एकाज्ञानकृतं विश्वमिति यच्चोच्यते मृषा
एकजीववादनिरासः
एकाज्ञानकृतं विश्वमिति यच्चोच्यते मृषा
सुधा
स्यादेतदेवं यद्यक्षजादिज्ञानं निर्दोषं स्यात् । न चैवम् । अविद्याकृतप्रपञ्चविषयत्वात् शुक्तिकारजतादिज्ञानवत् । नन्वविद्या किमाश्रितेति चेत् । जीवाश्रितेति ब्रूमः । नन्वत्रापि दूषणमुक्तम् । ‘स्वतोऽन्यते’ति । नैतदस्ति । तद्भेदस्याप्याविद्यकत्वात् । न च चक्रकादिदोषः । प्रपञ्च(विश्व)स्य जीवाज्ञानकृतत्वेन श्रुत्यादिसिद्धत्वात् । प्रमिते चार्थे तर्काणामवकाशाभावात् । न च कल्प्याभावदोषः । विश्वस्यैकाज्ञानकृतत्वाङ्गीकारात् । तदतिरिक्तजीवजडप्रपञ्चस्य कल्प्य-त्वोपपत्तेः । एकजीववादो हि मायावादिनां परं हृदयम् । बहुजीववादस्तु मन्दानामाभिमुख्या-यावतारित इत्यत आह एकेति ।
अनुव्याख्यानम्
एकाज्ञानकृतं विश्वमिति यच्चोच्यते मृषा ॥
बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत् ॥
उच्यते ब्रह्मविवर्तवादिभिः, मृषा प्रमाणेन विना । एतदुक्तं भवति । स्यादपीदं कथञ्चित् । यदि विश्वस्यैकजीवाज्ञानकल्पितत्वं स्यात् । न चैतदस्ति । प्रमाणाभावात् । श्रुत्यादेरनुपदमेव सम्यग्व्याख्यास्यामानत्वात् । बहूनामीश्वरस्य तत्पे्ररितानां ब्रह्मादीनां च ज्ञानेच्छाप्रयत्नैर्निर्मित्तत्वे श्रुत्यादिप्रमाण्यसद्भावेन तद्विरुद्धत्वाच्चेति ।
शेषवाक्यार्थचन्द्रिका
ननु विध्वस्यैकाज्ञानकृतत्वादिमतनिराकरणं प्रकृतासङ्गतत्वान्न कार्यमिति तत्परोत्तरवाक्यवैयर्थ्यत्यितः प्रागभिहितस्य साक्षिणोऽक्षजादिज्ञानप्रामाण्यग्रहणद्वारा तद्विषयाबाध्यत्वस्योपपदाकं यदक्षजादिज्ञाननिर्दोषत्वं तत्सिध्द्यर्थत्वान्न तदिति भावेनाक्षजादिज्ञानस्य सदोषत्वशङ्कामुत्थापयति स्यादेतदेवमिति । ननु ‘सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततोऽन्यगे’-त्याश्रयविकल्पेनाविद्याया एव परमतेऽनुपपत्त्या नाक्षजादिज्ञानस्याविद्याकृतप्रपञ्चविषयकत्वमिति कथं न निर्दोषत्वमिति भावेन गूढाभिसन्धिः शङ्कते नन्विति । द्वितीयपक्षोक्तदूषणस्याभासत्वान्नाश्रयानुपपत्त्या तन्निरासो युक्त सति गूढाभिसन्धिरेव तं पक्षं तावत्परिगृह्णाति जीवेति । पूर्ववादी स्वाभिसन्धि-मुद्धाटयति नन्वत्रेति । अविद्याश्रयस्याविद्याकल्पितत्वायोगाज्जीवब्रह्मणोरन्यता स्वाभाविकीत्या-पत्त्याऽपसिद्धान्त इति दूषणं ‘स्वतोऽन्यता’ इत्यनेनोक्तमित्यर्थः । इदानीमुत्तरवाद्यपि स्वाशयमुद्धाटयति नैतदस्तीति । तत्कथमित्यतो ‘भेदो विभ्रमजो यदी’ति पूर्वानुव्याख्यानं मनसि निधायापसिद्धान्तं परिहरति तद्भेदस्येति ॥ न चक्रकादीति । ‘भ्रान्तेरज्ञानमूलत्वात्तस्य भेदव्यपेक्षये’त्यादिपूवोक्तरीत्येति शेषः ॥ तर्काणामिति । अन्योन्याश्रयादितर्काणामित्यर्थः ॥ अवकाशेति । विपर्ययपर्यव-सानहीनतयाऽऽभासत्वादिति भावः । नादेहयोगिनो दृष्टिरि’त्यादिपूर्वोक्तरीत्याऽनन्तजीवानां सकारणकानां तदीयदेहेन्द्रियाणां चानाविद्यकत्वाद्विषयाणामपि देहेन्द्रियादिनिर्वाहार्थत्वेनाभ्रान्ति-कल्पितत्वात्तदतिरिक्तस्य च प्रपञ्चस्यैवाभावान्न किञ्चिदपि परपक्षेऽविद्याकल्पितमस्तीत्यपसिद्धान्त एवेत्याशङ्कते न च कल्प्येति । भवेदेवं कथञ्चिद्यदि सर्वेषां जीवानां कल्पकत्वं स्यात् । न चैतदस्ति । किन्त्वेकस्यैव तस्य । तथा च सर्वेषां कल्पकत्वे तद्देहेन्द्रियादिरूपस्य सकारणकस्य प्रपञ्चस्याकल्पि-तत्वप्राप्त्या कल्प्याभावप्राप्तावप्येकस्यैव कल्पकत्वपक्षे तद्देहेन्द्रियाणां सकारणकानामकल्पि-
तत्वप्राप्त्या तदतिरिक्तस्य जीवजडात्मकसकलप्रपञ्चस्य कल्पितत्वोपपत्तेर्न कल्प्याभावो दोष इत्याशयेनाह विश्वस्येति ।
ननु शङ्किताया अक्षजादिज्ञानस्याविद्याकृतप्रपञ्चविषयत्वेन सदोषताया एव निरसनीयत्वान्नैका-ज्ञानकृतत्वनिरसनं सङ्गतम् । तादर्थ्येन निरासात्कथञ्चित्सङ्गतिसम्भवेऽपि तन्निरासकन्यायानुक्ते-र्न्यूनत्वमेव । मृषेत्यनेन प्रमाणाभावकथनं चानुपपन्नमेव । प्रपञ्चो यदीत्यादिश्रुत्याद्यवलम्बनेनैक-जीवाज्ञानकल्पिततायाः परेण शङ्कितत्वात् । श्रुत्यादेरन्यथासिद्धिमनुपपाद्य तदभाववचनस्या-किञ्चित्करत्वात् । किञ्चैवं मृषेत्यनेनैव प्रमाणाभावसूचनद्वारैकजीवाज्ञानकृतत्वपक्षदूषणसिद्धे ‘बहुज्ञानकृतं विश्वमि’त्युत्तरार्धस्यानर्थक्यप्रसक्तिरेवेत्यतोऽभिप्रायमाह एतदुक्तं भवतीति ॥ स्यादपीदमिति । अक्षजादिज्ञानस्य अविद्याकृतप्रपञ्चविषयत्वेनानिर्दोषत्वमित्यर्थः । नाविद्याकल्पित-विश्वविषयत्वेनाक्षजादिज्ञानस्य निर्दोषत्वाभावसिद्धिः । तथा सति विश्वस्य कल्पितत्वप्रतिपादक-प्रमाणानामपि प्रपञ्चान्तर्गतत्वेनाविद्याकल्पितत्वात्तत्प्रामाण्यग्राहकस्य साक्षिणोऽपि निर्दोषत्वाभाव-प्रसङ्गात् । तथा च तेन तत्प्रामाण्यानिश्चयान्न विश्वस्य कल्पितत्वं सिध्द्यतीति भावेन कथञ्चिदित्युक्तम् । ननु प्रपञ्चो यदीत्यादिवाक्यमेव तत्र मानम् । तत्र ‘अनादिमायया सुप्तो यदा जीवः प्रबुध्यत’ इत्येकवचनेनैकस्यैव जीवस्य प्रपञ्चकल्पकाज्ञानाश्रयतया प्रतीयमानत्वादित्यत आह श्रुत्यादेरिति । आदिपदेनैकविज्ञानेन सर्वविज्ञानप्रतिपादकस्य प्रपञ्चमिथ्यात्वाक्षेपकवाक्यस्य, वाचारम्भणमित्यादि-दृष्टान्तोपपादकवाक्यस्य च परिग्रहः ॥ अनुपदमेवेति । प्रपञ्चो यदि विद्येतेत्यादिनेत्यर्थः ।
परिमल
