तस्याश्चतुस्वरूपत्वात्
स्मृत्यधिकरणस्य अध्यायपादान्तर्भावसमर्थनम्
तस्याश्चतुस्वरूपत्वात्
सुधा
युक्तिविरोधपरिहारलक्षणेऽत्र पादे स्मृतिविरोधपरिहारो न कर्तव्योऽसङ्गतत्वात् । कर्तव्यतायां वा प्राथम्यं कुत इत्यत आह तस्या इति ।
अनुव्याख्यानम्
तस्याश्चतुस्वरूपत्वात् ………
तस्याः पाशुपतादिस्मृतेर्युक्तिसमयादिविरोधिचतुस्स्वरूपत्वात् । एतदुक्तं भवति । पाशुपतादिस्मृतयो हि स्वयमाप्ताभिमतवाक्यतया समयरूपा अपि स्वाभिमतार्थे युक्तीः श्रुतीश्च संवादयन्त्यो युक्तिसमयादिविरोधिचतुष्टयरूपाः । ततश्चोक्तेऽर्थे तद्विरोधपरिहारोऽध्यायेऽन्तर्भवत्येव । किन्तु पादचतुष्टयार्थसङ्गतोऽ(प्य)यं न निष्कृष्यैकत्रैव पादेऽन्तर्भवति । ततोऽध्यायादौ तदन्ते वा वक्तव्यः । प्रथमातिक्रमे च कारणं न किञ्चिदस्तीत्याद्याधिकरणे निरूप्यत इति । एवञ्च तत्रापि च स्मृतेरित्ययमुक्तस्यापवादो भवन्नपि न सर्वथेत्युक्तं भवति । समयादिविरोधस्यापि परिहारेण निष्कृष्टपादार्थाभावाद्युक्तिविरोध परिहारस्यापि भावेनान्तर्भावसम्भवाच्च ।
वाक्यार्थचन्द्रिका
स्मृतेश् चतुःस्वरूपत्वव्युत्पादनानर्थक्यमाशङ्क्य तत्प्रयोजनप्रदर्शनेन परिहरति युक्तीति । कथं पाशुपतादिस्मृतेर्युक्त्यादिचतुःस्वरूपत्वं तथात्वेऽपि वा कुतः स्मृतिविरोधपरिहारस्य प्राथम्यमित्यत आह एतदुक्तं भवतीति ॥ आप्ताभिमतवाक्यतयेति । अत्रालौकिकार्थविषयत्वस्यापि विणतयाऽभिप्रेतत्वान्नातिप्रसङ्ग इति ध्येयम् । अत्र पाशुपतादीत्यादिपदेन साङ्ख्यादिस्मृतिरेवाभिमता न तु बौद्धार्हतादिस्मृतिरपि । तत्र श्रुतिसंवादाभावेन चतुष्टयरूपत्वासम्भवादिति ध्येयम् । अध्यायान्तर्भावेऽपि कुतः प्राथम्यमिति शङ्कते किन्त्विति । परिहरति पादचतुष्टयेति ॥ निष्कृष्येति । असाधारणो भूत्वेत्यर्थः । एकैकाविरोधमात्रप्रतिपादकत्वात्पादविशेषाणां न तत्रास्यान्तर्भाव इत्यर्थः । प्रथमातिक्रमे च न किञ्चित्कारणमस्त्युपलक्षणम् । चतुरात्मकत्वेन प्रबलतया प्रथमं निरसनीयत्वाच्चेत्यपि द्रष्टव्यम् । अभ्युपेत्य चेदमुदितम् । वस्तुतस्तु चतुःस्वरूपत्वादस्य चतुर्ष्वपि पादेष्वन्तर्भावसम्भवादुक्तहोतुभ्यां प्रबलत्वाच्चाद्यपादस्यादावस्य निवेशो ऽत एवोत्तरत्र वक्ष्यति ‘युक्तिविरोधपरिहारस्यापि भावेनान्तर्भावसम्भवाच्चे’तीत्यवधेयम् । अपवादो भवन्नित्यंशमुपपादयति समयादीति । न सर्वथेत्यंशमुपपादयति युक्तिविरोधेति ।
**परिमल **
तावता कथमसङ्गतिनिरस इत्यत आह एतदुक्तं भवतीति । अपवादत्वं सर्वथैवापवादत्वं नेत्येतद् द्वयमपि व्यनक्ति समयादीति ।
यादुपत्यं
विरोधिचतुष्टयरूपा इति । इदं च पाशुपतसाङ्ख्यादिस्मृतीरभिप्रेत्य न तु बौद्धार्हतादिस्मृतीः । तत्र श्रुतिसंवादासम्भवेन चतुष्टयरूपत्वासंवादित्यवधेयम् ॥ निष्कृष्येति । असाधारणो भूत्वेत्यर्थः । एवमग्रेऽपि निष्कृष्यपदमसाधारणपरम् ।
श्रीनिवासतीर्थीया
अनौचित्यङ्गेत्युक्तं विशदयन्नेवोत्तरवाक्यमवतारयति युक्तिविरोधेत्यादिना । उक्तस्य ‘आदौ यौक्तः’ इत्युक्तस्य । तदेव विशदयति समयादीत्यादिना ।
