०२ विरोधाभावः द्वितीयाध्यायार्थः

अविरोधोऽत्र साध्यते

विरोधाभावः द्वितीयाध्यायार्थः

अविरोधोऽत्र साध्यते

सुधा

एवं प्रथमाध्यायार्थमभिधाय तत्सङ्गतत्वेन द्वितीयाध्यायार्थमाह अविरोध इति ।

अनुव्याख्यानम्

…… ……. अविरोधोऽत्र साध्यते ॥

अत्रोक्तेऽर्थेऽविरोधो विरोधाभावोऽत्र व्याचिख्यासिततया बुद्धिसन्निहिते द्वितीये(ऽध्याये) साध्यते । अनेनास्याध्यायस्यातीताध्यायेन कार्यकारणभावलक्षणसङ्गतिः सूचिता भवति । सकलशास्त्रस्य समन्वयेन जगञ्जन्मादिकारणत्वे समस्तगुणपूर्णत्वेऽदोषविधुरत्वे च परस्य ब्रह्मणोऽभिहित एव(हि) तत्र विरोधः स्फुरति । नान्यथा निराश्रयत्वात् । विरोधस्फूर्तावेव तदभावसाधनस्यावसरो नेतरथा । अप्राप्तप्रतिषेधायोगात् । अतोऽतीताध्यायार्थस्य कारणत्वमेतदध्यायार्थस्य कार्यत्वं निश्चीयते । अथवा श्रुतिसमन्वयेनोपपादितोऽप्यर्थो न तावच्छ्रोतॄणां दृढनिरूढो भवति, यावदत्र प्रतीते विरोधाभावो न साध्यते । विरोधेन श्रुतीनामेवाप्रामाण्यशङ्कनात् । तथा चानुपपादितकल्प एवापद्यते । विरोधाभावसाधने तु भवत्येव दृढनिरूढः । यथोक्तम् । ‘विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः’ इति । अतो विपरीतकार्यकारणभावलक्षणा अनयोस्सङ्गतिः।

ननूक्तार्थे विरोधस्तत्र तत्रैव परिहृतः । किमत्र परि(तत्किमपरमव)शिष्यते यदर्थमध्यायान्तरारम्भः । सत्यम् । प्रतिवक्ष्यत्यत्राचार्यः ।

वाक्यार्थचन्द्रिका

नन्वत्र द्वितीयेऽविरोधः साध्यत इति द्वितीयाध्यायार्थमात्रोक्तेः कथमस्य भाष्यस्य पूर्वाध्यायसङ्गतत्वेनोत्तराध्यायार्थाभिधायकत्वमित्यतो ऽत्रेत्येतदावृत्त्याश्रयणात्तल्लाभ इत्याशयेन तथा योजयति अत्रोक्तेऽर्थ इति । नञोऽभावाद्यनेकार्थत्वात्तावदर्थतायाश्च प्रकृतेऽयोगादत्राभिमतमर्थविशेषं दर्शयति अविरोधो विरोधाभाव इति । अत्र च नञ्विशिष्टेन विरोधपदेनाभावविस्य लक्षणया उत्तरपदार्थप्राधान्यप्राप्तेर्युक्तमस्य तत्पुरुषत्वम् । न चाक्षपरिसूपप्रतीत्यादावुत्तरपदार्थप्राधान्येऽपि तत्पुरुषादर्शनादतिमालोऽतिसर्व इत्यादौ चासत्युत्तरपदार्थप्राधान्ये तद्दर्शनान् न तस्योत्तरपदार्थप्राधान्यनियम इति लक्षणाश्रयणमनर्थकमिति वाच्यम् । तत्पुरुषे उत्तरपदार्थप्राधान्यस्यौत्सर्गिकतया क्कचिद्बाधकेनापवादेऽप्यन्यत्र तस्याविकलतया लक्षणाश्रयणस्यावश्यकत्वात् । अस्तु वाऽन्यत्र तत्पुरुषो यथातथा । प्रकृतस्य नञ्तत्पुरुषत्वादुत्तरपदार्थप्राधान्यमावश्यकम् । नञ्समासस्योत्तरपदार्थप्राधान्यस्य भाष्यादिसिद्धत्वात् । तथा हि । न तावन्न नञ्समाससोऽन्यपदार्थप्रधान इत्याश्रयितुं सूक्तम् । तथा सत्यब्राह्मणको देश इत्यादौ कप्प्रत्ययानुपपत्तेः । समासान्तरप्राप्तौ तदपवादकत्वेन नञ्समासस्यैव विधानेन तत्रापि न विद्यते ब्राह्मणो ब्राह्मण्यं यस्मिन्नित्यन्यपदार्थप्रधानकतत्पुरुषस्यैव प्रसङ्गेन बहुव्रीह्यप्रसङ्गेन ‘शेषाद्विभाषा’ सति बहुव्रीहौ विहितस्य कस्यानवकाशात् । किञ्चैवमस इत्यत्र तच्छब्दार्थस्य गौणत्वप्रसङ्गेन मुख्यत्यदादिविषयत्वं ‘त्यदादीनामः, तदोः सः सावनन्त्ययोरि’त्यादि त्यदादिकार्यम्, असर्वस्मा इत्यत्र सर्वशब्दार्थस्य गौणत्वेन तन्मुख्यार्थविषयकसर्वनामसंज्ञाऽप्राप्त्या स्मायादेशश्च न स्यात् । अत एव न पूर्वपदार्थप्रधानोऽयं नञ्समासः । न चोत्तरपदार्थप्रधानकत्वे काचिदियं कुसृष्टिः प्रसरतीत्युत्तरपदार्थप्रधानकत्वसिद्धिः । तत्र च लिङ्गम्‘एतत्तदोःसुलोपो’ इत्यत्रानञ्समासग्रहणम् । अन्यथैतत्तदोरर्थद्वारेण सम्बन्धिन सोर्लोपो विधीयमानः ‘अनेषो ददात्यसो ददाति’इत्यत्र कथं प्राप्नुयात् । ततश्चोत्तरपदार्थप्रधानत्वान्नञ्समासस्य तत्सिद्धये युक्तं लक्षणाश्रयणम् ।

