ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ
स्मृत्यधिकरणीयपूर्वपक्षः
ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ
सुधा
उक्तार्थं स्मृतिविरोधेनाक्षिप्य समादधत्सूत्रम् ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृनवकाशदोषप्रसङ्गात् ॐ इति ॥ अस्यार्थः । यदुक्तं परस्य ब्रह्मणो विष्णोः सकलजगज्जन्मादिकारणत्वं सार्वज्ञ्यादिसकलगुणपूर्णत्वं समस्तदोषदूरत्वं च तदयुक्तम् । पाशुपतसाङ्ख्यबौद्धार्हतादिस्मृतिविरुद्धत्वात् । ता हि शिवप्रभृतीनामेव जगज्जन्मादिकारणत्वादिकं प्रतिपादयन्ति । न च तासामन्योऽवकाशोऽस्ति येन प्रतीतेऽप्यर्थे तात्पर्याभावं प्रतीमः । अन्यथा तासां स्मृतीनामनवकाशेनाप्रामाण्यलक्षणदोषप्रसङ्ग इति । तन्न । पुरुषोत्तमस्यैव पञ्चरात्रादिस्मृतिभिरखिलजगत्कारणत्वादेरुक्तत्वात् । अपर(न्य)था तासां पाशुपतादि(स्मृति)भ्योऽन्यासां पञ्चरात्रादिस्मृतीनामवकाशान्तराभावेनाप्रामाण्यदोषप्रसङ्गादिति ।
तत्राक्षेपस्तवदयमयुक्तः । श्रुतिसमन्वयेनास्यार्थस्य साधितत्वात् । श्रुतिविरुद्धानां (च) स्मृतीनामप्रामाण्यस्येष्टत्वात् । श्रुतिसमन्वयन्यायेन पाशुपतादिस्मृतीनामपि परब्रह्मणि समन्वयेन शिवार्चनादिपरत्वेन वा सावकाशत्वाच्च । समाधानमपीदमयुक्तम् । सकलशास्त्रप्रमाणकत्वमुक्तार्थ स्याभिधायेदानीं स्मृतिमात्रोपादाने कारणाभावात् । पराभिधित्सितं दोषमवबुध्य श्रुतिपरित्यागस्त्वयुक्तः । किन्तु स परिहर्तव्यः । अन्यथा प्रागपि श्रुतिरनादेया स्यात् । किञ्च पञ्चरात्रादिस्मृतीनामप्रामाण्यं परस्येष्टमेव । वासुदेवार्चनादिपरतया सावकाशताऽपि तेन सम्भाव्येत । साम्यापादनमात्रेऽपि परस्यैव जयो निश्चयप्रतिबन्धकत्वादित्यतो निर्दलं पूर्वपक्षे तावदुज्जीवयति आप्तैरिति ।
अनुव्याख्यानम्
***ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति ***
चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ॥
आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रुतिः ।
पिपीलिकालिपिनिभा वारयेत्सर्वगा हि ते ॥
अयमिहाभिसन्धिः पूर्वपक्षिणः । श्रुतिविरोधेन स्मृतीनामप्रामाण्यमभिलषता प्रबलदुर्बलत्वे सर्वथा समर्थनीये । अन्यथाऽतिप्रसङ्गात् । न तावत्प्रामाण्यकारणभावाभावाभ्यां प्राबल्यदौर्बल्ये । वक्तारश्च स्मृतीनामाप्ताः । न श्रुतेः । अपौरुषेयत्वेनाङ्गीकृतत्वात् । अत एव न समूलत्वनिर्मूलत्वाभ्याम् । स्मृतीनामाप्तिमूलत्वात् । श्रुतेस्तदभावात् । नापि कृत्रिमत्वाकृत्रिमत्वाभ्याम् । स्वरूपतोऽप्रयोजकत्वात् । उक्तरीत्या वैपरीत्याच्च । तदिदमुक्तमाप्तै रुद्रकपिलकमलासनादिभिर् उक्तमर्थं शिवादीनां जगत्कारणत्वादिकं, पिपीलिकालिपिनिभा बुद्धिपूर्वप्रणयहीना, श्रुतिः कथं वारयेन् न कथमपीति ।
