न चास्या व्यभिचारेऽपि हीयते मानता क्कचित्
पञ्चरात्रादिस्मृतीनां प्रामाण्यसमर्थनम्
न चास्या व्यभिचारेऽपि हीयते मानता क्कचित्
सुधा
ननु पञ्चरात्रादिस्मृतयोऽपि फलं व्यभिचरन्ति । क्कचित्तदुक्तानुष्ठानेऽपि दृष्टफलानुपलम्भात् । अतस्तासामप्रामाण्यान्न तद्विरोधेन पाशुपतादिस्मृतीनामप्रामाण्यम् । अन्यथा फलव्यभिचारस्यानैकान्तिकत्वमित्यत आह न चेति ।
अनुव्याख्यानम्
न चास्या व्यभिचारेऽपि हीयते मानता क्कचित् ।
अस्याः पञ्चरात्रादिस्मृतेः क्कचिद्य्वभिचारेऽपीति सम्बन्धः । कुतो न हीयत इति चेत् । किमदृष्टार्थायाः प्रामाण्याभावोऽभिधीयते, उत दृष्टार्थाया एव । नाद्यः । यतः फलव्यभिचारे हेतौ क्कचिद् दृष्टार्थायां वर्तमाने अस्या अदृष्टार्थाया मानता न हीयते । व्यधिकरणत्वादिति भावः । न द्वितीयः यस्मात्क्कचिद् दृष्टार्थायां फलव्यभिचारे, तत एवाप्रामाण्ये सत्यप्यस्या अदृष्टार्थायास्तावन्मानता न हीयते । कारणाभावात् । तद्विरोधादेव च पाशुपतादीनामप्रामाण्यमुक्तम् । दृष्टार्थाया अप्रामाण्यवचनं तु प्रकृतानुपयुक्तमित्यभिसन्धिः ।
वाक्यार्थचन्द्रिका
ननु फलव्यभिचारेण पाशुपतादिस्मृतीनामप्रामाण्यं प्रतिपाद्य कथं तद्विरुद्धं फलव्यभिचारेऽपि तासामप्रामाण्याभाववर्णनं ‘नच’ इत्यादिनोत्तरग्रन्थेन क्रियते । नच नैतत्पाशुपतादिस्मृतीनां फलव्यभिचारेऽप्यप्रामाण्यवर्णनं किन्तु पञ्चरात्रादिस्मृतीनामिति न पूर्वोत्तरविरोध इति वाच्यम् । तत्र फलव्यभिचारस्याप्रसक्त्याऽप्रामाण्यप्रसक्तेरेवाभावात् । तथा च ‘न चे’त्यादि पञ्चरात्रादिस्मृतिप्रामाण्यवर्णनमनर्थकमित्यतः प्रागुक्तस्य पञ्चरात्रादिस्मृतिविरोधेन पाशुपतादिस्मृत्यप्रामाण्यस्य समर्थनार्थत्वान्न तस्यानर्थक्यमित्याशयेन तद्-व्यावर्त्यशङ्कामुत्थापयति नन्विति । ननु पञ्चरात्रादिस्मृतीनां फलव्यभिचारेऽप्यप्रामाण्यासम्प्रतिपत्तेर्युक्तमेव तद्विरोधेन पाशुपतादिस्मृत्यप्रामाण्यमित्यतस्तर्हि फलव्यभिचारस्य पञ्चरात्रादिस्मृतिष्वप्रामाण्यव्यभिचारेण तदसाधकत्वात्फलव्यभिचारेण पाशुपतादिस्मृतीनामप्रामाण्यसाधनं प्राक्तनमसमञ्जसं स्यादित्याशयेनाह अन्यथेति । व्यवहितत्वेऽपि योग्यत्वात् क्कचिदित्यस्य व्यभिचारेऽपीत्यनेन सम्बन्ध इत्याह क्कचिद्य्वभिचारेऽपीति सम्बन्ध सति ॥ अप्रामाण्ये सत्यपीति । अनेन मूले व्यभिचारेऽपीत्यपिशब्दोऽप्रामाण्यसमुच्चयार्थ इत्युक्तं भवति ॥ कारणाभावादिति । फलव्यभिचारलक्षणाप्रामाण्यकारणाभावादित्यर्थः । नन्वेवमदृष्टार्थपञ्चरात्रादिस्मृत्यप्रामाण्याप्राप्तावपि दृष्टार्थपञ्चरात्रादिस्मृत्यप्रामाण्यवर्जनीयमेवेति न पञ्चरात्रादिस्मृतिविरोधेन पाशुपतादिस्मृत्यप्रामाण्यसिद्धिरित्यत आह तद्विरोधादेवेति । अदृष्टार्थपञ्चरात्रादिस्मृतिविरोधेन पाशुपतादिस्मृत्यप्रामाणस्य प्रतिपाद्यमानत्वाद् अदृष्टार्थपञ्चरात्रादिस्मृत्यप्रामाण्ये सत्यपि तद्विरोधे पाशुपतादिस्मृतिप्रामाण्योपपत्त्या तद्विरोधस्य पाशुपतादिस्मृत्यप्रामाण्यानापादकतया तदप्रामाण्यप्रतिपादनस्य प्रकृतोपयोगित्वेऽपि फलव्यभिचाररूपकारणाभावेन तस्याशक्यत्वात् । दृष्टार्थपञ्चरात्रादिस्मृत्याप्रामाण्यप्रतिपादनस्योक्तकारणसम्पत्त्या शक्यत्वेऽपि तद्विरोधेन पाशुपतादिस्मृत्यप्रामाण्यानापादकत्वेन, दृष्टार्थपञ्चरात्रादिस्मृत्यप्रामाण्यप्रतिपादनस्येहानभिमतत्वात् । अभिमते चादृष्टार्थपञ्चरात्रादिस्मृतिविरोधेन पाशुपतादिस्मृत्यप्रामाण्यप्रतिपादने दृष्टार्थपञ्चरात्रादिस्मृत्यप्रामाण्येऽपि प्रमाणीभूतादृष्टार्थपञ्चरात्रादिस्मृतिविरोधेन पाशुपतादिस्मृत्यप्रामाण्योपपत्त्या तद्विरोधस्याप्रामाण्यानापादकत्वाभावेन दृष्टार्थपञ्चरात्रादिस्मृतिविरोधेन पाशुपतादिस्मृत्याप्रामाप्योपपत्त्या तद्विरोधस्याप्रामाण्यानापादकत्वाभावेन दृष्टार्थपञ्चरात्रादिस्मृत्यप्रामाण्यव्युत्पादनस्य प्रकृतानुपयोगित्वेनाकर्तव्यत्वान्नोक्तशङ्कावकाश इत्यभिसन्धिरिति भावः ।
**परिमल **
तदेव वाक्यम् आवृत्त्या शेषोक्तिपूर्वं योजयति यत इति ॥ फलव्यभिचारे हेताविति । फलव्यभिचारित्वरूपे हेतौ वर्तमान इत्यन्वयः । क्कचिदित्यनुवादः । दृष्टार्थायामिति व्याख्या । सम्पदादिदृष्टफलसाधनबोधकस्मृतिभाग इत्यर्थः । अस्या इत्यनुवादः । अदृष्टार्थाया इति व्याख्या । एवमग्रेपि ॥ कारणाभावादिति । फलव्यभिचाररूपकारणस्य तद्भागेऽदृष्टेतिरति भावः ।
श्रीनिवासतीर्थीया
अन्यथा पञ्चरात्रस्मृतेर्दृष्टफलव्यभिचारेऽपि चेत्प्रामाण्यमित्यर्थः । फलव्यभिचारस्य शैवादिस्मृत्यप्रामाण्यसाधकहेतुभूतस्य ॥ व्यधिकरणत्वादिति । अदृष्टार्था पञ्चरात्रादिस्मृतिरप्रमाणं दृष्टार्थे फलव्यभिचारादिति व्यधिकरणमित्यर्थः । ननु तर्हि दृष्टफलार्थपञ्चरात्रस्मृतिविरोधेन पाशुपतादिस्मृतीनामप्रामाण्यं न सम्भवतीत्याह तद्विरोधादेवेति । अदृष्टार्थकपाञ्चरात्रादिस्मृतिविरोधादेवेत्यर्थः ।
वाक्यार्थरत्नमाला
