ययविषयत्वमेवेति कैय्यटादयः । तत्रैवोक्तं समासविधायकमप्याह सुप्सुपेति वेति । सहसुपेत्यत्र सहेति योगविभागस्याङ्गीकारेण तस्य सुबामन्त्रित इत्यतोऽनुवर्त्तमान सुबित्येतत्सम्बन्धरूपवाक्यं सुप्सुपेति फलितम् । तेन समास इत्यर्थः । उभयत्रेति । काकागमनमिव तालपतनमिवेत्युभयोरित्यर्थः । साक्षात्कृतब्रह्मणां सद्यः शरीरादिपाते वातपुत्रीयाः पौरुषेया ब्रह्मोपदेशाः प्रसज्येरन् इत्येतज्जिज्ञासाधिकरणीयमूलव्याख्यानरूप अत्र यद्यपि समासाच्च तद्विषयादित्यादिटीकाव्याख्यानावसरे अधिकमुपपादनमस्माभिः कृतमस्ति । तत्प्रकारेणाधिकं प्रमेयं ज्ञेयम् । तत्रत्यटीकानुसारेणैवाशक्यं समाधत्ते । यद्यपीत्यादिना ध्येयमित्यन्तेन । अत एव काकतालीयेति व्याप्तिरपरिहार्येत्युत्तराधिकरणमूले उभयत्राप्युपमानोपमेयप्रदर्शनमिति ज्ञेयम् । समासप्रत्ययार्थोपमयोर् उपमानलोपः स्पष्टीकर्त्तव्योऽस्ति । गुडजिह्विकानिमित्तक इत्यर्थ इति । स्मृतिकारेण गुडजिह्विकान्यायेन काचित्सवाद्यर्थप्रतिपादिकस्मृतिः प्रणीता तन्निमित्तक इत्यर्थः । गुडजिह्विकामात्रमित्युक्तं भवतीति । एतच्च प्रागुक्तप्रथमपक्षाभिप्रायेण । द्वितीयपक्षस्तु प्रागुक्तरीत्या न सम्मत एवेति ध्येयम् ।


अधिकारो हि सुलभः कथितोऽन्यागमेष्वलम्

अधिकारो हि सुलभः कथितोऽन्यागमेष्वलम्

सुधा

एवं न्यायसाम्याभावेन प्रतिबन्दी मोचिता । यदपि प्रतिबन्दीमाददानस्य विवक्षितम् । यथा च पञ्चरात्रादिप्रामाण्यमभिलषता फलव्यभिचारस्याधिकारादिवैकल्यनिबन्धनता कल्प्या तथाऽहमपि पाशुपतादिस्मृतिषु कल्पयिष्यामीति, तदयुक्तं वैषम्यादित्याह अधिकारो हीति ।

अनुव्याख्यानम्

अधिकारो हि सुलभः कथितोऽन्यागमेष्वलम् ।

वेदोक्तो ह्यधिकारस्तु दुर्लभस्सर्वमानुषैः ॥

अधिकारग्रहणं साधनस्याप्युपलक्षणम् । अन्यागमेषु पाशुपतादिषु कथितोऽधिकारोऽलं सुलभोऽनायाससाध्यः । कुतः । यस्मादन्यागमेषु तथा कथितः । तथा च तद्वैकल्यकल्पनमसम्भावनाप्रतिहतम् । वेदोक्तस्त्वधिकारो विशुद्धसन्तानजत्वादिः सर्वमानुषैर्दुर्लभ इति प्रसिद्धमेव । अतस्तद्वैकल्यकल्पनं सम्भावितमेवेति ।

वाक्यार्थचन्द्रिका

एवं न्यायसाम्याभावेनेति । फलविसंवादेन पाशुपतादिस्मृतीनामप्रामाण्ये तर्हि तत एव पाञ्चरात्रादिस्मृतीनामप्यप्रामाण्यं स्यादिति प्रतिबन्दी परेण गृहीता सा न्यायसाम्याभावोपपादनेन परिहृतेत्यर्थः । यदपि प्रतिबन्दीमाददानस्य विवक्षितमिति । अनेन प्राचीना सुहृद्भावेन पृच्छन्तमित्युक्तिर्गुडजिह्विकामात्रमित्युक्तं भवति । अभ्युच्चयेनैतद्विवक्षितनिराकरणं प्रतिबन्द्या मोचितत्वेन तन्मूलविवक्षाया अप्रयोजकत्वादित्यप्याहुः ।

**परिमल **

अन्यागमेष्विति विषयसप्तमीमुपेत्य तावद्योजनामाह अन्यागमेषु पाशुपातदिष्विति । अधिकरणसप्तमीमभ्युपेत्य योजनान्तरमाह यस्मादित्यादिना । तथा कथितो ऽधिकारः सुलभः कथित इत्यर्थः । तुशब्दस्य व्युत्क्रमेणान्वयमुपेत्य वेदोक्त इत्यादेरर्थमाह वेदोक्तस्त्विति । हिशब्दार्थः प्रसिद्धमेवेति ।

श्रीनिवासतीर्थीया

न्यायसाम्येति । पाशुपतादिस्मृतीनां प्रामाण्यावधारणस्य यथा फलसंवादादियुक्त्यधीनत्वं तथा न पञ्चरात्रादिस्मृतिप्रामाण्यावधारणस्य तदधीनत्वम् । किन्नाम वेदसंवादाधीनत्वमेवेति न न्यायसाम्यमित्यर्थः । तथा कथितः सुलभत्वेन कथित इत्यर्थः ।

वाक्यार्थरत्नमाला

आहुरित्यस्वरसोद्भावनम् । तद्बीजं तु प्रतिबन्द्या मोचितत्वेऽपि तन्मूलपरविवक्षितस्यापि मोचनार्थं प्रवृत्तेऽत्र ग्रन्थे प्रतिबन्दी अनुपपन्नैव । यच्च तदवष्टम्भेनोच्यते तच्चानुपपन्नमिति प्रतिपादनेन अप्रयोजकत्वकथनायोगाद् इति ।