०१ ब्रह्मपरिणामनिरासोपसंहारः

तस्मादशेषकर्तैको निर्विकारो रमापतिः

ब्रह्मपरिणामनिरासोपसंहारः

तस्मादशेषकर्तैको निर्विकारो रमापतिः

सुधा

ब्रह्मपरिणामनिराकरणमुपसंहरति तस्मादिति ।

अनुव्याख्यानम्

तस्मादशेषकर्तैको निर्विकारो रमापतिः ॥

निर्विकार एवाशेषकर्तेति सम्बन्धः । द्विभागं ब्रह्मेति यन्निराकृतं तस्योपसंहार एक इति । परिणामानुपपत्तावुक्तयुक्तेरनुवादो वा । अतो न ब्रह्मोपादानत्वं प्रकृत्यधिकरणार्थ इति (सम्बन्धः) शेषः । कस्तर्हि तदर्थ इत्यत आह शब्दैरिति ।

अनुव्याख्यानम्

शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते ॥

इत्यर्थोऽस्येति शेषः । अनेनापव्याख्याननिराकरणस्य स्वव्याख्यानदार्ढ्यार्थत्वान् नासङ्गति-रित्यपि सूचितम् ।

शेषवाक्यार्थचन्द्रिका

अशेषकर्तृत्वस्य परिणामवादिनोऽप्यभिमतत्वात्कथमयं तन्निरा-करणोपसंहार इत्यतो योजनामाह निर्विकार इति ॥ निराकृतमिति । भागेन परिणामश्चेदित्यादिनेति शेषः ॥ उक्तयुक्तेरिति । अपराधीनत्वरूपयुक्तेरित्यर्थः । ‘न च प्रकृतिशब्देन ब्रह्मोपादानमुच्यते’ इत्युपक्रमानुसारेण अनुगुणं शेषं पूरयति अत इति ।

परिमल

परैरुपादाननिमित्तयोरैक्योपगमेन विकारिण एव कर्तृत्वाङ्गीकारात् तस्य चात्र निरासात्तदुपसंहारत्वस्फोरणायोद्देश्यविधेयव्यत्यासेनान्वयमाह इति सम्बन्ध इति ॥ परिणामेति । ब्रह्मणः परिणामानुपपत्तौ नैव स स्यादित्यत्रोक्ता या युक्तिर् विकारमात्रस्य पराधीनत्वादस्य चापराधीनत्वादिति युक्तिः, एकः=अद्धितीयः स्वतन्त्र इति यावदित्युक्त्याऽनूद्यत इत्यर्थः । एतञ्च ‘यच्चाविकृतमेवैकमि’त्यग्रेतनैकपदोक्तभिप्रायविवरणेन व्यक्तम् । अभिधीयत इत्यनन्तरं शेषमाह इत्यर्थोऽस्येति शेष इति । अस्य अधिकरणस्येत्यर्थः । अनेनैवेति । बहु स्यामिति

बहुवचनस्य स्वरूपबहुभावरूपव्याख्यानेनैव प्रकृतिपरवाक्यमपि नियामकस्वरूपबाहुल्यकरणाभि-प्रायेण व्याख्यातमित्यर्थः ।

यादुपत्यम्

उक्तयुक्तेरनुवाद इति । अपराधीनस्वयुक्तेरित्यर्थः । एकशब्दस्यासहाय-वाचित्वादिति भावः ।

श्रीनिवासतीर्थीया

उक्तेति । सर्वपरिणामानां पराधीनत्वोर्क्तेभगवतश्चैकत्वादपराधीनत्वान्न परिणामो युक्त इत्यर्थः ॥