यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम्
प्रधानशब्दवाच्यत्वोपसंहारः
यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम्
सुधा
‘न संख्योपसंग्रहात्’ इत्येतदपि प्रधानस्याशब्दत्वप्रतिपादनार्थतया व्याचक्षते (शां.भा.) । तथा हि । ‘यस्मिन्पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्’ इत्यस्मिन्मन्त्रे पञ्चपञ्चजना इति पञ्चसङ्ख्याविषयापरा पञ्चसङ्ख्या श्रूयते । पञ्चशब्दद्वयदर्शनात् । त एते पञ्चविंशतिः सम्पद्यते । तथा च श्रुतिप्रसिद्धया पञ्चविंशतिसङ्ख्यया तेषां स्मृतिप्रसिद्धानां पञ्चविंशतितत्त्वानामुपसङ्ग्रहात्प्राप्तं श्रुतिमत्त्वं प्रधानादीनाम् इत्यत्रोच्यते । न सङ्ख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वप्रत्याशा कर्तव्या । कस्मात् । नानाभावात् । नाना ह्येतानि पञ्चविंशतितत्त्वानि नैषां पञ्चशः पञ्चशः साधारणो धर्मोऽस्ति । येन पञ्चविंशतेरन्तराले पञ्च पञ्च सङ्ख्या निविशेरन् । न ह्येकं निबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः सङ्ख्या निविशन्ते । अतिरेकाच्च । अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशातसङ्ख्यायाः । आत्मनो हि पञ्चविंशतिवन्तर्भावे यस्मिन्नित्यधिकरणत्वोक्तिविरोधः । आकाशस्यापि पृथगुक्तिविरोधः । तस्मान्न प्रधानादीनां शाब्दत्वमिति ।
अत्र वक्तव्यम् । किं पञ्चविंशतितत्त्वप्रक्रिया सर्वथाऽप्रामाणिकीत्यभिप्रायः । उतैतद्वाक्यं तत्परं न भवतीति । पक्षद्वयमप्यनुपपन्नमित्याह यत्तदिति ।
अनुव्याख्यानम्
यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ॥
प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥
सदसदात्मकं कार्यकारणात्मकम् । अविशेषत्वादकार्यत्वात्प्रधानं विशेषवत्त्वात्कार्यत्वात्प्रकृतिं प्राहुः ।
विशेषवदित्यस्य विवरणम् पञ्चभिरिति ।
अनुव्याख्यानम्
पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ॥
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ।
इति भागवते प्राह विद्याधीशः स्वयं प्रभुः ॥ ३ ॥
पञ्चभिर् महाभूतैः पञ्चभिस्तन्मात्राभिश् चतुर्भिर्महदहङ्कारमनोबुद्धिभिर् दशभिरिन्द्रियैश्च ब्रह्म पूरितम् । ‘एतच्चतुर्विंशतिकं गणं प्रधानकार्यं विदुर् इति सूत्रकृतैव ग्रन्थान्तरे पञ्चविंशतितत्त्वानां प्रतिपादितत्वान्न तावदाद्यः कल्पः । अनुवादोऽयमिति चेत् । किं प्रमितस्योत कल्पितस्य । आद्ये तत्प्रमाणैरेव सिद्धिस्तत्त्वानाम् । न द्वितीयः वैयर्थ्यात् । दूषणार्थमिति चेन्न तदभावात् । न हि ग्रन्थान्तरे अनुवादो ग्रन्थान्तरे दूषणमिति सम्भवति । न द्वितीयः विरोधाभावात् ।
शेषवाक्यार्थचन्द्रिका
ननु पञ्चजना वाक्यशेषस्थाः प्राणादयः पञ्चाव्याकृताख्याश्चाकाशो यस्मिन्प्रतिष्ठितस्तमेव ब्रह्मामृतात्मानं मन्य इत्यर्थकत्वान्मन्त्रस्य कथमस्मान्मन्त्रात्प्रधानप्राप्तिरित्यत आह अस्मिन्मन्त्र इति । तथाऽपि कथं साङ्ख्यमतप्रसङ्ग इत्यत आह एत इति । अत्र पञ्चविंशतिसङ्ख्यादर्शनेऽपि कुतः साङ्ख्यीयतत्त्वसिद्धिरित्यतः सङ्ख्यैव सङ्ख्येयाऽऽकाङ्क्षास्मृतिसिद्ध-तत्त्वानि संगृह्णातीत्याह तथा चेति । स्मृतिप्रसिद्धानामिति । ‘मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः’ इति साङ्ख्यस्मृतिप्रसिद्धा-नामित्यर्थः । श्रुत्युक्तसङ्ख्ययाऽपेक्षितसङ्ख्येयविशेषार्पकत्वं स्मृतेर्युक्तं तयोर्मूलिमूलभावादित्याह कस्मादिति । सौत्रं हेतुमुपादाय व्याचष्टे नानेति । नानात्वमेव न विरुद्धत्वमित्याशङ्क्याभिप्रेतं नानात्वमाह नैषामिति । किं तेनानुपयोगिनेत्यत आह येनेति । पञ्चविंशतिसङ्ख्यान्तराले पञ्चानामपि पञ्चसङ्ख्यानां भावात्तथोक्तिरित्याशङ्क्याह न हीति । त्रयस्त्रिंशद्वै देवा इति महासङ्ख्यायामष्टौ वसव इत्याद्यवान्तरसङ्ख्याऽसाधारणधर्माधीना दृष्टा । तथा चात्रासाधारणधर्मादृष्टेर्महासङ्ख्यायां नावान्तरसङ्ख्यासिद्धिरित्यर्थः । न प्रधानादीनां श्रुतिमत्त्वप्रत्याशा कर्तव्येत्यत्र सूत्रावयवं हेत्वन्तरमाह अतिरेकाच्चेति । तदेव स्फोरयति अतिरेको हीति । अतिरेको अनिर्वाहः । तत्कथमित्यतः श्रुतावात्माकाशयोः पृथगभिधानादिति भावेनोक्तमात्माकाशाभ्यामिति । पृथगुपात्ताभ्यामिति शेषः ।
