०४ पाशुपतादिस्मृतिविरोधपरिहारः

तत्रापि च स्मृतेः

पाशुपतादिस्मृतिविरोधपरिहारः

……… तत्रापि च स्मृतेः

सुधा

प्रथमाधिकरणे विमाह तत्रापीति ।

अनुव्याख्यानम्

……… तत्रापि च स्मृतेः ॥

अपिपदमादावित्यस्यानुकर्षणार्थम् । तत्र युक्तिविरोधाभावप्रतिपादकेऽपि पाद इत्यनौचित्य शङ्कासूचनार्थं वा । चशब्देनाविरोधः साध्यत इत्येतदनुकृष्यते । स्मृतेः पाशुपतादिकायाः । यद्यपि स्मृतेरित्यस्य न नञर्थेन सम्बन्धो घटने विरोधश्च समासे गुणभूतः । तथाऽपि बुध्द्या विविक्तेन तेन सम्बन्धः सम्भवति ।

वाक्यार्थचन्द्रिका

अनौचित्येति । युक्तिविरोधपरिहारकेऽस्मिन्पादे स्मृत्यविरोधसाधनस्यासङ्गतत्वेनाकर्तव्यत्वेत्यर्थः । पाशुपतादिकाया इत्यादिपदेन साङ्ख्यबौद्धार्हतादिस्मृतिपरिग्रहः ॥ नञर्थेनेति । अविरोधपदार्थान्तर्गतनञर्थेनेत्यर्थः । तथा सति स्मृतेरभाव इत्यर्थप्राप्त्याऽसङ्गत्यापत्तेरिति भावः ॥ समास इति । अविरोध इति नञ्तत्पुरुष इत्यर्थः ॥ गुणभूत इति । नञ्तत्पुरुषस्योक्तरीत्योत्तरपदार्थप्राधान्यान्नञविशिष्टविरोधपदलक्षितस्याभावविस्य प्राधान्येऽपि, वाच्यस्य विरोधस्या प्राधान्यमभिप्रेत्येदमुक्तमित्यवधेयम् ॥ बुध्द्या विविक्तेनेति । स्मृतेर्यो विरोधः स नेत्येवं बुध्द्या विविक्तेन विरोधेनान्वय इत्यर्थः ।

**परिमल **

इत्यनौचित्यशङ्कासूचनार्थं वेति । तत्सूचने सत्येव तस्याश्चतुःस्वरूपत्वादि’ति परिहारो युक्तः स्यादिति भावः ॥ न घटत इति । तस्या विरोधकत्वेनाविरोधोपपादकत्वाभावादिति भावः । अत एव ‘न सङ्ख्योपसङ्ग्रहादि’तिसूत्रे पूर्वस्मादविरोधपदाकर्षे सति सङ्ख्योपसङ्ग्रहादपीति पञ्चम्या अविरोधपदेनान्वयास्वारस्यात् । पूर्वस्माद् बुध्द्या विभागेन विरोधपदमात्रमाकृष्यत इति भावेन पृथक् नञुपात्त इति भावः । ननु स्मतेरित्यस्य नञर्थेन सम्बन्धाभावेऽपि विरोध इत्यनेन सम्बन्धो भविष्यतीत्यत आह विरोधश्चेति । समासे नञ्समासे । गुणभूतः क्रियासापेक्षत्वेनेति शेषः । तेन विरोध इत्यनेन ।

यादुपत्यम्

अनौचित्यशङ्केति । तथा च युक्तिविरोधाभावप्रतिपादकेऽस्मिन्पादे यद्यपि स्मृत्यविरोधसाधनमनुचितं तथाऽपि वक्ष्यमाणरीत्याऽनुसन्धाने उचितमेवेति योजनीयमिति भावः ॥ यञर्थेनेति । अविरोधपदान्तर्गतनञर्थेनेत्यर्थः । स्मृतेरभाव इत्यर्थप्राप्त्याऽसङ्गत्यापत्तेरिति भावः ॥ समास इति । अविरोध इति नञतत्पुष इत्यर्थः । इदं च पूर्वमेव व्याख्यातम् ।

श्रीनिवासतीर्थीया

सूचनार्थं वेति । अपिपदमिति वर्तते ॥ विरोधश्चेति । यद्यपि नञर्थ एव समासे गुणभूतो न विरोधस्तथाऽप्यविरोधपदस्य विरोधाभाव इति व्याख्यातत्वात्समासे गुणभूत इत्यर्थः । तेन विरोधपदेन ।

वाक्यार्थरत्नमाला

विरोधस्याप्राधान्यामिति । नञिति समासशास्त्रानुसार्युपसर्जनत्वेन नञः पूर्वनिपातेऽपि तदर्थ एव प्रधानमिति भावः ।