वाक्यार्थचन्द्रिका
॥ ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ॥ नन्वाप्तैरित्याद्युत्तरभाष्यमनर्थकम् । न च पूर्वपक्षाद्युज्जीवनार्थं तदिति वाच्यम् । सूत्रभाष्यस्थितपूर्वपक्षादिस्वरूपेऽनुपपत्त्यप्रतिभासेन तदुज्जीवनानपेक्षणादित्यतस्तत्रानुपपत्तेर्विद्यमानत्वात्तदुज्जीवनमर्थवदित्याशयेन पूर्वपक्षादिस्वरूपेऽनुपपत्तिं दर्शवितुं तस्याः पूर्वपक्षादिस्वरूपज्ञानसाध्यत्वात्सूत्रप्रयोजनदर्शनपूर्वकं सूत्रमुपन्यस्य पूर्वपक्षादिस्वरूपं च प्रदर्श्य तत्रानुपपत्तिमप्युपदर्श्य तत्परिहारकतयोत्तरभाष्यं योजयितुं सूत्रप्रयोजनं तवाद्दर्शयति उक्तार्थमिति । पाशुपतसाङ्ख्यबौद्धार्हतादीति । अत्र पाशुपतसाङ्ख्यमते वेदस्यापौरुषेयत्वप्रामाण्ययोः सत्त्वात्तन्मते स्मृत्यनुसारेण श्रुतिर्नेयेति श्रुतिप्रामाण्येनैव पूर्वपक्षस्य, बौद्धादिमते त्वाप्तप्रणीतबौद्धागमविरोधादाप्ताप्रणीतो वेदो न प्रमाणमिति तदप्रामाण्येनैव पूर्वपक्षस्य सम्भवात्पाशुपतादीनां बौद्धादीनां चेह पूर्वपक्षत्वमिति दर्शयितुमिह टीकायां पाशुपतसाङ्ख्येति बौद्धार्हतादीति च विशिष्य तत्तद्ग्रहणमिति द्रष्टव्यम् । काणादादिभिन्तु वेदस्य पौरुपेयत्वप्रामाण्ययोरङ्गीकारेण सर्वज्ञेशप्रणीता श्रुतिः काणादादिस्मृत्यनुसारेण नेयेत्यत्र बीजाभावेनोक्तरीत्या पूर्वपक्षासम्भवान्न त इह पूर्वपक्षिण इति दर्शयितुं काणादादीनामग्रहणम् । बौद्धार्हतादीत्यादिशब्दस्तु शाक्तेयादिपर इति द्रष्टव्यम् ।
यद्वा काणादादिस्मृतेः स्पष्टार्थतया सयुक्तित्वेन च सर्वज्ञेशप्रणीतश्रुत्यपेक्षया प्रबलत्वात्तदनुसारेण सर्वज्ञेशप्रणीताऽपि श्रुतिर्नेयेति पूर्वपक्षसम्भवेन काणादादीनामप्यत्र पूर्वपक्षित्वमेव । अत्र च पक्षे टीकास्थ आदिशब्द एव तत्पर इति न तदग्रहणमिति ध्येयम् । तस्याश्चतुःस्वरूपत्वादि’ति विरोधिस्मृतीनां चतुरात्मकत्ववचनं च पाशुपतसाङ्ख्यादिस्मृत्यभिप्रायमेव । न तु विरोधिसकलम्मृत्यभिप्रायम् । तेन पाशुपतादिस्मृतिविरोधपरिहारस्य चतुर्विधविरोधपरिहारात्मकत्वादत्र सङ्गतत्वेऽपि बौद्धादिस्मृतीनामनेवंविधत्वेन तद्विरोधपरिहारस्याप्यनेवंरूपत्वान्नात्र कर्तव्यता युक्तेति शङ्काऽनवकाश इति द्रष्टव्यम् ॥
