चतुर्विधस्य तस्यादौ यौक्तः
विरोधाभावश् चतुर्विधः
चतुर्विधस्य तस्यादौ यौक्तः
सुधा
नन्वेवमध्यायस्याविरोधलक्षणैकार्थत्वेनैकवाक्यत्वे सति पादभेदः किन्निबन्धनः । तत्राप्यस्य पादस्य प्राथम्यं किन्निबन्धनमित्यपेक्षायामाह चतुर्विधस्येति ।
अनुव्याख्यानम्
चतुर्विधस्य तस्यादौ यौक्तः
तस्याविरोधस्य । निर्धारणे षष्ठी । आदौ प्रथमपादे । अविरोधः साध्यत इत्यनुवर्तते । चतुर्विधस्य तस्येत्यनुवादात्स चतुर्विध इति लभ्यते ।
तदयमर्थः । यद्यप्युक्तेऽर्थे विरोधाभाव इत्येकोऽर्थः । तथाऽपि युक्तिसमयश्रुतिन्यायोपेतश्रुतिविरोधाभावरूपावान्तरभेदेन स चतुर्विधो भवति । तत्प्रतिपादनेन चतुर्णां पादानां भेदो युज्यते । यस्य चतुर्विधस्यापि विरोधाभावस्य मध्ये युक्तिविरोधाभावः प्रथमपादे साध्यते । सर्वेषामपि विरोधानां युक्त्युपजीवित्वेन तद्विरोधस्य प्रबलतया तदभावसाधनस्य प्राथम्योपपत्तेः । युक्तिपुरस्कारेण प्रवर्तना(मानत्वा)च्च विचारशास्त्रस्येति ।
ननु कथमभावस्य चातुर्विध्यम् । उच्यते । चतुर्विधा हि विरोधिनो(न्यो) युक्त्यादयः । तदुपधानाद्विरोधोऽपि चतुर्विधोऽभिधीयते । ततस्तत्प्रतियोगिकोऽभावोऽपि तथोच्यते । अत एव यौक्त इत्युपपन्नम् । अभावस्यापि परम्परया युक्तिसम्बन्धित्वात् । अथवाऽविरोधपदसन्निधापितो विरोधस्तस्येति परामृश्यते । तथा च विरोधस्य युक्त्याद्युपधानेन चतुर्विधत्वात्तदभावसाधनेन पादभेदो युज्यते ।
चतुर्विधस्य तस्य विरोधस्य मध्ये यौक्तो विरोध आदावुक्तप्रकारेण प्रबलो यतस्तस्मात्तदभावोऽत्रादौ साध्यत इति योजनीयम् । यद्वा तस्येति विरोधिपरामर्शोऽयम् । तस्याप्यविरोधपदेन बुद्धिसन्निहितत्वात् । अविरोधो हि विरोध(निरूपणा)धीननिरूपणः । विरोधश्च विरोधिना विना नोपपद्यते । ततश्च विरोधिनो युक्त्यादिभेदेन चतुर्विधत्वा(त्त)द्विरोधाभावसाधनेन पादभेदोपपत्तिः । चतुर्विधस्यापि तस्य विरोधिनो मध्ये युक्तेः प्रबलत्वादादौ यौक्तौ युक्तिसम्बन्धी विरोधाभावः साध्यत इति योज्यम् ।
वाक्यार्थचन्द्रिका