ततश्चायमर्थः । आत्माकाशयोः पृथगग्रहणे श्रुतौ जनशब्दोक्तानां तत्त्वानामात्माकाशाभ्यां सह पञ्चविंशतित्वेन पञ्चपञ्चेत्युक्तपञ्चविंशतिसङ्ख्यानिर्वाहात्पञ्चपञ्चजना इत्युक्तिसम्भवेऽपि यस्मिन्निति वाक्ये आत्माकाशयोः पृथगभिधानेन तयोः पञ्चविंशत्यनन्तर्भावेन तद्-व्यतिरिक्तजनशब्दोक्ततत्त्वानां त्रयोविंशतित्वेन पञ्चपञ्चेत्युक्तपञ्चविंशतित्वसङ्ख्याया अनिर्वाहात्त्रयोविंशतिर्जना इत्येव स्यान्न पञ्चपञ्चजना इति । न चात्माकाशव्यतिरिक्तजनशब्दोक्तत्रयोविंशतितत्त्वेषु सत्त्वरजस्तमोरूप-मूलप्रकृतिभागविवक्षायां पञ्चविंशतित्वसङ्ख्यानिर्वाहात्पञ्च पञ्चजना इति युक्तो निर्देश इति वाच्यम् । तथा सति पञ्चविंशत्यनन्तर्भूताभ्यामात्माकाशाभ्यां तत्त्वानां सप्तविंशत्यन्तर्भूतयोरेवाकाशात्म-नोरात्माकाश शब्दाभ्यां ग्रहणान्न पञ्चविंशतितत्त्वानीति सिद्धान्तव्याकोप इत्यत आत्मनः पञ्चविंशत्यन्तर्भावे दोषमाह आत्मनो हीति ॥ विरोध इति । आत्मन आत्माधारत्वांशस्य बाधितत्वादिति भावः । आकाशस्यापि पञ्चविंशत्यन्तर्भावे तमाह आकाशस्यापीति । पृथगुक्तीति । यद्यप्यात्मपक्षेऽप्ययं दोषस्समस्तथाऽप्याधाराधेयस्यातिशयितत्वविवक्षया पृथगुक्तेरुपपादयितुं शक्य-त्वात्तत्र तमनभिधायाकाशस्याप्याधेयतयाऽऽधेयान्तरादनतिशयितत्वेनोक्तरीत्या पृथगुक्तेरुपपादयितुम-शक्यत्वादत्रैवैतदुद्भावनं कृतमिति ध्येयम् । ‘व्यक्ताव्यक्तात्मकं यत्तद्विद्यात्सदसदात्मकम्’ इति तात्पर्यं मनसि निधाय सदसदात्मकमित्येतद्-व्याचष्टे कार्यकारणात्मकमिति । यद्वा ‘सदभिव्यक्तरूपत्वात्कार्य-मित्युच्यते बुधैः । असदव्यक्तरूपत्वात्कारणं चापि शब्दितम्’ इत्यभिधानं मनसि निधायेदं व्याख्यानम् । ‘कार्यतः सा प्रधानत्वात्प्रधानमिति कीर्त्यते । अविशेषा ह्यकार्यत्वादि’त्येतत्तात्पर्यं मनसि निधायाह अविशेषत्वादिति । अनेन हिशब्दो हेत्वर्थस्ततश्च स्वकार्यापेक्षया प्रधानत्वेऽपि स्वयं यस्य कार्यं तदपेक्षयाऽप्रधानत्वात्कथं प्रधानत्वोक्तिरित्यतोऽविशेषमित्युक्तं मूले । तद्-व्याख्याति अविशेषा ह्यकार्यत्वादिति । अकार्यत्वादविशेषा यतोऽतः प्रधानमित्युच्यते इत्यर्थ इति तात्पर्यं व्याख्यातम् । ‘विशेषः कार्यमुद्धिष्टं विशेषो दृश्यते यतः’ इति तात्पर्यं मनसि निधायाह विशेषवत्त्वादिति ॥ विशेषवदित्यस्य विवरणमिति । अनेन ‘तद्विवृणोति पञ्चभिः’ इतीत्युत्तरवाक्यमवतारितं भवति । ‘महाभूतानि पच्चैव’ इत्युत्तरवाक्यानुसारेण पञ्चभिरित्येतद्-व्याचष्टे महाभूतैरिति । ‘तन्मात्राणि च तावन्ती’त्युत्तरवाक्यानुसारेणाह पञ्चभिस्तन्मात्राभिरिति । ‘मनोबुद्धिरहङ्कारश्चित्तमित्यन्तरात्मनः’ इत्युत्तरग्रन्थानुसारेणाह चतुर्भिरित्यादि । यद्यप्यत्र चतुर्भिरित्येतद्विवरणरूपे ‘मनोबुद्धिरहङ्कारश्चित्तम्’ इत्यत्र चित्तस्योपात्तत्वात्तदनुसारेण मनोबुद्धिरहङ्कारचित्तैरिति वाच्यं तथाऽपि ‘यत्तत्सत्त्वगुणं स्वच्छं शान्तं भगवतः पदम् । यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम्’ इत्युत्तरत्र भागवत एवोक्तत्वात्तदनुसारेण यद्वासुदेवाख्यं भगवत्स्वरूपं ततो महदात्मकं चित्तं जायत इति तात्पर्यानुसारेण च तथोक्तमित्यवधेयम् । ‘इन्द्रियाणि दश श्रोत्रे’त्येतदनुसारेणाह दशभिरिति । ब्रह्मेत्यनुवादेन पूरितमिति व्याख्यानम् । प्राधानिके गणे चतुर्विंशतित्वसङ्ख्या एभिस्तत्त्वैः पूरितेति भावः ॥ अनुवाद इति । कपिलदेवहूतिसंवादस्यानुवाद एवायं सूत्रकारस्येत्यर्थः । ततश्च स्वार्थे तात्पर्याभावान्नानेन वचनेन पञ्चविंशतित्वप्रक्रियायाः प्रामाणिकत्वसिद्धिरिति भावः । ननु न सङ्ख्येत्यस्यैव तद्दूषणत्वान्न दूषणाभाव इत्यत आह न हीति । एतद्वाक्यं तत्परं नेति द्वितीयं दूषयति न द्वितीय इति । अस्माकमिति शेषः । यस्मिन्नित्यादेर्भगवत्परत्वेन प्रधाने तात्पर्याभावस्यास्माकमविरुद्धत्वादित्यर्थः । उपलक्षणं चैतत् । यस्मिन्निति वाक्यस्य प्रधाने तात्पर्याभावमात्रेण प्रधानस्याशब्दत्वासिद्धेश्चेत्यपि द्रष्टव्यम् ।
