यच्चाविकृतमेवैकं ब्रह्म विश्वात्मना मृषा
विवर्तवादानुवादः
यच्चाविकृतमेवैकं ब्रह्म विश्वात्मना मृषा
सुधा
अपव्याख्यानान्तरं दूषयितुमनुवदति यच्चेति ।
अनुव्याख्यानम्
यच्चाविकृतमेवैकं ब्रह्म विश्वात्मना मृषा ॥
दृश्यते मन्ददृष्ट्यैव स सर्ग इति कथ्यते ।
ब्रह्म विश्वात्मना दृश्यत इति यत्, स सर्ग इति कथ्यत इत्येतावत्परिणामवादेऽपि समम् । अत उक्तमविकृतमेवेति । अविकृतत्वं कुत इत्यत उक्तमेकमिति । अद्वितीयम् । निरवयवं चेत्यर्थः ।
तथा हि । किं ब्रह्मणः स्वत एव विश्वाकारपरिणामः । किं वा परतः । नाद्यः, क्काप्यदर्शनाद् यदपि क्षीरवद्धीत्युदाहृतम् । तत् कालादेर्विद्यमानत्वादयुक्तम् । स्वेच्छयैवेति चेन्न । प्रयोजनाभावात् । स्वभावोऽयभिति चेन्न । प्रेक्षावत्त्वहानेः । न द्वितीयः । अद्वितीयत्वात् । न च निरवयवं क्कापि परिणतं दृष्टम् । आकाशं संयोगादिमदुपलब्धमिति चेन्न । द्रव्याकारणपरिणामस्य प्रकृतत्वात् । परमाण्वादयस्तु स्वरूपेणैव न सिद्धा इति ।
शेषवाक्यार्थचन्द्रिका
नन्वेकत्वेऽपि विकृतत्वे बाधकाभावेनाप्रयोजकत्वान्नैकत्वस्याविकृतत्वे हेतुत्वं युक्तम् । एकस्यापि मृत्पिण्डादेर्घटाद्यात्मना विकृतत्वदर्शनेन व्यभिचारश्चेत्यतोऽविकृत-त्वोपपादकतया द्वेधा व्याचष्टे अद्वितीयमित्यादिना ।
एवं व्याख्यानद्वयेन कथमुक्तदूषणद्वयपरिहार इत्यतस्तं दर्शयितुमत्र सम्भावितपक्षद्वयं विकल्प्या-द्यपक्षं बहिरेव प्रदूष्य द्वितीयपक्षदूषणपरतया मूलं योजयितुं विकल्पयति तथा हीति । मृदादेर्घटाद्यात्मना परिणामस्य कारणान्तरसापेक्षत्वस्यैव दर्शनेनानपेक्षपरिणामादृष्ट्या परिणाममात्रस्य कारणान्तराधीनत्वनियमस्थितेरसहायस्य ब्रह्मणो न प्रपञ्चात्मना परिणामः सम्भवतीत्याशयेनाह नाद्यः क्काप्यदर्शनादिति । ननु यः परिणामः स परिणामिभिन्नकारणान्तरसापेक्ष एवेति नायमस्ति नियमः । असहायस्यैव क्षीरस्य दध्यात्मना परिणामदर्शनेन तत्र व्यभिचारात् । तथा चासहायस्यापि ब्रह्मणो विश्वात्मना परिणामो भविष्यतीत्याशङ्कते यदपीति ॥ उदाहृतमिति । ‘उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धी’त्यत्र मृदादेर्घटादिपरिणामस्य कुलालदण्डादिसापेक्षत्वदर्शनादसहायस्य ब्रह्मणः कथं परिणाम इत्याशङ्क्य यथा क्षीरजलयोरसहाययोरेव दधिहिमभावेन परिणमस्तथाऽसहायस्यैव ब्रह्मणो विश्वात्मना परिणाम इत्यसहायस्यैव ब्रह्मणः परिणामे क्षीरं निदर्शनतयोदाहृतमित्यर्थः । स्यादेवं ब्रह्मणोऽसहायस्यापि परिणामो यदि क्षीरादेरसहायस्यापि दध्याद्यात्मना परिणामः सिद्धः स्यान्न चैतदस्ति । त्वत्पक्षेऽपि क्षीरादेर्दध्यादिपरिणामे कालप्रकृतिकर्मादेः सहकारिणः सत्त्वेन तदनपेक्षत्व-व्युत्पादनस्य सिद्धान्तविरुद्धत्वादित्याह तत् कालादेरिति । यद्यपि क्षीरादेर्दध्यादिपरिणा-मस्यातञ्चनादिकारणत्वस्यान्वयव्यतिरेकसिद्धत्वात्तथैव वक्तुमुचितम्, अत एव चन्द्रिकायामपि तदेव प्रथममुद्भाव्य किञ्चेति दूषणान्तरपरतयैवेदं दूषणमुपवर्णितम्; तथाऽपीह टीकायां ‘पराधीनविशेषा-प्तिरनिवर्त्योऽन्यथाभव’ इति विकारविभागपरवाक्यव्याख्यानावसरे दध्यात्मना परिणामस्यातञ्चनादि-कारणान्तरसापेक्षत्वस्योपवर्णितत्वेन तत एव ज्ञातुं शक्यत्वादत्रानुद्भावनम् । चन्द्रिकायां तु तत्रोक्तमत्रोक्तं च दूषणं सङ्कलय्य परपक्षनिरासकतया व्यापारितमिति ध्येयम् ।