विरुद्धत्वादिति । न तावत् षोडशीग्रहणाग्रहणवद्य्ववस्थितविकल्पस्य वा व्रीहियववदव्यवस्थितविकल्पस्य वाऽत्राश्रयणादविरोधः । पुंस्तन्त्रेऽनुष्ठेये विकल्पसम्भवेऽपि तदतन्त्रे सिद्धे वस्तुनि तदयोगात् । न हीदमेवमनेवं वा कर्तव्यमितिवदिदमेवमनेवं वा भवतीति सम्भवति । नापि समुच्चयाश्रयणेनाविरोधः । सापेक्षयोरेव समुच्चयावगमात् । प्रकृते च श्रुतौ स्मृतौ च निरपेक्षस्यैव विष्णोः शिवस्यैव च हेतुत्वोक्त्यतदभावात् । नापि देशकालकार्यभेदादविरोधः । श्रुतौ स्मृतौ च विष्णोः शिवस्य च सदा सर्वत्र सर्वकार्यहेतुत्वोक्त्या तदसम्भवादिति भावः ॥ उक्तत्वादिति शास्त्रयोनिसूत्र इति शेषः । अस्यार्थस्येति । विष्णोः सकलजगज्जन्मदिकारणत्वादेरित्यर्थः ॥ इष्टत्वादिति । तथा च न तद्विरोधेनोक्तार्थस्यायुक्तत्वशङ्कावकाश इति । अप्रामाण्यापादनमिष्ठत्वादयुक्तमित्युक्तम् । कथं च तदापादनं तत्प्रयोजकस्यानवकाशत्वस्याभावादित्याह श्रुतिसमन्वयन्यायेनेति । ‘नामानि सर्वाणी’त्यादिश्रुत्यवष्टम्भेन श्रौतशिवादिशब्दानामिव स्मार्तशिवादिशब्दानामपि विष्णुवाचित्वसिद्ध्या, तत एव शिवादेर्जगत्कारणत्वादिप्रतिपादकश्रुतीनामिव तत्कारणत्वाद्यभिधायकपाशुपतादिस्मृतीनामपि विष्णुपरत्वेन, न तासां विषयान्तराभाव इति भावः ॥
शिवार्चनादीति । तथा च शिवादेर्जगत्कारणत्वाद्यभिधायकवाक्यानां शिवार्चनादिविध्युपयोग्यर्थ वादत्वेन तद्विध्येकवाक्यतया शिवार्चनादावेव तात्पर्येण शिवादिकारणत्वे तात्पर्याभावान्न तद्विरोधो नाप्यनवकाशत्वदोष इति भावः । सकलशास्त्रेति । श्रुत्यादिरूपसकलसच्छास्त्रेत्यर्थः ॥ दोषमिति । पिपीलिकालिपिनिभत्वलक्षणमित्यर्थः ॥ प्रागिति । शास्त्रयोनिसुत्र इत्यर्थः । ननु सूत्रे सिद्धान्तांशस्य न पञ्चरात्रादिस्मृत्यप्रामाण्यापादने तात्पर्यं येन परस्येष्टापादनं स्यात् । किन्तु पाशुपतादिस्मृतिवत्पञ्चरात्रादिस्मृतीनामप्याप्तप्रणीतत्वेनान्यत्रानवकाशात्पाशुपतादिस्मृतिसाम्यमेव तासां स्यादिति साम्यापादनमात्र इत्यत आह साम्यापादनमात्रेऽपीति ॥ परस्यैवेति । पूर्वपक्षिण इत्यर्थः ॥ निश्चयेति । सिद्धान्तीयनिश्चयेत्यर्थः । पूर्वपक्षिणस्तु वैतण्डिकत्वान्न स्वपक्षनिर्णयापेक्षेति भावः । सिद्धान्तस्यापि’ यद्यज्ञाः’ इत्यादिनोज्जीवनात्तावदित्युक्तम् ॥ अयमिहाभिसन्धिरिति । पूर्वपक्षसुत्रभागस्यानुभाष्यकारैरभिधीयमान इत्यर्थः । परतस्त्वपक्षमभ्युपेत्या वैपरीत्याच्चेति । तदेव स्पष्टयति वाक्येति ॥ अङ्गीकृतत्वादिति । पाशुपतादीनां पूर्वपक्षत्वे वादिप्रतिवादिभ्यामिति शेषः । काणादादीनां तत्त्वे तु सिद्धान्तिनेति शेषः । पाशुपतादिमते वेदस्यापौरुषेयत्वेऽपि काणादादिमते पौरुषेयत्वादिति द्रष्टव्यम् । अत एवेत्युक्तमेव दर्शयति स्मृतीनामिति ॥ तदभावादिति । अपौरुषेयत्वेनाङ्गीकृतत्वादिति भावः ॥ स्वरूपत इति । कृत्रिमत्वाकृत्रिमत्वविस्य स्वरूपतः साक्षात्प्राबल्याप्राबल्यप्रयोजकत्वं नास्तीत्यर्थः। माऽस्तु कृत्रिमत्वादेः स्वरूपेण प्राबल्यादिप्रयोजकत्वं प्रामाण्यादिप्रयोजकाप्तिमूलकत्वादिसम्पादकतया तु भविष्यतीत्यत आह उक्तरीत्येति । वक्तारश्च स्मृतीनामाप्ता न श्रुतेर् अपौरुषेयत्वाङ्गीकारादित्युक्तरीत्येत्यर्थः । कृतं व्युत्पादनमुद्भाष्यत्वशङ्कानिरासाय भाष्यारूढं करोति तदिदमुक्तमिति ।