परिमल
पञ्चसङ्ख्याविषयेति । पञ्चजना इति समाहारसमासं प्राप्ता या पञ्चसङ्ख्या तद्विषयकेत्यर्थः ॥ पञ्चविंशतिरिति । पञ्चपञ्चफ(पू)ल्य इत्यत्र यथा पञ्चविंशतिफ(पू)लास्संपद्यन्ते तथेति भावः ॥ स्मृतिप्रसिद्धानामिति । साङ्ख्यतन्त्रप्रसिद्धानामित्यर्थः ॥ इत्यत्रेति । पूर्वपक्ष इत्यर्थः ॥ नैषां पञ्चशः पञ्चशः साधारणो धर्मोऽस्तीति । पञ्चजनाः पञ्चेत्युक्ते कादिवर्गपञ्चकवत् पञ्चजनवर्गपञ्चकं प्रतीयते । तत्र पञ्चसु वर्गेषु पञ्चशः पञ्चशः सङ्ग्राहकाः पञ्चसाधारणधर्मा न सन्ति । यथा कादिवर्गेषु कण्ठ््यत्वतालव्यत्वमूर्धन्यत्वदंत्यत्वौष्ठ्यत्ववदित्यर्थः । पञ्चसङ्ख्या इति । पञ्चसङ्ख्याकानि तत्त्वानि पञ्चनिविशेरन्नित्यर्थः । साङ्ख्यतन्त्रोक्तपञ्चविंशतिरेव तत्त्वानि नात्र प्रतीयन्ते यस्मिन्निति निर्दिष्टस्य आत्मन ‘आकाशश्च’ इति निर्दिष्टस्याकाशस्य चाधिकस्य प्रतीतेः । तथा च कथं साङ्ख्यप्रसिद्धतत्त्वानामप्रत्यभिज्ञानेन शाब्दत्वं प्रधानादीनां मन्यस इति भावेन सूत्रशेषार्थं परोक्तमनुवदति अतिरेकाच्चेति । शाब्दत्वमितीतिशब्दस्य इति व्याचक्षत इति पूर्वेणान्वयः । सदसदात्मकमित्यत्र हेतुत्वेनाविशेषं विशेषवदित्येतद्योजयति अविशेषत्वादिति । विधेयाप्रतीतेराह प्रकृतिं प्राहुरिति । हेतुद्वयपूर्वं साध्यप्रदर्शनमेतदित्येके । आद्यः कल्पो ऽप्रामाणिकत्वपक्ष इत्यर्थः । ननु तदभावादित्युक्तदूषणाभावोऽसिद्धः । न सङ्ख्येतिसूत्रेण दूषणस्य क्रियमाणत्वादित्यतो नेदं सूत्रं तत्रोक्तस्य दूषणपरं भवितुमर्हतीति भावेनाह न हीति । एतद्वाक्यं तत्परं नेति कल्पं निराह
न द्वितीय इति ।
यादुपत्यम्
॥ स्मृतिप्रसिद्धानामिति । ‘मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुष’ इति साङ्ख्यस्मृतिप्रसिद्धानामित्यर्थः ॥ नैषां पञ्चशः पञ्चशः साधारण इति । अत्रात्माकाशयोः पृथग्ग्रहणात्तौ विहायैव पञ्चविंशतिरुक्ता । तस्यां च नावान्तरत्वेन पञ्चसङ्ख्यानिवेशः सम्भवति । शब्दादिपञ्चके तन्मात्रत्वरूपसङ्ग्राहकानुगतधर्मसद्भावेऽपि तदितरपञ्चकचतुष्टये तदभावात् । न खलु सत्त्वरजस्तमोमहदङ्काराणामेकः क्रिया वा गुणो वा
द्रव्यं वा जातिर्वा धर्मः पञ्चतन्मात्रादिभ्यो व्यावृत्तः सत्त्वादिषु चानुगतः कश्चिदस्ति । नापि पृथिव्यप्तेजोवायुघ्राणानाम् । नापि रसनचक्षुस्त्वक्श्रोत्रवाचाम् । नापि पाणिपादपायूपस्थमनसामित्यर्थः ॥ अतिरेकाच्चेति । न प्रधानादीनां श्रुतिमत्त्वप्रत्याशा कर्तव्येत्यन्वयः । तत्त्वसङ्ख्यातिरेकश्च सिद्धान्तविरुद्ध इति भावः । ब्रह्मेत्यनुवादेन पूरितमिति व्याख्यानम् । तथाच प्राधानिके गणे चतुर्विंशतित्वसङ्ख्या एभिस्तत्त्वैः पूरितेति भावः ॥ अनुवादोऽयमिति । कपिलदेवहूतिसंवादानुवादोऽयं सूत्रकारस्यातः स्वार्थे न तात्पर्यमस्य वचनस्येति भावः ॥
श्रीनिवासतीर्थीया
श्रुतिमत्त्वं शब्दप्रतिपाद्यत्वम् ॥ द्वित्वादिका इति । यथा ‘विधिप्राणनाथौ इत्यादितारतम्यप्रकरणे । यथा वा लोके एतौ द्वौ इमे त्रय इति द्वित्वादिका सङ्ख्या साम्यादिनिमित्तं विना न दृष्टा तथा पञ्चत्वादिसङ्ख्येत्यर्थः । आत्मनो जीवस्य । आकाशस्यापि पञ्चविंशतावन्तर्भाव इति वर्तते । पूरितं पूर्णं सम्बद्धमित्यर्थः । प्रधानकार्यमिति प्राधानिकमित्यस्य व्याख्यानम् । अयं भागवतोक्तोऽर्थः । अत्रानुवादेऽपि ग्रन्थान्तरेऽस्ति दूषणमित्यत आह न हीति ।
वाक्यार्थरत्नमाला