अस्तु जडेषु पराधीन एव विकारः । अचेतनत्वेनेच्छाऽसम्भवेन स्वेच्छया विकारासम्भवात् । ब्रह्मणस्तु चेतनत्वात्स्वेच्छयैव विकारो नानुपपन्नः ‘तदात्मानं स्वयमकुरुते’ति श्रुतेरिति भावेन शङ्कते स्वेच्छयैवेति चेदिति ॥ प्रयोजनाभावादिति । स्यादेवं कथञ्चिद्यदि ब्रह्मणः प्रपञ्चभवनेच्छोपपन्ना स्यान्न चेयमुपपद्यते । तथाहि । स्वर्गादेरिव प्रपञ्चभवनस्य स्वतः पुरुषार्थत्वाद्ब्रह्मणस्तदिच्छा अभिप्रेयते । यागादेरिव पुरुषार्थसाधनत्वाद्वा । नाद्यः । नानाविधानर्थरूपप्रपञ्चभवनस्यापुरुषार्थतया ब्रह्मणस्तदिच्छाऽयोगात् । नान्त्यः । तस्य प्रयोजनान्तरशून्यत्वदिति भावः । स्वभावत्वात्प्रपञ्च-भवनेच्छाया न प्रयोजनापेक्षत्वमिति शङ्कते स्वभावोऽयमिति चेदिति ॥ प्रेक्षावत्त्वहानेरिति । न ह्युन्मत्तोऽप्यात्मनोऽनर्थरूपतामिच्छति दूरे प्रेक्षावानिति न प्रेक्षावतो ब्रह्मणो नानाविधानर्थ-प्रपञ्चभवनेच्छास्वभावत्वं युक्तम् । न च प्रपञ्चस्यानर्थरूपत्वाज्ञानात्तद्भवनेच्छा प्रेक्षावतोऽपि ब्रह्मणो युक्तेति वाच्यम् । असर्वज्ञत्वापातात् । न च सर्वज्ञस्य तदाश्रयितुं युक्तमिति भावः ।
अस्तु तर्हि द्वितीयो निरवद्यत्वादित्यत आह नेति ॥ अद्वितीयत्वादिति । ‘सदेव साम्येदमग्र आसीदि’ति प्राक् सृष्टेर्वस्त्वन्तरनिषेधान्न ब्रह्मणो विश्वाकारपरिणामो ऽसहाय इति भावः । ब्रह्म न परिणामि निरवयवत्वाद्य्वातिरेकेण मृदादिवदित्यनुमानमभिप्रेत्य तन्मूलभूतव्याप्तिमुपपादयति न चेति । यदि हि क्वापि देशे काले वा किञ्चिदपि निरवयवं परिणामि दृष्टं स्यात्तदेयं व्याप्तिर्भच्येत, न चैवमित्यर्थः । गगनादेर्निरवयवस्यापि गुणक्रियाद्यात्मना परिणामदर्शनादनैकान्त्यमित्याशङ्कते आकाशमिति । स्यादाकाशादावुक्तरीत्या व्यभिचारो यदि परिणामित्वाभावमात्रं साध्येत । न चैवम् । किं नाम द्रव्याकारेणापरिणतत्वमेव । तच्च निग्वयवस्य गगनादेरस्त्यैवेति कथमनैकान्त्यमित्याह द्रव्येति । ननु वैशेषिकादिमते निरवयवानामपि परमाणूनां द्य्वाणुकादिद्रव्यात्मना परिणतत्वात्तत्र व्यभिचारः । तथा साङ्ख्यमते निरवयवस्यापि प्रधानम्य महदाद्यात्मना परिणामात्प्रधानेऽपि व्यभिचारः । न च नैव तैर्निरवयवं प्रधानमभ्युपगम्यते । सत्त्वरजस्तमांसि त्रयो गुणास्तेषां साम्यावस्थैव प्रधानम् । तच्च तैरेवावयवैः सावयवमिति परसिद्धान्तादिति वाच्यम् । सत्त्वरजस्तमसामप्येकैकस्य समानं निरवयवत्वमेकैकमेव चेतरद्वयानुगृहीतं स्वसजातीयस्य प्रपञ्चस्योपादानमित्युपादानस्य निरवयवत्वापरिहारादित्यतः स्यादेतदेवं यदि निरवयवत्वादिरूपेण परमाण्वादि सिद्धं स्यान्न चैतदस्तीति न तत्रानैकान्त्योद्भावनाऽवसर इति भावेनाह परमाण्वादयस्त्विति ।
परिमल
अपव्याख्यानान्तरमिति । प्रपञ्चो ब्रह्मपरिणाम इत्येतत्प्रकृत्यधिकरणार्थ इति यद्भास्करदिव्याख्यानं तत्प्राङ्निरस्तम् । ब्रह्म प्रपञ्चारोपाधिष्ठानमित्येतदत्रोच्यत इति यदपव्याख्यानं तन्निरसितुमित्यर्थः । अविकृतत्वे एकमित्यनेनोक्तार्थद्वयस्य हेतुत्वं व्यनक्ति तथाहीत्यादिना न सिद्धा इत्यन्तेन ॥ तदिति । कालादेरविकारत्वादिति भावः । ननु परमाणुप्रधानशून्यतत्त्वादयस्तादृशा दृष्टा इत्यत आह परमाणवादयस्त्विति ।
यादुपत्यं
ननु वैशेषिकादिमते निरवयवानां परमाणूनां शून्यवादिमते निरवयवस्य शून्यस्यैव परिणाम इत्यङ्गीकारात्कथमेतदित्यत आह परमाण्वादय इति ।
श्रीनिवासतीर्थीया
