उक्तः समन्वयः साक्षात्
द्वितीयाध्यायस्य प्रथमः पादः
श्रीमद् आनन्दतीर्थभगवत्पादाचार्यविरचित
ब्रह्मसूत्रानुव्याख्यानसहिता
श्री जयतीर्थविरचिता
षट्टिप्पणीसमेता
न्यायसुधा
द्वितीयाध्यायस्य प्रथमः पादः
स्मृत्यधिकरणम्
प्रथमाध्यायार्थानुवादः
**उक्तः समन्वयः साक्षात् **
सुधा
यत्पदं वेदसंवेद्यं कटाक्षेणापि वीक्षितुम् ।
न क्षमन्ते विमतयस्तमुपासे श्रियः पतिम् ॥ १ ॥
एकवाक्यता(दि)सिद्धये प्रथमाध्यायार्थसङ्गतत्वेन द्वितीयाध्यायार्थं विवक्षुरबुद्धिस्थेन सङ्गतेर्दर्शयितुमशक्यत्वात् प्रथमाध्यायार्थं तावदनुवदति उक्त इति
अनुव्याख्यानम्
उक्तः समन्वयः साक्षात् ……..
(सकल)जगज्जन्मादिनिमित्तकारणे सार्वज्ञ्यसर्वैश्वर्याद्यनन्तगुणपरिपूर्णेऽविद्याद्यवद्यगन्धविधुरे परे ब्रह्मणि नारायणे स्वरवर्णपदावाक्यमहावाक्यरूपस्य समस्तस्य शास्त्रस्य, साक्षात्परममुख्यया वृत्त्या न तु लक्षणया, तथा महातात्पर्येण न तु पारार्थ्येन समन्वयः प्रथमेऽध्याये समर्थित इत्यर्थः ।
यद्यपि समन्वयशब्देनैव साक्षादित्यर्थो लभ्यते । तथाऽपि परकीयसंशब्दव्याख्याननिरसनेऽवहितैर्भवितव्यमिति सूचनाय तद्-व्याख्यानमिदं कृतमित्यदोषः । अथवा समन्वयशब्देन मुख्यया वृत्त्याऽन्वयः प्रतीयते । परममुख्यया तु वृत्त्या अन्वयं दर्शयितुं साक्षादित्युक्तम् । यद्वा न प्रधानपरमाण्वादिनिरसनेन उपादानत्वादिप्रतिपादनेन च परम्परया किन्तु साक्षादेवेत्यनेनाचष्टे ।
श्रीपाण्डुरङ्गीकेशवाचार्यविरचिता
वाक्यार्थचन्द्रिका
सर्वाभीष्टप्रदं रामं सर्वानिष्टनिवारकम् ।
जानकीजानिमनिशं वन्दे मद्गुरुवन्दितम् ॥ १ ॥
विद्वन्मत्तेभकुम्भाद्रिविपाटनविचक्षणः ।
विद्याधीशनृसिंहो मे गुरुर्नित्यं भवेन्मुदे ॥ २ ॥
यद्विद्याधीशगुरोः शुश्रूषाऽन्या न रोचते तस्मात् ।
अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा ॥ ३ ॥
अविरोधलक्षणं व्याचिख्यासुर्ग्रन्थकारः पूर्वाध्यायार्थानुवादपूर्वकं तत्सङ्गतत्वेन द्वितीयाध्यायार्थमेक वाक्यतादिसिद्धये सूचयन्नेव प्रारिप्सितस्यानन्तरायपरिसमाप्तेः प्रचयस्य च हेतुतयाऽविगीतशिष्टाचारपरम्परादिनाऽवगतमवश्यकरणीयं श्रीपत्युपासनारूपमेतदध्यायप्रतिपाद्यगुणविशिष्टतया तत्स्तुतिरूपं च मङ्गलमनुष्ठाय शिष्यशिक्षायै अध्यायादावुपनिबध्नाति यत्पदमिति । अत्र वेदसंवेद्यमित्याद्याध्यायार्थसङ्कीर्तनम् । विमतयो यत्पदं नाभिवीक्षितुं क्षमन्त इत्येतदध्यायार्थकथनम् । अत्र च विरुद्धा मतिर्भवति येभ्यो युक्त्यादिभ्यस्ते युक्त्यादयो वा, युक्त्यादिभिर्विरुद्धमतयो येषामिति वादिनो वा, विरुद्धाश्च ता मतयश्चेति युक्त्यादिजन्यचतुर्विधविरोधिप्रतीतयो वा, विमतिशब्देन विवक्षितः । ते च वेदसंवेद्यं यत्पदं नाभिवीक्षितुं क्षमन्त इत्यस्य वेदसमन्वयसिद्धमर्थं नान्यथयितुं शक्नुवन्तीत्यर्थः । अन्यथा पूर्वाध्यायार्थेन सङ्गत्यसूचनप्रसङ्गाद्वेदसंवेद्यमित्यस्याऽऽनर्थक्यं स्यादिति द्रष्टव्यम् ।
मूले ‘उक्तः समन्वयसाक्षादि’ति पूर्वाध्यार्थानुवादवैयर्थ्यशङ्कां तत्प्रयोजनप्रदर्शनेन परिहरति एकवाक्यतादीति । स्वस्मिन्निति शेषः । आदिपदेन पूर्वोत्तरभेदसंग्रहः । अध्यायार्थानुक्तौ हि कुतोऽस्य वाक्यसमुदायस्यैकवाक्यत्वं कुतश्च पूर्वोत्तराभ्यां भेद इति शङ्क्येत । तदुक्तौ ह्यविरोधलक्षणैकार्थप्रतिपादकत्वादेकवाक्यत्वस्य तस्य पूर्वोत्तरव्यावृत्तत्वात्पूर्वोत्तरभेदस्य च सिद्धिरिति भावः । नन्वेवमविरोधः साध्यत इत्यध्यायार्थोक्त्यैव स्वस्मिन्नेकवाक्यत्वस्य पूर्वोत्तराभ्यां भेदस्य च समर्थितत्वाद्भाष्ये ‘अत्र’इत्यस्यानर्थक्यमित्यतोऽध्यायार्थोकत्या एकवाक्यत्वादिसिद्धावप्यसङ्गतार्थप्रतिपादने प्रेक्षावदप्रवृत्त्या तत्प्रवृत्त्यर्थतया सङ्गतेरप्यवश्यं दर्शनीयत्वात् तत्सूचकतया ‘अत्र’इत्यस्यार्थवत्त्वोपपत्तेर्नानर्थक्यमित्याशयेन प्रथमाध्यायार्थसङ्गतत्वेनेत्युक्तम् ॥ दर्शयितुमशक्यत्वादिति । सङ्गतेः ससम्बन्धिकपदार्थतया सम्बन्धि निरूपणाधीन निरूपणत्वादिति भावः । ‘अविरोधोऽत्र साध्यते’इति द्वितीयाध्यायार्थस्याप्युत्तरत्र कथनात्तावदित्युक्तम् । प्रकृत्यधिकरणे परोक्तोपादानत्वनिरासायाह निमित्तकारण इति । उपादानत्वे ब्रह्मणो निर्विकारत्वानुपपत्तिर् विवर्ताधिष्ठानत्वे तु श्रुतौ ‘यतो वा इमानि भूतानि जायन्ते’ इति निर्देशः सूत्रे जन्मादीति निर्देशश्चासङ्गतः स्यात् । न हि शुक्तिकातो रजतं जायत इति व्यपदेशोऽस्तीति भावः । द्युभ्वादीति तृतीयपादे परोक्तस्य निर्गुणे समन्वयस्य निरासं सूचयितुमाह ॥ सार्वज्ञेत्यादि ॥ पूर्वोध्याय एव प्रथमद्वितीयपादयोः परोक्तस्य मायाशबले ब्रह्मणि समन्वयस्य निरासं सूचयितुमुक्तम् अविद्यादीति । नारायणस्यापरब्रह्मत्वमिति परमतनिरासायोक्तं परे ब्रह्मणीति । प्रधानस्याशाब्दत्वं चतुर्थपादार्थ इति परमतमश्रद्धेयमिति भावेनाह स्वरेत्यादि । यद्वा समन्वयादित्यत्र कार्त्स्न्यंर्यं संशब्दार्थ इत्याशयेनोक्तं स्वरेत्यादि ॥ न त्विति । परमत इवेति शेषः ॥ पारार्थ्येनेति । उपासनाविधित्वेनेत्यर्थः समन्वयसूत्रे तस्योक्तत्वेऽप्यानन्दमयोऽभ्यासादित्यादिनाऽध्यायेन तस्यानुक्तत्वादुक्तपदास्वारस्यमित्यत उक्तशब्दः समर्थनरूपतद्वि इत्याह समर्थित इति ॥ समन्वयशब्देनैवेति । सौत्रसमन्वयशब्दान्तर्गतसंशब्देनेत्यर्थः ॥
साक्षादित्यर्थ इति । साक्षादित्यस्य योऽर्थः परममुख्यादिरुक्तः स इत्यर्थः ॥ लभ्यत इति । समिति ह्युपसर्गेण परममुख्यार्थ उच्यत इति वक्ष्यमाणप्रकारेणेति शेषः । ततश्च साक्षात्पदानर्थक्यमिति भावः । व्याख्यानव्याख्येयभावाश्रयणान्न वैयर्थ्यमिति भावेन, किं व्याख्यानेनापीत्यतः परकीयसंशब्दव्याख्याननिरासस्तत्प्रयोजनमित्याशयेनाह तथाऽपीति ॥ परकीयेति । समीचीनोऽन्वयः समन्वयः समीचीनता त्वन्वयस्य तात्पर्यवत्ता, सा च लाक्षणिकेऽप्यर्थे ‘कथं च लक्षणावादी ब्रूयाद्ब्रह्मसमन्वयम्’ इतीक्षत्यधिकरणोक्तरीत्याऽनुसन्धेयः । व्याख्यानव्याख्येयभावाश्रयणमगतिका गतिरित्यपरितुष्यन्नाह अथवेति ॥ मुख्ययावृत्त्याऽन्वय इति । एतच्च कारणाभावेऽपि सङ्कोचाभ्युपगमेन प्रवृत्त’मुख्यार्थो भगवान्विष्णुरि’तिसमन्वयसूत्रीयानुव्याख्यानानुसारेणोक्तम् । अत एवास्वरसात्साक्षाच्छब्दस्वारस्यानुसारेण पक्षान्तरमाह यद्वेति ॥ परम्परयेति । कारणवाक्यानां प्रधानादिपरत्वनिरासेन ब्रह्मण उपादानत्वादिप्रतिपादनेन च ब्रह्मपरत्वं सिध्यतीत्येवं परम्परयेत्यर्थः । चतुर्थपादे परेण कारणवाक्यानां ब्रह्मणि परम्परया सान्वयसिद्धेरङ्गीकारात्तन्निरासाय साक्षादित्युक्तमिति भावः ।
श्री राघवेन्द्रतीर्थविरचितः
न्यायसुधापरिमलः
भवापदो विनश्यन्ति यत्पादस्मृतिमात्रतः ।
तं वन्दे कुमतध्वान्तभास्करं नृहरिं सदा ॥