नन्वेवमपि पूर्वपदार्थप्राधान्यादव्ययीभावस्यापि प्राप्तेरविरोधमिति स्यादिति चेदत्र वदन्ति । न पूर्वपदार्थप्राधान्येनाव्ययीभावस्यात्र प्रसक्तिः । तथा सति पापाभावोऽपापमिति परकीये तत्पुरुषोदाहरणेऽपि पूर्वपदार्थस्याभावस्यैव प्राधान्येन तत्राप्यव्ययीभावप्रसङ्गात् । यदि च, यदाऽभावसामान्ये नञ् वर्तते । तदाऽर्थाभावोऽपापमित्यव्ययीभावेऽप्यभावविविवक्षायां तत्पुरुष एव तस्य नञर्थत्वाभावेन पूर्वपदार्थप्राधान्याभावादिति मन्यसे, तदाऽत्रापि तुल्यम् । प्रकृतेऽप्यभावसामान्यविवक्षायामव्ययीभावप्रसङ्गेऽपि तद्विविवक्षायामपूर्वपदार्थप्रधानत्वादेव नाव्ययीभावप्रसङ्ग इति । उक्तं चाग्रहणमिति ग्रहणाभावमात्रविवक्षायामव्ययीभावोदाहरणम् । अभावविविवक्षायां तु तत्पुरुषस्येति । तच्चिन्त्यम् । तथा सति पापाभावोऽपापमिति तत्पुरुषोदाहरणेऽप्यभावत्वेनैवाभावभानेनाव्ययीभावस्यैव प्राप्तेः । यदप्यभावविस्य नञर्थत्वं नास्तीति तदप्यसत् । निर्विस्य सामान्यस्याभावात् । विरूपेण वाच्यत्वं नास्तीत्यभिप्राये चाविघ्नमित्यादिख्ययीभावो दत्तजलाञ्जलिः स्यादिति ।

अत्र ब्रूमः । अर्थाभावेऽव्ययीभावेन सह नञ्समासस्य वैकल्पिकत्वात् । अविरोधपदेऽभावपक्षेऽविरोधमिति प्रसङ्गेऽपि तत्पुरुषपक्षेऽविरोध इति पुल्लिङ्गं श्लिष्टमेव । वैकल्पिकत्वं च ‘रक्षोहागमलध्वसन्देहाः प्रयोजनम्’ सति ‘अद्रुतायामसंहितम्’ इति च भाष्यवार्तिकप्रयोगादवसीयते । अत एव चानुपलब्धिरविवादोऽविघ्नमित्यादि सिध्यतीति सङ्क्षेपः । नन्वस्याध्यायस्य का पूर्वेण सङ्गतिर्यत् सूचकत्वम् ‘अत्र’इत्यस्य स्यादित्यतः ृङ्गिग्राहिकतया तां दर्शयति अनेनेति । कथमनयोः कार्यकारण भाव इत्यत आह सकलेति ॥ अत इति । द्वितीयाध्यायनिरसनीयविरोधशङ्काविषयभूतसमन्वयोपस्थापकतया पूर्वो द्वितीयस्य हेतुरिति यतो अत इत्यर्थः । तथा च समन्वयाक्षेपसमाधानार्थत्वादस्य तदनन्तरता युक्तेति भावः । अत्रेतिपदस्यावृतिं विनापि ‘उक्त’पदस्वारस्येनैव सङ्गतिलाभेन तदावृत्त्याश्रयणेनोक्तसङ्गतिसमर्पणेऽरूचिं मनसि निधाय पक्षान्तरमारचयति अथवेति । अत्र न्यायसूत्रसम्मतिमाह यथोक्तमिति । अत्र पक्षप्रतिपक्षशब्दाभ्यां तत्साधनोपालम्भौ लक्ष्येते, विमर्शशब्देन च साधनोपालम्भविषयौ सम्भवासम्भवौ, द्विवचनेन मेलनम् । तथा च सम्भवासम्भवविषयीभूताभ्यां स्वपक्षसाधनोपालम्भाभ्यां परपक्षसाधनोपालम्भाभ्यां स्वपरपक्षसाधनोपालम्भसम्भवासम्भवाभ्यामिति यावत् । मिलिताभ्यां ताभ्यामर्थावधारणं निर्णय इति तर्कनिर्णयविषयलक्षणमेतदिति ज्ञेयम् ॥ विपरीतेति । अतीताध्यायार्थस्य कार्यत्वमेतदध्यायार्थस्य कारणत्वमिति विपरीतेत्यर्थः । न चैवं द्वयोः परस्परापेक्षत्वादन्योन्याश्रयः । आपाततो जातस्य प्रथमाध्यायार्थज्ञानस्य द्वितीयाध्यायार्थकारणत्वेऽपि न तस्य द्वितीयाध्यायार्थकार्यत्वम् । यस्य चेदिमित्थमेवेत्यवधारणात्मकज्ञानस्य कार्यत्वं न तस्य तत्कारणत्वमिति तदनवकाशात् ॥ तत्र तत्रैवेति । तेषु तेष्वधिकरणेष्वित्यर्थः । विकारशब्दान्नेति चेन्न प्राचुर्यादित्यादिनेति शेषः ॥ प्रतिवक्ष्यतीति । ‘विरोधः सर्ववैशिष्ट्ये यो द्वितीये निरस्यते । नारायणस्य त्वध्याये तदन्ये तत्र तत्रगाः’ इत्यादिना । अन्ये विरोधाः परिहरणीया भवन्ति । द्वितीयसूत्रसिद्धसर्ववैशिष्ट्यविषयाः शास्त्रसमन्वयविषयाश्च । तत्र द्वितीया विकारशब्दादित्यादिना परिहृताः, न तु सर्ववैशिष्ट्यविषया इति तत्परिहारार्थमध्यायारम्भ इति वक्ष्यतीत्यर्थः ।