क्कापीति । स्वत एव परिणामस्येति शेषः । नन्वदर्शनमसिद्धम् । गवाद्युपभुक्तस्य तृणादेः स्वत एव क्षीराकारेण परिणामदर्शनादित्याशङ्क्याह यदपीति । कालादेरित्यादिपदेनाग्न्यादिग्रहणम् । तथा व तत्रापि परिणामः कालाद्यधीन एवेत्यर्थः ॥ स्वेच्छयेति । विश्वाकारपरिणाम इति वर्तते । अतो न परापेक्षेत्यर्थः । नानाप्रकारेणानर्थीभवनस्वभावस्य ब्रह्मणो भग्नं पे्रक्षावत्त्वमित्याह पे्रक्षावत्त्वेति । निरवयवेऽप्याकाशे संयोगादिमत्त्वरूपावस्थान्तरप्राप्तिरूपः । परिणामोऽस्त्येवेति शङ्गते आकाशमिति । नन्वथाऽपि निरव्यवानां परमाणूनां द्य्वणुकादिद्रव्याकारेण परिणामो दृष्ट एवेत्यत आह परमाण्वादय इति ।
वाक्यार्थरत्नमाला
द्वेधेति । एकपदमिति शेषः । तथापाठस्तु स्पष्ट एव । उर्णनाभ्युपभुक्तेति पाठः । उपयुक्तेत्यपि मूलानुसारीपाठश्चेन्न दोषः । इति नायमिति । इत्ययं नियमो नास्तीति सम्बन्धः । नैव सस्याद्धरेः क्वचिदिति प्राचीनानुव्याख्यानव्याख्यानरूपमूलानुसारेण अवतारयति । अस्तु जडेष्विति । स्वर्गादेरिवेत्यतः प्राक्विंशब्दयुक्तः पाठः । उक्तस्थलीयमूलानुसारेणाह । न ह्युन्मत्तोऽपीति । गगनादेरिति । अत्रादिपदेन मनआत्मनोर्ग्रहणेनाकाशमिति मूलम् उपलक्षणमिति सूचितम् । गुणक्रियादीत्यादिपदेन अभावग्रहणम् । संयोगादिमदिति मूले संयोगसमकक्ष-विभागशब्दयोरिव तदसमकक्षकर्मादेरपि ग्रहणम् । तथा च गुणत्वेन संयोगादीन् विवक्षित्वा कर्मादींश्च तद्रूपेण विवक्षित्वा मूलं व्याख्यातं गुणक्रियाद्यात्मनेति । तत्र गगने क्रियाया अभावेऽपि गुणाभावयोः सत्वान्मनसि गुणादेस्त्रितयस्यापि भावादात्मन्यपि गुणाभावयोः सत्वात्तेषां तत्तदात्मना परिणामो दृश्यत इत्यर्थः । एतेन गगनस्य क्रियाभावादादिशब्दसङ्ग्राह्याप्रतीतिश्चेति निरस्तम् । अत्र च गुणाद्यात्मना परिणामो नाम विशिष्टांतरोत्पत्तिर् विशिष्टं च विशेष्यात्मकमिति विशेष्यस्यैव पूर्वसिद्धस्य परिमाण इति विवक्षितः परिमाणोऽभिप्रेतो मूलटीकयोः । उत्तरत्रापि द्य्वुणकादिद्रव्यात्मनेति परिणामप्रतिपादनं च वैवक्षिकपरिणामभिप्रेत्य । एवंविध एव परिणामे अयमारम्भ इति वैशेषिकादयः । परिणाम इति परिणामवादिन इत्येवं नाममात्र एव विवादः । तेन वैशेषिकादिमते परमाणूनां परिणामाभावात् । असदनुवाद इति शङ्का निरस्ता भवति । वैशेषिकादीत्यतद्गुणसंविज्ञानबहुव्रीहिणा परिणामवादिनामेव ग्रहणमिति वा । वैशेषिकादीत्यादिपदोक्तपरिणामिवादिसहकारेण समुदाये छत्रिन्यायेन लक्षणयाऽत्र प्रवृत्तिरित्यप्याहुः । सांख्यप्रक्रियानुसारेण शङ्कते । न च तैरिति । निरवयवत्वादिरूपेणेति । परमाण्वादेः स्वं यद्रूपं निरवयवत्वादि तेन रूपेणेति मूलं योजितं
भवति । न चैतदिति ।
यच्चाविकृतमेवैकं ब्रह्म विश्वात्मना मृषा
यच्चाविकृतमेवैकं ब्रह्म विश्वात्मना मृषा
सुधा
अविकृतमेवान्यदन्यात्मना दृश्यत इत्यसंभवि इत्यत उक्तं मृषेति । मृषाशब्देन विश्वस्य ब्रह्मतादात्म्यस्य तद्दर्शनस्य चानिर्वचनीयतोच्यते । यथा रज्जुरविकृतैव मृषा भुजङ्गाद्याकारेणाभासते तथैवेति । तर्हि विश्वोपादानमन्यद्वक्तव्यमित्यत उक्तं मन्ददृष्ट्यैवेति । मन्दा भवति दृष्टिर्यया सा मन्ददृष्टिस्तया माययेत्यर्थः । अथवाऽसंभवपरिहारार्थमुक्तं मन्ददृष्ट्यैवेति । मन्दा चासौ दृष्टिश्च मन्ददृष्टिर्भ्रान्तिस्तयेत्यर्थः । भ्रान्तेरपि याथार्थ्याद्विश्व(स्य) सत्यतापत्तिरित्यत उक्तं मृषेति । तदेतन्मिथ्याप्रपञ्चारोपाधिष्ठानत्वमेव ब्रह्मणः प्रकृतिश्चैत्यादिना कथ्यत इति ।
