०९ गुर्वर्थदीपिका

ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ

अथ चतुर्थः पादः

ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ

ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ ॥ स्वाम्यमपि भवतीत्यत्र स्वाम्यं स्वस्वामिभावः । किञ्च प्रातिपदिकाद्धात्वर्थ इत्यस्य ‘‘धात्वर्थे गम्यमाने प्रातिपदिकात् णिच् स्यात्’ इति णिचिप्रत्यये कृते णकारस्य ‘चुटु’ इति लोपे इकारमात्रमुर्वरितं, तस्य चावरपदसम्बन्धे अवर इ इति स्थिते ‘‘अतो लोप’’ इति सूत्रेण णिचिपरतो ऽकारलोपे च कृते अवरि इति भवति । ततश्च सुब्धातुरूपत्वात्पचाद्यचिकृते ‘‘णेरनिटि’’ति सूत्रेण अनिडादावार्धधातुके णेर्लोपः स्यादिति इकारस्य च लोपे अच्प्रत्ययस्याकारसम्बन्धे सुबन्तत्वे अवरयतीत्यर्थे अवर इति शब्दनिष्पत्तिर्भवतीति । तिङन्तत्वे तु अवरि इत्यत्र स्थितेकारस्य ‘‘सार्वधातुकार्धधातुकयो’’रिति गुणे अयादेशे च कृते अवरयतीति भवति । अतो ऽवरयतीत्यस्य अवर इत्यस्य चैक्यार्थ्यमित्यर्थः । स्वधामोपविष्टे राज्ञि जय इत्यस्य जयः प्रतिभटशिरश्छेदादिरूपो राजभटस्थो जय इत्यर्थः । अत एव राजविनियोगं विना स्पर्धया उभाभ्यां राजभटाभ्यामेव कृते युद्धे भट एव जयीत्युच्यते न राजा । इदमवश्यं कुर्विति विनियोगरूप-स्वातन्त्र्याभावादिति भावः । अन्यथा वैपरीत्यस्याप्यापातादिति, निमित्तसाम्येऽपि लक्षणाङ्गीकारे दुःखसमवायवत्यपि जीवे दुःख्यादिशब्दानां लक्षणा स्यादित्यर्थः । व्यभिचार इति अज्ञातमुख्यार्थ-लाक्षणिकादिप्रयोगेषु व्यभिचार इत्यर्थः । प्रयोगप्राचुर्यस्येस्यत्र धनी गृही गोमान् अश्ववान् गजवानित्यादौ प्रयोगप्राचुर्यस्येत्यर्थः । किन्तु तदेकदेश इत्यत्र क्वाचित्कामुख्यप्रयोगे विद्यमानं सादृश्यादिनिमित्तं सामग्य्रेकदेशः, नतु पूर्णसामग्रीति । मुख्यप्रयोगे तु निमित्तमेव पूर्णसामग्रीत्यर्थः, यद्वा मुख्यप्रयोगे सर्वसादृश्यमपेक्षितं, गौण्यां च ईषत्सादृश्यमिति तदेकदेश इत्यर्थः । यथा जितं राज्ञेत्यादय इत्यत्र पालितं स्वराज्यं, नाशितं परराष्ट्रं, गृहीता परसेनेत्यादिकमादिशब्देन गृह्यते । प्रागुक्तमर्यादया च बहवः प्रयोगा ज्ञातव्याः । वैदिकसकलपदसमन्वये वेदस्थदुःखिबद्धादिपदानामपि भगवति समन्वेतव्यत्वादिति भावेनोक्तम् । जीवा एव तु दुःखिन इत्यादाविति । वैदिकप्रथमदृष्टान्तस्यापि दार्ष्टान्तिकमित्यत्र यथा नृषु बहुभुक्तवं दोष इति प्रथमदृष्टान्तस्य तथा राज्ञि बद्धमृतादिशब्दा अपि दोषा इति दार्ष्टान्तिक-मध्याहार्यमित्यर्थः ॥ १-४-१ ॥

ॐ ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॐ

अनेकार्थतास्वीकारस्येत्यत्र अनुशासनाभावे सतीत्युपस्कर्तव्यम् । अन्यथा गोशब्दस्याप्यनेकार्थता-भावप्रसङ्गात् । विभक्तिवैयर्थ्यमित्यत्र तृतीया सप्तम्यादिविभक्तीनां तिङन्तविभक्तीनां च वैयर्थ्यमित्यर्थः । सम्प्रसारणाभावस्तु छान्दस इत्यत्र यजतेः कप्रत्यये सति ‘‘वचिस्वपियजादीनाकिती’’ति प्राप्तसम्प्रसारण-रूपेकाराभावश् छान्दस इत्यर्थः । पूर्वपदस्य नकारागम इति पृषोदरादिगणे अनुशासनाभावेऽपि कस्यचिद्वर्णस्य यथोचितवर्णादेशेन यथास्थितप्रयोगस्यैव पृषोदरादिगणे समाहितत्वात्तस्य चाकृतिगणत्वात् पृषोदरादिरयमित्युक्तम् । एवं च भूतशब्दस्य भूशब्दादेशादिकं समाहितं वेदितव्यम् । कृन्मेजन्त इत्यव्ययत्वमित्यत्र कृदन्तः मान्त एजन्तश्चाव्ययसंज्ञस्स्यादिति सूत्रार्थः । तथा च हुम् इत्यस्य मान्तत्वेनाव्ययत्वमिति भावः । भावे प्रयोग इति वदता कथ्यत इत्यस्य कथनमित्यर्थ उक्तो भवति । कृतकान्न विशिष्यत इत्यस्य कृतकात् कादाचित्कादित्यर्थः । यो ब्रह्माणमित्यनेन ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदान् प्रहिणोत्यस्मा’ इति श्रुतिमुपादत्ते ॥ १-४-२ ॥

ॐ समाकर्षात् ॐ

यद्यपि न्यायविवरणे पूर्वपक्षनिराकरणमात्रं क्रियते तथापि निषेध्यतया पूर्वपक्षाणामपि दर्शित-त्वात्सर्वव्याख्यानं द्रष्टव्यमिति भावेनोक्तं न्यायविवरणादिति । ‘‘सर्वमानैर्विरोधश्चे’’त्यादिसार्धश्लोक-त्रयस्यायमर्थः । सर्वमानैर्विरोधः ‘आनुमानिकमप्येकेषा’मित्यधिकरणे परमात्मनो दुःखिबद्धावरादि-शब्दवाच्यत्वे ‘न तत्समश्चाभ्यधिकश्च दृश्यते’’ ‘‘निरनिष्टो निरवद्यः’’ ‘‘योऽविद्ययाऽन्धस्स तु नित्यबद्धो विद्यामयो यस्स तु नित्यमुक्तः’’ ‘‘शुभं पिबत्यसौ नित्यं नाशुभं स हरिः पिबेत् । पूर्णानन्दमयस्यास्य चेष्टा न ज्ञायते क्वचिदि’’त्यादि सर्वमानविरोधाख्ययुक्तिः पूर्वपक्षहेतुः । व्युत्पत्तेरप्यशक्यता ‘‘ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके’’ इत्यधिकरणे ज्योतिषां स्तोमः ज्योतिष्टोमः जी ओतमित्यादिव्युत्पत्तेर् ज्योतिरादि-पदानामन्यपरत्वानभ्युपगमे भगवन्नामावृत्तिमात्रत्वापातेन व्युत्पत्तेरशक्यता