उत्तरवाक्यमवतारयति स्यादेतदिति ॥ शुक्तिरजतादिज्ञानवदिति । तन्मते शुक्तिकारूपाधिष्ठानावच्छिन्नचैतन्यगताज्ञानमेव दुष्टचक्षुरादिसंप्रयोगजन्यशुक्तिकाद्याकारान्तःकरणवृति क्षुभितं सद् रजतादिरूपेण भ्रान्तिज्ञानरूपेण च द्वेधा परिणमत इत्यङ्गीकाराच्छुक्ति-रजतादावविद्याकृतत्वमस्तीति भावः । नन्वविद्यायाः ‘निर्विशेषे स्वयं भाते’ इत्यादिना आद्यसूत्रे चिन्मात्राश्रितत्वपक्षस्य ‘सा मन्ददृटिस्तस्यैव ब्रह्मणः किं ततोन्यगा’ इत्यादिनाऽत्रैव पूर्वत्र सर्वज्ञब्रह्माश्रितत्वपक्षस्य जीवाश्रितत्वपक्षस्यापि । चायोगेन निरस्तत्वात्पुनः कथमियमाशङ्केति भावेन सिद्धान्ती शङ्कते नन्वविद्येति ॥ स्वतोऽन्यते(ती)ति । ‘अन्यगा चेत्स्वतोन्यता’ सति ग्रन्थे जीवगतेतिपक्षे जीवब्रह्मभेदः स्वाभाविकः स्यात्तथा चापसिद्धान्त इत्युक्तमित्यर्थः । नन्वस्मिन्नपि पक्षे ‘नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यत’ इत्यनेनैव दोष उक्तस् तमाशङ्क्य निराह न चेति । भेदेऽविद्यापेक्षा, अविद्यायां च जीवापेक्षा, जीवश्च भेदापेक्ष इति चक्रकेत्यर्थः । भिन्नजीवापेक्षम-ज्ञानमज्ञानाधीनो ब्रह्मभिन्नो जीव इति विवक्षयाऽन्योन्याश्रय आदिपदेन ग्राह्यः ॥ श्रुत्यादीति । ‘अनादिमायया सुप्तो यदा जीव’ इत्यादिसिद्धत्वादित्यर्थः । यद्यप्येषा अभ्यधिकाशङ्का न मूले भाति । तथाऽपि ‘वाक्याऽनुमादितश्चेत्स्यादि’ति प्रकरणबलाद्वा ‘प्रपञ्चो यदी’ति श्रुतेरग्रे प्रथमव्याख्यानबलाद्वा लभ्यत इति भावः । यद्वा मृषापदव्यावर्त्योक्तिरियमिति ध्येयम् । ननु ‘नादेहयोगिनो दृष्टिरि’त्यादिना ‘किं भ्रान्तिकल्पितं तत्रे’ति ग्रन्थेन पूर्वत्रैव कल्प्याभावस्योक्तत्वाज् जीवाश्रिताज्ञानवादोक्तिरयुक्तेति भावेनाशङ्क्य निराह न चेति । आत्माश्रयनिरासायोक्तं तदतिरिक्तेति । कल्पकजीवातिरिक्तेत्यर्थः । अभ्यधिकाशङ्कया प्रातिस्विकरूपेणैतत्पक्ष (स्यात्रो) स्योत्तरत्रोत्थानमुपेत्य दूषणोक्तौ किं बीजमित्यत आह एकजीवेति । यच्चेति चशब्दः यच्चाविकृतमेवैकमित्युक्तेन समुच्चयार्थ इति भावेनाह ब्रह्मविवर्तवादिभिरिति । ज्ञानेत्युपलक्षणं मत्वोक्तं ज्ञानेच्छाप्रयत्नैरिति ।
यादुपत्यं
देहिनः कारणयुता देहाश्च यदि न भ्रमात् । किं भ्रान्तिकल्पितं तत्रे’त्युक्तदोष-माशङ्क्य परिहरति न च कल्प्याभावेत्यादिना । तथाऽनिदेहयोगिनो दृष्टिरिति तत्कारणं स्वतः’ इत्युक्तदोषो नात्र परिहर्तुं शक्य इत्याशयेन कथञ्चिदित्युक्तम् ॥ श्रुत्यादेरिति । अनादिमायया सुप्त इत्यादिश्रुतेरित्यर्थः । आदिपदेनैकविज्ञानेन सर्वविज्ञानप्रतिपादकस्य प्रपञ्चमिथ्यात्वाक्षेपकवाक्यस्य वाचारम्भणमित्यादिदृष्टान्तोपपादकवाक्यस्य च संग्रहः ।