शेषवाक्यार्थचन्द्रिका
भाष्ये मृषात्वादिवर्णनस्यानर्थक्यमाशङ्ग्य परिहरति अविकृतमेवेति । मृदाद्यात्मना अविकृतस्यापि मृदादेर्मृदाद्यात्मताऽवभासदर्शनान् न तदात्मना विकृतत्वमेव तदात्मत्वाऽवभासे हेतुः । अतद्रूपस्यापि मृदादेर्घटाद्यात्मताऽवभासदर्शनात् । न तद्रूपत्वमात्रमपि तत्र हेतु;, किन्तु तदात्मना विकृतत्वतद्रुपत्वान्यतरत्वमेवेति भावेनात्रोभयोपादानम् । ब्रह्मणश्च न प्रपञ्चरूपत्वं न वा प्रपञ्चात्मना विकृतत्वमिति न तदात्मतावभासः सम्भवतीत्यर्थः । मृषा दृश्यत इति सन्निधानाद्दर्शनमात्रस्यैवानिर्वचनीयता मृषाशब्देनोच्यत इति भ्रान्तिनिरासायाह मृष्टेति । ननु नैतावताऽपि ब्रह्मणः प्रपञ्चात्मतावभाससमर्थनं सम्भवति तत्प्रयोजकतया क्लृप्तयोस्तद्रूपत्व-तदात्मनाविकृतत्वयोः प्रकृते अनुपपादनादित्यतः स्यादेवं यदि तदात्मताऽवभासे उक्तरीत्या द्वयमेव प्रयोजकं स्यान्न चैतदस्ति । तथा सति रज्ज्वादेर्भुजङ्गाद्यात्मताऽनवभासप्रसङ्गात् । रज्ज्वादेर्भुजङ्गादि-रूपत्वस्य भुजङ्गाद्यात्मना विकृतत्वस्य वा तदात्मतावभासप्रयोजकस्य तत्राभावात्किन्त्वन्यदपि ।
तथा च रज्ज्वादेर्भुजङ्गाद्यात्मताऽवभासे उक्तप्रयोजकद्वयाभावेऽपि तदारोपाधिष्ठानत्वेन तदात्मताऽव-भासवद् ब्रह्मणो विश्वात्मताऽवभासस्याप्युक्तनिमित्तद्वयाभावेऽपि निमित्तान्तरेण विश्वात्मताऽव-भाससम्भवान्नासम्भव इत्याशयेनानुरूपं दृष्टान्तमाह यथेति । तथाऽपि मन्ददृष्ट्यैवेति मायोपादान-कत्ववर्णनमनर्थकमित्यतो ब्रह्मण उपादानत्वाभावे निरुपादानत्वोत्पत्तिप्रसङ्गरूपबाधकपरिहारार्थं तदिति भावेन तां शङ्कामुत्थापयति तर्हीति ॥ अन्यद्वक्तव्यमिति । निरुपादानभावसृष्टेरयोगाद् ब्रह्मणश्चोक्त-रीत्याऽनुपादानत्वाद् रज्ज्वारोपितभुजङ्गाद्युपादानाज्ञानोपादानकत्वे तद्वदेव प्रातिभासिकत्वापत्त्याऽर्थ-क्रियाकारित्वाभावप्रसक्तेस् तद्विलक्षणमेवोपादानं वाच्यमित्यर्थः । नन्वविकृतस्यापि प्रपञ्चात्मताया भ्रान्त्याऽवभाव इत्येवोक्त्या उपादानानुक्तेर्नोक्तशङ्गापरिहार इत्यत प्रकृतोपयोगितया व्याचष्टें मन्देति । तथा च आविद्यकत्वमायिकत्वाभ्यामर्थक्रियानर्हत्वतदर्हत्वव्यवस्था युक्तेति भावः । मृषेत्यस्यासंभव-परिहारकत्वं न श्लिष्टमित्याशयेन पक्षान्तरमाह अथवेति ॥ असम्भवेति । आविकृतस्यैवान्य-स्यान्यात्मतादर्शनासम्भवेत्यर्थः । उक्तरीत्या व्याख्यानस्य शङ्कितासम्भवपरिहारानुपयोगि-तयाऽसम्भवात्प्रकारान्तरेण व्याचष्टे मन्दा चेति । तर्ह्यनेनैवासम्भवशङ्कापरिहारात्, भाष्ये मृषेत्यंशानर्थक्यमित्यतस्तत्प्रयोजनमाह भ्रान्तेरपि याथार्थ्यादिति । सत्यत्वादित्यर्थः । घटः सन्नित्यादिना घटादेरिव भ्रम आसीदित्यादिलौकिकप्रतीतिप्रयोगाभ्यां तत्सत्यत्वसिद्धेरित्यर्थः ॥ विश्वसत्यत्वेति । परमते भ्रमस्यार्थज्ञानात्मकत्वेन, तस्य सत्यत्वे, तद्विषयस्य विश्वस्यापि सत्यत्त्वस्यावश्यकत्वादित्यर्थः । यद्वा विश्वसत्यत्वापत्तिर् भ्रन्तिरूपस्य विश्वस्य सत्यत्वापत्त्या, सदद्वैतभङ्ग इति भावः । अत उक्तं मृषेतीति । तथा च भ्रान्तेरप्यसत्यत्वान्न सदाद्वैतभङ्ग इत्युक्तं भवति । नन्वस्त्वेवं प्रपञ्चारोपाधिष्ठानत्वं ब्रह्मणः, तथाऽपि न प्रकृतिरिति प्रतिज्ञातोपादानत्त्व-सिद्धिरित्यतः, सुत्रे प्रकृतिशब्देन प्रपञ्चारोपाधिष्ठानत्वस्यैव विवक्षितत्वं मूलारूढं कर्तुं, तदनुगुणमेव शेषं पूरयति प्रकृतिश्चेत्यादिनेति ।