**परिमल **

‘अत्रे’त्यनुवादेनार्थद्वयोक्तिर् उक्तेऽर्थे द्वितीयेऽध्याये इति च । प्रथमाध्यायेन प्रकृतत्वादस्तूक्तेऽर्थे इत्येतदर्थकत्वं ‘अत्रे’त्यस्य । द्वितीयेऽध्याये इत्येतदर्थकत्वं कथम् । तस्याप्रकृतत्वादित्यत आह व्याचिख्यासिततयेति ॥ अनेनेति । द्वितीयपादेन । सन्न्यायरत्नावल्युक्तां तावदादौ व्यनक्ति सकलेति । तां, उपलक्षणं मत्त्वा ‘विरोधहीनस्य स्यात्समन्वयता यत’ इति तार्तीयानुव्याख्योक्तां चाह अथवेति । यथोक्तमिति । तार्किकैः ॥ विमृश्येति । सन्देहमुत्पाद्येत्यर्थः । विचार्येति वा । स्वपक्षसाधनपरपक्षनिरासाभ्यां विमृश्य क्रियमाणमिति शेषः । परार्थनिर्णयलक्षणमिदम् । तेन स्वपक्षसाधनादिना विना जायमाने करस्थितामलकनिर्णये नाव्याप्तिरिति ध्येयम् ॥ तत्र तथैवेति । विकारशब्दान्नेति चेन्न प्राचुर्यात्’ ‘उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधादि’त्यादिनेति भावः ॥ प्रतिवक्ष्यतीति । ‘विरोधस्सर्ववैशिष्ट्ये यो द्वितीये निरस्यते । नारायणस्य त्वध्याये तदन्ये तत्र तत्रगाः’ इत्यादिना ‘श्रुतेस्तु शब्दमूलत्वादि’त्यधिकरणान्ते प्रतिवक्ष्यतीत्यर्थः ।

यादुपत्यम्

अविरोधो विरोधाभाव इति । नन्वविरोध इति कः समासः । न तावदव्ययीभावः । अविरोधमिति प्रयोगप्रसङ्गात् । नापि तत्पुरुषः । पूर्वपदार्थप्राधान्यासंभवात् । तत्पुरुषस्योत्तरपदार्थ प्रधानत्वात् । समासान्तरं त्वसामर्थ्यादिना प्रतिहतम् । अतः कथमेतदिति चेदुच्यते । तत्पुरुष एवायम् । न चैवं पूर्वपदार्थप्राधान्यासंभवः । अतिमालोऽतिसर्व इत्यादौ व्यभिचारेण तत्पुरुषे उत्तरपदार्थप्राधान्यनियमाभावात् । न च ‘एतत्तदोरि’ति सूत्रे अनञ्समासवचनबलान्नञ्तत्पुरुषे उत्तरपदार्थप्राधान्यं निरतमेवेति वाच्यम् । एतद्वचनस्योपसर्जनत्वेऽपि नञ्समासे सर्वनामगणकार्यं भवतीत्यर्थज्ञापकतयाऽपि सावकाशत्वात् । अत एव सूत्रकारो ‘न बहुव्रीहावि’ति बहुव्रीहावेव सर्वनामकार्याभावमाह नोपसर्जनत्वमात्रे । तथा च भाष्यकारीयस्य, गौणत्वमात्रे तत्प्रतिषेधस्य, प्रायिकत्वकल्पनमेव । अन्यथा अब्राह्मणःअसुरोःअनुपलब्धिर् इत्यादौ नञर्थतया प्रमाणप्रसिद्धानामन्यत्वविरोधाभावानां नञ्समभिव्याहृतोत्तरपदलक्ष्यत्वं वा, आरोपमात्रं नञर्थो विषयत्वं तु संसर्गो ऽन्यत्वादिकं त्वार्थिकमेवेति वा, अप्रामाणिकं बहुकल्पनीयं स्यात् । ततो वरं क्कचिदुपसर्जनत्वेऽपि सर्वनामकार्यं भवतीति कल्पनमतो नञ्तत्पुरुषे उत्तरपदार्थप्राधान्याभावे न किञ्चिद्बाधकमित्याशयः । अत एवाग्रे एतदेवाभिप्रेत्य वक्ष्यति विरोधश्च समासे गुणभूत इति ॥