पूर्वपक्षयुक्तिः । परस्परविरोधः ‘‘न संख्योपसंग्रहादपि नानाभावादतिरेकाच्चे’त्यधिकरणे ‘‘यस्मिन् पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः’’ इति वाक्ये यस्मिन्नित्याधारत्वेनोक्तस्य विष्णुत्वे आधेयत्वेनोक्तपञ्चजनाकाशानां न परमात्मत्वं, एकस्यैवाधाराधेयभावायोगात्परस्परविरोधः पूर्वपक्षप्रापकः । ‘‘आकाशादिषु यथा व्यपदिष्टोक्तेः’’ इत्यधिकरणे कार्यतद्वतोर्विरोधः भगवत एवावान्तरकारणत्वे कार्यस्याकाशाद्याख्यरूपस्य तद्वतस् तदाख्य-कार्यवत आत्माख्यरूपस्य चैकत्वात्कार्यतद्वतोर्विरोधः पूर्वपक्षप्रापकः । स्त्रीलिङ्गत्वं ‘‘प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादि’’त्यधिकरणे ‘‘नैनं वाचा स्त्रियं ब्रुव’’न्निति परमात्मनः स्त्रीत्वनिषेधात्स्त्रीलिङ्गत्वं पूर्वपक्षप्रापकम् । निषेधः ‘‘एतेन सर्वे व्याख्याता व्याख्याता’’ इत्यधिकरणे असदभावादिशब्दानां निषेध-निषेध्यवाचित्वात्परमात्मनश्च भावरूपत्वेन नीरूपत्वाद्ययोगान्निषेधः पूर्वपक्षहेतुरित्यर्थः । दोषात्यस्पृष्टि-नियमः ‘‘निरनिष्टो निरवद्य’’ इत्यादिश्रुतेः परमात्मनो दोषात्यस्पृष्टिनियमाद्दुःखिबद्धत्वाद्ययोगाद्दुःखि-बद्धावरादिनियन्तृत्वमेव तच्छब्दवाच्यत्वे नियामकमिति दोषात्यस्पृष्टिनियमः सिद्धान्तस्थापकः । उत्पादनं स्वदेहाच्चेत्यस्य स्वदेहात्स्वमुखपाण्यादेरेव ब्राह्मणादीनामुत्पादकादव्यवधानेन प्रसूतिकर्तृत्वाख्यमपि स्त्रीत्वं भगवतो युज्यत इत्यर्थः । वाक्यान्वयस्येत्यत्र अन्यार्थमित्युक्तजैमिनिमतस्य चेति शेषः । वाक्यान्वयस्य ‘‘प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः’’ ‘‘उत्क्रमिष्यत एवं भावादित्यौडुलोमिः’’ ‘‘अवस्थितेरिति काश-कृत्स्नः’’ इति वाक्यान्वयस्त्रिप्रकारोऽभिहित इत्यत्रोक्तं त्रित्वं कथं घटते । ‘‘अन्यार्थं तु जैमिनि’’रिति सूत्रस्यापि ‘‘परमात्मज्ञानार्थं कर्मादिकमपि वदती’’ति भाष्येऽर्थकथनात्तस्यापि वाक्यान्वयपरत्वप्रतीतेः । यदि च ‘‘उत्क्रमिष्यत’’ इत्यनेनैवास्यापि संगृहीतत्वात्त्रित्वमुच्यते तदाऽस्य सूत्रस्य वैयर्थ्यप्रसङ्ग इति चेन्न भाष्यकृतस्तात्पर्यस्य भवताऽनवबोधात् । ‘‘समाकर्षा’’दिति सूत्रोक्तार्थे तावदियमाशङ्का प्राप्नोति । भगवद्वाचकज्योतिरादिपदानां कर्मादौ समाकर्षो व्यर्थः । न च कर्मादिज्ञानार्थं स इति वाच्यम् । कर्मादिज्ञानस्यापि व्यर्थत्वात् । नहि ‘‘तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तत’’ इति श्रुतेर् मोक्षसाधनबोधनाय प्रवृत्तो वेदः काम्यकर्मादिकं ब्रूते? इति शङ्कानिरासार्थं जैमिनिरिति सूत्रस्य प्रवृत्तिः । तर्हि परमात्मज्ञानार्थमिति कथं भाष्यमिति चेन्न । भगवज्ज्ञाने परविद्यात्वाख्यातिशयज्ञापनार्थ-मित्यङ्गीकारात् । तस्मिन्नतिशयकथनमपि तदुद्देशेनैव । परापरा चेति ‘‘द्वे विद्ये वेदितव्ये’’ इति तस्यामेव श्रुतौ श्रवणात् । एवं च काम्यफलकत्वेन कर्मकाण्डस्यापरविद्यात्वं प्रदर्शयितुं कर्मादिकमपि वक्तव्यम् । अतस्तत्र शब्दानां समाकर्षोऽपि न्यायप्राप्तः । विष्णौ पदसमन्वयोऽप्यावश्यक इति सूत्रतात्पर्यम् । अत एव ‘‘यथा सौम्यैकेन’’ति दृष्टान्तोऽपि मृण्मयज्ञाने तन्मात्रज्ञानम् । मृज्ज्ञाने तु सकलमृण्मयज्ञानाद् यथा मृज्ज्ञानं प्रधानम् । तथा मोक्षाख्यपरमपुरुषार्थसाधकत्वाद्ब्रह्मज्ञानं परविद्या । कर्मादिज्ञानं तु काम्यफलमात्रहेतुत्वादपरविद्येति सुतरां युज्यते । एवं च ब्रह्मविद्यायाः परविद्यात्वसमर्थनाय पदसमन्वयस्य कर्मविद्याया अपरविद्यात्वसमर्थनाय काम्यकर्मप्रतिपादनस्य चास्मिन् सूत्रे प्रस्तुतत्वान्नेदं वाक्यान्वयपरं नापि व्यर्थमिति हि भाष्यकृतो गूढाभिसन्धिरिति सर्वसामञ्जस्यात् । नृणामल्पाधिकारिणामवस्थातारतम्यमित्यत्र मन्दाधिकारिष्वपि तत्तदधिकारियोग्यतानुसारेण तेषां ज्ञानसिद्ध्यर्थं मतभेदमनुसृत्य त्रिप्रकारेण वाक्यान्वयनिरूपणमिति भावः ॥ १-४-५ ॥

जातपदव्युत्पत्तिसम्भव इत्यत्र जे जन्मवति वस्तुनि आ समन्तात्तं व्याप्तमिति व्युत्पत्तिसम्भव इत्यर्थः। एवं जमितिपदव्युत्पत्तावपेक्षितायां जृ प्रादुर्भावे अवतारेऽपि अं सर्वविलक्षणं ‘‘अत सातत्यगमन’’ इति धातोर् व्याप्तेर्निमित्ताद् अम् अणुभ्यः सकलजीवेभ्यो विलक्षणमिति द्रष्टव्यम् । शब्दानां योगरूढी तत्सन्निधानादित्यत्र इन्द्रान्तर्यामिणि भगवद्रूपे इन्द्रादिपदानां योगरूढी । तत्सन्निधानादिन्द्रादावपि योगरूढी । अत एवातीतकल्पे न तत्र रूढिरिति भावः । ईक्षत्यधिकरणोक्तार्थस्येत्यत्र ईक्षत्यधिकरणे हि सर्वशब्दावाच्यस्य लक्षणाऽयुक्तेरिति ब्रह्मणस्सर्वशब्दावाच्यत्वे लक्षणैव न युज्यत इत्युक्तम् । अत्रान्यत्र मुख्यवृत्त्यभावेनावाच्यत्वमङ्गीकृत्य लक्षणैवेति स्वीकारे ईक्षत्यधिकरणोक्तार्थहानिरिति भावः । प्रयोग-बाहुल्यं स्यादित्यत्र सार्वजनीन प्रयोगः प्रयोगबाहुल्यम् । यथा नारायणादिशब्दानाम् । स्तम्भादिशब्दानां तु स्तम्भयति सर्वं जगदिति महायोगः विद्वद्रूढिश्च । सार्वजनीनत्वाभावान्न महारूढिरिति भावः । शमिधातोः संज्ञायामित्यत्र शमि उपपदे धातोः संज्ञायां विषये तदुचितप्रत्यये च कृते ‘‘शमी शमयते पाप’’मिति वचनात्पापपरिहारहेतौ शमीवृक्षे, कोपपरिहारात्मके शान्तौ, हिंसके यमे, च शमी शमः शमन इत्याद्या योगरूढाः शब्दाः । रूढ्यनङ्गीकारे गङ्गाया दमस्य व्याघ्रादेरपि तच्छब्दवाच्यता स्यादित्यर्थः । ‘‘स्तम्बकर्णयोरमिजपो’’रिति सूत्रस्य स्तम्बकर्णयोरित्येतयोस्सुवन्तयोरूपपदयो रमिजपोर्धात्वोरच्प्रत्ययो भवति हस्तिसूचकयोरर्थयोरित्यर्थः । एवं च स्तम्बे रमत इति कर्णे जपत इति योगस्याप्याश्रितत्वात्, संज्ञायामिति रूढेश्चाश्रितत्वाद्योगरूढिः, अन्यथा तृणभक्षकमहिषादेः शिष्यकर्णे मन्त्रं जपतश्च तौ स्यातामिति भावः । प्रतियन्ति लौकिका इत्युपलक्षणम् । लक्षणायां लक्षकगङ्गादिपदेनैव लक्ष्यतीरादिबोधनं न तु तद्वचाकपदस्यापि सहप्रयोगः । गौण्यां तु सिंहो देवदत्त इत्यादिरूपेण गौणसिंहपदस्य देवदत्तपदस्य च सह प्रयोगः । लक्षणायां सम्बन्धस्य निमित्ततामात्रम् । प्रतीतिस्तु गङ्गापदोपस्थापिततीरस्यैव । गौण्यां तु सादृश्यस्य निमित्तत्वं, नीलमुत्पलमित्यादाविव मुख्यैक्यस्य समानाधिकरणप्रयोगार्थत्वायोगेऽपि सादृश्य-रूपामुख्यैक्यस्य समानाधिकरणप्रयोगार्थतया प्रतीतिरिति वैलक्षण्यस्य सर्वजनसम्प्रतिपन्नत्वात् । अत एव लक्षणागौण्योर्गौणी मुख्या । धर्मरूपसामानाधिकरण्यमात्रे व्यत्यासाद्धर्मिरूपमुख्यार्थयोरपरित्यागात् । लक्षणायां तु गङ्गादिपदवाच्यप्रवाहरूपमुख्यार्थस्य सर्वथा त्यागादतिजघन्यतेत्यपि द्रष्टव्यम् । गौर्वाहिक इत्यत्र वाहिको भारवाहकः ‘‘भारवाहस्तु वाहिक’’ इत्यमरः । लक्ष्यमाणगुणानामित्यत्र गोशब्देन लक्ष्यमाणानां गवि स्थितमान्द्यादिगुणानामित्यर्थः । अत एव हि मुख्यार्थसम्बन्धा नतु वाहिकस्थिताः । वाहिके वृत्तौ निमित्ताभावाच्चेत्यत्र गुणान्तराणां लक्षणया तच्छब्दबोध्यत्वेऽपि वाहिके वृत्तौ शब्द-वृत्तनिमित्ताभावाच्चेत्यर्थः । नहि तीरं लक्ष्यमित्येतावता तीरस्थगृहाणामपि लक्ष्यताऽस्ति राजाऽयं गच्छतीत्यत्र राजकटकेऽपि राजशब्दप्रयोगादित्यर्थः । मञ्चाः क्रोशन्तीत्यादावित्यत्र मञ्चपदलक्ष्य-मञ्चस्थपुरुषाणां मञ्चाविनाभावादित्यर्थः ॥ १-४-२ ॥

विशिष्टयोगस्य रूढितः प्राबल्यमित्यत्र विशिष्टयोगस्य महायोगस्य विद्वद्रूढिविशिष्टयोगस्य वा रूढितो ऽज्ञरूढित सूचितं ‘‘इतो हि रूढताऽन्येषा’’मित्यनेन सूचितम् । यद्वा ‘‘पूर्वायोगे परग्रह इत्यनेन सूचितं, यथा परममुख्यवृत्त्ययोगे अवान्तरवृत्तिग्रहान्मुख्यवृत्तावेवावान्त प्राबल्याश्रयणात्परममुख्यवृत्तेः प्राबल्यं, तथाऽज्ञरूढितः मुख्यवृत्तेः प्राबल्यमित्यर्थः । स्पष्टमकथनात् सूचितमित्युक्तम् । नामप्रकाश्यतया नामाधीनानीत्यत्र नामप्रकाश्यतया नामत्वेन ज्ञातव्यतया नामाधीनानि नामत्यधीनानि तच्छब्दप्रवृत्ति निमित्तानि तानि नामानि तेषां शब्दानां प्रवृत्तिनिमित्तनीत्यन्वविन्दन्नित्यर्थः । रथरूपकतयेत्यत्र ‘‘एकत्वरूपणं यत्स्यादुपमानोपमेययोः । रूपकं नाम तच्चापी’’ति वचनाच्छरीरोपमानभूतरथेन यच्छरीरस्यैकत्वरूपणं तद्रूपकं नामालङ्कारः कथ्यते । अतो रथरूपकत्वेन विन्यस्तमिति शरीरस्य विशेषणमित्यर्थः । तथात्वे हीति विशेषणस्य पूर्वनिपातनियमाद्रूपकविन्यस्तगृहीतेरिति वक्तव्यमित्यर्थः । गोभिः श्रीणीत मत्सरमिति गोभिर् गोजनितक्षीरैः । यस्य गृहे क्षीरान्नं भुंक्ते तत्र मत्सरो न कर्तव्य इति लोकप्रसिद्धमिति भावः । किं शरीरमेवात्रोच्यत इति ‘‘अव्यक्तात्पुरुषः पर’’ इति श्रुतावव्यक्तशब्देन शरीरमेवोच्यत इत्यर्थः । अन्योऽर्थो नेष्यते परब्रह्मलक्षण इत्यत्र प्रकृतिलक्षणश्चेति शेषः । प्रथमे स्वरूपेणेत्यत्र प्रथमे शरीरमेवाव्यक्तशब्देनोच्यत इति पक्षे स्वरूपेण अव्यक्तशब्दस्य भूतसूक्ष्मोप-स्थापनद्वारा शरीरोपस्थापकत्वाद्भूतसूक्ष्मस्वरूपेणेष्यत इति भावः । द्वितीये भूतसूक्ष्ममेवाव्यक्तशब्देनोच्यत इति द्वितीयपक्षेऽव्यक्तशब्दस्य भूतसूक्ष्मवाचकत्वादव्यक्तशब्दवाच्यतयेष्यत इत्यर्थः ॥ १-४-१ ॥

नहि ग्रन्थान्तर इत्यत्र भागवतेऽनुवादो ब्रह्मसूत्रे निराकरणमिति नहि सम्भवतीत्यर्थः ॥ १-४-३ ॥