करिष्यमाणैतदध्यायार्थप्रतिपादनमेवं विधभगवदुपासनरूपमिति भावेनाध्यायादौ मङ्गलमाचरति यत्पदमिति । यस्य स्वरूपम् । अथवा यत्पदं यस्य परमात्मनः पदं पादम् । कटाक्षेणापीत्यादेस्तद्विषयमल्पमपि ज्ञानं संपादयितुमशक्ता इत्यर्थः । विमतयो विरुद्धमतियुक्ताः ॥ एकवाक्यतासिद्धय इति । पादचतुष्टयात्मकेऽस्मिन्निति योज्यम् । एकवाक्यतादीति क्कचित्पाठः । तत्रादिपदेन पूर्वोत्तरभेदसिद्धये चेत्यपि ग्राह्यम् । द्वितीयाध्यायार्थं विवक्षुरित्यन्वयः । ‘अर्थैकत्वादेकं वाक्यमि’त्युक्तं जिज्ञासानयसुधायाम् । कथं विवक्षुरित्यतः प्रथमाध्यायार्थसंगतत्वेनेति । ‘ततो विष्णुरिच्छापूर्वकमश्रमः । करोति पितृवद्विश्वं पूर्णागुणात्मक’ इति पूर्वपादान्तोक्तं विभक्तिविपरिणामेन अनुषज्य योजयति जगञ्जन्मादीति । जन्माऽदिहेतुत्वेन लब्धं ब्रह्यपदेनोक्तमाह सार्वज्ञ्येत्यादि । अत एवाविद्याद्यवद्यगन्धविधुर इति ।
ननु सकलगुणपूर्णत्वस्य प्रथमाध्यायार्थत्वात्तदनुवादस्यैव कर्तव्यत्वेनाविद्यावद्यगन्धविधुर इत्यस्य द्वितीयाध्यायार्थत्वेन कथं तदनुवाद इति चेन्न । अर्थात्सिद्धस्यापि तदर्थत्वात् । प्रकृते च यस्मिन्यस्मिन्नधिकरणे यो यो गुण उच्यते तद्विरोधिदोषराहित्यार्थाल्लब्धत्वात्तदर्थत्वेनानुवादो युक्त एव । अत एव सार्वज्ञ्यसर्वैश्वर्याद्यनन्तगुणपरिपूर्ण इत्युक्त्या सार्वज्ञ्यादिविरोध्यविद्यादिदोषराहित्यमेवानूदितवानिति भावः । गुणपूर्णत्वं निर्दोषत्वं च सूत्रादिस्थब्रह्मपदलब्धमिति भावेनोक्तम् ब्रह्मणीति । तच्च ब्रह्म जन्मादिहेतुत्वलक्षणबलाच्चिदचिद्विलक्षणमेव न जीवादिरूपम् । येन ततः सार्वज्ञ्यादिगुणपूर्त्यादेरलाभः स्यादिति भावेनोक्तम् पर इति । साक्षादित्यनुवादः । परमेत्यादि व्याख्या ॥ पारार्थ्येनेति । धर्मादित्वेनेत्यर्थः । पौनरुकत्यमाशङ्क्य निराह यद्यपीति । समन्वयशब्दस्थसंशब्देनेत्यर्थः । इत्यर्थो लभ्यत इति । साक्षात्पदस्य यः परममुख्यत्वरूपोऽर्थ उक्तः स लभ्यत इत्यर्थः । तथैव समन्वयसूत्रादावुक्तेरिति भावः ॥ परकीयेति । अमुख्यवृत्तिरूपेत्यर्थः । तद्-व्याख्यानं संशब्दव्याख्यानम् ॥ उपादानत्वादीति । प्रकृतिश्चेत्यादिसूत्रैः (ब्रह्मणः) उपादानत्वप्रतिपादकवाक्यमुपादानपरत्वेन ब्रह्मणोऽप्युपादानत्वात्तत्परम् इति परंपरया समन्वयप्रतिपादनेन चेत्यर्थः ॥ परंपरयेति । प्रधानादिस्वरूपस्यैव निरासे ब्रह्मण उपादानत्वे च साधिते सति सदेव सोम्येत्यादेर्निरर्थकत्वायोगेनार्थादीश्वरार्थत्वं सेत्स्यतीत्येवं न भवति किन्तु प्रधानादिस्वरूपे सत्यपि क्कचिद्वाक्ये तस्य प्रतिपाद्यत्वेऽपि परममुख्यवृत्त्या साक्षादेवेत्यर्थः ।