विमृश्येति । अत्र विमर्शशब्देन सन्देहो विवक्षितः । पक्षप्रतिपक्षशब्दौ स्वपक्षसाधनपरपक्षोपालम्भपरौ । तथा च ‘सन्देहपूर्वं स्वपक्षसाधनपरपक्षोपालम्भाभ्यां जायमानार्थावधारणं निर्णय’ इति न्यायसूत्रार्थ ईक्षत्यधिकरणे प्रदर्शितोऽनुसन्धेयः ॥ अतो विपरीतेति । पूर्वमापाततो जातं प्रथमाध्यायार्थविषयं ज्ञानं धर्मिज्ञानतयैतदध्यायार्थज्ञानकारणभित्यमिहितम् । इदानीं तस्मिञ्ज्ञाने परीक्षया प्रामाण्यनिश्चयानन्तरं यद् इत्थमेव इत्यवधारणात्मकं तद्विषयं ज्ञानान्तरं जायते तदेतदध्यायार्थ ज्ञानकार्यमित्युच्यते । अतः कारणत्वेनोक्तस्य कथं कार्यत्वेनोक्तिरन्योन्याश्रयप्रसङ्गदिति शङ्काऽनवकाश इति ध्येयम् ॥ तत्र तत्रेवेति । विकारशब्दान्नेति चेन्नेत्यादिभिस्तत्र तत्राधिकरणे परिहृत इत्यर्थः ॥ प्रतिवक्ष्यत्यत्रेति । ‘विरोधः सर्ववैशिष्ट्ये यो द्वितीये निरस्यते’ इत्याद्यनुव्याख्याने परब्रह्मणो नारायणस्य सर्वस्माच्चेतनादचेतनाच्च वैशिष्ट्ये वैलक्षण्ये परमोत्कृष्टत्वेऽत्यन्तव्यावृत्तत्वे च यो युक्त्यादिविरोधः स एवात्र द्वितीये निरस्यते । तदन्ये ये विरोधाः शास्त्रसमन्वयविषयास्ते विकारशब्दादित्यादिना तत्र तत्रैवाधिकरणे परिहृता इति प्रतिवक्ष्यतीत्यर्थः ।

श्रीनिवासतीर्थीया

अविरोध इत्यत्र नञः पर्युदासार्थकत्वप्रतीत्या विरोधभिन्नं किञ्चित्साध्यत इत्यसङ्गतिः स्यादित्यतः प्रसज्यप्रतिषेधार्थतया व्याचष्टे विरोधाभाव सति ॥ विमृश्येति । विमर्शशब्देन सन्देहो गृह्यते । ततश्च विमृश्य सन्देहं सम्पाद्येत्यर्थः । अत्र पक्षप्रतिपक्षशब्दौ स्वपक्षसाधनपरपक्षोपालम्भपरौ । तथा च सन्देहपूर्वकं स्वपक्षसाधनपरपक्षोपालम्भाभ्यां जायमानार्थावधारणं निर्णय इत्यर्थः ।

वाक्यार्थरत्नमाला

नञोऽभावाद्यनेकेति । तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट्प्रकीर्तिता इति भेदोक्तेः सादृश्यादिषडर्थत्वादित्यर्थः । यद्वा स्वपरसंमत्याऽभावान्यत्वविरोधरूपार्थत्रयवत्वादित्यर्थः । अत्र पूर्वपदभूतनयोऽर्थस्य प्राधान्यस्वीकृतौ तत्प्रधानकाव्ययीभावसमासप्राप्त्याऽविरोधमिति नपुंसकप्राप्तेः पुल्लिङ्गायोगप्रसङ्ग इत्याशङ्कां निरसितुं नात्रोत्तरीयभूतविरोधपदस्य विरोधार्थत्वमभ्युपगम्यते । येन विरोधाप्राधान्यपूर्वपदार्थप्राधान्ययोः प्राप्त्याऽव्ययीभावप्राप्तिशङ्का स्यात् । अपि तर्हि विरोधपदं विरोधाभावलक्षणमङ्गीक्रियते । ततश्च तत्पदार्थतया विरोधाभावस्य प्राप्ते विरोधपदस्यैव प्राधान्याद्युज्यते तत्पुरुषः । नचान्यत्रादृष्टं विरोधपदस्य तदभावलक्षकत्वं कथमत्र स्वीक्रियत इति वाच्यम् । केवलस्य तस्य तदभावलक्षकत्वादर्शनेपि नञ्विशिष्टस्य तस्य तल्लक्षकत्वोपपत्तेः । अत एव नञ्सूत्रीयभाष्यादौ केवलो ब्राह्मणशब्दः प्रयुज्यमानः प्रसिद्धिवशान्मुख्य एव ब्राह्मणार्थे प्रत्ययमादधाति नञ्प्रयोगे तु निवृत्तपदार्थकता ब्राह्मणशब्दस्य प्रतीयते । निवृत्तः पदार्थो मुख्यं ब्राह्मण्यं यस्मिन् क्षत्रियादौ तदर्थकतेति यावत् ।