**परिमल **
ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोष प्रसङ्गात् ॐ । आप्तैरित्यादिभाष्यमवतारयितुमुपोद्धातमाह उक्तार्थमित्यादि । पूर्वाध्यायोक्तार्थमित्यर्थः । एवमग्रेपि ज्ञेयम् । तद्विवृण्वन्सूत्रार्थमाह यदुक्तमित्यादिना । भाष्याद्युक्तादयमन्योर्थ इति ध्येयम् । कथं श्रुतिर्वारयेदित्येतद्-व्यावर्त्यमाह श्रुतिविरुद्धानां चेति । प्रोक्तमित्यत्र प्रशब्दव्यावर्त्यमाह श्रुतिसमन्वयन्यायेनेति । सममित्यस्य मया सहितमित्यर्थमुपेत्य तद्-व्यावमाह पराभिधित्सितमिति । परस्याभिधातुमिष्टमित्यर्थः । अवबुद्ध्येत्यनन्तरं कृत इति योज्यम् । तेन ल्यबन्तोपपत्तिः । ‘हरिपूर्वकाः । किं नाविदः’ इत्येतद्-व्यावर्त्यमाह किञ्च पञ्चरात्रादीति । प्रामाण्यस्य गुणजन्यत्वमुपेत्याह वैपरीत्याच्चेति । तदेव व्यतक्ति वाक्येति ।
यादुपत्यम्
ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ॥ बौद्धार्हतादीत्यत्रादिपदेन कणादादिग्रहणम् । श्रुतिसमन्वयन्यायेनेति । नामानि सर्वाणि यमाविशन्तीति श्रुत्यवष्टम्भेन ‘ज्ञात्वा शिवं शान्तिमत्यन्तमेती’त्यादिश्रौतशिवादिशब्दानां विष्णुपरत्वमेवेति त्यायेनेत्यर्थः ॥ सकलशास्त्रेति । श्रुत्यादिसकलशास्त्रेत्यर्थः ॥ पराभिधित्सितमिति । पिपीलिकालिपिनिभत्वरूपमित्यर्थः । ननु सूत्रे सिद्धान्तांशस्य न पञ्चरात्रादिस्मृत्यप्रामाण्यापादने तात्पर्यं येनेष्टापादनं स्यात्किन्तु पाशुपतादिस्मृतिवत्पञ्चरात्रादिस्मृतीनामप्याप्तप्रणीतत्वेनान्यत्रानवकाशात्पाशुपतादिस्मृतिसाम्यमेव तासां स्यात् ततश्च न पूर्वपक्षनिर्णय इति साम्यापादनमात्र इत्यत आह साम्यापादनमात्र इति । पूर्वपक्षिणो वैतण्डिकत्वादिति भावः । अपौरुषेयत्वेनाङ्गीकृतत्वादित्यत्र साङ्ख्यपाशुपतादयः पूर्वपक्षिणश्चेदुभाम्यामिति शेषः । तेषां मते वेदस्यापौरुषेयत्वात् । कणादादयश्चेत्सिद्धान्तिनेति शेषः । तेन कणादादिमते वेदस्य पौरुषेयत्वादेते प्रामाण्यकारणाभावनिर्मूलत्वादयः पूर्वपक्षहेतवोऽसिद्धा इति शङ्काऽनवकाश इति ध्येयम् । कृत्रिमत्वाकृत्रिमत्वाभ्यामिति । ‘कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्यय’ इति परिभाषया कृत्रिमत्वमेव प्राबल्ये प्रयोजकमकृत्रिमत्वं तु दौर्बल्ये । अन्यथा ‘आण्नद्याः’ इत्यादौ ‘यूस्त्र्याख्यौ नदी’ति परिभाषिता स्थालीत्यादिका नदीशब्देन ग्राह्या न स्यात् । किन्तु गङ्गाद्याः सरित एव ग्राह्याः स्युरिति भावः ॥ स्वरूपत इति । साक्षादेवेत्यर्थः । अप्रयोजकत्वादतिप्रसङ्गाच्चेति भावः । अथ कृत्रिमत्वादिकं न स्वरूपेण प्राबल्यादिप्रयोजकं किन्त्वाप्तिमूलकत्वादिसम्भावकं सदित्यत आह उक्तरीत्येति ।