श्रीनिवासतीर्थीया
तद्भेदस्य=जीवब्रह्मभेदस्य । आविद्यकत्वात्=भ्रान्तिकल्पितत्वात् ॥ चक्रकेति । जीवेशभेदसिद्धौ मिन्ने जीवेऽज्ञानसिद्धिस्तत्सिद्धौ भ्रमसिद्धिस्तत्सिद्धौ च तत्कल्पितभेदसिद्धिरिति पूर्वोक्तं चक्रकमित्यर्थः ॥ सिद्धत्वादिति । तथा च न विपर्यये पर्यवसानमिति भावः ॥ दोष इति । देहिनः कारणयुता देहाश्च’त्याद्युक्तरीत्येत्यर्थः ॥ एकाज्ञानेति । एकजीवा-ज्ञानेत्यर्थः ॥ तदतिरिक्तेति । कल्पकैकजीवव्यातिरिक्तेत्यर्थः ॥ यद्यपि कल्प्याभावदोषो
नास्ति । तथाऽपि नादेहयोगिनो दृष्टिरित्युक्तदूषणं त्वपरिहार्यमेवेति द्रष्टव्यम् । अत एवोत्तरत्र कथंचिदिति वदिष्यति ।
वाक्यार्थरत्नमाला
ततोन्यगेतीति । इति पूर्वानुव्याख्यानोक्तरीत्येत्यर्थः । भेदोऽपि भ्रमज इत्यपिपदयुक्तः पाठः । नादेहयोगिनो दृष्टिरित्यादीति । ननु तत्र जीवब्रह्मभेदस्य वास्तवत्वमभ्युपगन्तारं प्रति जीवानामदेहानां ज्ञानानुपपत्तेर्ज्ञानकरणत्वेनेन्द्रियादेस्तदाश्रयदेहादेश्च सत्यत्त्वापादनेनापसिद्धान्तोऽभिहितः । न चात्र तथाऽस्ति तद्भेदस्याप्याविद्यकत्वादिना सर्वस्यापि मिथ्यात्वाङ्गीकारेण कल्प्यसद्भावाप्राप्त्या तदभावलक्षणदोषानवकाशादिति चेन्न । प्राग्जीवानां जीवत्वरूपेण सत्यतामङ्गीकृत्यापसिद्धान्तप्रतिपादनमत्रतु जीवब्रह्मभेदस्याविद्यकतया जीवत्वेन रूपेण जीवानां सत्यतानापत्तावपि ब्रह्मस्वरूपत्वेन तेषां सत्यत्त्वमङ्गीकृतमेवेति तदनुसृत्यापसिद्धान्त-प्रतिपादनम् । ब्रह्मस्वरूपभूतानामनन्तजीवानां सत्यत्वाङ्गीकारेप्यपसिद्धान्ततादवस्थ्यम् । ब्रह्मणो अनन्तरूपत्वस्य प्राप्तेः । ततो यावत्पर्यन्तमेक एव जीवः सत्यस्तदतिरिक्तजीवा एकजीवाज्ञानेन कल्पिता इत्येतन्न प्रतिपाद्यते तावदयमपसिद्धान्तोवतरिष्यत्येव । तथा चेह जीवब्रह्मभेद-स्याविद्यकत्वोक्त्या भेदस्यान्यगा चेदित्युक्तस्वाभाविकत्वमात्रपरिहारेऽपि जीवानां सत्यता तदिन्द्रियादेरपि सत्यत्वात्सर्वप्रपञ्चसत्यत्त्वापत्तौ कल्प्याभाव इति दोषः सुलभ एव । न हि भेदस्यावास्तवत्त्वोक्त्या जीवत्वेन रूपेण जीवानामज्ञानाश्रयत्त्वमयुक्तमिति शङ्काया इव ब्रह्मत्वेनानन्तजीवानां तदाश्रयत्वमयुक्तमिति शङ्काया अपि परिहारः । देहादीनां भ्रान्तिकल्पितत्त्वं तु न भेदमिथ्यात्वबललभ्यं नवा वाचनिकं प्रागिति तत्सत्यत्वाङ्गीकारादित्यपसिद्धान्तः पामरस्यापि वा सुप्रतिभासः । देहादीनां भ्रान्तिकल्पितत्वाशङ्काभेदोऽपि भ्रमज इत्यनेन व्यावर्त्यतयोक्ता भ्रान्ति-कल्पितत्वाशङ्कातु भ्रमत्वे त्वियमुक्तिश्चेत्येतदनुव्याख्यानव्यावर्त्यशङ्कात्वेनोक्ता । ततो जीवानां मिथ्यात्वप्रतिपादनातिरिक्तमेव देहेन्द्रियादिमिथ्यात्वप्रतिपादनं पूर्वग्रन्थानुसारेणेति स्पष्टमिति देहेन्द्रियादिसत्यत्वाश्रयणेनापसिद्धान्तो दुर्वार इति स्पष्टमेवम् ॥ तस्माद्ब्रह्मरूपानन्तजीवाश्रिता-ज्ञानकल्पितत्वपक्षे जीवानां ब्रह्मरूपेणानन्ततया सत्यानन्तब्रह्माङ्गीकारप्रसङ्गेनापसिद्धान्तो देहेन्द्रियादेरपि सत्यत्त्वप्रतिषेधकोपायानुक्तया प्रागुक्तरीत्या च सत्यत्वप्रसङ्गोऽवर्जनीय एवेति तदांशेऽप्यपसिद्धान्त इति युक्तमुक्तमनन्तजीवानां सकारणकानामित्यादीत्यलं प्रपञ्चेन ॥
किंत्वेकस्यैव तस्येति । ननु बहुजीवाज्ञानकृतत्वपक्षेऽनन्तजीवतदीयदेहेन्द्रियादिप्रपञ्चस्य सत्यत्वप्रसङ्गेन अपसिद्धान्तवद् एकजीवाज्ञानकल्पितत्वपक्षेऽपि एकस्य जीवस्य सकारणक-तदीयदेहेन्द्रियाणां चाकल्पितत्वस्योक्तरीत्यैव प्राप्तत्वेन तदङ्गीकारे चापसिद्धान्ततादवस्थ्येन कथं विश्वस्यैकजीवाज्ञानकृतत्वपक्षोऽप्यङ्गीकारार्ह इति चेन्न । तदेतत् तथाऽङ्गीकारिणं प्रत्येव प्रष्टव्यम् । न ग्रन्थकृतमपि । ग्रन्थकृता परकीयाङ्गीकारानुसारेण तत्तत्पक्षाणाम् आशङ्कापूर्वकं निराकरणमात्रस्य क्रियमाणत्वात् ॥ परेण त्वनन्तजीवानां तदीयदेहादेश्च सत्यत्वपक्षे प्राप्तापसिद्धान्तोद्धरणाय प्रवृत्तेन देहादिप्रपञ्चांशे अपसिद्धान्तमलक्षीकृत्य जीवसत्यत्त्वांशे प्रसंजितापसिद्धान्तमेव लक्षीकृत्य तदुद्धरणाय यत्नस्य क्रियमाणत्वात् । न चैतावता प्राचीनसर्वदोषोद्धारः कुत इति कस्यापि मनोगतं भवति । अत एव प्रथमपक्षे प्राप्तबहुदोषोद्धरणाय पक्षान्तरानुसरणेऽपि न तत्पक्षान्तरे तावद्दोषोद्धारो दृश्यते । दृश्यते च प्राचीनपक्षोक्तदोषेषु केषाञ्चिद्दोषाणां पक्षान्तरेऽपि प्रवृत्तिवर्णनं सर्वग्रन्थेषु बहुस्थले तदत्रापि व्याख्यात्रा यद्यपि तथापीत्यादिरूपेण एतदसिद्धान्तवक्तव्यतामाशङ्क्यास्पष्टत्वेन शिष्यैरूह्यत्त्वेन समाधानं सुखेन कर्तव्यम् । परकीयाशङ्कानुदयवर्णनं तु न कर्तव्यमेव । तथासति सर्वत्र सिद्धांत्युक्तरीत्या दोषावतारसम्भवेन शङ्कामात्रोच्छेदप्रसङ्गात् । इत्यलं बहुना ॥
परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः
परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः
सुधा
किञ्चैकजीवाज्ञानपरिकल्पितं जीवजडात्मकं समस्तमिति वदन्प्रष्टव्यः किमसावेको जीवस्तत्वम् उतान्य इति । अन्यश्चेत्तदज्ञानकल्पितस्य तव बन्धमोक्षाभावाद्य्वर्थं पारिव्राज्यादि-कम(मित्य)पद्येत । आद्येऽपि प्रतिवादिप्रमुखान् जीवान्पश्यसि न वा । प्रथमेऽपि (किं) सन्तीत्युत न सन्तीति । आद्यं दूषयति परस्येति ।
अनुव्याख्यानम्
परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः ॥