वाक्यशेषस्था इति । प्राणस्य प्राणमुत चक्षुष इति वाक्यशेषस्था इत्यर्थः । स्वरीत्येदं व्याख्यानं शङ्कितम् । स्मृतिप्रसिद्धानामित्यर्थ इति । प्रकृतिमहदहंकारादिरूपाणम् । स्वरूपं टीकायामुत्तरत्र स्पष्टं भविष्यति । इत्याहकस्मादितीति । शङ्कात्वस्य स्पष्टत्वमाश्रित्येत्या-हेत्येवोक्तम् । इत्याशङ्कत इति । पाठस्तु सुगम एव । नानात्वमेवेति । नानात्वमात्रमित्यर्थः । विरुद्धमिति । विरोधीत्यर्थः । विरोधस्योभयाश्रयत्वाद्विरुद्धमित्यपि युक्तम् । विरोधीति पाठस्तु सुगम एव नानात्वे विद्यमानेऽपि संख्योपसङ्ग्रहसम्भवेनाप्रयोजकत्वादिति भावः । अभिप्रेतमिति । केवलनानात्वस्याप्रयोजकत्वेऽप्यनुगतधर्मराहित्यविशिष्टस्य प्रयोजकत्वमभिप्रेतमित्यर्थः । आनन्दगिर्यनु-सारेणायं टीकाग्रन्थः ।
असाधारणधर्मादृष्टेरिति । वसुत्वरुद्रत्वादेरसाधारणस्यानुगतस्याष्टैकादशादिषु सत्ववत्पञ्चपञ्च-सूहकरणप्रयोजकतत्संख्याप्रयोगनिमित्तासाधारणधर्मप्रतीत्यभावादित्यर्थः । प्राक्साधारणत्वेन धर्मो निषिद्ध इदानीं तु पञ्चस्वेकः साधारणपदोक्तानुगतत्ववान् स एव साधारणः पञ्चकान्तरव्यावृत्तो धर्मो नास्तीति प्रागुक्तसाधारणत्वांतर्भावैनेवासाधारणत्वं धर्मस्य निषिध्यत इति साधारणासाधारणपदयोर्न विरोधः शङ्क्यः । न वा मूलविसंवादः शङ्क्यः । उक्तं च भामत्याम् । नैषां पञ्चशः पञ्चशः साधारणो धर्मोऽस्तीत्युक्त्वा न खलु सत्वरजस्तमोमहदहंकाराणामेकः क्रियावा गुणोवा द्रव्यंवा जातिर्वा पञ्चतन्मात्रादिभ्यो व्यावृत्तः सत्वादिषु चानुगतः कचिदस्तीत्यादीति ज्ञेयम् । पञ्चविंशतिसंख्याया अनिर्वाह आधिक्यप्रयुक्त इति भ्रान्तिपरिहाराय तस्य न्यूनताप्रयुक्तत्वमिति दर्शयितुमभिप्रायमाह । ततश्चायमिति ।
जना इतीत्यस्येति स्यादिति पूर्वेणान्वयः । एवं न्यूनताप्रयुक्तमतिरेकं व्युत्पाद्याधिक्यप्रयुक्तमपि तं व्युत्पादयिषुरर्थान्तरपरिग्रहे वा तत्वसंख्यातिरेकः सिद्धान्तविरुद्धः प्रसज्येतेत्येतद्भाष्यविवरणरूपसत्य-प्यात्माकाशयोर्व्यतिरेचने मूलप्रकृतिभागैरित्यादिभामत्यनुसारेणाह । न चात्माकाशेति । व्याकोपः स्यादितीत्यत्रत्येतिशब्दस्येत्ययमर्थ इति पूर्वेणान्वयः । यत्र भामत्यामुक्तम् । मूलप्रकृतित्वमात्रेणैकीकृत्य सत्वरजस्तमांसि पञ्चविशन्तित्वोपपत्तेर् हिरुग्भावेतु तेषां सप्तविंशतित्वाविरोध इति । तत्रेदं वक्तव्यम् । अत्र ह्यात्माकाशयोः पञ्चविंशत्यनंतर्भावेन त्रयोविंशतित्वापादने मूलप्रकृतिभागकल्पनया भवता सामंजस्यमाशङ्क्य तथा सति पञ्चविंशतिजनसंख्यानिर्वाहेऽपि वस्तुतः सिद्धान्ते पञ्चविंशतितत्व-प्रक्रियाभङ्ग एव आत्माकाशमेलनेन जनानां सप्तविंशतित्वापत्तेरिति शङ्कापरिहाराय मूलप्रकृतित्वेनै-कीकाराश्रयणेन पञ्चविंशतित्वमाश्रित्य हिरुग्भावेन सप्तविंशतित्वाश्रयणं कृतम् । तत्कथं सङ्गतम् । मूलप्रकृतितत्वेन मेलने त्रयोविंशतित्वं जनानां प्रसज्यते । पृथग्भावे सप्तविंशतित्वं तत्वानां प्रसज्यत इति व्यवस्थया दूषणे उक्ते मेलनेन पञ्चविंशतित्वस्यामेलनेन सप्तविंशतित्वस्यचाश्रयणेनाविरोधोक्तययोगात् । पञ्चविंशतित्वस्य तत्वे उपपादनानुसारेण जनानां न्यूनत्वापरिहारादिति ॥ अत एव निरीश्वरसांख्यमते पञ्चविंशतितत्वनिर्वाहाय श्रुतिस्मृतिरूपस्थलभेदेन व्यवस्थां टीकाकृद्विभावयिष्यति । तात्पर्यं मनसीति । तृतीयस्कन्धीय सप्तविंशत्यध्यायगतयत्तत्त्त्रिगुणमित्येत्तद्भागवततात्पर्यमित्यर्थः । ननु व्यक्ताव्यक्तात्मकमिति तात्पर्यवाक्यस्य न क्रमेण सदसच्छब्दार्थत्वमप्यवधारयितुं शक्यम् । वाक्यशेषे
असर्गा केवलाव्यक्ता सिसृक्षुरुभयात्मिका ॥
व्यक्तैव कार्यरूपात् प्रकृतिस्त्रिविधा मत ॥
इति त्रिप्रकारप्रकृतिप्रतिपादनेनान व्यक्ताव्यक्तात्मकमित्यस्य तृतीयविधापरत्वेनाप्युपपत्तेः । ततोऽव्यक्तं व्यक्तं व्यक्ताव्यक्तं चेति त्रिप्रकारप्रतिपादकवाक्यशेषानुसारेण व्यक्ताव्यक्तात्मकं विद्यादिति पूर्वभागस्यापि व्यक्तं सत् । अव्यक्तमसत् । व्यक्ताव्यक्तं सदसदिति विधात्रयप्रतिपादकत्व-मित्याश्रयणीयम् । ततो न कार्यकारणात्मकमित्यस्यापि विधात्रयप्रतिपादकत्वं निर्णेतुं शक्यम् । शक्यत्वे वा बहूपपादनसापेक्षतेत्यतो व्यक्ताव्यक्तात्मकमित्यस्यैकविधाप्रतिपादकत्वाद्विधान्तरप्रतिपादकतोक्त-रीत्या स्पष्टैव । तथात्वेन स्पष्टत्वेऽसन्तोषे तूक्तात्पर्यस्यैकविधाप्रतिपादकत्वसाधकत्वेऽपि विधान्तरपरत्वज्ञापकं प्रमाणान्तरमेव भविष्यतीत्याशयेन सदसच्छब्दौ कार्यकारणयोः क्रमेणाभिधाय-कावित्यत्रापि प्रमाणान्तरमाह । यद्वा सदिति ।