परिमल
असम्भवेति । अनिर्वचनीयेनापि प्रमारूपज्ञानेनान्यदन्यात्मना दृश्यत इत्यस्या-सम्भवात्तत्परिहारायेत्यर्थः ॥ भ्रान्तेरपि याथार्थ्यादिति । भ्रमरूपज्ञानस्य सत्त्यत्वात्तद्विषय-तत्कारणादेरपि सत्त्यत्वा(स्य)वश्यंभावात् । अन्यथा अर्थसन्निकार्षादिसामग्रयभावे तदुत्पत्तेरेवा-योगादिति भावः । मृषेतीति । भ्रान्तिरप्यसत्येत्यर्थः । ‘स सर्ग इति कथ्यत’ इत्यस्यार्थान्तरमाह तदेतदित्यादिना । इतिपदपरामृष्टं दर्शयति प्रकृतिश्चेत्यादिना । यद्वा प्रकृतिरिति पदम् इतिशब्दात्पूर्वमनुवर्त्य अस्यार्थोक्तिः प्रकृतिश्चेत्यादिनेति ।
यादुपत्यं
नन्वस्मिन् व्याख्याने मृषेति व्यर्थमित्यत आह भ्रान्तेरपि याथार्थ्यादिति ॥ भ्रान्तिरूपज्ञानस्य सत्यत्वात्तद्विषयस्य विश्वस्यापि सत्यतापत्तिरित्यर्थः ।
श्रीनिवासतीर्थीया
असम्भवीति । अन्यस्यान्यात्मताया विकृतत्वं विनाऽसम्भवादीत्याशयः ॥ असम्भवेति । अविकृतमेवान्यदन्यात्मना दृश्यत इत्यसम्भवीति पूर्वोक्तासंभवेत्यर्थः ॥
वाक्यार्थरत्नमाला
कार्यद्रव्यं स्वपरिणामादनंतरपरिमाणारब्धम् । कार्यद्रव्यत्वात्पट वदित्यनुमानं तावन्न युक्तम् । दीर्घविस्तीर्णैर्दुकूलैः क्रियमाणरज्जुद्रव्यस्य कार्यत्वदर्शनेनानैकांत्यात् । न किञ्चिदपि कार्यद्रव्यं निरवयवद्रव्यसंयोगपुरःसरं प्रचयात्मकत्वाद् घटवदिति प्रत्यनुमानपराहतेश्च । एवमन्येषामपि दूषणेन परमाणूनां निरवयवत्वेन सिद्धिर्नास्ति । तथा सर्वे विकारा अविभक्तैकप्रकृतिकाः परिमितानेकविकारत्वाद् यथा मृत्पिण्डप्रकृतिकाः शरावादय इति सांख्यानुमानमप्ययुक्तम् । अत्र परिमितत्वं किं वस्तुत उत देशतो ऽथ कालतः । नाद्यः । गुणपुरुषाणामपि वस्तुनः सकाशात्परिमितत्वेन व्यभिचारात् । न द्वितीयतृतीयौ घटादिहिमकरादिषु देशकालपरिमितत्वे विद्यमानेऽपि मृदूदकरूपप्रत्यक्षदृष्टभिन्नप्रकृतिकत्वसद्भावेन व्यभिचारात् । एवमनुमानान्तरमपि दूष्यम् । ततश्च प्रमाणाभावात्प्रधानस्य निरवयवत्वेन तेषां सिद्धिर्नास्तीत्यर्थः । अत्र चादिपदेन शून्यवाद्याद्युक्तशून्यपशुपत्यादिकं विवरणोक्तं बोध्यम् । तन्निरवयवत्वस्यापि तत्र निरासात् । उक्तनिमित्तद्वयाभावेऽपि निमित्तांतरेण सम्भवादिति पाठः सुगम एव । विश्वामत्मतावभाससम्भवादिति पाठे तु पूर्वस्य षष्ट्यन्तस्याभावेऽपीत्यनेनान्वयमात्रम् । न तु सम्भवादित्यनेनापीति न वैय्यर्थ्यमिति ज्ञेयम् । अस्तु प्रातिभासिकत्वमपीत्यत आह । अर्थक्रियेति । अज्ञानोपादानकत्वपक्षे अर्थक्रियाकारित्वाभावप्रसङ्गमुद्धरति । तथा चाविद्यकत्वेति । अज्ञानसामान्योपादानकत्वेऽपि तदवान्तरविशेषाभ्यां व्यवस्थेत्यर्थः । नश्लिष्टमिति । यद्यप्यत्र मन्ददृष्टिपदेन मायाया भ्रान्तेश्च ग्रहणायैवोभयथा योजनायाः कृतत्वम् । अत एव वक्ष्यति मूलकारः । विवर्ततया तदुपादानतया चेत्यर्थ इति । तथा च नाश्लिष्टत्ववचनोपपत्तिः । प्रकारान्तरलाभार्थं व्याख्यानान्तरमित्येव वर्णनीयत्वात्तथाऽपि प्रकारान्तरलाभाय कृतयोजनायामिवाद्ययोजनायां मृषेत्यस्य न स्वारस्यं वक्तुतोऽस्तीति दर्शयितुमेवमुक्तम् । अन्यस्यान्यात्मना दर्शनमसम्भावितमित्याशङ्काया भ्रांत्यर्थकमन्ददृष्टिरित्यनेनैव मृषापदार्थात्मनेत्यनेन परिहारस्य स्पष्टमभावात् । एकेनैव परिहारसम्भवे विशेषण-द्वयव्यापाराश्रयणवैयर्थ्यं च पूर्वपक्षे अत एव वक्ष्यति तर्ह्यनेनैवेति । तथा न दृश्यत इति शङ्कायां भ्रान्तिरूपं दर्शनमस्तीत्युक्ते परिहारो भवति । तद्दर्शनं मिथ्येत्युक्ते दर्शनाभावशङ्काया न परिहारः । दर्शनसद्भावप्रतिपादनोत्तरं तत्सत्यत्वशङ्कापरिहाराय तन्मिथ्यात्वप्रतिपादनस्य सङ्गतत्वात् ।