श्री यदुपत्याचार्यविरचिता
सुधाविवृतिः
युक्तिदुःसमयवेदविरोधः शक्त उक्तगुणजातनिरासे ॥
यस्य नो भवति दोषविदूरं तं भजे श्रुतिसमन्वयगम्यम् ॥ १ ॥
व्यासमानम्य मध्वादीन् गुरूनपि यथामति ॥
व्याकरिष्ये सुधाऽस्पष्टद्वितीयाध्यायफक्किकाः ॥ २ ॥
असङ्गीर्णार्थान्तरतावचनेन च पूर्वोत्तराध्यायभेदसिद्धिरित्यवगन्तव्यम् । मायाशबलव्यावृत्तयेऽविद्याद्यवद्यगन्धविधुर इति । इदं चादृश्यत्वाद्यधिकरणेऽभिप्रेतस्य ‘‘निरनिष्टो निरवद्य’’ इत्यादिदोषाभावप्रतिपादकश्रुतिसमन्वयसिद्धस्यानुवादायोक्तमिति ज्ञातव्यं सर्वधर्मोपपत्तेश्चेत्यस्याध्यायान्तर्भावसुपपादयितुमनन्तगुणपरिपूर्ण इत्यादिविणमित्यप्याहुः । पारार्ध्येनेति । उपासनादिविधित्वेनेत्यर्थः ॥ समन्वयशब्देनेति । समन्वयशब्दान्तर्गतसंशब्देनेत्यर्थः ॥ साक्षादित्यर्थ इति । साक्षादित्यस्य योऽर्थ उक्तः स लभ्यत इत्यर्थः ॥ तद्-व्याख्यानमिति । संशब्दव्याख्यानमित्यर्थः ॥ प्रधानपरमाण्वादिनिरासेनेति । परेण चतुर्थपादे तथाऽभिहितत्वात्तन्निरासायेदं व्याख्यानमिति मन्तव्यम् ।
श्री श्रीनिवासतीर्थविरचितं
सुधाविवरणम्
एकवाक्यतादीति । स्वस्मिन्द्वितीयेऽध्याय इति शेषः । आदिपदेन पूर्वोत्तराभ्यामध्यायाभ्यां भेदसिद्धय इति ग्राह्यम् । अबुद्धिस्थे=प्रथमाध्यायेन । साक्षादित्यस्य व्याख्यानान्तरं तथेति । उक्त इत्यस्य व्याख्यानं समर्थित इति ॥ साक्षादित्यर्थ इति । परममुख्यया वृत्त्येत्ययमर्थ इत्यर्थः । ‘योऽसौ शब्दस्य मुख्यार्थस्तत्रैव स्यात्समन्वय’ इत्युक्तेरिति ध्येयम् ॥ व्याख्यानेति । लक्षणारूपेत्यर्थः । तद्-व्याख्यानं संशब्दव्याख्यानम् ॥ उपादानत्वादीति । परमाण्वादीनामिति शेषः ॥ परम्परयेति । परिशेषाद्भगवतो निमित्तत्वं प्रतिपादितं भवतीत्येवंरूपयेत्यर्थः ।
श्री पाण्डुरङ्गिनरसिंहाचार्यविरचिता
वाक्यार्थरत्नमाला
श्रीनृसिंहपदे नत्वा गुरुराजपदे अपि ॥
व्याख्यास्ये युक्तिपादीय
वाक्यार्थचन्द्रिकाम् ॥ १ ॥