प्रत्येकं चतुरात्मकाः
प्रत्येकं चतुरात्मकाः
सुधा
एकस्यैवाधिकरणस्य पादचतुष्टयार्थसम्बन्धेन चतुस्स्वरूपत्वकथन(नेन) प्रसङ्गाच्छिष्याणां शास्त्रे बहुमानोत्पादनायान्यदपि चातुर्विध्यं वक्ति प्रत्येकमिति ।
अनुव्याख्यानम्
……. ……. प्रत्येकं चतुरात्मकाः ॥
पादाः सर्वे तदंशाश्च ….. …..।
चत्वारोऽपि पादाः प्रत्येकं चतुरात्मकाः पादचतुष्टयार्थवन्तो द्रष्टव्याः । तद्यथा । युक्तिविरोधपरिहारलक्षणोऽप्ययं पादः समयादित्रयविरोधपरिहारात्मकोऽपि भवति । तथा समयविरोधपरिहारलक्षणोऽपि द्वितीयो युक्त्यादित्रयविरोधपरिहारात्मकोऽपि भवतीत्यादि । पादा इत्येवोक्ते सन्निहितत्वादेतदध्यायगता एवेति ज्ञायते । तदर्थं सर्वे इत्युक्तम् । सर्वाध्यायसम्बन्धिनोऽपीत्यर्थः । यो यदध्यायगतः पादः स तदध्याय(गत)पादचतुष्टयार्थवानवधे(से)यः । न केवलमेवं पादाः, किन्तु तदशाश्च ते पादा अंशो येषां ते तदंशा अध्याया इत्यर्थः । प्रथमाध्यायः समन्वयस्येवाविरोधादित्रयस्यापि प्रतिपादको भवतीत्यादि । पादानां चतुरात्मकत्वेऽधिकरणानां तथात्वं सिद्धमेव । न चैवमध्यायादिभेदानुपपत्तिः पौनरुक्त्यदोषश्चेति वाच्यम् । विवक्षाभेदेन सामञ्जस्यात् । यदा प्रथमः समन्वयार्थो विवक्ष्यते न तदा तदर्थतेतरेषामित्यादि ।
वाक्यार्थचन्द्रिका
तथेति । अत्रादिपदेन श्रुतिविरोधपरिहारलक्षणस्तृतीयो युक्त्यादिविरोधत्रयपरिहारात्मको भवतीत्यादेः सङ्ग्रहः । ननु सर्व इत्युक्तावप्येतदध्यायगता एव सर्व इति भविष्यतीति कथमुक्तशङ्कापरिहार इत्यत आह सर्वाध्यायेति । ‘अविरोधत्रयस्यापि प्रतिपादको भवतीत्यादी’त्यादिपदेन द्वितीयाध्यायोऽविरोधस्येव समन्वयादित्रयस्यापि प्रतिपादको भवतीत्यादेः सङ्ग्रहः । ननु तदंशा इत्यस्य बहुव्रीहिमाश्रित्याध्यायपरत्ववत्तेषांमशा इति तत्पुरुषमाश्रित्याधिकरणपरत्वमप्यवश्यमाश्रयणीयमन्यथाकरणानां चातुरात्म्यानुक्तिपासङ्गात् । तत्कथं बहुव्रीहिमात्रमाश्रित्याध्यायपरत्वाश्रयणमित्यत आह पादानामिति ॥ सिद्धमेवेति । अतस्तदंशा इत्यस्याधिकरणपरत्वे सिद्धार्थप्रतिपादकत्वेन वैयर्थ्यप्रसङ्गाद्बहुव्रीहिमात्रानयणेनाध्यायपरत्वमेव तस्याश्रयणीयमिति भावः । एवं प्रथमाध्यायादेः, समन्वयादिप्रतिपादकत्ववदविरोधादित्रयप्रतिपादकत्वे तदध्यायगततत्तत्पादानां तदध्यायगतपादचतुष्टयार्थवत्त्वे चेत्यर्थः । सर्वेषां सर्वार्थप्रतिपादकत्वेनाध्यायादिभेदकस्यार्थभेदस्याभावादिति भावः । विवक्षाभेदमेव दर्शयति यदेति । आदिपेदन, यदा द्वितयाध्यायोऽविरोधार्थो विवक्ष्यते न तदा तदर्थतेतरेषामित्यादेर् यदा च प्रथमाद्यपादो नामसमन्वयलक्षणो विवक्ष्यते न तदा तदर्थत्वं तदध्यायगतेतरपादत्रयस्येत्यादेश्च परिग्रहः ।
**परिमल **
विवक्षाभेदेन सामञ्जस्यादित्येतद्-व्यनक्ति यदा प्रथम इति ।
श्रीनिवासतीर्थीया
तथात्वं चतुरात्मकत्वम् । पादान्तर्गतत्वादिति भावः । विवक्षाभेदमेव दर्शयति यदेति । प्रथमो ऽध्यायः ।