जनिकर्तुः प्रकृतिरित्यत्र जनिकर्तुर्जायमानस्य प्रकृतिरुपादानम् अपादानसंज्ञं स्यादिति वृत्तिकारै-र्व्याख्यातत्वेन जनिधातोर्योगे उपादानस्यैवापादानसंज्ञाविंधानादिति भावः । यथा व्रीह्यादीनां पृथिवीति व्रीह्यादीनां पृथिव्यादौ लयात्पृथिव्यादिकमुपादानमित्यर्थः । अयं च दृष्टान्तोऽननुगुणस् तेषामङ्कुरोपादानकत्वादिति ज्ञेयम् । योनिशब्दश्चोपादानवचन इत्यप्यनानुभविकं, स्त्रीगवादिषु अव्यवधानेन प्रसवोपाधीनामेव योनित्वप्रसिद्धेः । अत्रैकैकप्रकारानुक्तिरिति विशेषाप्तिरित्यनेन धर्मपरिवर्तग्रहणेऽपि धर्मिपरिवर्तानुक्तेः, अनिवर्त्यान्यथाभव इत्यत्र निवर्त्यान्यथाभवस्यानुक्तेः, ऐकैकप्रकारानुक्तिरित्यर्थः । अन्यथा वाक्यस्यासामञ्जस्यं स्यादिति अनिवर्त्यो ऽन्यथा पूर्वस्थितरूपात्प्रकारान्तरेण भव उत्पत्तिरिति वदता निवर्त्यान्यथाभवस्य विशेषाप्तेर् धर्मपरिवर्तरूपत्वेन धर्मिपरिवर्तस्यापि वक्तव्यत्वात्तदसङ्ग्रहे वाक्यस्यासामञ्जस्यानिस्तारादिति भावः । शुल्बस्य तारत्वमित्यत्र शुल्बस्य ताम्रस्यौषधादिना तारत्वं रूप्यत्वं यथेत्यर्थः । ‘‘न स्त्रियामथ ताम्रकम् । शुल्बं ल्मेञ्च्छमुखं द्य्वष्टवरिष्ठोदुम्बराणि चे’’त्यमरः । ‘‘रूप्यं तारं च कथ्यत’’ इति हलः । अपि च चेतनस्यापि विक्रियेत्यत्र चेतनस्य जीवचैतन्यस्य विक्रिया औत्तरव्यापाराननुकूलत्वरूपा नीचता । दृष्टकारणं शस्त्रघातादिनिमित्तदुःखम् अदृष्टकारणं पूर्वजन्मकृत-पापादिनिमित्तकव्याध्यादिनिमित्तदुःखं तदुभयजन्या विक्रिया दृष्टेत्यर्थः । नतावदप्रच्युतस्वरूपस्यैवेत्यत्र ब्रह्मणो हि स्वरूप‘‘मस्थूलमनण्वह्रस्व’’मित्यादिश्रुत्या अस्थूलादिरूपम् । तस्य च स्थूलमहदाद्याकारेण परिणाम उक्तस्वरूपप्रच्युत्यभावे कथं स्यात् । स्थूलत्वास्थूलत्वयोरेकदैकत्र विरोधादिति भावः । ब्रह्माधिष्ठितं ब्रह्मात्मकमितीदं चानुपपन्नं, ‘‘अनृतजडविरोधी’’त्युक्तेस्स्ववचनविरुद्धत्वाद् ऋतानृत-योर्जडाजडयोरैक्यायोगाद्युक्तिविरुद्धत्वाच्चेति) । पातञ्जलाः साङ्ख्यैकदेशिनः । यद्यपि योनिशब्द इत्यत्र हे इन्द्र ते निषदे निषादनाय अवस्थानायेत्यर्थः । योनिः स्थानं बर्हीरूपमकारीति श्रुतेरर्थः । तच्छरीर-भूतमित्यत्र शरीरे भूतं स्थितमित्यर्थः स्वरसेन शरीरोपचायकत्वाच्छरीरभूतं वा । मूले ब्रह्मतर्के-चेत्युपलक्षणम् । ‘‘निमित्तमातत्रात्मा निर्गुणः पुरुषर्षभ । व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवदि’’ति निरवकाशं भागवतवाक्यमपि द्रष्टव्यम् । अवधारणार्थकमात्रपदेन साक्षादुपादानत्वावचनवृत्त्यैव निराकरणात् । अत्रोपपादनेनेत्यत्र ‘‘इच्छामात्रात्प्रभो स्सृष्टि’’रित्येतावतैव पूर्तावपि किं प्रयोजन-मित्याशङ्क्य स्वभावत्वेन सृष्टेरुपपादने किमुपादानमित्याशङ्क्य रजश्शब्दोपलक्षितप्रधानमादायोपपादनेन चादरः प्रतीयत इत्यर्थः । सर्वानुगमाभावेऽपीत्यत्र मृत्पिण्डादावनुपादानभूतमृद्भागादीनां घटादावनु-प्रवेशाभावेऽप्युपादानभूतमृद्भागस्य मृत्वाद्याकारेणैव सर्वात्मनाऽनुप्रवेशदर्शनादस्य दृष्टान्तस्य विषमत्वादिति ज्ञेयम् । सङ्ख्या वेत्यनेन क्षीरान्तर्नीरस्य मेलन इव प्रकृत्यन्तश्चिदंशस्य पृथगदृश्यतया मेलने सति एकत्वसङ्ख्या सेत्यर्थः । अत्र हि ब्रह्मोपादानस्य वेत्यत्र सच्चिदानन्दोपादानकं द्रव्यान्तरं ब्रह्मेति पक्षे सच्चिदंशाभ्यामुपादानाभ्यां जन्यं यद्ब्रह्मरूपकार्यमङ्गीकृतं तस्य ब्रह्मण उपादानभूतस्य सदंशस्यैव जगदुपादानत्वं प्राप्तम् । संयोगस्य सङ्ख्यायाश्च ब्रह्मत्वपक्षे संयोगसङ्ख्याख्यगुणरूपस्य ब्रह्मणः गुणिन-स्सदंशस्यैव प्राप्तमिति पक्षत्रयेऽपि त्वदभिलषितब्रह्मणो न जगदुपादानत्वमिति भावः । तदुपानत्वादेर-भावादित्यत्र मृत्तिकायास्सर्वात्मना घटेऽप्रवेशेऽपि तस्य घटस्योपादानत्वं यन्मृत्तिकायामस्ति तस्य घटेऽभावादित्यर्थः । आदिपदेन गुणिगतजलाहरणादिशक्तेश्च रूपादिगुणेष्वदर्शनादित्यर्थोऽपि सूचितः न चेदं सूत्रमुपादाने पञ्चम्या विधायकमित्यत्र नेदं सूत्रमुपादानस्य पञ्चमीविधायकं किन्तूपादानस्या-पादानताविधायकमित्यर्थः । विशेषस्मरणस्य ग्राह्यत्वादित्यत्र जनिधातुप्रवेश उपादानाख्यापादाने विहितपञ्चमीस्मरणस्यापि ग्राह्यत्वादित्यर्थः । स्वभावापरपर्यायप्रकृतिपदेन विक्रियमाणोपादानसंसृष्टाविकृत द्रव्यभागग्रहणस्यैव न्याय्यत्वादिति भावेनाह उपादानसंसृष्टमपायावधिभूतं द्रव्यमिति । अयमपि योग इत्यत्र योगस्सूत्रं शक्योऽवक्तुमवक्तुं शक्य इति प्रत्याचक्षाणेन गतार्थत्वेन ‘‘जनिकर्तुः प्रकृति’’रिति सूत्रं निराकुर्वता भाष्यकारेण पूर्वोक्त एव सूत्रार्थस्सूचित इत्यर्थः । आस्तां विस्तर इति वदता प्रकृतिपद-स्योपादानार्थतामङ्गीकुर्वतामपि जनिकर्तुर्या वस्तुस्थित्या प्रकृतिरुपादानं साऽपादानसंज्ञा स्यादित्येव सूत्रार्थः स्यात् । एवं च प्रधानाज्जगज्जायत इत्यत्रैव पञ्चमीविधायकमिदं सूत्रं स्यान्न त्वनुपादानभूते उपादानमपि विदध्यात् । ततश्चानुपादानभूते ब्रह्मण्यनवसरदुःस्थमेवेदं सूत्रम् । अत्र तु पञ्चमीनिमित्तेऽप्युक्तविधया ‘ध्रुवमपायेऽपादान’मिति सूत्रादेव भविष्यति । तस्मादबोधविजृम्भितैवेयं शङ्केत्यपि सूचितम् । रोल इति योगविभागादिति ‘‘कृपो रोलः’’ इति सूत्राद् रोल इति योगविभागे कृते रेफस्य लत्वसिद्धिरिति भावः । तनोतेडर्ि्वप्रत्यय इत्यत्र ‘‘डिति चे’’ति टिलोपोऽपि भवेत् । ‘चुटु’ इति ‘वेरपृक्तस्ये’ति डकारवकारयोर्लोपे ‘यस्येति चे’’त्यनेनेकारे लुप्ते द् इत्येव निष्पन्नं भवेदित्यर्थः । अयस्मयादीनि छन्दसीत्यत्र भसंज्ञा-करणेऽयस् इत्यत्र विद्यमानस्य सकारस्य पदान्तत्वाभावात् ‘‘ससजुषो’’रिति पदान्तत्वप्रयुक्तः सकारस्य यथा रुर् न भवति तथेहापि जस्त्वं न स्यादित्यर्थः । ‘सत्यं चानृतं च सत्यमभव’दिति द्वेधा सत्यपद-श्रवणादपौनरुक्तयाय नित्यसाधुगुणव्याप्तियन्तृरूपत्वत इति भिन्नार्थकथनम् । सादृश्याच्च प्रपञ्चैकतावभास इत्यत्रानन्तजीवभ्रान्तिविषयानन्तजगत्सद्भावात्कथमेकं विश्वमिति प्रतीतिरित्यत उक्तं सादृश्यादिति यदवष्टम्भो विश्वो विवर्त इति विश्वरूपो विवर्तः यदवष्टम्भो यदाश्रयस्तस्यैव ब्रह्मण इति सम्बन्धः । सति च तदुत्पत्तेरित्यत्र मालारोपितसर्पस्थले सर्पेऽसति चेत्यपि ग्राह्यम् । व्यावर्तकोपादानेनेत्यत्र विषयस्य ज्ञानव्यावर्तकत्वोपादानेनेत्यर्थः । विशेषो विषयोपाधिना विनेत्यत्रैकस्मिन् वह्नावेव प्रत्यक्षानुमानयोः प्रवृत्तौ विषयोपाधेः साम्यात्सामग्रीभेदादेव परोक्षत्वापरोक्षत्वरूपविशेषः सर्वैर्वादिभिर्वक्तव्यः । तथेहापि घटेन्द्रियसन्निकर्षपटेन्द्रियसन्निकर्षरूपसामग्रीविशेषजन्यत्वादेव प्रत्यक्षप्रमायामपि ज्ञानेषु व्यावृत्तिः । अतो भ्रमेऽप्यतिदूरस्थत्वभिन्नभिन्नप्रधानाधिष्ठानसादृश्यादिदोषसहितेन्द्रियजन्यत्वनिमित्तैव व्यावृत्तिः । अर्थस्तु सर्वत्र व्यावृत्तिबुद्धिविषय एव नतु क्वापि व्यावृत्तिबुद्धि जनकः । भ्रमे तु विषयासत्त्वस्यैवोपयोगो नतु विषयसत्त्वस्येति न सुतरां विषयस्य व्यावर्तकतेति भावः । परतस्त्वे न प्रमेति किं न स्यादित्यत्र एतच्छतिविरोधात् ‘‘स इदं सर्वमसृजते’’ति श्रुतिविरोधात् ‘‘निष्कलं निष्क्रियमिति तत्राऽत्मा निर्गुणः पुरुषर्षभ’’ इति भागवतोक्तिबलाच्चेत्यपि द्रष्टव्यम् । श्रुतेः सर्वथाऽप्रामाण्यायोगे तु प्रबलतरदैत्यैः सह सङ्गरेऽपि क्वाप्यपक्षेपणरूपक्रियाशून्यत्वार्थेति च ग्राह्यम् । हिशब्दः सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एवेत्यादितत्प्रसिद्धिद्योतक इत्युपलक्षणम् । तत्तदधिष्ठानचैतन्यमेव तत्तदर्थज्ञानमिति परस्य मतम् । ज्ञानस्य घटमहं जानामीत्यादिव्यवहारजनकत्वमप्यावश्यकम् । तथा च साक्षिण एव व्यवहारसाधकत्वम् । न च तत्राप्यज्ञानविशिष्टसाक्षिण एव जनकत्वमिति वाच्यम् । न जानामीति व्यवहारोपयोग्यज्ञानस्य ज्ञानात्प्राक् वृत्तिविनाश्यस्य तत्र कथञ्चिदप्यनुपयोगात् । अनेनैव न्यायेन सुखादिव्यवहारसाधने साक्षिण्यपि न जानामीति व्यवहारोपयोग्यज्ञानस्योनुपयोगित्वे शुद्धचैतन्य एव साधकत्वस्य पररीत्यैव युक्तिसिद्धत्वात् । ‘‘किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथासीत् । यतो भूमिं जनयन् विश्वकर्मा विद्यामौर्णोन्महिना विश्वचक्षा’’ इति श्रुतेः । यतः कारणाद्भूमिं जनयन् विश्वचक्षाः सर्वज्ञः विश्वकर्मा नारायणः महिना स्वमहिम्नैव विद्यां वि सर्वविषयत्वाद् विशिष्टां द्यां ‘‘द्यु प्रकाशन’’ इति धातोर्द्युशब्दवाच्यां सर्वोत्पत्तिमन्निमित्तकारणस्वरूपभूतस्वज्ञानशक्तिमेवौर्णोद् विशेषेण विस्तृतवान् । योगनिद्रामपहाय चक्षुरुन्मील्य दृष्टवानित्यर्थः । यद्वा भूमिं द्यां च जनयन्विश्वकर्मा हरिर् येनाधिष्ठानादिना जनयिता विशेषेण बभूव येन च महिम्ना विश्वचक्षा विश्वचक्षुर् और्णोदावृणोत् । ‘‘उञ् आच्छादन’’ इति धातुः । भूमिं जनयन् विस्तृतवानित्युक्ते भूनिमित्तभूतवस्तुन एव ग्रहणमुचितम् । ततः कारणात् तेन क्रियमाणसृष्टौ किंस्विदधिष्ठानमासीत् । आरम्भणम् आरभ्यतेऽनेनेत्यारम्भणं कतमत्स्वि-दासीत् । कथा कथमासीत् । परमात्मनः परनिरपेक्षत्वेन स्वतन्त्रत्वात् । अन्यस्य च तदधीन-सत्ताकत्वात्कथं तं प्रति प्रयोजकं स्यादित्यर्थपर्यालोचनया भगवतो जगत्सृष्टावधिष्ठानादीनामाक्षेपात्कथ-मन्याधीना भगवतः सृष्टिस्स्यात् । विद्यामौर्णोदित्युक्तविरोधित्वान्महिनेत्युक्तमहिमविरोधाद्विश्वचक्षा इत्युक्तसर्वज्ञत्वविरोधाच्च भगवतो जगत्सृष्टावविद्या तु दूरापास्ता । और्णोदित्यस्य सकर्मकत्वात् । मायिमते हि क्रियाशक्तिरहितस्य मायाशक्तया संसारतश्च ब्रह्मण एव आक्षेप उचितः । नतु क्रियाशक्तिरहितस्य मायाशक्तया संसारतश्च ब्रह्मण एव आक्षेप उचितः । नतु क्रियाशक्तिमत्याः, भ्रान्तरूपजगत्करण-धुरीणाया ब्रह्मैव दुःखार्णवे मज्जयन्त्या आरम्भणपदोक्ताविद्यायाः । अत आक्षेपोऽयं कथं न परमतमाक्षिपेत् । ‘‘त्रयोऽर्थाः सर्ववेदेष्वि’’ति वचनाच्च उक्तार्थद्वयमपि प्रामाणिकम् । किञ्च ‘‘स ऐक्षत’’ ‘‘स इदं सर्वमसृजत’’ इति श्रुतौ ‘‘ईक्षतिकर्मव्यपदेशात्स’’ इति सूत्रे च ईक्षापूर्वकसृष्टिकथनान्नाविद्यापूर्वा सृष्टिः । वस्त्रप्रावृतचक्षुषः कुलालादेर् घटादिसृष्ट्यदर्शनेन मायापिहितनयनान्महासृष्ट्यनुपपत्तेश्च । मायया मायिकपदार्थं सृजन्नपि मायावी मायास्वाम्येव । नतु स्वयं मायापिहितनयनः । अतोऽपि न मायामयीयं सृष्टिः । ‘‘मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि’’ । ‘‘न यत्र श्रूयते माया लोकसृष्टि-विकल्पने’’ति भागवतोक्तया भगवति मायायाः स्पष्टं निषेधाच्च न मायिकी सृष्टिः । अतः कथं न शुद्धचित एव कारणत्वमित्यर्थस्योक्तरीत्या श्रुतिस्मृतिसिद्धत्वाच्चेत्यपि द्रष्टव्यम् । मानान्तरेणोपनीतभान-मनङ्गीकुर्वतामप्युत्तरमाह परेषां चेह भूतल इति । तत्र हि प्रतियोगिनो घटस्याधिकरणस्य भूतलस्य च पराभ्युपगताभावाख्यप्रमाणातिरिक्तप्रमाणेनैवोपनयस्य परेणैव वक्तव्यत्वादित्यर्थः । प्रत्यक्षत्वे सत्यकारण-गुणपूर्वकत्वादित्यत्र प्रत्यक्षत्वादित्येवोक्ते रूपादिषु व्यभिचारः । अतोऽकारणगुणपूर्वकत्वादित्युक्तम् । तेषां कारणगुणपूर्वकत्वात् । तावत्येवोक्ते परमाणुरूपादौ व्यभिचारः । अतः प्रत्यक्षत्वे सतीत्युक्तम् । अत्रेदं चिन्त्यम् । एवमपि ज्याकर्षनिमित्ते शरवेगे व्यभिचारतादवस्थ्यादिति ज्ञेयम् । स्वाश्रये स्वाश्रयाश्रिते वा गुण इत्यत्र स्वाश्रये आत्मनि ज्ञानं प्रति मनस्संयोगस्य स्वाश्रयाश्रिते तन्तुरूपस्य पटरूपाख्यगुणं प्रत्यसमवायिकारणत्वादित्यर्थः । उक्तविधया शब्दश्रवणमूलकाकाशप्रतिभासस्यासम्भवादिति भावेनोक्तं जातिबधिराणामिति । मूर्तावकाशेन तेषामाकाशानुमानमित्यत्र मूर्तस्य हस्तादेरवकाशः प्रसारणं प्रत्यप्रतिरोध इत्यर्थः । अन्यथाऽऽत्माश्रयप्रसङ्गात् । अगत्वाग्राहित्वे दिङ् निश्चयोऽपि न स्यादित्यत्र श्रोत्रस्य कर्णशष्कुल्यन्तरुत्पन्नशब्दमात्रग्राहित्वेन मूलीभूतदिग्विशेषस्थशब्दनिर्णये सामर्थ्याभावादित्यर्थः । साहचर्यदर्शनसङ्कोच इत्यत्र अन्यत्र सर्वत्र हेतुसाध्ययोस्साहचर्येऽप्यत्र हेतुरस्तु साध्यं मास्तित्यङ्गीकारः साहचर्यदर्शनसङ्कोच इत्यच्यत इत्यर्थः । प्रत्येकं साधन इत्यस्य शब्दाश्रयः पृथिवीतो भिद्यत इत्याद्याकारेण साधन इत्यर्थः । बाधितविषयत्वेन नानुमावसरो भवेदित्यत्र कालसामान्यसम्बन्धस्य वलीपलिता-भावदशायां सर्वथा वलीपलितरहिते परमाणौ च सत्त्वाद्वलीपलितकारणत्वासम्भवाद्बाध इत्यर्थः । तत्सम्बन्धस्यापि नित्यसिद्धेरित्यत्र परमते कालस्यैकत्वेनास्मन्मते कालबाहुल्यस्य क्रमिकत्वेन च सहैव बहुकालसम्बन्धासम्भवाद्वर्तमानैकैककालसम्बन्ध इत्येवोक्तं स्यात् । तस्य च पूर्ववन्नित्यं वलीपलिता-भावदशायां नित्ये परमाणौ च सिद्धेरित्यर्तः । सूक्ष्माणां कल्पनीयत्वदित्यत्र पृथिवीमारभ्य सूर्यमण्डलपर्यन्तं परिवर्तिनामन्योन्यसम्बद्धपार्थिवपरमाणूनां सत्त्वादित्यर्थः । षोढा सम्बन्धं वदता त्वयैव संयुक्तसंयोगि-समवायाख्यापूर्वसम्बन्धस्य कल्पितत्वात् । बहुतरसंयोगपरम्पराकल्पनमपि न्याय्यम् । धर्मिकल्पनातो धर्मकल्पनस्यैव लघुत्वादिति भावः । अन्यथा जातिनिराकरणमपि न स्यादित्यत्र सदनुमाने स्वकपोलकल्पनयोक्तदोषेण जातिवादिना वक्ष्यमाणदूषणानुमाननिराकरणं हि जातिनिराकरणम् । तच्च जात्यसिद्धावसिद्धमेवेति त्वदुक्तन्यायेन जातिनिराकरणमपि न स्यादिति भावः । यद्वा असाधकस्यापि तर्कस्यार्थसाधकत्वे जातेरपि दूषणसमर्थत्वेन तन्निराकरणं न स्यादित्यर्थः । तस्याः संयोगोप-नायकत्वेनेत्यत्र दिक्कृत परापरत्त्वोपयोगिनोस्समीपे दूरे च दिक्पिण्डसंयोगयोरूपनायकत्वेन सिद्धत्वा-दित्यर्थः । अन्यथा कालेऽपीत्यत्र परत्वकल्पककालस्यापरत्वकल्पककालस्य च भेदकल्पनाप्रसङ्गादित्यर्थः। विवादाध्यासितं कार्यमित्यत्र दिक्कृतपरत्वापरत्वाख्यं तद्विपरीतं कालकृतं परत्वापरत्वाख्यं च कार्यमित्यर्थः। मनो मनसा संयुज्यते मूर्तत्वादित्यत्र यन्मूर्तं तत्स्वसमानजातीयद्रव्यान्तरसंयोगीति व्याप्तिर्वक्तव्या । अन्यथा मनस्यपि यत्किञ्चिद्रव्यसंयोगेनान्यथासिद्धिप्रसङ्गात् । तच्चाकालिकविद्युदादौ सन्दिग्धव्यभिचा-रीति । दशदिक्षु दशविद्युतां सहैवोत्पत्तौ न व्यभिचारः । एकस्यां दिश्येकस्या एवोत्पत्तौ स्याद्य्वभिचारीत्यतः सन्दिग्धेत्युक्तम् । तत्सम्भावनायाऽऽकालिकेति चोक्तमिति भावः । अणुत्ववदित्यत्र अणुत्वपरिमाणस्य पार्थिवपरमाण्वादिद्रव्यचतुष्टये वृत्तित्वादित्यर्थः । अत एव न कालादिगतस्येत्यत्र आदिपदेन दिग्गृह्यते । अत एवैकैकगतपरिमाणद्वयस्य चतुष्टयवृत्तित्वायोगादेवेत्यर्थः । परिमाण-तारतम्यविश्रान्तिविषयजादित्वादित्यत्र परिमाणगतजातित्वादित्येवोक्ते मध्यमपरिमाणत्वजातौ व्यभिचारः। तद्धि विशेषगुणसहितपृथिव्यादिगतपरिमाण एव तिष्ठति । नतु विशेषगुणशून्यद्रव्यगतपरिमाणे । अतः परिमाणतारतम्यविश्रान्तिविषयजातित्वादित्युक्तम् । मध्यमपरिमाणतारतम्ये