अविरोधाध्यायं व्याचिख्यासुर्ग्रन्थकारो मङ्गलमाचरति ॥ सर्वाभीष्टेति ॥ कुम्भस्य कार इति प्रक्रियावाक्यमाश्रित्योपपदमतिङित्यनेन कुम्भकार इति समासवत्सर्वाभीष्टस्य प्रद इति ॥ क्रियावाक्यमाश्रित्योक्तसूत्रेण समासः । शिष्टं जन्मादिप्रदमित्याद्यपद्यगतप्रयोगोपपादनावसरेऽस्माभिरभिहितं तत्रैव प्रतिपत्तव्यम् । सर्वानिष्टस्य निवारकमिति षष्ट्याविग्रहाश्रयणेऽपि कर्त्तरिचेत्यादिना समासनिशेधो नायाति ॥ पद्या समासस्य निषेधाभावाद् इत्यादिकं तत्तच्छक्तिप्रबोधम् इत्येतत्सर्वगतत्वाधिकरणीयानुभाष्यप्रयोगोपपादनावसरोक्तरीत्या ज्ञेयः । रमयतीति राम इति यौगिकविशेष्यपदप्रयोगेणोक्त विणद्वयसमर्थनं कृतम् । जनकशब्दादपत्यार्थेऽणि णित्वादादिवृद्धौ निष्पन्नजानकशब्दाट्टिढ्ढाणाञित्यनेनाण् त्वात् ङीषि जानकीशब्दनिष्पत्तेर्जानकी जाया यस्येति जायान्तबहुव्रीहेर्जायाया निङिति सूत्रेण निङादेशे ङिच्चेति ङित्वादंत्याकारस्यैव निकारे सति लोपोव्योर्वलीति यलोपे जानकीशब्दस्य जनकापत्यपुत्रवाचिताया अपि सत्वेन भाषितपुंस्कत्वेऽपि शेष्युक्तरीत्या नकोपधाया इति कोपयत्वे पुंवद्भावनिषेध प्राप्त्या पुंवदित्यनेन पुंवद्रूपातिदेशाप्राप्तेस् तत एव स्त्रीप्रत्ययप्रयोगस्य चाप्रसङ्गाज्जानकीजानिमिति प्रयोगपपत्तिरिति ज्ञेयम् । मद्गुरवन्दितमिति श्रीविद्याधीशतीर्थवन्दितत्वोक्तया स्वस्य देवताप्रीतिर्गुरुप्रीतिद्वारिकैवेति दृढनिश्चय आविष्कृत इति मङ्गलम् ॥ गुरुप्रीतिप्रार्थनारूपं मङ्गलान्तरमाचरति ॥ विद्वदिति । वियूथ्या ये विद्वांसस् ते मत्तेभा इव तेषां कुम्भलक्षणपर्वतविपाटने विचक्षण इत्यर्थः । अत्र पर्वतविदारकत्वोक्तिसामर्थ्याद् विद्याधीशनृसिंहस्य बुद्धिलक्षणा नखरा वज्रकल्पाः सन्तीत्यप्युत्प्रेक्षणीयमिति सूचितम् । अत एव नांदीश्लोकावसरे सत्तर्कतीक्ष्णनखरैरित्युक्तम् । मे गुरुरिति मे मुद इति स्थलद्वयेऽपि सम्बन्धः । यद्विद्याधीशेति पद्यं प्रागेव व्याख्यातम् ।
यत्पदं वेदेति विणविशेषोपादानेन मङ्गलानुष्ठानं प्रयोजनोक्तया सङ्गमयति । अविरोधलक्षणमिति । लक्षणमध्यायः । सूचयन्नेवेति । एतद्ग्रन्थकृत्यं स्पष्टयिष्यति । रूपं चेत्यनन्तरं गुणप्रधानभावेनेति शेषः । अन्यत्र टीकाकृता तथोक्तत्वात् । तेन वाक्यभेददोषशङ्कानवकाशः । अधिकं तत्वनिर्णय टीकापञ्चिकाव्याख्याने अस्माभिरुक्तमस्ति । तत एव प्रतिपत्तव्यम् । अनुष्टायेत्यस्य कायमनोभ्यामाचरणं कृत्वेत्यर्थः । उपनिबध्नातीत्यस्य तन्मङ्गलोपनिबन्धाख्यं वाचिकं मङ्गलमाचरतीत्यर्थः । सूचयन्नेवेति