अभिसन्धिप्रदर्शनरूपादृष्टार्थेति वाक्ये अत्र हीत्यादावुपसंस्कर्त्तव्यम् । मूले दृष्टार्थाया अप्रामाण्यवचनं तु प्रकृतानुपयुक्तमित्युक्तयैवादृष्टार्थपञ्चरात्रादिस्मृतेरप्रामाण्यवचनं यद्यपि प्रकृतोपयोगीति सूचितं तदपि संगृह्य तद्विरोधादेवेत्येवं तद्वाक्यं द्वितीयपक्षदूषणं स्य ष्टीकृतमशक्यत्वादित्यन्तेन । तत्रापि प्रतिपाद्यमानत्वादित्यस्य तदप्रामाण्यप्रतिपादनस्य प्रकृतोपयोगित्वेऽपीत्युत्तरेण सम्बन्धः । तस्यैवोपादानमदृष्टार्थपञ्चरात्रादिस्मृत्यप्रामाण्य इत्यादि । अदृष्टार्थपञ्चरात्रादिस्मृत्यप्रामाण्यं यदि प्राप्तं भवेत्तदेत्यर्थः । तद्विरोधे सप्तपीति सम्बन्धः । एवत्यमुत्तरत्र । अप्रमाणविरोधस्याकिञ्चित्करत्वादिति भावः । एवञ्चादृष्टार्थपञ्चरात्रादिस्मृत्यप्रामाण्यप्रतिपादनं तव संमतं परं तु कारणभूतफलव्यभिचाराभावान्न तत्सम्भवति । तदेतदुक्तं फलव्यभिचारेति ।
यस्याश्च दृष्टार्थपञ्चरात्रादिस्मृतेः फलव्यभिचारेणाप्रामाण्यप्रतिपादनं तव सम्मतं परं तु कारणं न तद्विरोधेन पाशुपतादिस्मृत्यप्रामाण्यप्रतिपादनमिह प्रकृतम् । यदि हि दृष्टार्थपञ्चरात्रादिस्मृतिविरोधेन विरोधिस्मृतेरप्रामाण्यप्रतिपादनमिहाभिमतं स्यात्तदा दृष्टार्थायास्तस्या अप्रामाण्यप्रतिपादनसङ्गतिः । न चैवं ततो न दृष्टार्थाया अपि तस्यास्तत्प्रतिपादनं सङ्गतम् । व्यर्थत्वात् । तदेतदुक्तं दृष्टार्थेत्यादिनाऽनभिमतत्वादित्यन्तेन । शक्यत्वेऽपीत्यस्यादृष्टार्थपञ्चरात्रादिस्मृतिविरोधेन पाशुपतादिस्मृत्यप्रामाण्यप्रतिपादनस्येहानभिमतत्वादित्युत्तरेण सम्बन्धः । दृष्टार्थस्मृतिविरोधाद्विरोधिस्मृतेरप्रामाण्यप्रतिपादनपक्षेऽपि तदप्रामाण्यप्रतिपादनं प्रकृतानुपयोगादेव कुतो न निराक्रियत इत्यत उक्तं तद्विरोधेनेत्यादि (?) प्राप्तावपीत्यन्तम् । अपीत्यनंतरं चकारपाठः । तस्याप्रामाण्य इत्येतद्दृष्टार्थस्मृतिपदोपस्थितं वाक्यं परामृश्यत इत्यदोषः । अप्रामाण्ये तत्पक्ष इत्यर्थः । अस्तु तर्हि दृष्टार्थतत्स्मृत्यप्रामाण्य प्रतिपादनपक्षेऽप्युपयोगि । अदृष्टार्थतत्स्मृतेरप्यप्रामाण्यप्रसंजकत्वादित्यत आह । अभिमतेचेति । प्रतिपादन इत्यस्य तत्पक्ष इत्यर्थः । अस्य दृष्टार्थपञ्चरात्रादिस्मृत्यप्रामाण्यव्युत्पादनस्य प्रकृतानुपयोगित्वेनाकर्तव्यत्वादित्यनेन सम्बन्धः । प्रकृतानुपयोगस्यैवोपपादनं दृष्टार्थेत्यादि अभावेनेत्यन्तम् । तद्विरोधस्येति । अदृष्टार्थतत्स्मृतिविरोधस्येत्यर्थः । मूलोक्तव्यधिकरणत्वादिति भावः । नोक्तशङ्केति । पञ्चरात्रादिस्मृत्यप्रामाण्यशङ्केत्यर्थः ।