श्रीनिवासतीर्थीया
॥ ॐ स्मृत्यनवकाशदोषप्रसङ्ग सति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ॥ अवकाशो ऽन्यस्मिन्नर्थे घटनेत्यर्थः ॥ अन्यथेति । प्रतीतेऽप्यर्थे तात्पर्यं न चेदित्यर्थः । सः दोषः । अन्यथा । पिपीलिकालिपिनिभत्वेन प्रामाण्यं श्रुतेरिति प्रबलं परोक्तं दोषं ज्ञात्वा तमपरिहृत्य श्रुतित्यागेन स्मृतिमात्रस्यैवोपादानं यदि क्रियत इत्यर्थः । स्यात् । समन्वेतव्यतया । ननु नास्माभिः पंश्चरात्रादिस्मृत्येतरस्मृतीनां बाध उच्यते किन्तु सत्प्रतिपक्षत्वेन साम्यमिति साम्यापादनमात्र एव तात्पर्यमिति चेत्तत्राह साम्येति ॥ निश्चयेति । सिद्धान्तिनां विष्ष्णोः कारणत्वनिश्चयेत्यर्थः ॥ स्वतस्त्वेनेति । गुणरूपकारणापेक्षाऽभावादिति भावः ॥ वैपरीत्याच्चेति । प्रत्युत स्मृतावेव प्रामाण्य कारणभावात्प्राबल्यं, तदभावाच्छतीनामेव दौर्बल्यमित्यर्थः । एतदेव दिशदयति वाक्येत्यादिना ।
ननु कृत्रिमत्त्वादिकं न स्वरूपेण प्राबल्याद्युपपादकं किं नाम कृत्रिमत्वे आप्तिमूलकत्वं प्राप्तम् अकृत्रिमत्त्वे च तदभावः । तथा चाप्तिमूलकत्वसम्भावकत्वादिना प्राबल्वाद्युपपादकं भविष्यतीत्यत आह उक्तरीत्येति । ‘वाक्यप्रामाण्ये ही’त्युक्तरीत्या प्राबल्यप्रयोजकम् आप्तिमूलकत्वसम्भावकं कृत्रिमत्वं स्मृतावेवास्तीत्यर्थः ।
वाक्यार्थरत्नमाला
तथाच न तद्विरोधेनोक्तार्थस्यायुक्तत्वशङ्कावकाश इति पाठः । द्वितीयो नञ् लेखकदोषात् । मूलकोशेऽप्येकस्यैव सत्वात् । अप्रामाण्यापादनमिष्टत्वादयुक्तमित्युक्तमित्यनन्तरमधुनेति शेषः । तद्युक्तपाठस्तु स्वरस एव । अनेन पूर्वोत्तरग्रन्थविरोधः परिहृतः । साम्यापादनमात्रेपीत्येवं प्रतीकोपादानपाठः । पूर्वपक्षसूत्रभागस्येति । अनेन पूर्वपक्षसूत्राभिप्रायमिति वक्ष्यमाणमूलवाक्यगतं सूत्रपदं तद्भागाभिप्रायमिति व्याख्यातं भवति ।
आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रुतिः
आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रुतिः
सुधा
नन्वौदुम्बरीं स्पृष्ट्वोद्गायेदित्यादिश्रुतिविरुद्धानामौदुम्बरी सर्वा वेष्टयितव्येत्यादिस्मृतीनामप्रामाण्यमुपलव्धं तथाऽत्र स्यात् । न स्यात् । वैषम्यात् । श्रुतिमूलतयाऽभिमता हि ताः स्मृतयोऽतस्तासां मूलश्रुत्यनुमापकत्वेन प्रामाण्यमिष्टम् । न च श्रुतिविरुद्धायाः स्मृतेर्मूलश्रुत्यनुमापकत्वं सम्भवतीत्यप्रामाण्यमेव युक्तम् । यथाऽऽह जैमिनिः ‘विरोधे त्वनपेक्षं स्यादसति ह्यनुमानमि’ति । न चैवं प्रकृते । पाशुपतादिस्मृतीनां शिवादिप्रत्यक्षमूलत्वेन श्रुतिमूलत्वा भावात् । तदिदमाह प्रत्यक्षतो दृष्ट्वेति । ननु तर्हि स्मृतीनामुक्तरीत्या सावकाशत्वान्निरवकाशश्रुतिविरोधेनाप्रामाण्यमस्तु । मैवम् । वैपरीत्यात् । स्मृतयो हि विस्पष्टवादिन्यो न विवक्षितार्थात्प्रच्यावनमर्ह्रन्ति । श्रुतयस्त्वस्फुट(स्पष्ट)विक्षिप्तवादिन्योऽव्यवस्थितालौकिकशाब्दलक्षणविषया अशक्याध्ययनानन्तापरिपूर्णवाक्यरूपा नार्थविनिष्ठा लक्ष्यन्ते । अत एव भवतां मीमांसायासः । एतदप्युक्तं प्रकर्षेणोक्तमिति । विस्पष्टमुक्तमित्यर्थः । पिपीलिकालिपिनिभेनि च । अस्फुटे(स्पष्टे त्यर्थः ।
वाक्यार्थचन्द्रिका
भाष्ये प्रत्यक्षतो दृष्ट्वेत्यधिकम् । न च पाशुपतादिस्मृतीनां प्रत्यक्षमूलकत्वव्युत्पादनार्थं तदिति वाच्यम् । श्रुतिपरित्यागेन प्रत्यक्षमूलकत्वव्युत्पादनस्याप्यनर्थकत्वात् । न च ‘औदुम्बरी सर्वा वेष्टयितव्ये’त्यादिस्मृतिवैषम्यप्रतिपादनार्थं तदिति वाच्यम् । तत्साम्येऽप्यनुपपत्त्यभावेन तद्वैषम्यप्रदर्शनस्याप्यनर्थकत्वादित्यतः सर्ववेष्टनादिस्मृतेः स्पर्शश्रुतिविरोधेनेव, श्रुतिविरोधेन पाशुपतादिस्मृत्यप्रामाण्यशङ्कापरिहारार्थत्वान्न तदानर्थक्यमित्याशयेन साम्यशङ्कामुत्थापयति नन्विति । औदुम्बरीं स्पृशता सर्वस्यास्तस्या वेष्टयितुमशक्यत्वाद्वेष्टयित्रा च स्प्रष्टुमशक्यत्वेनाशक्यानुष्ठानमर्थद्वयं बोधयन्त्योः श्रुतिस्मृत्योः प्रमेयविरोधेनोभयोरपि प्रामाण्यायोगाद् अन्यतरबाधे कर्तव्ये औष्ण्यप्रत्यक्षेण वह्निशैत्यानुमानस्येव श्रुतिविरोधेन सर्ववेष्टनस्मृतीनामप्रामाण्यवच्छतिविरोधेन पाशुपतादिस्मृतीनामेवाप्रामाण्यान्न तद्विरोधेनोक्तार्थस्यायुक्ततेत्यर्थः॥ श्रुतिमूलतयाऽभिमता हि ता इति । प्रत्यक्षादेर्धर्माधर्मयोरप्रवृत्त्या प्रत्यक्षदिमूलकत्वस्य, पौरुषेयवाक्यतया वेदवत्स्वातन्त्र्येण प्रामाण्यस्य चानुपपत्तेः श्रुतिमूलतयैव तासां प्रामाण्यमिति भावः । अप्रामाण्यमेवेति । एतच्च प्राभाकरमतमाश्रित्योक्तम् । भट्टमते श्रुतिमूलत्वेनाभिमतायाः सर्ववेष्टनादिस्मृतेः स्पर्शनश्रुतिविरोधेन स्पर्शनार्थं द्वित्राङ्गुले हित्वा तदितरसर्ववेष्टनरूपार्थान्तरपरत्वेन प्रतीतेऽर्थेऽप्रामाण्येऽपि सर्वथाऽप्रामाण्या भावादिति द्रष्टव्यम् ।
अत्रैव जैमिनिसूत्रं प्रमाणयति यथोक्तमिति । स्मृतिचरण इति शेषः । श्रुतिविरोधे स्मृतिप्रामाण्यमनपेक्ष्यमनादरणीयं स्यात् । हि यस्मादसति श्रुतिविरोधे मूलश्रुत्यनुमानमुक्तं न तु सतीति सूत्रार्थः । ननु भाष्ये प्रेति पिपीलिकानिभेति च व्यर्थम् । न च पाशुपतादिस्मृतीनां स्पष्टवादित्वप्रतिपादनार्थत्वात्प्रशब्दस्य, श्रुतेरस्पष्टवादित्वप्रतिपादनार्थत्वाच्च