आप्तता समताऽदृष्टिश्रुतिसाम्यबलोद्भवाः
प्रथमपादीयाधिकरणपूर्वपक्षसिद्धान्तयुक्तयः
आप्तता समताऽदृष्टिश्रुतिसाम्यबलोद्भवाः
सुधा
एतत्पादाधिकरणपूर्वपक्षसिद्धान्तयुक्तीः सङ्क्षेपेणाह आप्ततेत्यादिना ।
अनुव्याख्यानम्
आप्तता समताऽदृष्टिश्रुतिसाम्यबलोद्भवाः ॥
सर्वानुसारो लघुता विशेषादर्शनाफले ॥
इष्टासिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः ॥
एता एव त्वतिबलाः सिद्धान्तस्य नियामिकाः ॥
**परिमल **
आप्ततेत्यादिनेति । आप्ततेत्यादियुक्तिमालाया न्यायविवरण एव विवृतत्वादत्राव्याख्यानमिति पूवोध्याय एव व्यक्तम् । आद्यनये आप्तता ॥ १ ॥ न विलक्षणत्वादित्यत्र समता ॥ २ ॥ अभिमानीत्यत्रादृष्टिः ॥ ३ ॥ असदितिचेदित्यत्र श्रुतिसाम्यम् ॥ ४ ॥ भोक्त्रापत्तेरित्यत्र बलोद्भवः ॥ ५ ॥ तदनन्यत्वनये सर्वानुसारः ॥ ६ ॥ इतरव्यपदेशादित्यत्र लघुता ॥ ७ ॥ अधिकं त्वित्यत्र विशेषादर्शनम् ॥ ८ ॥ न प्रयोजनेत्यत्राफलम् ॥ ९ ॥ वैषम्येत्यत्रेष्टसिद्धिः ॥ १० ॥ सर्वधर्मेत्यत्र नियम इति विवेकः ॥ ११ ॥