यद्वा निवृत्तः पदार्थो यस्य स तथोक्तः । ब्राह्मणसदृश्यभिधायिता ब्राह्मणशब्दस्येति यावत् । यथा प्रतिष्टत इत्यत्र तिष्टतिरेव यद्यपि गतिवचनस्तथापि तस्मिन् केवले प्रयुज्यमाने प्रस्थानं गम्यत इति द्योतकत्वेन प्रशब्दोऽपेक्ष्यते तथेह नञ् इत्यादि ग्रन्थेन नञ्समभिव्याहारेणार्थान्तरपरत्वं ब्राह्मणशब्दस्य वर्णितम् । इयांस्तुविशेषः । तत्र मुख्यलक्षणादिसाधारण्येन प्रतीतिमात्रमुक्तम् । टीकाकृतातु लक्षणैवोक्ता । अवश्यं चैतदेव । प्रातिपदिकधातुनिपतानामनेकार्थत्वेप्यतिप्रसङ्गापत्या यस्य कस्यचित्प्रातिपदिकस्य यत्र कुत्राप्यर्थे मुख्यवृत्या श्रयणायोगेनाभिधानप्रयोगादिकं मूलीकृत्यैवानेकार्थत्वस्याश्रयणीयतयाऽभिधानाद्यभावे लक्षणाया एवाश्रयणीयत्वात् । एतेन नञ्विशिष्टस्योत्तरपदस्यार्थान्तरलक्षकत्वं खण्डयन् रमाकारोऽपि निरस्तः । उपसर्गद्योतकत्वाङ्गीकारसंरक्षणायैव कथंचिद्वैय्याकरणैर्लक्षणामङ्गीकृत्यैवारोपितत्वस्य नञा द्योत्यत्तामङ्गीकृत्यारोपितो ब्राह्मणो ब्राह्मणपदार्थ इत्यादिकं प्रकल्प्यते । पापाभाव इत्याद्यप्येवमेवोपपादनीयमित्याशयेनाह । अत्र नञ्विशिष्टेनेत्यादिना । अभावविस्य विरोधाभावस्य । उत्तरपदार्थेति । विरोधाभावोहि प्रतिपाद्यमानत्वात्प्रधानं विरोधपदं च तदर्थकमत उत्तरपदार्थप्राधान्यमित्यर्थः । ततश्चाभावार्थकस्यापि नञो विरोधपदेन तदभावलक्षणायामुपयुक्तत्वेन विरोधाभाव एव पर्यवसानान्न वैय्यर्थ्यम् । उभयपदार्थप्राधान्यं च । ततोत्रोत्तरपदार्थप्राधान्यात्तत्पुरुष सम्भवादिविरोध इति पुल्लिङ्गं च युक्तमिति भावः । उत्तरपदार्थप्राधान्यभावेपि तत्पुरुषः किं न स्यादित्याशंक्य निराकरोति । न चेत्यादिना लक्षणाश्रयणमित्यन्तेन । अक्षपरिसूपप्रतीत्यादाविति पाठः । सूपप्रति अक्षपरीत्यादावित्येव हरदत्ताद्युक्तेः । तत्राक्षपरीत्येतदक्षशलाकासंख्याः परिणेत्येतत्सूत्रीयोदाहरणम् । तत्सूत्रेण हि द्यूतव्यवहारे पराजयेऽभिधेये अक्षशब्दस्य परिणाऽव्ययीभावसमासविधानेनाक्षेणेदं तथा न वृत्तं यथापूर्वं जये इत्यक्षपरीति सिध्यति । सूपप्रतीत्येत्तत्तु सुप्प्रति नामार्थ इति सूर्यायोदाहरणम् । तेन हि सुबन्तस्य सूपशब्दस्याप्यपर्यायमात्राशब्दार्थे वर्त्तमानेन प्रतिना अव्ययीभावसमासविधानेन अस्त्यत्राल्पः सूपः सूपप्रतीति निष्पद्यते । तदुभयत्रोत्तरपदार्थभूताव्ययार्थस्यैव प्राधान्यमिति भावः । न च तर्हि पूर्वपदार्थप्राधान्येऽव्ययीभाव इत्यस्य भङ्गप्रसङ्ग इति वाच्यम् । पूर्वपदग्रहणस्याव्ययोपलक्षणतयाऽव्ययार्थप्राधान्येऽव्ययीभाव इति लाभेनाक्षपरीत्यादावप्यव्ययार्थप्राधान्यसद्भावेनादोषात् । अव्ययीभाव इति सूत्रे तथैव हरदत्तोक्तेः । न च तथापि पारेगङ्गं देशः द्वियमुनमित्यादावनव्ययार्थप्राधान्यादव्ययीभावसंज्ञा न स्यादिति वाच्यम् । अस्य प्रायोवादत्वेन लक्षणत्वाभावात् । अव्ययीभावसंज्ञातु तदधिकारविहितसमासत्वेनैवेत्याद्याकरे स्पष्टम् ।