न हि मिथ्येत्येतद्यथार्थभूतार्थविषयकत्वरूपप्रमात्वविपरीतभ्रान्तित्वप्रतिपादकतया योजयितुं शक्यम् । येनोक्तशङ्कापरिहारः स्यात् । तथात्वे प्रमाविपरीतत्वप्राप्त्या विषयीकृतार्थस्य सत्यत्वालाभेऽपि घटादितुल्यसत्यत्वप्रयुक्ता विश्वसत्यतापत्तिः स्यादेवेति तत्परिहाराभावप्रसङ्गः । योजनान्तरेतु तत्परिहारोऽस्तिति वैषम्यमिति ज्ञेयम् । याथार्थ्यादित्यस्य यथास्थितार्थविषयकत्वादिति प्रतीयते । तथात्वेच व्याघातः । भ्रान्तिपदेनायथावस्थितार्थविषयकत्वस्यैवोक्तेरित्यतो व्याचष्टे । सत्यत्वादित्यर्थ इति । ननु यथार्थपदस्य यथावस्थितार्थज्ञेयविषयकत्वार्थत्वेन सत्यत्वार्थत्वाभावादुक्तव्याख्यानायोग
इति चेन्न । किं यथार्थशब्दो न कुत्रापि सत्यत्ववाचीत्यभिमतम् । उतात्रैव । नाद्यः । याथातथ्यतोऽर्थानित्यादिव्याख्याने यथार्थानेव महदादीनीत्यादिशास्त्रे लोके च घटादौ यथार्थ इति आरोपिते च अयथार्थ इत्यभियुक्तानभियुक्तसाधारणयेन प्रयोगस्य सद्भावेन कुत्रापि तदर्थत्वा-भावायोगात् । नांत्यः । भ्रान्तेर्यथात्वस्य यथावस्थितार्थविषयकत्वरूपस्य व्याघातेनासम्भवेन सत्यत्वार्थत्वे बाधकाभावेनात्रापि तदर्थत्वानङ्गीकारायोगादिति द्रष्टव्यम् । घटः सन्नित्यादिनेति । ननु घटादेर् घटः सन्नित्यादिप्रत्ययाश्रयणेन सत्यत्वानङ्गीकारात्कथं तद्द्रष्टान्तेन भ्रान्तेर् भ्रम आसीदित्यादि-प्रयोगादिना सत्यत्वापादनम् । दृष्टान्तस्य साध्यवैकल्यप्रसङ्गात् । तत्र तत्प्रत्ययबलेन सत्वाङ्गीकारे च भ्रान्तिसत्यत्वेन विश्वसत्यत्वापादनायोगः । घटादिवत्सर्वस्यापि सत्यतायाः सिद्धत्वेनेष्टापादन-त्वप्रसङ्गात् । सदिति प्रतीतिमात्रेण सत्यत्वसिध्यङ्गीकारे इदं रजतमिहास्तीति प्रतीत्या शुक्तिरजतस्यापि सत्यत्वप्रसङ्गाच्चेति चेन्न । अत्र हि मायिरीत्या तत्प्रक्रियाव्युत्पानं क्रियते तत्र भ्रांत्या ब्रह्म विश्वात्मना प्रतीयत इत्युक्ते भ्रम आसीदिति भ्रान्तिसत्यत्वव्यवहारात्सा परमार्थसतीति पररीत्या प्राप्तम् ॥ विश्वसत्यत्ववादिभिर्घटादेः सत्वप्रतीत्या परमार्थसत्वाभ्युपगमात् । अतो भ्रान्तेर्मिथ्यात्वं वाच्यम् । सत्वप्रतीतिस्तु व्यावहारिकसत्वविषया । अतो न भ्रान्त्या घटादेः पारमार्थिकसत्वापत्तिरित्याशयेन मृषेत्युक्तमिति वाक्यार्थः प्रतीयते । तत्र कुतो दृष्टान्ते साध्यवैकल्यम् । न ह्यत्रापादनं मायिनं प्रति सत्यत्ववादिना क्रियते । येन घटादौ दृष्टान्ते साध्यवैकल्यं शङ्कते । अत एव सर्पभ्रमादावपि हीत्यनुपदमेव वक्ष्यमाणानुव्याख्यानमूले नाभूदत्र सर्प इतिवन्न सर्पज्ञानं ममाभूदिति बाधकानुदयात् । अभूदित्येवानुवृत्तेश्च भ्रमत्वस्य विषयवैपरीत्यमात्रेणोपपत्तेरित्यादि वक्ष्यते । एकजीवाज्ञान-वादनिराकरणस्थलीयतद्विषयस्यैवान्यथात्वं भ्रान्ताविति तत्वनिर्णयटीकायां ननु यद्यारोपितार्थज्ञानं सत्यं स्यात्तदा कथम् इत्यादिकमुक्तम् । तथा जिज्ञासाधिकरणेऽज्ञाननिराकरणस्थले - तथात्वे याथार्थ्यमपि स्यादिति चेन्न । स्वरूपसतोऽपि विषयसत्वेनायथार्थत्वोपपत्तेः । न हि स्वरूपसतोऽपि विषयसत्तया भाव्यमिति नियमोऽस्ति । साक्षिचैतन्ये व्यभिचारादित्यादिमूलोक्तिः । किं च स्वात्यन्ताभाव-समानाधिकरणत्वं मिथ्यात्वमित्यादिपक्षेषु संयोगविभागशब्दात्मविशेषणाख्यप्रदेशवर्त्तिनामिव वियदादीनां सत्यत्वेऽपि स्वात्यन्ताभावसमानाधिकरणत्वोपपत्या मिथ्यात्वं नायातीत्यादिकं सत्यत्ववादिदूषणं परं प्रति न प्रसज्येत । न हि संयोगादेः सत्यता परेणाङ्गीकृता । तथा तद्दोषपरिहाराय परोऽपि दृष्टान्तासङ्गतिं ब्रूयात् ।