च न विश्रान्तिः । ततोऽधि-कस्य परिमाणतारतम्यविश्रान्तिविषयमहापरिमाणस्य विद्यमानत्वात् । गगनमहापरिमाणत्वाख्योपाधा-वुपाधित्वादेव गगनपरिमाणमात्रवर्तिनि व्यभिचारवारणाय जातित्वादित्युक्तम् । अणुपरिणामवृत्ति-जातिवदित्यत्र पार्थिवपरमाण्वादिचतुष्टयगताणुपरिमाणवृत्तिजातौ साध्याभावेन मनोमात्रवृत्त्यणुपरिमाण-गतजातिर्दृष्टान्तीकर्तव्या । एवं च मनस एकत्वात्कथं तत्र विशेषगुणरहितद्रव्याधिकरणानेकव्यक्ति-वृत्तित्वमिति चेत्, सत्यम् । दिक्कालवन्मनस एकत्वाभावात् । अनेकमनोगतानेकपरिमाणान्यादाय साध्यसिद्धेरभिमतत्वादिति परस्याशयः । तत्रेदं चिन्त्यम् । एवं सति दिशां प्राच्यादिभेदेनानेकत्वमादायैव साध्यस्यान्यथासिद्ध्या न त्वदभिमतकालसिद्धिरिति । सत्त्वेनैवेत्यत्र अबाध्यत्वरूपपारमार्थिक-सत्त्वेनैवेत्यर्थः । प्रत्यासीदन् रूपविशेषादिनेत्यत्र प्रत्यासीदन् किञ्चित्समीपं गच्छन् । तदा साक्षिण एव स्वतःप्रामाण्यम् अन्यस्य परत इत्यङ्गीकारेऽपीत्यत्र अपिपदेनाभ्युपगमवादोऽयमिति सूचितम् । वस्तुतस्तु यत्र यत्र दोषशङ्का तत्र तत्र सर्वत्र प्रतिबन्धकीभूतदोषशङ्कानिरासाय परीक्षानुसरणम् । यत्र तु समीप-स्थघटपटादौ पात्रस्थितान्नादौ स्ववनितापुत्रपौत्रादौ च देशव्यवधानरूपातिदूरत्वाख्यदोषाभावे स्वकरस्थ-रेरवोपरेखादौ कदाचिद्य्वत्यासाभावेन काचादिदोषाभावेन च साक्षिणैव निश्चिते समीपस्थघटपटादिव्यवसायं गृह्णन् साक्षी उक्तविधया तस्य दोषाजन्यत्वमप्यनुसन्दधत्तत्प्रामाण्यमपि कथं नियमेन न गृह्णीयात् । प्रतिबन्धकीभूतदोषशङ्काया दूरापास्तत्वान्नात्र तत्परिहाराय परिक्षामप्यपेक्षते । कथमन्यथा निःशङ्क-मापणादितो धनधान्यादिकं स्वीकुर्यात् । नियमेन स्वस्वगृहं प्रत्येवागच्छेत् । कथं च स्ववनितामेवाश्लिष्येन् न सुतां नापि भगिनीम् । अत सर्वत्र संशयो न प्रेक्षावता वक्तुमुचितः । यतः पशुरपि वनेऽभिनवं घासमसन्दिहान एव भुङ्क्ते । अतोऽनभ्यासदशायामपि न समीपस्थेषु संशयः । नवोढवधुकरस्पर्शे प्रत्युत्पन्नबालपुंस्त्वादौ संशयादर्शनात् । किं बहुना शिशुरपि स्वमातुस्तनमेव भुक्ते नान्यस्तनम् । तस्माद् बहिरपि प्रायः सकलज्ञानप्रामाण्यं स्वत एव गृह्यते । अतिदूरत्वादिदोषसहितेऽनभ्यासदशापन्ने यत्र क्वापि वस्तुनि किमयं पुरुष उत स्थाणुरिति सन्दिग्धे । तत्रैव शङ्कानिरासाय परीक्षापेक्षेति टीकाकृतोऽपि हृदयम् । स्थैर्येण गृह्णातीत्यत्र यथेति योज्यम् । अन्यथेत्यादिश्लोकचतुष्टयस्य मन्दानामपि बोधाय काचिद्योजना क्रियते । अन्यथा साक्षिणः प्रमाणानामात्यन्तिकप्रामाण्यग्रहणद्वारा तद्विषयस्य प्रमाण-प्रमेयात्मकजगतः सर्वथाऽबाध्यत्वरूपसत्यत्वास्थापकत्वे श्रुतियुक्तयादिप्रमाणैः सहैव विश्वस्य प्रपञ्चस्य अकस्मान् मूलीभूतसाधकप्रमाणाभावाद् विनिवृत्तिर् विशेषेण निवृत्तिरत्यन्तासत्त्वं शशविषाणादिवत्कुतो न शङ्क्यते । शशृङ्गाद्वैलक्षण्यमाशङ्कते इतः पूर्वमिति । वाक्यानुमादितः ‘‘विश्वं सत्य’’मित्यादि वाक्यादर्थक्रियाकारित्वाद्यनुमानादादिपदोक्तघटादिग्राहकप्रत्यक्षाच्च । इतः पूर्वं तथाभावाद् यथा प्रतीयते तथैव भावादपवादकाभावादिति यावत् संसृतेः संसारहेतोर्जगतः गतिर्गमनमभावः यदि न स्यात् । आगमस्य सकलविषयकत्वेनातिप्राबल्यादनुमानस्याप्यतीन्द्रियगोचरत्वेनेषत्प्राबल्यात्प्रत्यक्षस्य कतिपयार्थ-ग्राहित्वेन दुर्बलत्वात्क्रमोल्लङ्घनम् । चेत् तर्हि तत् प्रामाण्यं च तेषाम् असद्वैलक्षण्याय त्वयोदितवाक्यादीनां च प्रामाण्यं साक्षित एव वक्तव्यम् । तथा च तत्प्रामाण्यं साक्षी । एवमेव तूष्णीमेवास्मदभिमत-प्रमाणप्रमेयसाधकसाक्षितो विशेषाभावेऽपीत्यर्थः । व्यभिचारमपोह्य सर्वकालेष्वपि स्थैर्याद् धैर्यं सम्पाद्य यथा स्थापयति न त्वापाततः प्रामाण्यम् । अन्यथा त्वदभिलषितासद्वैलक्षण्यस्य सम्यगसिद्धेरिति भावः । ‘एवमक्षजमानत्वसिद्धां विश्वस्य सत्यताम्’ अयमस्मदुक्तः साक्षी निर्दोषज्ञानशक्तितः निर्दोषं दोषादनुत्पन्नं यद् घटपटादिज्ञानं तस्य शक्तितः दोषाजन्यत्वलक्षणशक्तितः व्यभिचारमपोह्य स्थैर्यं सम्पाद्य किमिति न स्थापयेत् । अविद्यावद्विषयत्वेन दूषयतस्तवोक्तविधयाऽसद्वैलक्षण्यसाधनायोपकारित्वेनाङ्गीकृतस्साक्षी निर्दोषत्वेन निर्दोषज्ञानग्राहकत्वेन च दूषयतामस्माकं कथं नोपकारि । सकलसम्मतसाक्षिसिद्धं जगत्सत्यत्वमपहाय सद्वैलक्षण्यमङ्गीकुर्वतस्तव ‘‘एकं सन्धित्सतोऽपरं प्रच्यवत’’ इति न्यायेनावश्यक-मपेक्षितमसद्वैलक्षण्यमप्युक्तविधया त्यक्तमभूत् । कथञ्चित्तस्य रक्षणे तेनैव न्यायेन जगत्सत्यत्वस्यापि सिद्धेः पुनस्सद्वैलक्षण्यमेव त्यक्तमभूदिति समुदायार्थ इति । प्रपञ्चस्य कल्प्यत्वोपपत्तेरित्यत्र जीवभेद-स्यानादित्वात्स्वाश्रितानाद्यविद्यावशादेव स एको जीवो निष्पन्न