अथवोक्तरीत्या विधात्रयपरत्वेन कार्यकारणात्मकस्यापि प्रयोजनमस्पष्टैव । तथापि स्पष्टं विधाद्वयसमर्पकं प्रमाणमाहेति योज्यम् । अत्र यद्वेत्यस्य किञ्चेत्यर्थः । निपातसमुदायः समुच्चयार्थो वा । तथाचाभिधानं च मनसि निधायेदं व्याख्यानमिति तात्पर्यस्याभिधानेन समुच्चयोंऽगीकृतः । ततश्चैवं सूचितम् । व्यक्ताव्यक्तात्मकमिति तात्पर्यानुसारेण विधात्रयं सिध्यति । कार्यात्मकम् । कारणात्मकम् । कार्यकारणात्मकं चेति । तात्पर्यार्थो विचारावकाशशङ्कया स्पष्टं तत्र या प्रतीतौ वा विधाद्वयम् अभिधानादिना सिद्धमिति मिलित्वा विधात्रयपरत्वं तात्पर्याभिधानप्रमाणाभ्यां सिध्यतीति कार्यकारणात्मकमित्यस्योक्तरीत्या त्रितयमप्यर्थ इति । एतेन समानार्थकप्रमाणयोरेकस्याभिधानानन्तरं द्वितीयस्य यद्वेति पक्षान्तरतयाऽभिधानायोग इत्याद्याशङ्कनं निरस्तमिति बोध्यम् । यद्वा व्यक्ताव्यक्तात्मकमिति तात्पर्यदिशा सदसदात्मकमित्यस्य त्रिरूपत्वपरत्वं प्रतीयते । कार्यकारणरूपेण द्विरूपत्वमपि स्थलान्तरे उच्यते । अतस्तदनुसारेण द्विरूपत्वसमर्पकतया व्याख्यातुमाह । यद्वेति । अनेन हिशब्द इत्यादेर्व्याख्यातमित्युत्तरेणान्वयः । अनेनेति । अस्येति तात्पर्यं व्याख्यातमिति वक्ष्यमाणेनान्वयः । मूल इति । भागवतश्लोक इत्यर्थः । अकार्यत्वादविशेषेति पाठः । नञ्त्यागो लेखकदोषात् । विशेषो दृश्यते यत इति तात्पर्यपाठः । अन्यादृशस्तु लेखकदोषात् । उत्तरवाक्यानु-सारेणेति । उत्तरश्लोकानुसारेणेत्यर्थः । भूरापोऽग्निर्मरुन्नभ इति वाक्यशेषः । उत्तरवाक्येति । तदुत्तरार्धेत्यर्थः । उत्तरग्रन्थेति । चतुर्धा लक्ष्यते भेदो वृत्या लक्षणरूपयेति वाक्यशेषः । चतुर्भिरित्येतदिति । भागवतस्थ चतुर्भिरित्येतदित्यर्थः । मनोबुद्ध्यहंकारचित्तैरिति पाठः । बुद्धिपदे भक्तिर्लेखकदोषात् । उत्तरत्रेति । उक्ताध्याय एवोत्तरत्रेत्यर्थः । वासुदेवाख्यं चित्तमिति सामान्याधिकरण्यभ्रान्तिवारणाय च तात्पर्यानुसारेणेत्युक्तम् । प्रमाणान्तरं च तात्पर्ये उक्तम् ।
महत्तत्वगतो योऽसौ वासुदेवाभिधो हरिः ।
स चित्तजनकः प्रोक्तः प्राणिनां हि पृथक् पृथक् । इति चेति ॥
इन्द्रियाणि दश श्रोत्रमित्येतदिति पाठः । श्रोत्रेत्यविभक्तिकोऽपि भागवते पाठोऽस्ति । तदनुसारेण श्रोत्रेत्यनुसारेणेति पाठोऽपि युक्त एव । त्वग्दृग्रसननासिकम् । वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यत इति वाक्यशेषः । ग्रन्थान्तरे पञ्चविंशतितत्वानामिति मूलम् । ननु यानि ग्रन्थान्तरे पञ्चविंशतितत्वानि प्रतिपादितानि यानिच साङ्ख्यस्मृतिसिद्धानि, तेषु पञ्चभूतपञ्चमात्रादशेन्द्रियेषु विसंवादाभावेऽप्यस्ति विंशत्यतिरिक्तेषु विसंवादः । तथाहि । विंशत्यतिरिक्तत्वेन सङ्ग्राह्येषु यद्यपि प्रधानमहदहङ्कारमनोविषये विसंवादो नास्ति । तथाप्यस्ति बुद्धिपुरुषविषये विसंवादः । भागवते प्रधानादिशब्दोक्तानां साङ्ख्यस्मृतौ मूलप्रकृत्यादिशब्दोक्तप्रधानमहदहङ्कारमनोरूपैः संग्रहणे चतुर्विंशत्या उभयसंमतत्वप्राप्तावपि पञ्चविंशकत्वेन सांख्यस्मृतिगणितानुभयरूपपुरुषस्य भागवते तत्र तथागणितबुद्धितत्वस्य च
साङ्ख्यस्मृतावगणनात् ।
