पराधीनविशेषाप्तिरनिवर्त्योऽन्यथाभवः
चतुर्विधविकारप्रकारनिरूपणम्
पराधीनविशेषाप्तिरनिवर्त्योऽन्यथाभवः
सुधा
तत्रानिवर्त्यविशेषाप्तिर्यथा । श्यामस्य फलस्य पीतत्वापत्तिः । तत्र हि धर्मिणस्ता-दवस्थ्यं पीतत्वेऽपि फलव्यवहारानिवृत्तेः । केवलं श्यामत्वापगमेन पीतत्वमुत्पन्नं सौरातपादिवशान्न निर्निमित्तम् । न च पुनर्निवर्तते ।
निवर्त्यविशेषाप्तिर्यथा । कुण्डलाद्याकारस्य सुवर्णस्य कटकादित्वापत्तिः । अत्रापि हि धर्मिणस्तादवस्थ्यम् । कटक(दि)त्वापन्नेऽपि सुवर्णव्यवहारदर्शनात् । परं कुण्डलत्वापायेन स्वर्णकाराद्यधीनकटकभावो जातः । निवर्त्यश्चासौ । पुनः कुण्डलीकर्तुं शक्यत्वात् ।
अनिवर्त्यो विशेषिपरिवर्तो यथा । क्षीरस्य दधिभावः । अत्र हि न धर्मिणस्तादवस्थ्यम् । दधित्वापत्तौ क्षीरव्यवहारानुपलम्भात् । किन्तु धर्मिभूतं क्षीरमेव आतञ्चनादिवशाद्दधिभूतम् । न च दधिभावनिवृत्त्या तत् क्षीरं भवति ।
निवर्त्यो धर्मिपरिवर्तो यथा । शुल्बस्य तारत्वम् । अत्रापि न धर्मिणस्तादवस्थ्यम् । तारतायां शुल्बव्यवहारानुपलब्धेः । किं नामौषध्य(धा)धीनतया शुल्बमेव तारं संवृत्तम् । प्रबलौषधि-बलात्तारतानिवृत्त्या शुल्बं च सम्पद्यते । नच पञ्चमी विधा दृष्टा, (सम्भाविता) श्रुता वेति ।
शेषवाक्यार्थचन्द्रिका
विधाचतुष्टयं निर्देशक्रमेणोपपादयति तत्रेति । कथं पीतत्वादि-विशेषाप्तिः कथं चानिवर्त्येत्यतो विशेषाप्तिलक्षणसद्भावादिति भावेन तल्लक्षणान्तर्गतं धर्मिणस्तादवस्थ्यं तावद्दर्शयति तत्र हीति । कुतोऽत्र धर्मिणस्तादवस्थ्यं क्षीरस्य दधित्वापत्ताविव स्वरूपप्रच्युतिरेव किं न स्यादित्यतो दधित्वापन्ने क्षीरव्यवहाराभावात्तत्र धर्मिणोऽतादवस्थ्येऽपीह पीतत्वापन्नेऽपि फल-व्यवहारान्न धर्मिणोऽतादवस्थ्यं कल्पयितुं शक्यत इत्याह पीतत्वेऽपीति । पूर्वधर्मापगमेन धर्मान्तरोत्पाद एव धर्मपरिवर्त इत्याशयेन विशेशाप्तिलक्षणान्तर्गतं धर्मपरिवर्तं दर्शयति केवलमिति । धर्मपरिवर्तस्य पराधीनत्वं दर्शयति सौरातपवशादिति । अनिवर्त्यत्वमुपपादयति न चेति । पराधीनत्वमुपपादयितुं स्वर्णकाराद्यधीनेति । विशेषिपरिवर्तस्य पराधीनत्वं दर्शयति आतञ्चनादिवशादिति । अनिवर्त्य-त्वमुपपादयति न चेति ॥ शुल्बस्येति । ताम्रस्य रजतत्वमित्यर्थः । ताम्रं शुल्बमुदुम्बरमिति हलायुधोक्तेः शुल्बशब्दस्य ताम्रवाचित्वात् । ‘रजतं कलधौतं च रूप्यं तारं च कथ्यत’ इत्यभिधानेन तारशब्दस्य रजतवाचित्वमिति द्रष्टव्यम् । पराधीनत्वं दर्शयितुम् ओषध्यधीनतयेत्युक्तम् । निवर्त्यत्वमुपपादयति प्रबलेति ।
परिमल
आदिपदोपात्तोदाहरणत्रयमध्ये अनिवर्त्यनिवर्त्यविशेषाप्तिरूपयोर्विकारयोः क्रमेणो-दाहरणे, उदाहरणद्वये पराधीनत्वं च दर्शयति तत्रानिवर्त्येत्यादिना । परमित्यव्ययम् । कटकभावः परं जात इत्यर्थः । पराधीनत्वं व्यक्तमाह आतञ्चनेति । तक्रस्थापनादीत्यर्थः । आदिपदोपात्ततृतीयो-दाहरणमाह शुल्बस्येति । ताम्रस्य रजतभाव इत्यर्थः । तस्य पराधीनतां व्यनक्ति किं नामेत्यादिना ।
यादुपत्यं
शुल्बं ताम्रम् । ‘ताम्रं शुल्बमुदुम्बरम्’ इति हलायुधोक्तेः । तारं रजतम् । ‘रजतं कलधौतं च रूप्यं तारं च कथ्यते’ इत्यभिधानात् ।
वाक्यार्थरत्नमाला
कथं पीतत्वापत्तिर्विशेषाप्तिरिति पाठः । त्वादिरिति लेखकदोषात् । हलायुधोक्तेरिति । हलायुधापरनामकाभिधानरत्न मालायामुक्तेरित्यर्थः ।