नन्वविरोधचातुर्विध्यकथनं तत्रापि यौक्तस्या विरोधस्य प्राबल्यकथनं चानर्थकमित्यतः पादभेदसमर्थनार्थत्वाच्चातुर्विध्यकथनस्य प्राथमिकत्वसमर्थनार्थत्वात्तत्प्राबल्यकथनस्य च नानर्थक्यमित्याशयेन तद्वाक्यं तथा योजयितुं तद्-व्यावर्त्यशङ्काद्वयमुत्थापयति नन्विति । ननु सम्बन्धे षष्ठ्या विधानादत्राविरोधसम्बन्धी यौक्तो विरोध इति लभ्यते । तथा च सम्बन्धस्य भेदव्याप्तत्वाद्यौक्तस्यातिरिक्तत्वापत्त्या चातुर्विध्यभङ्गापत्तिरित्यतो गुणक्रियाजातिभिर्यतः पृथक्करणं तत्र ‘यतश्च निर्धारणमि’त्यनेन विहितैवेयं षष्ठी न त्वपरेति नानुपपत्तिरिति भावेनाह निर्धारण इति । नन्वविरोधचातुर्विध्यस्य पूर्वमनुक्तत्वात्कथं चतुर्विधस्य तस्येति तच्चातुर्विध्यानुवाद इत्यतश्चातुर्विध्यानुवादसामर्थ्यादेवाविरोधोऽत्र साध्यत इत्येतदनन्तरं स चाविरोधश्चतुर्विध इति लाभान्नानुपपत्तिरित्याह चतुर्विधस्येति ।
ननु विरोधाभावस्यैकत्वान्न चातुर्विध्यं सम्भवति तत्कथं तन्निबन्धनः पादभेदः स्यात्कथं च यौक्तस्याविरोधस्यादिशब्दसूचितं प्राबल्यं येन तस्यैव प्रथमनिरूपणीयत्वमित्यत आह तदयमर्थ इति । अलौकिकार्थगोचरबहुजनपरिगृहीतवाक्यसन्दर्भः समयः । यद्यपि तृतीयेऽपि क्वचिद्विरोधिनः श्रुतयो न्यायोपेतास्तथाऽपि न चतुर्थ इव श्रुत्याद्युक्तन्यायोपेता इति ततो भेद इत्यवधेयम् । नन्वत्र महामल्लभङ्गन्यायेनोतिप्रयत्नसाध्यस्य प्राथम्ये, युक्तिविरोधपरिहारस्य प्राथम्यानुपपत्तिः । न्यायोपेतश्रुतिविरोधपरिहारस्यैव तदापत्तिश्च । सोपानारोहणन्यायेनानतिप्रयत्नसाध्यस्य प्राथम्ये तु समयानामनादिकालतोऽविच्छेदेन बहुजनपरिग्रहेण च वेदतुल्यत्वेऽपि वेदवन्निर्मूलत्वाभावादत्यन्तभ्रमहेतुतया तत्त्वज्ञानस्यातिविरोधित्वाच्च, श्रुतिविरोधात्समयविरोधस्य प्रबलत्वेन, द्वितीये श्रुतिविरोधपरिहारस्य, तृतीये च समयविरोधपरिहारस्य कर्तव्यत्वप्रसङ्गेन समयश्रुतिविरोधपरिहारयोः पौर्वापर्यानुपपत्तिरिति युक्तिविरोधपविहारस्य पूर्वनिरूपणम् अनन्तरं समयविरोधपरिहारस्य अनन्तरं श्रुतिविरोदपरिहारस्य, तता न्यायोपेतश्रुतिविरोधपरिहारस्येति क्रमस्य सर्वथाऽप्यनुपपत्तिरित्यतश्चतुर्थपादव्युत्पाद्यश्रुतियुक्तिविरोधपरिहारस्यातिप्रबलत्वेऽपि मुमुक्षुणाऽन्ते जिज्ञास्याध्यात्मविषयत्वेन प्राथम्यानौचित्यतास्य चतुर्थे निवेशः । इतरविरोधत्रयपरिहारस्य चानतिप्रयत्नसाध्यतया तदपेक्षया दौर्बल्यात्सोपानारोहणन्यायेन तत्पूर्वं निवेशः । इतरविरोधत्रयपरिहारस्य च महामल्लभङ्गन्यायेन पौर्वापर्यमिति भावेन युक्तिविरोधस्य समयादिविरोधापेक्षया प्राबल्यमुपपादयति सर्वेषामपीति । विरोधपदमविरोधस्योपलक्षणम् । ततश्च विरोधाविरोधादेर्युक्त्यधीनत्वेन युक्तेः प्राबल्यमित्यर्थः । तस्याः प्राधान्ये हेत्वन्तरं चाह युक्तीति । उपलक्षणमेतत् । वेदोऽप्रमाणमाप्ताप्रणीतत्वादिति साक्षात्कृत्स्नवेदाप्रामाण्यसधकत्वात् । एकस्य समयिनः समयान्तर इव युक्तावनादराभावाच्चेत्यपि द्रष्टव्यम् । समयविरोधस्य श्रुतिविरोधापेक्षया प्राबल्यं तु समूलत्वाद्युक्तयुक्तिसिद्धम् । वक्ष्यति चैतद् ग्रन्थकारः स्वयमेव ‘इतरविरोधत्रयेऽनादिकालानुवृत्तसमयविरोधस्यैव प्रबलत्वादि’त्यादिना । अनादिकालानुवृत्तत्वादेर्वेदतुल्यत्वेन तदपेक्षया प्राबल्यानापादकत्वेनोक्तयुक्तावेव तद्ग्रन्थस्य तात्पर्यात् । अत एवोत्तरग्रन्थतात्पर्यमित्थमेव तात्पर्यचन्द्रिकायां वर्णितमित्यवधेयम् ॥ कथमिति । न तावत्स्वतोऽभावस्य चातुर्विध्यं तस्यैकत्वात् । नापि तत्प्रतियोगिविरोदभेदोपाधिकम् । तत्प्रतियोगिनो विरोधस्याप्येकत्वेन चातुर्विध्याभावादिति भावः ।
विरोधस्य स्वतश्चातुर्विध्याभावेऽप्यौपाधिकं तदस्त्येवेति युक्तमविरोधचातुर्विध्योपधानत्वमित्याशयेन सिद्धान्तयति उच्यत इति । ननु तथाऽपि तस्येति नाविरोधपरामर्शो युक्तस्तथा सति तस्य युक्तिसम्बन्धित्वाभावेन यौक्त इत्यस्यानुपपत्तिप्रसङ्गादित्यतो न साक्षाद्युक्तिसम्बन्धित्वमेव यौक्तत्वं किन्तु युक्तिसम्बन्धित्वमात्रम् । तच्च साक्षात्परम्परासम्बन्धसाधारणम् । तथा चाविरोधस्य साक्षाद्युक्त्यसम्बन्धेऽपि विरोधद्वारा अस्त्येव सम्बन्ध इति नोक्तानुपपत्तिरिति भावेनाह अत एवेति । तत्परामृष्टमेव दर्शयति अभावस्यापीति । युक्त्यादिचातुर्विध्येन विरोधस्य, तच्चातुर्विध्येन चाभावचातुर्विध्यस्याश्रयणे उपधानद्वयकल्पनं परम्परया युक्तिसम्बन्धकल्पनं च भवतीति चतुर्विधस्य यौक्त इति पदद्वयस्याप्यस्वारस्यमिति पूर्वत्रापरितोषात्पक्षान्तरमारच्यति अथवेति । नन्वस्मिन्नपि पक्षे प्रकृतपरामर्शकतच्छब्दानुपपत्तिरित्यतो गौरवेण स्वप्राधान्येन प्रकृतत्वस्य परामृष्टव्यतायामप्रयोजनकत्वाद्यथा कथञ्चित्प्रकृततायाश्च विरोधेऽपि सत्त्वान्न तच्छब्देन परामर्शानुपपत्तिरिति भावेनोक्तम् अविरोधपदसन्निधापित इति । अत्रापि युक्त्यादिचातुर्विध्येन तन्निरूपितविरोधचातुर्विध्यकल्पनादुपधानकल्पनमवर्जनीयमेवेति चतुर्विधस्येत्यस्यास्वारस्यमित्यपरितोषादाह यद्वेति ॥ अविरोधो हीति । विरोधितावच्छेदकप्रकारकविरोधिज्ञानसाध्यत्वादविरोधिज्ञानस्येति भावः ॥ विरोधश्चेति । ससम्बन्धिकपदार्थज्ञाने सम्बन्धितावच्छेदकप्रकारकसम्बन्धिज्ञानस्य कारणत्वात्सम्बन्धिभूतयुक्त्यादिनिरूपणं विना विरोधो न निरूपयितुं शक्यत इत्यर्थः ॥ ततश्चेति । ततश्चास्मिन्पक्षे उपधानस्यैवाभावाच्चतुर्विधस्येत्यस्यातिस्वारस्यमिति भावः । यद्यप्यत्रापि तच्छब्दस्य यथाकथञ्चिदविरोधपदोपस्थापितविरोधयुक्त्यादिपरामर्शकत्वाङ्गीकारात्तच्छब्दस्यास्वारस्यमविशिष्टं तथाऽपि ‘तत्रापि च स्मृतेः’ । ‘तस्याश्चतुःस्वरूपत्वादि’ति विरोधिपरोत्तरग्रन्थस्वारस्यानुरोधेनैवं व्याख्यातमिति द्रष्टव्यम् ।
**परिमल **
निर्धारणे षष्ठीति । गुणक्रियाजातिभिर् यतः पृथक्करणं तत्र ‘यतश्च निर्धारणं’ इति सूत्रेण षष्ठीत्यर्थः । अस्मिन्पक्षे यौक्त इत्यस्य घटनामाह चतुर्विधस्येति । युक्तेः प्राधान्ये हेत्वन्तर युक्तिपुरस्कारेणेति ॥ ननु कथमिति । अभावस्य स्वतो विधाऽसम्भवादिति भावः ।
यादुपत्यं
निर्धारण इति । गुणक्रियाजातिभिर्यतः पृथक्करणं तत्र ‘यतश्च निर्धारणमि’त्यनेन षष्ठीत्यर्थः ॥ सर्वेषामपि विरोधानामिति । विरोधिनां युक्त्यादीनां प्राबल्याभावे तद्विरोधशङ्काया एवासम्भवेन तत्प्राबल्योपपादिका युक्तयः सर्वविरोधानामुपजीव्या इत्यर्थः । युक्तेः प्राधान्ये हेत्वन्तरमाह युक्तिपुरस्कारेणेति । एवं च महामल्लभङ्गन्यायेन युक्तिविरोधपरिहारस्य प्राथम्यमिति मन्तव्यम् । समयादिविरोधपरिहाराणां क्रमेणानन्तर्ये प्रयोजनं तु टीकाकार एवाग्रे प्रदर्शयिष्यति । ननु कथमभावस्येति । प्रतियोगिनो विरोधस्यैकत्वादिति भावः । यौक्त इत्यत्र परम्परासम्बन्धेन व्याख्यानं न स्वरसमत आह अथवेति । विरोधे चतुर्विधत्वमुक्तपक्षद्वये न स्वाभाविकं किन्तूपहितमेवेत्यरुच्या ‘तस्याश्चतुःस्वरूपत्वादि’त्यग्रे विरोधिनामेव चातुर्विध्यस्य स्पष्टमुक्तत्वेन च पक्षान्तरमाह यद्वेति । अत्र चतुर्विधत्वस्य स्वरसत्वेऽपि ‘यौक्त’ इत्येतन्न स्वरसमतः पूर्वव्याख्यानमिति मन्तव्यम् ।
श्रीनिवासतीर्थीया
निर्धारण इति । अविरोधस्य मध्य इत्यर्थ एकार्थ इति । तथा च चातुर्विध्यं यद्यप्यनुपपन्नमित्यर्थः । सः विरोधाभावः ॥ तत्प्रतिपादनेनेति । चतुर्विरोधाभावप्रतिपादनेनेत्यर्थः । प्राथम्ये हेत्वन्तरमाह युक्तीति । उपपन्नमित्युक्तमेव दर्शयति अभावस्यापीति । आदावित्यस्यावृत्त्यव्याख्यानं करोति आदावित्यादिना । आदावित्यनूद्य प्रबल इति व्याख्यानम् । यथाऽस्मिन्ग्रामेऽयमेव सर्वापेक्षयाऽऽदावित्युक्तेऽतीवप्रबल इति लभ्यते तद्वत् ॥ प्राबल्योपपादकम् उक्तप्रकारेणेति । सर्वेषामपि विरोधानामित्याद्युक्तप्रकारेणेत्यर्थः । अपवादे भवन्नपीत्युत्तरग्रन्थस्वारस्यात् ।