पिपीलिकानिभेत्यस्य, नानर्थक्यमिति वाच्यम् । स्मृति श्रुत्योः स्पष्टास्पष्टवादित्वप्रतिपादनस्यापि प्रयोजनाभावेनानर्थकत्वादित्यत आशङ्कान्तरपरिहारार्थत्वान्न तदिति भावेन तद्-व्यावर्त्यां शङ्कामुत्थापयति ननु तर्हीति । यद्वा मूले प्रशब्दस्य प्रयोजनं पिपीलिकानिभेत्यस्य प्रयोजनान्तरं च वक्तुं तद्-व्यावर्त्यां शङ्कामुत्थापयति ननु तर्हीति । स्यादेतदेवं यदि पाशुपतादि स्मृतेः सावकाशत्वं श्रुतेश्च निरवकाशत्वं स्यात्तदेव कुत इत्यतः श्रुतिसमन्वयन्यायेन पाशुपतादिस्मृतीनां विष्णुपरत्वेन शिवार्चनपरत्वाद्वा तच्छतेस्तु विषयान्तराभावान्निरवकाशत्वमिति भावेनोक्तम् उक्तरीत्येति ॥ अव्यवस्थितेति । अव्यवस्थितमलौकिकं लोकाननुसारि यच्छाब्दलक्षणं ‘मन्त्रेष्वाङ््या्देरात्मनः’ इत्यादिशास्त्रं तद्विषयास्तन्निष्पाद्यास् त्मना त्मन इत्याद्याः श्रुतय इत्यर्थः । वेद एव कचित्प्रवृत्तावपि क्कचिदप्रवृत्तेरुक्तशाब्दलक्षणस्याव्यवस्थितत्वं लोके सर्वथाऽप्यप्रवृत्तेरलौकिकत्वं च तस्येति बोध्यम् ॥ अशक्येति । अशक्यमध्ययनं येषां तथाविधान्यनन्तान्यपरिपूर्णानि यानि वाक्यानि तद्रुपा इत्युक्तार्थे हेत्वन्तरम् ।
**परिमल **
औदुम्बरीमिति । ‘यजमानसम्मितौदुम्बरी भवती’त्युक्तोदुम्बरवृक्षविकारः यजमानसमपरिमाणस्थाणुविशेषः सदसि नैर्ऋत्य(ति)भागे स्थापितस् तं स्पृष्ट्वोद्गातोद्गायेदित्यर्थः ॥ वेष्टयितव्येति । वस्त्रेण स्थाणुः सर्वोपि वेष्टनेनाच्छादनीय इत्यर्थः । यदि सर्ववेष्टनं तदौदुम्बरीस्पर्शनं न लभ्यते । यदि स्पर्शनं तदा न सर्ववेष्टनम् । त्रिचतुरङ्गुलमात्रस्य स्पर्शनस्थलस्य वेष्टनेन विना स्थाप्यत्वात्परस्परविरोधो ध्येयः ॥ अप्रामाण्यमिति । (गुरुमता)प्राभाकरमताभिप्रायेण । भट्टमते सर्ववेष्टनस्मृतेः सङ्कोचः प्रामाण्यं च ध्येयम् । निराह न स्यादिति ॥ श्रुतिमूलतयाभिमता हीति । पूर्वतन्त्रे आद्याध्यायतृतियपादीयाद्यनये ‘धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यादि’त्यत्र तथोक्तेरिति भावः ॥ यथाऽऽहेति । तत्रैव द्वितीयेऽधिकरणे । सर्ववेष्टनादिस्मृतीनां प्रत्यक्षश्रुतिविरोधे तु सति तादृशस्मृतिजातं प्रमाणत्वेनानपेक्षं स्याद् आदरणहीनं स्यात् । ननु पूर्वतनस्मृत्यधिकरणन्यायेन मूलश्रुत्यनुमापकतया प्रमाणं किं नेति चेत् । न । हि यस्मादसति श्रुतिविरोधे अनुमानं मूलश्रुत्यनुमापकं तस्मादनपेक्षमेवमादिस्मृतिजातमिति सूत्रार्थः ॥ अलौकिकशाब्दलक्षणविषया इति । प्रचोदयात् । अगृभ्णन् रुद्रेभिर् ब्राह्मणास इत्यादीनामलौकिकानि यानि शब्दसम्बन्धिलक्षणानि तद्विषयत्वात् । यद्वा अलौकिकानि शब्दसम्बन्धिलक्षणानि अलौकिकाः शब्दसम्बन्धिविषयाश्च यासामिति बहुव्रीहिः, तानि च न व्यवस्थितानि । क्कचित्प्रचोदयेद् अगृह्णन् ब्राह्मणा इत्यादिप्रयोगस्यापि दर्शनात् ॥ अनन्तेनेति । ‘अनन्ता वै वेदा इति श्रुतेरिति भावः ॥ अपरिपूर्णेति । ‘इषेत्वोर्जेत्वे’त्येवमादेरपि दर्शनादिति भावः ।