यश्च भागवते यः कालः पञ्चविंशक इति वक्ष्यते सतु परमात्मैव । न तु जीवरूपः पुरुषः । तत्परिग्रहे वा तत्वानां षडि्वंशतित्वप्रसङ्ग एव । तथा च प्रधानं प्रधानिको गणश्चतुर्विंशतिक इति पञ्चविंशतिप्रतिपादिकेति कथं सांख्योक्तप्रक्रिया सूत्रकारसंमता । वस्तुतो भागवते प्रधानपरित्यागेन कालाख्यभगवन्मेलनेन प्राधानादिकचतुर्विंशतिगण एव पञ्चविंशतित्वेन गणितः । सांख्यस्मृतौ तु प्रधानमेलनेन महदहंकारमनःपुरुषपञ्चमात्रादिगण एव पञ्चविंशतित्वेन गणित इति न प्रधानांशेऽपि तयोः संवादः । बुद्धिशब्देन प्रधानग्रहणमिति तु शङ्कामात्रम् । प्रधानस्य प्राक्कारणेन प्रतिपादिततया तस्य प्राधानिकशब्दोक्ततत्कार्यबुद्धिरूपत्वानुपपत्तेः । तत्वान्तरसिद्धिश्च सिद्धान्तेन स्यात् । यस्याव्यक्तं शरीरं यस्याहङ्कारः शरीरमित्यादिश्रुतिभिरव्यक्तादेरिव यस्य बुद्धिः शरीरमित्यादिश्रुत्या बुद्धितत्वस्यापि सिद्धान्ते सिद्धिमङ्गीकृत्य चतुर्विंशतेर्गणनात् । तदेवं विंशत्यतिरिक्तानां स्वरूपनिर्धारणायां विसंवादान्न तदतिरिक्तपञ्चकसिद्धिरिति न पञ्चविंशतिप्रक्रियाभागवतसंमत्या प्रामाणिकीत्यभ्युपगन्तुं शक्यमिति चेदत्र ब्रूमः । न वयं सर्वांशे पंचविंशतिक्रियायाः साम्यमाश्रित्य भागवतसंमततामाचक्ष्महे । अपि तु क्वचिदंशे विसंवादेऽपि महदहङ्कारमनोमात्रादित्रयोविंशतितत्वेषु संवादस्तावदस्तीति तमाश्रित्यैव तत्संमतत्वमिति । तथा च प्रधानबुद्धिपुरुषरूपांशत्रये विसंवादमल्पत्वादविवक्षित्वा भूयः सुसंवादमेव च विवक्षित्वा भागवतसंमतिरनुव्याख्यानकृतोक्ता । उक्तं चावतारावसरे । किं सर्वथाऽप्रमाणिकीत्यभिप्राय इति । तत्र च सर्वथेत्यनेन क्वचिदंशे प्रमाणविसंवादवत्तदितरस्मिन् सर्वत्र प्रमाणसंवादो नास्तीति प्रकारसूचनात् । अन्यथा सर्वथेत्यस्य व्यर्थताप्रसङ्गात् । सर्वथेत्यस्य तदर्थकत्वेऽसन्तोषे चाल्पवैषम्यविवक्षा न कृतेत्येव परिहारे बाधकाभावाच्च । न हि समाख्यादिस्थले मात्रयादिवैषम्यं नास्तीति सचेतनो वक्तुमर्हति । एतेन विंशत्यतिरिक्तत्वस्य सङ्ग्राहकत्वानुपपत्तिरपि परिहृता । कालाख्यभगवन्मेलनेन पञ्चविंशतेर्भागवतेऽपि सुलभतया विंशत्यतिरिक्तपञ्च-कलात्वोपपत्तिः । सांख्यस्मृतौ प्रधानपुरुषमेलनेन पञ्चविंशतेः सुलभत्वाच्च तल्लाभोपपत्तिः । तथा च भागवतोक्तेषु तदितरत्वावच्छेदकत्वसद्भावेनाग्रे तत्प्रतिबन्द्यभिधानमपि समञ्जसम् । एतेन स्मृतिपुराणोक्तपञ्चविंशतौ वैषम्यस्य सद्भावे का पञ्चविंशतिरिति निर्णयायोगे श्रुतेरपि पञ्चविंशति-तत्वानुवादत्वानुपपत्तिः परास्ता । साङ्ख्यस्मृतिपुराणायोर्विसंवादौदासीन्येनैव पञ्चविंशतिनिर्णयायोगे श्रुतेरपि पञ्चविंशतितत्वानुवादत्वानुपपत्तेः । एवमेव चन्द्रिकोक्तयतिरिक्तानतिरिक्ताभिधानपक्षयोः पञ्चविंशतिनिर्वाहोपपादनमपि विसंवादौदाशीन्येनैवेति न तत्राप्यनुपपत्तिः । तस्मात्साधूक्तं ग्रन्थान्तरे पञ्चविंशतितत्वानां प्रतिपादितत्वादितीति । कपिलेति । तथा च तृतीयस्कन्धीयभागवते तदुभयोर्यः संवादस्तस्यानुवाद एव सूत्रकृता क्रियते न तु पञ्चविंशतितत्वप्रक्रिया स्वतः प्रतिपाद्यत इत्यर्थः । अस्माकमविरोधादिति चन्द्रिकानुसारेण शेषं संपूर्य व्याख्याति । अस्माकमिति । शेष इत्यादिना । चन्द्रिकामनुकरोति ।
यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम्
यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम्
सुधा
यदुक्तं नानाभावादिति तदसत् । सूत्रकारस्यापि सङ्ग्राहकाभावेन पञ्चभिरित्याद्यु-क्तयनुपपत्तिप्रसङ्गात् । अथ तत्र भूतत्वादीनि सङ्ग्राहकाणि सन्ति इति चेत् तर्हि तान्येव भूतत्वतन्मात्रत्वज्ञानेन्द्रियत्वकर्मेन्द्रियत्वतदितरत्वानि (च) श्रुतावपि सन्तीति समानम् । न चायमस्ति नियमोऽन्तराले सङ्ग्राहकेण विना न सङ्ख्यानिवेशोऽस्तीति । ‘पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुः’, ‘व्रतमेतदनुष्ठेयं वर्षाणि नव पञ्च च’ इत्यादौ व्यभिचारात् । यदप्यतिरेकाच्चेति । तदप्यसत् । पातञ्जलैरीश्वरस्याङ्गीकृतत्वात् । आकाशश्चेत्याकाशाद्या इति व्याख्यानोपपत्तेः ।
शेषवाक्यार्थचन्द्रिका