ननु संयोगादिव्यावर्त्तनायाव्याप्यवृत्तित्वानधिकरणत्वादिना विशिष्यात् । तत्वप्रदीपिकादौ मिथ्यात्वादिनिर्वचनाद्यवसरे ज्ञाननिवर्त्यत्वादिपक्षेषु पूर्वपूर्वज्ञानसुखादिषु उत्तरोत्तरज्ञानादिनाश्यत्वस्य सत्वेऽप्युपपत्तेरित्यादेः पररीत्या प्रतिपादनाच्च । न ह्यत्रापि स्वरीत्या मायी वदतीत्यङ्गीकृतम् । पररीत्यैवेत्युक्तत्वात् । तस्मादत्र सत्यत्ववादिना मायिनं प्रत्यापादानाकरणेन दृष्टान्ते आपाद्यवैकल्यस्य मायिनोद्भावयितुमशक्यत्वाद्विश्वसत्यत्वापादने इष्टापत्तेरपि वक्तुमशङ्कक्यत्वाद् युक्तं सत्यत्वोपपादनम् । अत एव शुक्तयादौ सत्यतामाश्रित्यारोपितस्य मिथ्यात्वं सिद्धवत्कृत्यारोपितं दृष्टान्तीक्रियते । ततश्चायं निष्कर्षः । मायिना मिथ्यात्वसाधनावसरे सत्यत्ववादिनः सत्यत्वेन संमतं मध्यस्थीकृत्य यन्मिथ्यात्वेन संमतं तदेव दृष्टान्तीकार्यम् । तदवसरेऽपि मया सर्वस्य मिथ्यत्वाङ्गीकारात्संयोगादिवदुप-पत्तेरित्ययुक्तमिति मायिना न वाच्यम् । किन्तु तत्परिहाराय विशेषणप्रक्षेपादिकं कार्यम् । तद्वदेव प्रकृतेऽपि भ्रांत्या प्रतीयते इत्युक्तयनन्तरं यदि भ्रान्तिरपि घटादिवत्सत्या तर्हि न मन्मते तया विश्वस्य कल्पितत्वं सिध्येत् । अतः सत्वानुवेधस्याधिष्ठाननिमित्तकत्वे भ्रान्तौ सत्यत्वाभावान्न विश्वसत्यताप्रसङ्ग इत्यादिकमेव परेणोपपादनीयम् । अत एव घटादावपि स्वातन्त्र्येण सत्वप्रसङ्गे अधिष्टानानुवेध एव घटगता सत्तेत्यादिकमुपपाद्यते परैः । सर्वमेतत्परग्रन्थे तदनुवादरूपस्वग्रन्थे च तत्र तत्र स्पष्टमित्युपरम्यते । सदिति प्रतीतिमात्रेण सत्यत्वसिध्यङ्गीकारे इदं रजतमिहास्तीति प्रतीत्या शुक्तिरजतस्यापि सत्यत्वापातादिति तु दूषणमात्रम् । न हि कोऽपि बाधितप्रतीत्याऽर्थसत्वमङ्गीकरोति । येन तादृशप्रतीत्या तदापादानं सङ्गच्छेत । न च विश्वभ्रमसत्वप्रत्ययस्यापि बाधितत्वान्न सत्वप्रतीत्या सत्वसिद्धिरिति वाच्यम् । ब्रह्मप्रमया व्यावहारिकत्वाभिमतस्य बाध्यत्वेऽपि तदतिरिक्त-प्रमाबाध्यत्वाभावेन सत्यत्वप्रसक्तिसम्भवात् । अत एव सत्यत्वपरिहाराय ब्रह्मप्रमाबाध्यत्व-रूपमनिर्वचनीयत्वमेवोच्यते । तेन पारमार्थिकसत्यत्वस्यैव निषेधो न व्यावहारिकस्येति स्पष्टं तन्मतप्रतीतेः । अत एव व्यावहारिकसद्भ्रांत्या विषयस्य व्यावहारिकसत्वमालंब्य पारमार्थिकसत्यत्वमेव परैर्नेत्युपपादितम् । स्वमते च पराङ्गीकृतपारमार्थिकसत्वसमर्थनमेव तत्र तत्र क्रियत इत्यलम् । परमते भ्रमस्येति । अत्र च भ्रमस्य सत्यत्वे विषयस्यापि सत्यत्वमावश्यकमित्येव वक्तुं न युक्तम् । स्वमते भ्रमस्य सत्यत्वेऽपि तद्विषयस्य सत्यत्वाभावेनास्मद्रीत्या प्राप्तवत्सत्यत्ववारणाय मृषात्ववर्ण-नायोगप्रसङ्गादित्यतो मतान्तरे भ्रमस्य सत्यत्वेऽपि तद्विषयस्य सत्यत्वानापत्तावपि मतान्तरसिद्ध-भ्रमसत्यत्वमात्रमालंब्य मायिमते भ्रमस्यार्थज्ञानात्मकत्वेन ज्ञानतदर्थस्यापि सत्यत्वापत्तिरिति शङ्कोदयेन तत्परिहाराय मृषात्वप्रतिपादनसार्थक्यादित्याशयेनोक्तं परमते भ्रमस्यार्थज्ञानात्मकत्वेनेति ।