इति मायावादिनां हृदयमिति ज्ञेयम् । दण्ड एव उचितो न प्रत्युत्तरमिति वदतोऽयमभिप्रायः । सर्वकल्पकस्स एको जीवस्तावद्य्वावहारिको वाच्यः । नतु कल्प्यजीववत्सोऽपि सर्वथाऽविद्यमानः । एवं च तदीयान्तःकरणव्यवहारादिकमपि व्यावहारिकमेवेति कथं न ब्रूयात् । तथासति श्रवणमननाभावेनानिर्मोक्षप्रसङ्गात् । अतो यत्किञ्चिदेतदिति दूषणमपि द्रष्टव्यम् । अनन्तरमेवोक्तमित्यत्र अन्तरं व्यवधानं यथा न भवति तथा अनन्तरमव्यवधानेनोक्तमित्यर्थः । पञ्चद्दशतौ वर्गेवेत्यत्र यद्यपि ‘‘पञ्चद्दशत्’’ इत्येतौ शब्दौ वर्गेऽभिधेये डति प्रत्ययान्तत्वेन निपात्येते वाशब्देन कन्-प्रत्ययोऽपि भवतीति सूत्रार्थः । तथा वृत्तिकारेण व्याख्यातत्वात् । तथापि कन् प्रत्ययान्तत्व-विधिवत्प्रयोगबलाद्वाशब्देन पञ्चशब्दस्यापि निपातनाङ्गीकार उचित इति भावेनोक्तं वाशब्देन पञ्चशब्दस्य निपातनाङ्गीकारादिति । नित्ये च त्रयाणां सिद्धिरित्यत्र नित्ये ईश्वरजीवप्रकृत्यादिनित्यजडेषु त्रयाणां तद्धर्मिकभेदानां सिद्धिरित्यर्थ । एष भेदपञ्चक इत्यत्र ‘‘मिथश्च जडभेदोऽयं प्रपञ्चो भेदपञ्चकः’’ इति वाक्येऽयं भेदपञ्चक इत्येतावतैव पूर्णत्वेऽपि प्रपञ्च इति पृथगभिधानादुद्देश्यविधेयभावाभिप्रायेणैष भेदपञ्चकः प्रपञ्च यदि विद्येतेत्यादौ प्रपञ्च उक्त इत्युक्तमिति ज्ञेयम् । ‘‘त्रैङ् पालन’’ इति धातोः ‘‘आदेच उपदेशेऽशिती’’ति एकारस्याकारे सति तस्य च ‘‘आतो लोप इटिचे’’ति लोपे च कृते त्रमिति शब्दनिष्पत्तिर्भवतीति भावेनाह माङ् माने त्रैङ् पालने इत्याभ्यामिति तस्माद्धरेरन्यत्किञ्चिन्मध्यममित्यत्र मध्यमाधमजीवयोः सङ्ग्रहे ब्रह्माद्युत्तमजीवानामसङ्ग्रहप्रसङ्गान्नासावर्थः । किन्तु ब्रह्मादिजीवानां हरेश्च मध्ये विद्यमानं लक्ष्मी तत्त्वं मध्यमम् । ततोऽप्यर्वाचीनं ब्रह्मादिजगद् अधममित्यर्थः । उत्तमोऽर्थोहरिस्त्वेक इति वदता भाष्यकारेण परमार्थतः परमार्थमुत्तमार्थं परंब्रह्मेति यावद् औतं द्वितीयसर्वोत्तमवस्तुरहित-मित्यप्यर्थस्सूचितः । दिश्यते आदिश्यते अनेन इति देशः, श्रुत्यादिर् उपपन्नः देशो यस्य भावप्रधानश्च निर्देश इत्यभिप्रेत्योक्तम् उपदेशात् श्रुत्याद्यनुसारित्वादिति । वाचारम्भणवाक्यस्य पृथक् दृष्टान्तत्वस्फोरणाय पूर्ववाक्याद्यथेति पदस्य ‘‘विज्ञातं स्यादि’’ति पदस्य ‘‘एकेन मृत्पिण्डेने’’ति वाक्यादर्थानुसारेण तेनेतिपदस्य चोत्तरवाक्येऽप्यनुवृत्तिरिति भावेनाह यथा तेनेति । विद्वद्य्ववहारगोचरत्वादिकमित्यत्र विद्वानिति व्यवहारगोचरत्वमित्यर्थः । ‘‘सर्वस्य सोऽन्यतरस्यां दी’’ति सूत्रस्यायमर्थः । दि दकारे परतः सर्वपदस्य अन्यतरस्यां सकारस्स्यात् । तथा च कदाचित्सर्वदेति प्रयोगो भवति । कदाचित्तस्मिन्नेवार्थे सदेत्यापि प्रयोगो भवतीति । अस्य च सत्यपदनिर्वचने नोपयोगः । अतस्सोऽन्यतरस्या-मित्यस्मात्सूत्राद्योगविभागं कृत्वा सदाशब्दस्य सकारस्स्यादित्यर्थकथने सत्यमिति शब्दनिष्पत्तिर्भवतीति भावः । तथाऽपि कृद्योगे षष्ठ्यां प्राप्तायामित्यस्य ‘‘अस्येयं भार्या’’ ‘‘अस्येदं कार्यं’’ ‘‘अस्येदं भोज्य’’मित्यादिप्रयोगदर्शनादिति भावः । शब्दस्वरूपग्रहणार्थं तदुपपत्तिरित्यत्र ‘‘नवेति विभाषे’’ति सूत्रे इतिशब्दो वैपरीत्ये वर्तत इति शब्दशास्त्रे अर्थपरत्वस्य अर्थशास्त्रे शब्दपरत्वस्य व्युत्पादितत्वादित्यर्थः । दार्ष्टान्तिकवाक्ये तद्विवक्षायामित्यत्र दार्ष्टान्तिकवाक्ये ‘‘येनाविज्ञातं विज्ञातं भवती’’ति वाक्ये मूलकारणस्य ब्रह्मण एकत्वात्तस्य च सृष्टिकाले सकलकार्याभिमुख्यस्य वक्तव्यत्वादेकस्यैव सकलकारणत्व-सम्भवाच्च तत्रैकत्वादेः कथञ्चित्कथनोपपत्तावपि दृष्टान्तवाक्ये एकेन मृत्पिण्डेन सकलमृण्मयकार्याणा-मनुत्पत्तेर्वैयर्थ्यापरिहारादित्यर्थः । भित्तिमात्रोपयोगिनः पिण्डीकरणस्य कपालीकरणानन्तरभाविघटा-दावनुपयोगाच्च व्याप्तस्य ब्रह्मणः पिण्डीकरणायोगात्पिण्डशब्दस्य न कुत्राप्युपयोग इति द्रष्टव्यम् । तथा मृत्पिण्डादिदृष्टान्तानामवान्तरभेदोऽपीत्यत्र लोहमयनखनिकृन्तनयोरेकत्वेन पौनरुक्तयपरिहाराय तृतीय-दृष्टान्ते लोहमणिर्लोहश्रेष्ठ इति व्युत्पत्त्या प्राधान्यस्यैव ग्रहणमवान्तरभेद इत्यर्थः । समवाय्य-समवायिनिमित्तभेदेन कारणत्रितयमिति न्यायविदः । कर्ता कुत्रान्तर्भवतीत्यत उक्तम् । कर्तृत्वेन निमित्तत्वमिति । किञ्च निमित्तत्वे पञ्चमीमात्रमुपपादितं स्यात् । ‘‘स इदं सर्वमसृजते’’ति श्रुतिस्थप्रथमाविभक्तेरप्युपपादनाय कर्तृत्वेन निमित्तत्वमभिप्रैतीत्युक्तम् । जन्मादिसूत्रोदितलक्षण-सिद्धिमित्यत्र जन्मादिसूत्रे तात्पर्यतयोदितगुणपूर्णत्वाख्यलक्षणसिद्धिमित्यर्थः ॥ १-४-६,७ ॥

इति श्रीमद्वादिराजपूज्यचरणविरचितायां गुर्वर्थदीपिकायां प्रथमाध्यायस्य चतुर्थः पादः ॥

इति प्रथमाध्यायः समाप्तः।