परो नास्तीति वदति
यः परस्य प्रतिवाद्यादेः सत्यतां जानन्नपि परो नास्तीति वदति । स स्वात्मतस्कर इति योजना । स्वात्मानमिव परमपि सत्यतया पश्यतोऽहमेक एव सत्यो मदज्ञानकल्पिताः सर्वे जीवा जडाश्चेति वचनं स्वानुभवविरुद्धमित्यर्थः । न हि त्वदज्ञान(परि) कल्पितं समस्तमित्यत्र बलवत्प्रमाणमस्ति । येन दर्शनमपि बाध्येत । न हि सत्त्वेन प्रतीयमानस्यापि गन्धर्वनगरादेर-सत्त्वमेवमेवाङ्गीक्रीयते । किन्तु बलवत्प्रमाणबाधात् । अन्यथा प्रतिवाद्यज्ञानकल्पितस्त्वमिति कथं न स्याः । तथा चानिश्चयेन न मोक्षार्था प्रवृत्तिः स्यादिति ।
शेषवाक्यार्थचन्द्रिका
कल्पको जीवोऽमुक इत्यनिश्चितो निश्चितो वेति विकल्पद्वयं मनसि निधाय बह्वायाससाध्यमोक्षसाधनाननुष्ठानप्रसक्त्याऽनिश्चयपक्षं बहिरेव प्रदूब्य निश्चयपक्षं दूषयितुं तं विकल्पयति किमसावित्यादि । यथास्थितोद्देश्यविधेयभावविवक्षायामसिद्धस्यानुवादः सिद्धस्य विधानमित्यापत्तेस्तं दर्शयति य इति । स्वात्मतस्करोक्तिर्बाधितेत्यतस्तदभिप्रायमाह स्वात्मानमिवेति । ननु प्रतिवादिप्रमुस्वानां सत्यत्वदर्शनस्य शुक्तिरजतादिसत्त्वदर्शनवद् भ्रमत्वात्तद्विरोधोऽकिञ्चित्कर इत्यतो भ्रमत्वस्य बाधकैकसमधिगम्यत्वेन प्रकृते च तदभावान्न तस्य भ्रमत्वमित्याह न हीति ॥ दर्शनमपीति । प्रतिवादिमुखानां सत्त्वेन दर्शनमपीत्यर्थः । कुतो भ्रमत्वस्य बाधकैकसमधि-गम्यत्वमित्यतो विपक्षे बाधकसहकृतान्निरुपाधिकसहचारदर्शनादित्याह न हीति ॥ एवमेवेति । बलवत्प्रमाणबाधं विनैवेत्यर्थः ॥ अन्यथेति । त्वदज्ञानकल्पितं सर्वमित्यत्र बलवत्प्रमाणाभावेऽपि प्रतिवाद्यादिसत्त्वविषयकत्वदीयदर्शनस्य भ्रमत्वाङ्गीकार इत्यर्थः ।
परिमल
सत्यत्वदृष्टेर्बाध्यत्वाददोष इत्यत आह न हि त्वदज्ञानेति । बलवत्प्रमाणेति । श्रुत्यादि तु न दृष्टितो बलवन् निरसिष्यते चेति भावः । तदभावेऽप्यस्तीत्यत आह न हीति ।
श्रीनिवासतीर्थीया
त्वमिति सङ्करं प्रति । अतः पारिव्राज्यादिकमित्युक्तम् । आद्यम् एको जीवस्त्वं प्रतिवादिमुखान् जीवान् सन्तीति पश्यसीत्याद्यं पक्षमित्यर्थः । दर्शनं=प्रतिवादि-मुखजीवदर्शनम् । प्रतिवादिमुखजीवसत्त्वज्ञानं यन्मम तत्सत्त्वेन प्रतीतगन्धर्वनगरमिव बाध्यमिति चेत्तत्राह न हीति । तर्हि दृष्टान्ते कथमत आह न हीति । प्रकृते चासत्त्वावेदकं बलवत्प्रमाणं नास्तीति भावः । अन्यथा = बलबत्प्रमाणाभावेऽपि यदि कल्पितत्वमित्यर्थः । इष्टापत्तिरिति चेत्तत्राह तथा चेति ॥ अनिश्चयेनेति । अकल्पितत्वनिश्चयाभावेनेत्यर्थः ।
वाक्यार्थरत्नमाला
तं दर्शयतीत्यत्र तमित्यनेनोद्देश्यविधेयभावस्य बुध्या विवेकेन परामर्शः ।