सूत्रकारस्यापीति । यद्यप्यत्र भूतत्वादीनामुपसङ्ग्राहकाणां सत्त्वादित्येव वक्तव्यं तथाऽपि तेषामुपसङ्ग्राहकत्वं परमुखेनैवानेतुं प्रतिबन्दीग्रहणमित्यवधेयम् । आशयमविद्वान् शङ्कते अथेति । भूतत्वादीत्यादिपदेन तन्मात्रत्वादीनां सङ्ग्रहः । अभिसन्धिमुद्घाटयति तर्हीति ॥ ज्ञानेन्द्रियत्वेति । बाह्यज्ञानेन्द्रियत्वेत्यर्थः । पृथिव्यादिषु भूतत्वस्य शब्दादिषु तन्मात्रत्वस्य घ्राणादिषु बाह्यज्ञानेन्द्रियत्वस्य वागादिषु कर्मेन्द्रियत्वस्य महदहङ्कारमनःप्रकृतिपुरुषेषूक्तविंशत्यन्यत्वस्य सत्त्वान्न यस्मिन्पञ्चपञ्चेत्यादिश्रुत्युक्तमहासङ्ख्यायामवान्तरसङ्ख्योपसङ्ग्राहकाभाव इत्यर्थः । ननु श्रुतावा-काशात्मनोः पृथगुक्तत्वादतिरेकनिरासाय सत्त्वरजस्तमोरूपान्प्रकृतिभागानुपादाय सत्त्वरजस्तमोम-हदहङ्काराः पृथिव्यप्तेजोवायुघ्राणानि रसनचक्षुःश्रोत्रत्वग्वाचः पाणिपादपायूपस्थमनांसि शब्दस्पर्श-रूपरसगन्धा इति पञ्च पञ्चकानि वाच्यानि । तत्र चाद्ये पञ्चकचतुष्टये नास्त्युपसङ्ग्राहको धर्मः । न खलु सत्त्वरजस्तमोमहदहङ्काराणामेकः क्रिया वा गुणो वा द्रव्यं वा जातिर्वा पञ्चतन्मात्रादिभ्यो व्यावृत्तः सत्त्वादिषु चानुगतः कश्चिदस्ति । नापि पृथिव्यप्तेजोवायुघ्राणानाम् । नापि रसनचक्षुस्त्वक्श्रोत्रवाचाम् । नापि पाणिपादपायूपस्थमनसाम् । येनैकेनैवासाधारणधर्मेणोपगृहीतानां पञ्चपञ्चकत्वसिद्धिरिति चेन्न । आकाशस्थाने घ्राणस्य घ्राणस्थाने वाचः वाक्स्थाने च मनसो निवेशने उपसङ्ग्राहकाभावेऽप्या-काशमात्रस्थाने मनो निवेश्य सत्त्वादिपञ्चकस्य ‘मनसस्तु परा बुद्धिः’ इत्यादिश्रुतिसिद्धेन मनःपरत्वेन, पृथिव्यादेश्च विंशत्यतिरिक्तत्वेन, क्रोडीकरणे उपसङ्ग्राहकसद्भावात्पञ्चपञ्चकोपपत्तेरिति भावः ।
किञ्चोपसङ्ग्राहकाभावे कुत्रापि द्वित्वादिका सङ्ख्या नास्तीत्यभिमतं किंवा महासङ्ख्यायाम-वान्तरसङ्ख्या नास्तीति । नाद्यस् त्वन्मतेऽपि प्राणचक्षुःश्रोत्रान्नमनस्सु पञ्चत्वाभावप्रसङ्गादिति भावेन द्वितीयं दूषयति न चेति । नाहीत्यर्थः । आदिपदेन ‘दशपञ्चदिनान्याहुः पक्षं मासो द्वयात्मकः । ‘तासां स्वसॄरजनयत्पञ्चपञ्च’ । पञ्चपञ्चाशतस्त्रिवृतः संवत्सरा’ इत्यादेः सङ्ग्रहः ॥ व्यभिचारादिति । तत्र महासङ्ख्याया उपसङ्ग्राहकाभावेऽप्यवान्तरसङ्ख्यादर्शनादित्यर्थः । अतिरेकाच्चेत्यस्योक्त एवार्थः । आत्माकाशयोः पञ्चविंशत्यन्तर्भावेन पञ्चविंशतित्वनिर्वाहादात्माकाशाभ्यां पञ्चविंशतिसङ्ख्याया अतिरेकापादनमनुपपन्नम् । न च यस्मिन्नित्युक्ताधिकरणत्वानुपपत्तेर् न आत्मनः पञ्चविंशत्यन्तर्भाव इति वाच्यम् । पतञ्जलिना पञ्चविंशतितत्त्वातिरिक्तस्येश्वरस्याङ्गीकारेण तत्रात्मपदोदितस्य जीवस्यान्त-र्भावेऽपि तदतिरिक्तस्येश्वरस्य यस्मिन्नित्युक्ताधिकरणत्वसम्भवात् । न चैवं पञ्चविंशतितत्त्वानीति सिद्धान्तव्याकोपः स्यादिति वाच्यम् । तस्याधेयत्वविषयत्वेन तदनवकाशात् । ततः पञ्चविंशताव-नन्तर्भूतस्येश्वरस्याधिकरणत्वसम्भवान्न तमादाय तत्त्वातिरेकेऽपसिद्धान्त इत्याह पातञ्जलैरिति । ईश्वरस्याङ्गीकृतत्वादित्येव मूलकोशेषु दर्शनात्पाठः । अन्यादृशस्तु प्रक्षिप्त इत्यवधेयम् । ननु तथाऽप्याकाशस्य पार्थक्यं पृथगभिधानान्यथाऽनुपपत्त्या वाच्यम् । तथा च चतर्विंशतित्वा-पत्त्योक्तसङ्ख्याऽनिर्वाह एवेत्यत आह आकाशश्चेतीति । तथा च पृथगभिधानमेवासिद्धमिति भावः । अनेन चशब्द आद्यर्थक आकाशाद्याः पञ्चविंशतिजना इति योजना सूचिता भवति । नन्वेवमस्तु सेश्वरसाङ्ख्यमते पञ्चविंशतित्वसङ्क्यानिर्वाहो निरीश्वरस्य तु तस्य मते पञ्चविंशत्यन्तर्भूतयोरेवात्मा-काशयोरात्माकाशशब्देन ग्रहणे यस्मिन्नित्युक्ताधिकरणत्वस्याकाशश्चेति पृथगुक्तेश्चानुपपत्तिप्रसङ्गेन पञ्चविंशतावन्तर्भूतयोरेव तयोर्ग्रहणे तद्-व्यतिरिक्ततत्त्वानां त्रयोविंशतित्वेन पञ्चविंशतित्वसङ्ख्यायाः कथं निर्वाहः । सत्त्वरजस्तमोरूपप्रकृतिभेदविवक्षायां च जनानां सप्तविंशतित्वापत्त्या पञ्चविंशतितत्त्वानीति सिद्धान्तव्याकोप इति चेन्न । आत्माकाशव्यतिरिक्तानां त्रयोविंशतितत्त्वानामपि, प्रधानस्योक्तरीत्या त्रिधाकरणात् पञ्चविंशतित्वमिति श्रुतावभिप्रेतं साङ्ख्यस्मृतौ तु तत्त्वेष्वात्माकाशावन्तर्भाव्य प्रधानं चाभित्त्वापञ्चविंशतित्वगणनाया अभिमतत्वेनाविरोधोपपत्तेरिति ।
परिमल