वाक्यार्थरत्नमाला
अविरोधसम्बन्धीति । तस्येत्यतच्छब्दार्थः । अविरोध उक्तोऽस्तीति तस्येति षष्ट्याप्यविरोधस्येत्येव पर्यवसन्नमिति भावेनाविरोधसम्बन्धीति प्रयुक्तम् । अतिरिक्तत्वेति । चतुर्विधाविरोधसम्बन्धिनो यौक्ताविरोधस्य चतुर्विधादविरोधादतिरिक्तत्वे पाञ्चविध्यमविरोधस्य प्राप्तमिति उत्तरमूलोक्तरीत्या चतुर्विधस्येत्यनुवादमुखेनोक्ततच्चातुर्विध्यभङ्ग इत्यर्थः । यद्यप्युक्तानुवादेनाविरोधचातुर्विध्यस्येव तत्सम्बन्धियौक्तविरोधस्य पञ्चमस्य षष्टीबलप्राप्तस्यांङ्गीकारेऽपि न चातुर्विध्यभङ्गः । चतुर्विधसम्बन्धिनोऽन्यस्य पञ्चमत्वेऽपि सम्बन्धनिरूपकाविरोधानां चातुर्विध्ये बाधकाभावात् । एवं चोक्तरीत्या पाञ्चविध्यप्राप्तिनिराकरणाय निर्धारणषष्ट्याश्रयणं न कर्त्तव्यमित्याभाति । तथापि वस्तुगत्या चतुर्विधत्वमेवाविरोधस्य । यौक्तो विरोधोऽपि तदन्तर्गत एव नत्वतिरिक्त इति सिद्धान्तानुसारेणैव वाक्यस्य व्याख्येयता पञ्चमाविरोधाङ्गीकारेण कथंचिद्वाक्यार्थोपपत्तिस्वीकारायोग इत्यत्र तात्पर्यं न दोष इति ज्ञेयम् । विहितैवेयमिति । तत्सूत्रस्य षष्ठीसप्तमीचेत्युभयविधायकत्वेऽपि प्रकृताभिप्रायेण षष्टीमात्रग्रहणम् । नृणां नृषुवा द्विजः श्रेष्ट इत्यादाविवेति शेषः । विरोधाभावस्य मध्य इत्युत्तरमूलोक्तेः । आदिशब्दसूचितमिति । अथवेति मूले यौक्तो विरोध आदावुक्तप्रकारेण प्रबल इति वक्ष्यमाणं मनसि कृत्वैतदुक्तम् । अलौकिकार्थेति । नातिप्रसङ्ग इति । पित्रादिवाक्ये अतिप्रसङ्गो नेत्यर्थः । चन्द्रिकानुसारेणाक्षिप्य समाधत्ते नन्वत्र महामल्लेशेत्यादिना । उपयुक्तं तत्र तत्र किञ्चिद्य्वाख्येयमस्ति । विरोधेभेदोपाधिकमिति । विरोधे यो भेद इति बुध्या विवेकेन सम्बन्धः । चातुर्विध्योपधानत्वमिति । चातुर्विध्यं प्रति निमित्तत्वमित्यर्थः । युक्तयादिचातुर्विध्येन विरोधचातुर्विध्यस्य तेन चाभावचातुर्विध्यस्येति पाठः स्वरसः । विरोधस्येति पाठेऽपि अभावस्येति पाठः । तत्रापि चातुर्विध्याश्रयण इति स्वरसम् । चातुर्विध्यस्येति पाठेऽपि व्यधिकरणषष्ट्याश्रयणे स्वारस्यमिति । मूले आदावित्यनूद्योक्तप्रकारेण प्रबल इति व्याख्यानम् ।