यादुपत्यम्
अप्रामाण्यमेवेति । इदं च प्राभाकरमतमाश्रित्योक्तं, भाट्टमते तु स्पर्शनार्थं द्वित्राङ्गुलं हित्वा तदितरसर्ववेष्टनरूपमर्थान्तरमेवोक्तम् । अतः प्रतीतार्थ एवाप्रामाण्यमिति व्याख्येयम् ॥ विरोधे त्वनपेक्षमिति । स्मरणं प्रत्यक्षश्रुतिविरोधेऽनपेक्षमनादरणीयं स्यात् । असति प्रत्यक्षश्रुतिविरोधे मूलश्रुत्यनुमापकमष्टकादिस्मरणमिति सूत्रार्थो जन्माधिकरणे पूर्वमेवोक्तः । तदीयाधिकरणरचना च तत्रैव प्रदर्शिता द्रष्टव्या ॥ अव्यवस्थितालौकिकेति । शब्दस्येमे शाब्दाः, लक्षणानि च विषयाश्च लक्षणविषयाः, न लौकिका अलौकिकाश्च ते शब्दाश्च ते लक्षणविषयाश्चालौकिकशाब्दलक्षणविषयाः, अव्यवस्थिता अनेकरूपा अलौकिकशाब्दलक्षणविषया यासां तास्तथोक्ता इति विग्रहः । तथा च श्रुतीनां यानि लक्षणानि ब्राह्मणासस् त्मना देवेभिरित्यादिपदस्वरूपाणि, ये विषयाः स्वरूपेणाहवनीयादिपदार्थास्ते न लौकिकशब्दलक्षणादिसदृशा, न चैकरूपा, आत्मना ब्राह्मणा इत्यपि दर्शनात् । नापि ‘इषेत्वे’त्याद्याः परिपूर्णवाक्यरूपा अतोऽर्थविपरतया न मातुं शक्यन्त इत्यर्थः । अत्र यद्यप्युपक्रमादिभिरेव तात्पर्यनिर्णय इति समन्वयसूत्र एवोक्तम् । शाखानामनन्तत्वेऽप्यविरोध इति गतिसामान्यादित्यत्रोक्तम् । पदपदार्थनिर्णयस्तु व्याकरणनिरुक्तादिभिरेव सुलभः । साकाङ्क्षवाक्यपूरणं चाध्याहारादिनेति लोकत एव सिद्धम् । तथाऽपि समूलस्मृतिविरोधे निर्मूलश्रुतिप्रामाण्यायोगादिति पूर्वोक्तयुक्त्यैव श्रौतोपक्रमादिकं स्मृत्यनुसारेणैव नेयमिति पूर्वपक्षिणः साङ्घ्यादेराशयः । बौद्धादेस्त्वप्रमाणमेवेति । अव्यवस्थितेत्यादेरनियतानि लौकिकशब्दाविषयाणि यानि शब्दसम्बन्धीनि सूत्राणि तद्विषया इति वाऽर्थः ।
श्रीनिवासतीर्थीया
तदेव दर्शयति स्मृतयो हीत्यादिना । अत एव अर्थविनिष्टतानिर्धारणार्थमेवेत्यर्थः ।
वाक्यार्थरत्नमाला
विरोधे त्वनपेक्ष्यमिति सूत्रपाठव्याख्यानादि लेख्यमस्ति । अयं च सूत्रार्थः शास्त्रदीपिकाचिरन्तनटीकानुसारेण । विरोधे त्वनपेक्षमित्यपि क्वाचित्पाठः । इमं पाठमवलम्ब्य सोमनाथदीक्षितः सूत्रमपीपठत् । विरोधे श्रुतिस्मृत्या अनपेक्षं यन्मानान्तरानपेक्षं श्रुतिवाक्यं तदेव प्रमाणं भवेत् हि यस्मादसति विरोधे मूलश्रुत्यनुमानमुक्तमिति । न तु सतीति पाठः । तदेव कुत इति । तदुभयमेव कुत इत्यर्थः । परत्वाद्वा तदित्यत्र सावकाशत्वमात्रं तच्छब्देन गृह्यते । योग्यत्वात् ।