अतिमाल इति । मालामन्तिक्रान्तोऽतिमाल इत्यादिरूपेणात्यादयः क्रान्ताद्यर्थे द्वितीययेति तत्पुरुषसमास इति भावः । बाधकेनेति । तत्तदधिकार विहितसूत्रेण तत्तत्समाससज्ञाभ्युपगमेन तादृशसूत्रविधेयत्वमेव बाधकमिति भावः । भाष्यादीति । नञ् इत्येतत्सूत्रीयेति शेषः । आदिपदेन मञ्जर्यादिसङ्ग्रहः । कप्प्रत्ययानुपपत्तेरिति । पकारान्तप्रत्ययकीर्त्तनं शेषाद्विभाषेत्यनेन कपोविधानात् । निरनुबन्धपाठे तु अनुबन्धस्याविवक्षयोक्तिरित्यदोषः । समासान्तरेति । येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधक इति न्यायेन प्राप्त एव बहुव्रीहौ नञ्समासारम्भेण नञ्समासेन बहुव्रीहेरपवादादित्यर्थः । कस्येति । कप इत्यर्थः । उपलक्षणं चैतत् । अवर्षा हेमन्त इत्यत्र अवर्षापदे परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरित्यनेन परवल्लिङ्गतया हेमन्तपदलिङ्गस्याप्रसङ्गेऽपि हेमन्तपदस्य यद् वचनं तत्समासः स्यादेवेत्यपि भाष्याद्युक्तं ज्ञेयम् । भाष्यकारेण हेमन्तस्य ल्लिङ्गवचनं च तत्समासस्यापि प्राप्नोतीति लिङ्गप्राप्तिरप्युक्ता । सा परवल्लिङ्गमिति सूत्रे परवल्लिङ्गं द्वन्द्वैकदेशिनोरिति न्यासभेदेन द्वन्द्वैकदेशिसमासयोरेव परवल्लिङ्गताश्रयणीया । राजपुरुषमानयेत्यादौ उत्तरपदार्थप्राधान्यादेव लिङ्गसिद्धेरित्याशयेनेत्यादिकं मञ्जर्यां कुसुमविकासे च स्पष्टम् । किञ्चैवमिति । नञ्समान्यपदार्थसनत्व इत्यर्थः । अप इत्यत्रेति । असो ददाति । असः शिव इत्याद्युत्तरपदगतास इत्यत्रेत्यर्थः । एतत्तदोरिति सुलोपविधायकेऽनञ्समास इत्येतद्-व्यावर्त्यमिदमेवोदाहरणम् । तच्छब्दार्थस्येति । उत्तरपदार्थान्वयपदार्थेतिप्रक्रमादर्थस्यैवात्र गौणत्व कीर्त्तनेऽपि तस्य तदर्थकतच्छब्दगौणत्वे पर्यवसानम् । प्रधानार्थसंसर्गेणोपसर्जनस्य स्वार्थवाचकत्वाभाव इति शेष्यादावपि उपसर्जनपदस्यार्थोप्युपसर्जन इति लाभेवान्यपदार्थप्रधानत्वप्रतिद्वन्द्वितयाऽर्थस्यैव प्राप्तेः । उत्तरपदार्थप्रतियोगितयाऽन्यपदार्थवत् । अत एवात्रोत्तरपदार्थेत्याद्युत्क्वोत्तरपदपूर्वपदप्रयोगो रमायां सस्कारेण कृत इति ज्ञेयम् । गोणत्वप्रसङ्गेनेति । वृत्तौ प्रधानार्थसंसर्गेणोपसर्जनस्य स्वार्थवाचकत्वाभावादप्रधानत्वरूपं गौणत्वमिति भावः । मुख्यत्यदादिविषयत्वमिति । त्यदादिशब्देन मुख्यतया ग्राह्यत्वमित्यर्थः । उत्तरपदार्थस्य गौणत्वेन मुख्यत्यदादि विषयत्वाभावेपि किं प्राप्तमित्यत आह त्यदादीनाम इत्यादि । विषयत्वमित्यस्यापि न स्यादिति वक्ष्यमाणेनान्वयः । त्यदादिकार्यमित्यस्यापि तेनैव सम्बन्धः । अर्थग्रहणपक्षे तद्वारा शब्दस्य विषयत्वे पर्यवसानम् । पर्यवसन्नशब्दग्रहे तु यथाश्रुतमेव ।

असर्वस्मा इत्यत्रेति । अत्रापि सर्वशब्दार्थस्येत्युक्तिरर्थक्रमात् । तथापि तद्वारा शब्दे पर्यवस्यति । तन्मुख्यार्थविषयकेत्यपि सर्वशब्दमुख्यार्थकसर्वशब्दविषयकेति योज्यम् । सर्वेषां नामानि सर्वनामानीति महासज्ञाकरणादशेषार्थाभिधानाभावे गौणत्वं शब्दस्य । उपसर्जनस्थले च प्रधानार्थसंसर्गेणास्यार्थवाचकत्वाभावे तदर्थोपि गोण एवेति ज्ञेयम् । गौणत्वेनेति । प्रधानार्थसंसर्गेणोपसर्जनार्थस्य गौणत्वमिति भावः । तन्मुख्यार्थेति । सर्वशब्दमुख्यार्थेत्यर्थः । सर्वनामसंज्ञाया अप्राप्त्येति नञः प्रश्लेषेणयोज्यम् । सर्वादीनि सर्वनामानीति सूत्रे हि संज्ञोपसर्जनप्रतिषेध इति वार्त्तिकार्थं व्याकुर्वद्भिर्नचेद्गौणोऽथवाभिधेत्युक्त्वा सर्वशब्दस्य गौणत्वे स्वार्थवाचकत्वाभावेनात्रत्यसर्वशब्दार्थस्योपसर्जनत्वे तद्वाचकसर्वशब्दस्य सर्वनामसंज्ञा नास्तीति फलितोऽर्थः । संज्ञाभावेऽपि किमित्य आह । स्मायादेशश्चेति । सर्वनामसंज्ञाकार्येति शेषः । अतिसर्वायेत्युपसर्जनस्थले सर्वोनाम कश्चित्तस्मै सर्वायेत्यादिसंज्ञास्थले च तदभावदर्शनादिति भावः । अत एवेति । अस इत्यादौ त्यदादिकार्यायोगप्रसङ्गादेवेत्यर्थः। तत्पुरुषसमासस्योत्तरपदार्थप्रधानत्वं न केवलयुक्तिसिद्धमपि तर्हि सूत्रकारीयज्ञापकसिद्धं चेत्याह । अत्र चेति । कथमस्य लिङ्गत्वमित्यत आह । अन्यथेति । अर्थद्वारेणेति । एतत्तदोरिति त्यदाद्यत्वं तु न प्राप्नोति सौत्रत्वाद् इत्यादिकं शेष्यादौ । अयमाशयः । एतत्तदोर्यः सुस्तस्य लोप इत्युक्ते एतत्तदोर्विहित इति विधानरूपसम्बन्धाङ्गीकारे परमस ददाति परमैष ददातीत्यादौ सोरेतत्तद्य्भामधानाभावेन तत्र सोर्लोपो नस्यात् । तत्र परमतत्परमैतच्छब्दाभ्यामेव सोर्विधानात् । अत एव एतत्तदोः सम्बन्धी यः सुरिति सम्बन्धे षष्ठी । अर्थद्वारकश्च सम्बन्धः । एतत्तदर्थग सङ्ख्याद्यभिधायी यः सुस्तस्येति । तथाचैत्ततदर्थगत संख्याद्यभिधायित्वेन तदुभयार्थसम्बन्धिसुलोपविधानं सिध्यतीति । विधीयमानोऽनेषो ददातीति पाठः । मञ्जर्यादौ सत्वाद्युक्तत्वाच्च । अन्यादृशो लेखकागतः । अनेष इत्यादि । अयमर्थः । अर्थद्वारेणैतत्तछब्दसम्बन्धी सुरेव लोपार्ह इति स्थितेऽनेष इत्यादौ तदैव लोपः प्राप्नुयात् । यद्येतततच्छब्दार्थगतसंख्याद्याभिधायी सुःस्यात् । तदभिधायित्वं च तदाभवेत् । यदि तदुभयार्थ प्राधान्यं स्यात् । तच्च तत्पुरुषस्योत्तरपदार्थप्राधान्यमपेक्षत इति तदभावेऽनेष इत्यादावेतत्तच्छब्दार्थप्राधान्यभावात्तद्गत संख्याद्यभिधायकत्वं सोर्नास्तीति तल्लोपप्रसङ्गस्यैवाभाव इति । तत्पुरुषोत्तरपदार्थप्राधान्येत्वे तत्तच्छब्दार्थगतसङ्ख्याद्यभिधायिनः सोर्लोपप्रसङ्गे तद्वारणायानञ्समासग्रहाणमर्थवत् । अन्यथा तद्ग्रहणवैयर्थ्यमिति निष्कृष्टाशयः । अत्र नञ्विशिष्टोत्तरपदस्याभावे लक्षणेति पक्षे कर्मनिर्णयैतरेयभाष्योक्तवाचकत्वविरोध इति चेन्न । एतद्ग्रन्थस्य व्याकरणरित्या प्रवर्त्तनेनादोषात् । अधिकमदृश्यत्वनयेऽस्माभिरुपपादितमस्ति तत एव प्रतिपत्तव्यम् ।