अत्र चार्थज्ञानात्मकभ्रमस्य सत्यत्वे समुदायसत्यत्वेन समुदायान्तर्गतविश्वस्यापि सत्यत्वापत्ति-रित्यभिप्रेतमिति अर्थज्ञानातिरिक्तविषयाभावात्तद्विषयविश्वसत्यत्वापादनानुपपत्तिरिति चोद्यानकाशः । यद्वा तस्येत्यनेन ज्ञानमात्रं परामृश्यते । तथा च ज्ञानस्य सत्यत्वेन तद्विषयस्यापि सत्यत्वं स्यादिति यथाश्रुत एवार्थः । तद्विषयस्येत्यपि षष्टीतत्पुरुषरूपं यथाश्रुतमेव । न तु पूर्वत्रेव तत्र विषयस्येति सप्तमीतत्पुरुषरूपम् । न चैवं ज्ञानसत्यत्वेन विषयसत्यत्वप्रसक्तिप्रतिपादनायोगः । सत्यत्ववादिमतेऽपि तथात्वाभावेन प्रयोजकत्वप्रसङ्गादिति वाच्यम् । सत्यत्ववादिरीत्या सत्यतामालम्ब्य विषयावच्छिन्नस्य ज्ञानस्य सत्यत्वेऽवच्छेदकीभूतविषयस्यापि सत्यताया यद्विशिष्टस्य यस्य तद्भवति तद्विशेषणस्या-पीतींद्रियसन्निकर्षादौ क्लृप्तया स्वयमप्यङ्गीकृतया व्याप्त्या प्राप्तिः सम्भवतीति उक्तप्रसक्ति-प्रतिपादनोपपत्तेः । न चैवं सति परमते भ्रमस्येत्युपपादनं व्यर्थं प्रसज्यत इति वाच्यम् । न केवलमुक्तप्रक्रियया विषयसत्यत्वापत्तिः किन्तु भ्रमसत्वेनाभिमतज्ञानसमकक्षविषयस्य भ्रमैकदेशज्ञान-सत्यत्वप्रसंजकमेव तदेकदेशविषयस्यापि सत्यत्वप्रसंजकम् । भ्रमः सत्य इत्युक्ते ज्ञानार्थयोरविशेषेण सत्यत्वप्रतिभासादिति युक्तयाऽपि विषयसत्यत्वप्रसक्तिरित्याशयेन भवेदेवं यदि भ्रमस्योभयात्मता स्यान्न चेयमस्तीत्यतः मतान्तरे तदभावेऽपि परमते भ्रमस्योभयरूपताऽस्तीति नानुपपत्तिरिति प्रतिपादनार्थ-त्वेन सार्थक्योपपत्तेः । यद्वैतदस्वरसादेवाह । यद्वा विश्वेति । अत्र पक्षे विश्वसत्यतापत्तिरिति न यथाश्रुतं पूर्णम् । प्रसञ्जकविशेषप्रसङ्गात्किन्तु विश्वसत्यताप्यनुवादेनानिष्टान्तरदानाभिप्रायकमेवासद-निष्टान्तरपर्यवसन्नं ततो न कश्चिद्दोष इति सूचयद्विश्वसत्यतापत्तिप्राप्तमनिष्टान्तरं दर्शयति । सदद्वैतेति । न च, यथा प्रमा प्रमैव । न तथा भ्रमो भ्रम एव किन्तु नृसिंहाकारं विज्ञानतया चेदं रजतमिति ज्ञानस्य सम्बन्धांशेऽप्रमात्वेऽपि धर्म्यंशारोप्यांशयोः प्रमात्वेनारोप्यांशस्य सत्यताया दृष्टत्वात् प्रकृतेऽपि भ्रान्तेर्यथार्थत्वे आरोपांशस्य विश्वस्प सत्यत्वापत्तिरिति प्राचीनटीकोक्तरीत्या कुतो न व्याख्यातमिति वाच्यम् । तद्व्याख्यानेऽपि अन्यथाख्यातिमतोपजीवनेन सत्यताप्रसक्तेर्वक्तव्यतया रीत्यन्तराश्रयणेन प्रसक्तिप्रतिपादनस्योभयत्र साम्ये विशेषमपर्यालोच्य व्याख्येयताशङ्कामात्रस्याकर्त्तव्यत्वात् । किञ्चास्मद्रीत्या प्रसक्तिप्रतिपादने मृषापदकृत्यमायाति । अन्यत्र तु न । अन्यत्र विषयसत्वस्य मायिनेवास्माभिरप्यनभ्युपगमेनास्मद्रीत्या ज्ञानसत्यत्वेऽपि विषयसत्वानवकाश इति सत्यत्वप्रसक्ति-निवारणस्य कर्त्तुं शक्यतया मृषापदवैयर्थ्यमेव स्यात् । भ्रम आसीदिति प्रतीतिसिद्धभ्रमसत्यत्व-मवलंब्यान्यथाख्यातिवादिपरिकल्पितारोप्यांशे भ्रमत्वालम्बनायोगाच्च । तन्मतेऽपि संसर्गतादात्म्य-योरारोप्यतया रजतस्यारोप्यत्वाभावेनारोप्यसत्यत्वोक्तययोगाच्चेत्यादिदूषणप्रसङ्गेन तत्त्यागोपपत्तिः ।
श्रीसत्यनाथस्वामिभिस्तु सर्वथा प्रकारान्तरेणैतद्वाक्यव्याख्यानमशक्यमिति वदंतं शिक्षयितुं प्रकारान्तरसम्भवो दर्शितः । न तु स एवार्थ इति तेषामभिप्राय इति ज्ञेयम् ।