प्रागुक्तसूचनप्रकारं दर्शयति । अत्र वेदेत्यादिना । येभ्यो युक्तयादिभ्य इति । अत्र च विरोधिनो युक्तयादय इति तस्य विरोधिन इत्यादेर्मूलेऽर्थरूपपुरस्कारेणोक्तेस्तदनुसारेण पुल्लिङ्गप्रयोगो युक्तः । याभ्यो युक्तयादिभ्यस्ता युक्तयाद्यावेति पाठस्तु स्वरस एव । तेचेति । विमति शब्देन विवक्षितास्त्रयोऽप्यर्था इत्यर्थः । वेदसंवेद्यमित्यस्य व्याख्यानं वेदसमन्वयसिद्धमिति । पदमित्यस्यार्थमिति । कटाक्षोणाभीति पाठानुसारेण टीकायामभीत्युक्तम् । टीकायामेव वाभिपदस्थानेऽपिपदं योज्यम् । तथैव पाठोऽप्यस्ति । उत्तरपादीयनव विरुध्यंतेऽन्वयं प्रतीति भाष्यसम्बन्धिमूलानुसारेणानान्यथयितुं शक्नुवतीत्यर्थ उक्तः । वेदसंवेद्यमित्यादेरुक्तरीत्याऽर्थाकरणे बाधकमाह । अन्यथेति । वेदवेद्यत्वमात्रपुरस्कारेण तदाक्षेपतत्परिहारयोरेतदध्याये प्रवृत्यभावादिति भावः । एकवाक्यताया आदिपदोक्तपूर्वोत्तराध्यायस्य भेदस्य च परस्परविरोधपरिहाराय पूर्वोत्तरपादभेदस्य स्वस्मिन्नेकवाक्यतायाश्चेति भिन्नवाक्यत्वादीति च लिङ्गपादस्थमूलं मनसि कृत्वा शेषं पूरयति । स्वस्मिन्नितीति । अनेन स्वस्मिन्नेकवाक्यताच आदिपदोक्तपूर्वोत्तरभेदश्च तदुभये द्वितीयाध्यायार्थं विवक्षरित्येतदेवोपपादयति । अध्यायार्थेति । एवं सबन्धप्रदर्शनेनैव अन्यन्थाख्यातिस्थमेकवाक्यत्वस्य सङ्गत्या आनयन मप्यज्ञानमूलमिति सूचितम् । एकवाक्यत्वादिसिद्धय इत्यस्य संगतत्वेनेत्यत्र योजनात् । आदिपदोक्तपूर्वोत्तराध्यायभेदसिद्धेऽपि सङ्गतिप्रयोजनत्वापत्तिश्च । द्वितीयाध्यायार्थवचनफलत्वेन तद्भेदसिद्धियोजनेप्यर्धजरतीयापत्तिः । असङ्कीर्णार्थान्तरवचनेनैव स्वस्मिन्नेकवाक्यताया अपि सिद्ध्याभयपरत्वेन योजनीयत्वाच्च । एकवाक्यताप्रयोजके सादिना भवदुक्तायाः सङ्गत्यालब्धाया एकवाक्यताया अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यादिति जैमिन्युक्ताया एकप्रयोजनकत्वरूपाया वादादिस्थले नैय्यायिकादिभिरुक्तायाः पूर्वाध्यायनिरूपितत्वेन पूर्वेणैकवाक्यतायाः पूर्वेण भेदस्यचेत्यर्थप्राप्तेश्च । लिङ्गपादीयोदाहृत स्वस्मिन्नेकेत्यादि मूलभवदीयतद्व्याख्यानाभ्यां विरोधश्च । नन्वस्याध्यायस्याविरोधलक्षणैकार्थत्वेनैकवाक्यत्वे सतीत्युत्तरमूलविरोधश्च । अधिकं वाक्यार्थविनोदे ज्ञेयम् । पूर्वोत्तरेत्यत्राध्यायेति स्पष्टत्वान्नोक्तम् । तस्य च पूर्वोत्तरेति । अविरोधलक्षणार्थप्रतिपादकत्वेत्यर्थः । एकपदान्तर्भावेऽपि वा स्वरूपकथनं तत्पदमिति बोध्यम् ।