उभयपदार्थप्राधान्याङ्गीकारेऽपि पूर्वपदार्थप्राधान्यस्यानपायादव्ययीभावापत्याऽविरोधमिति प्रसङ्गः स्यादेवेति शङ्कते । नन्वेवमपीति । उक्तं चाग्रहणमितीति । रमानुसारेणाह । तच्चिन्त्यमिति । तत्पुरुषस्येवाव्ययीभावस्यापि प्राप्तावपि नात्र नपुंसकप्रसङ्गः । नञ्समासस्याव्ययीभावेन वैकल्पिकत्वेन दोषाभावादित्यभिप्रेत्य सिद्धान्तकौमुद्युक्तरीत्या समाधत्ते । अत्र ब्रूम इति । रक्षोहेति भाष्यवाक्यं प्रथमभागो अद्रुतायामित्येतद्वार्त्तिकं तु तस्मान्नुङचीति सूत्रे । असंदेहोहि सन्देहाभावः । अतोऽसन्देहपदे नञ्समासाश्रयणात्तत्पदस्य पुल्लिङ्गता । असंहितमित्यत्र संहिताया अभाव इत्यर्थाभावेऽव्ययीभावाश्रयणान्नपुंसकत्वमिति विवेकः । अत एवेत्युदाहृतेषु आद्यं द्वितीयं च नञ्समासोदाहरणम् । तदादुदाहरणसाधुत्वार्थमेवोक्तविकल्पाश्रयणम् । अविघ्नमित्येतत्तु तृतीयमव्ययीभावोदाहरणमिति विवेकः । अविघ्नमित्यत्र हि विघ्नानामभावोऽविघ्नमिति विग्रहः । तत्र परत्वात्तत्पुरुष एव स्यात् । निर्मक्षिकमित्यादावव्ययीभावस्य सावकाशत्वात् । ततो नपुंसकत्वार्थविकल्प आवश्यकः । यद्यपि चाविद्यमाना विघ्नायस्मिन्नित्यादिबहुव्रीहिणाऽविघ्नकर्मेत्यादिप्रयोगाः सिध्यन्तीतथाप्युत्तरे कर्मण्यविघ्नमस्त्वित्यादिप्रयोगा अव्ययीभावं विना स्वरसतो न सिध्यन्तीति भावः । शृङ्गिडाहिकयेति यथाशृङ्गे कर्णेवा गांगृहीत्वा अयं गौरिति दर्शयति तथेत्यर्थः । अत्रेति पदस्येति । यः समन्वय उक्तो ऽत्र किलाविरोधोऽत्र द्वितीये साध्यते । न तु निराश्रित इत्येवं पूर्वमाद्याध्यायार्थस्योपजीव्यत्वसमर्पणार्थमत्रेत्यस्यावृत्तिराश्रिता । अधुना विपरीतकार्यकारणभावाश्रयणान्नोक्तरीत्या । वृत्यपेक्षा, किं तु समन्वय उक्तो ऽत्राविरोधः साध्यत इत्येतावन्मात्रेणोक्तार्थद्रढीकरणार्थमिति सिध्यत्येव । यद्यपि पूर्वमप्यावृत्यभावेऽपि कथंचिद्योजनासम्भवति । तथापि पूर्वाध्याये कारणत्वस्यष्टीकरणार्थं तदावृत्तिराश्रिता । न चैवं प्रकृत्तेस्ति । तदनावृत्तावपि कारणत्वस्य सम्बोधत्वादिति भावः । तद्यावदिति मूले तावत्पर्यन्तं यावत्पर्यन्तमित्यर्थः । तथाचाध्याये यावत्पर्यन्तं प्रतीतविरोधाभावो न साध्यते । तावत्पयन्तं श्रोतृणां दृढनिदृढो न भवतीति योजना । योग्यतयोक्तार्थप्रतीतेति लाभादिति ज्ञेयम् । न्यायसूत्रेति । गौतमसूत्रेत्यर्थः । पक्षप्रतिपक्षाभ्यां विमृश्येत्यनेन पक्षप्रतिपक्षहेतुकोऽन्यस्य विमर्श इति प्रतीयते । तथा च पक्षप्रतिपक्षयोर्विमर्शो लक्ष्यते । तस्यैव च वक्ष्यमाणसम्भवासम्भवपर्यवसन्नस्यार्थावधारणहेतुतया तल्लाभस्यैवावश्यकतेत्यतस्तदर्थलाभो यथा स्यात्तथा योजयति । अत्र पक्षप्रतिपक्षेति । सम्भवासम्भवावित्यत्रापि लक्ष्येते इत्यस्यानुवृत्या सम्बन्धः । स्वपरपक्षसाधनेति । अत्र स्वपरशब्दयोः पक्षशब्देन कर्मधारये स्वपक्षपरपक्षेति लाभे साधनेत्यादेरुभयत्र सम्बन्धात्स्वपक्षसाधनेत्यादि परपक्षसाधनेत्यादि च फलति । आद्ये स्वपक्षसाधनसम्भवः । तदुपालंभासंभवश्च योग्यतया ज्ञेयौ । द्वितीये परपक्षसाधनासम्भवः । तदुपालंभसम्भवश्चार्थौ योग्यताबलाज् ज्ञेयौ । उक्तप्रकारचतुष्टयस्यैव निर्णयहेतुत्वात् । चतुर्भिश्च प्रकारैः सिद्धान्तप्रतिष्टा भवतीत्युपाधिखण्डनटीकायामुक्तत्वादिति ज्ञेयम् ।