सिद्धिरितीत्यनन्तरं नोक्तशङ्केति भाव इति पाठः । तथापाठाभावे तावान् शेषः पूरणीयः । अत्रेत्यस्यार्थवत्वेति । इदं चानुक्तोक्तार्थ इत्याद्युत्तरमूले स्पष्टम् । परोक्तेति । प्रकृत्यधिकरणे परोक्तं यदुपादानत्वं तन्निरासायेति योज्यम् । इति व्यपदेश इति । उपलक्षणं चैतत् । शुक्तिकातो रजतस्य जन्म भवतीति व्यपदेशाच्च नास्तीत्यपि ज्ञेयम् । प्रथमद्वितीयपादयोरिति । अध्यायान्तरसम्बन्धिनोरपि तयोः प्रतीतिं वारयितुमुक्तं पूर्वाध्याय एवेति । तत्स्थयोरेवेत्यर्थः । अपरेति । तन्मते सर्वधर्मरहितस्यैव परब्रह्माभ्युपगमादिति भावः । प्रधानस्येति । स्वरेत्याद्युक्तौ हि चतुर्थपादेऽपि समन्वेतव्यशब्दयुक्तवाक्यविचार एवास्ति । न तु प्रधानशब्दत्वप्रतिपादनपरः कोपि सूत्रभागोऽस्तीति लाभेन तन्मतनिराससिद्धेरिति मूलाशय इति भावः । अत्र पक्षे स्वरेत्याद्युक्तौ हीत्यादिरूपयत्नाश्रयणं भवतीत्यपरितोषात्पक्षान्तरमाह । यद्वेति । उपासनाविधीति । आत्मेत्येवोपासीतेत्युपासविधौ हि कार्यमेव प्रधानतया प्रतिपाद्यम् । तच्छेषत्वेनेत्यस्य तदुपासनानिरूपकब्रह्माज्ञाने उपासनाया निरूपणानुपपत्याति दुःसवानिरूपणार्थत्वेनेत्यर्थः । तस्येति । समन्वयस्येत्यर्थः । एवमुत्तरत्र । तद्विशेषेति । उक्तिविशेषेत्यर्थः । वक्ष्यमाणेति । उपासनापाद इति पूरणीयम् । एवंजातीयके भङ्गवत्पादैरेव प्रमाणलक्षणादिकमित्यादिरूपे एवकारार्थतयाऽन्ययोगव्यवच्छेदाद्यसम्भवशङ्कादिकं टीकाकारणामसङ्गतम् । ततश्च भवद्भिः प्रमाणलक्षणादिकं नाभिधेयमित्येवैवकारार्थत्वेन प्राप्तेरित्याद्याशयेनात्रत्यैवकारार्थमाह । ततश्चेति । एतच्च कारणभावेऽपीति । परमुख्यार्थत्वरूपमुख्यार्थे संकोचस्वीकारेण मुख्यार्थ इति यद्य्वाख्यानं तत्सङ्कोचे कारणाभावेऽपि प्रकृतमित्यर्थः । अत एवेति । कारणाभावेपि सङ्कोचाभ्युपगमे प्रसङ्गरूपास्वरसादेवेत्यर्थः । अनेनैव पूर्वत्र सङ्कोचाङ्गीकारानुपपत्तिरिति मुद्धर्त्तुमेवेह समन्वयः साक्षादित्यनेन संशब्दार्थः परममुख्यत्वमुक्तमिति ध्वनितं भवति । निरासेनेत्यस्य ब्रह्मपरत्वमित्युत्तरेणान्वयः ।