अथवा स्थापना साधनं, प्रतिषेध उपालम्भस्तौ च साधनोपलम्भौ पक्षप्रतिपक्षाश्रयौ व्यतिषिक्तावनुबन्धेन प्रवर्त्तमानौ पक्षप्रतिपक्षावित्युच्येते इति वात्स्यायनभाष्यमत्र पक्षप्रतिपक्षयोः कर्मतया न निर्णयसाधनमित्यनुपपत्या साधनोपालभौ वादसूत्रगतौ लक्षणीयाविति तावेव तावद्भाष्यकृद्विभजत इत्यादि वार्तिकं तद्-व्याख्यानरूपवाचस्पतिग्रन्थं च मनसि निधाय पक्षप्रतिपक्षशब्दौ व्याचष्टे । अत्र पक्षेति । एकस्य सम्भवो द्वितीयस्यासम्भवः । तावेतौ सम्भवासम्भवौ सह विमर्शं निवर्त्तयत इत्यादि भाष्यादिकमभिप्रेत्याह । विमर्शशब्देनेत्यादिना । अत्र वादिनः साधनस्य सम्भवः । प्रतिवादिन उपालंभस्यासम्भवः । एवं प्रतिवादिनः साधनस्य सम्भवः । वादिन उपलंभस्यासम्भव इति वाचस्पतिग्रन्थानुसारेण सम्भवासम्भवयोः स्वपक्षसाधनोपालम्भाभ्यां परपक्षसाधनोपालम्भाभ्यां च क्रमेणैकान्वयः । अस्य स्वपक्षनिर्णयपरपक्षनिर्णययोर्मेलनेन तदुभयलक्षणतया स्वपक्षसाधन सम्भवतदुपालम्भासम्भवयोः स्वपक्षनिर्णयहेतुत्वेन ग्रहणवत्परपक्षसाधनसम्भवे तदुपालभासम्भवयोरेव परपक्षनिर्णयहेतुतया ग्राह्यत्वात् । एवं मेलनाभिप्रायेणैव स्वपरपक्षेत्यादिना टीकायां तात्पर्यमुक्तम् । न तु परपक्षसाधनोपालम्भयोः सम्भवासम्भवावपि स्वपक्षनिर्णयहेतू इत्याशयेनेति न प्रकृतासङ्गतिः । यत्र स्वपक्षनिर्णयोवा परपक्षनिर्णय एव वा भवति तत्र तदुभयसाधनयोः प्रत्येकमेव विद्यमानयोः सूत्रे मेलनेन लक्षणकथनात्तदनुसारेणेहाप्यनुवादादिति ज्ञेयम् ।

इक्षत्यधिकरणीयटीकास्थैतल्लक्षणविचारोऽप्येवमभिप्रायेणेति ज्ञेयम् । न चायं निर्णये नियम इत्यादि भाष्यं तर्कविषये नियमो नान्यत्रेत्यादि वार्त्तिकादिकं च मनसि निधायोक्तं तर्कविषयेति । न निर्णयमात्रलक्षणमिदमपि तु निर्णयविस्येति भावः । अत्र प्रत्यक्षादिसाधारणनिर्णयस्य त्वर्थावधारण मात्रं लक्षणमित्यप्युपलक्षणया ज्ञेयम् । ईक्षत्यधिकरणटीकानुसारात् प्रत्यक्षेण जायमाननिर्णये आगमजन्ये ज्योतिष्टोमादेः सर्वसाधनतानिर्णये निश्चयवद्वादिप्रतिवादिभ्यां क्रियमाणायां वादादिकथायां च विमर्शाभावाद्विमर्शघटितलक्षणस्य तत्राव्याप्ति प्रसङ्गादर्थावधारणमात्रं निर्णय इति साधारणं लक्षणं कार्यमिति ऋत्यतदाशयः ।