भूतत्वादीनीति । भूतत्वतन्मात्रात्वेन्द्रियत्वोक्त- विंशत्यन्यत्वादीनामित्यर्थः ॥ श्रुतावपीति । पञ्चपञ्चजना इति श्रुतावपि पृथिव्यादिषु भूतत्वस्य शब्दादिषु तन्मात्रात्वस्य घ्राणादिषु बाह्यज्ञानेन्द्रियत्वस्य वागादिषु कर्मेन्द्रियत्वस्य महदहङ्कारमनःप्रकृतिपुरुषेषु उक्तविंशत्यन्यत्वस्य सम्भवात् सौत्रो नानाभावादिति हेतुरसिद्ध इति भावः । अङ्गीकृत्य चेदमुक्तमिति भावेनाह न चायमिति ॥ न ववर्षेति । वृष्टिं न चकारेत्यर्थः । व्रतमिति वाक्यान्तरम् ॥ पातञ्जलैरीश्वरस्येति । तथा चात्मनः पञ्चविंशतावन्तर्भावेऽपि तदन्यस्येश्वरस्य यस्मिन्नित्यधिकरणत्वोक्तिसम्भवादिति भावः । नन्वेवमप्याकाशस्य पृथगुक्तिविरोध इत्युक्तमित्यत आह आकाशश्चेति । आकाशाद्याः पञ्चपञ्चजनाः पञ्चविंशतिर्जना यस्मिन्प्रतिष्ठिता इति व्याख्यानोपपत्तेरित्यर्थः । चशब्देनेतरत्वसमुच्चय इति वा । आकाशशब्दोऽन्येषां तत्त्वानामुपलक्षणमिति वाऽभिप्रायः ॥
यादुपत्यम्
अथ तत्र भूतत्वादीनीति । अनुपदमेव तर्हीत्यत्र वक्ष्यमाणानीत्यर्थः । अत्र तदितरधर्मावच्छिन्नं प्रागुक्तं महदादिचतुष्टयमेव । उत्तरत्र तु प्रधानेन सहितं महदादिचतुष्टयं तथेति ध्येयम् ॥ पातञ्जलैरिति । ईश्वरस्याङ्गीकृतत्वादित्येव पाठः । तथाच तन्मते पञ्चविंशतितत्त्वा-नीत्यस्यानीश्वरतत्त्वविषयतया तत्रात्मपदोदितस्य जीवस्यान्तर्भावेऽपि तदतिरिक्तस्येश्वरस्य यस्मिन्नि-त्याधारत्वेनोक्तिसम्भवेन न तमादाय तत्त्वातिरेकेऽपसिद्धान्त इति भावः । नाप्याकाशमादायातिरेक इत्याह आकाशश्चेति । एकवचनं बहुवचनार्थे । तच्चाद्यर्थकं कडारा इत्यादिवदिति भावः । चशब्दोऽनुक्तसमुच्चायक इत्यभिप्रायेणाकाशाद्या इत्युक्तमित्यप्याहुः ।
श्रीनिवासतीर्थीया
तान्येव सङ्ग्राहकाण्येव ॥ तदितरत्वमिति । उक्तविंशत्यन्यत्वमित्यर्थः ॥ पातञ्जलैरिति । तथाच यस्मिन्निति भगवतो निर्देशो युक्तः । पञ्चविंशतित्वं तु जीवसाहित्येन ज्ञेयम् ॥ आकाशाद्या इति । तथा च यस्मिन्पञ्च पञ्चजनाः प्रतिष्ठिता सन्ति । के ते पञ्चजना इत्याकाङ्क्षायामाकाशश्चेत्युक्तम् । आकाशाद्या इत्यर्थः । आकाशस्य भूतेषु ज्यैष्ट्यादाकाशाद्याः पञ्च
जना यस्मिन्प्रतिष्ठिता इति पञ्च पञ्चजना इत्युक्तविवरणरूपत्वेनोपपत्तेरित्यर्थः ।
वाक्यार्थरत्नमाला
पृथिव्यादिष्विति । न खलु सत्वरजस्तम इत्यादिभामतीग्रन्थस्या-काशात्मानौ विहाय या पञ्चविंशतिरुदिता तस्यां नावान्तरत्वेन पञ्चसङ्ख्यानिवेश इत्यादेराहेति कल्पतराववतारः कृतस्तदुभयानुसारेण यथा सङ्ग्राहकधर्मघटना न संभवति तादृशप्रकारस्याङ्गीकर्त्त-व्यतामापाद्य सङ्ग्राहकाघटनां चन्द्रिकोक्तरीत्या शङ्कते । ननु श्रुताविति । घ्राणानामिति । उद्रिक्ताकाशानां पृथिव्यादीनां ज्ञानेन्द्रियघ्राणस्य च साधारणोपाध्यभावादिति भावः । नापि रसनेति । ज्ञानेन्द्रियरसनादीनां कर्मेन्द्रियवाचश्च साधारण्या योगादिति भावः । पाणीति । उद्रेचितवाचां कर्मेर्न्द्र्रियाणां न मनसा पञ्चत्वलाभ इत्याशयः । असाधारणधर्मेणेति । पञ्चपञ्चकसाधारणधर्मस्यैव प्रकृततया साधारण्येत्येव वक्तव्येऽपि पञ्चतन्मात्रादिभ्यो व्यावृत्तः सत्वादिषु चानुगत इति भामत्यामसाधारणरूपस्यापि कथनात्तथा व्यवहार इति ज्ञेयम् । यद्यप्यत्र पञ्चकपञ्चककल्पने भूतादिपञ्चकादिरूपेण कल्पनायां प्रागुक्वरीत्या भूतत्वादीत्येवोपसङ्ग्राहकानीति न तदभाव इति शङ्कान्तरानुवादः, तथापि आकाशबहिर्भावे सति विनिगमकाभावेनैवमेव पञ्चकं निष्पादयामीति मन्यमानं प्रति तुष्यतु दुर्जन इति न्यायेन प्रकारान्तरेणोपसंग्राहककथनेऽपि न दोष इत्याशयेनाह । आकाशमात्रस्थान इति । मात्रपदेन प्राणादिस्थानेतु प्राणादीनामेव निवेशोऽस्तु । पृथिव्यादौ पञ्चत्वपूरणाय मनःप्रवेशेऽप्यन्यत्रान्यान्तर्भावादेरकल्पनीयत्वादिति सूचयति । सत्वादिपञ्चकस्येति । बुद्धिशब्दस्य तत्रापि प्रयोगादिति भावः । तथा च दशेन्द्रियपञ्चमात्रासत्वादिरूपविंशतिलाभे तदतिरिक्तत्वे च मनःसहितपृथिव्यादेः क्रोडीकरणोपपत्तिरित्याशयः । उपसंग्राहकामित्यर्थः । उक्तं च चन्द्रिकायाम् उपसंग्राहकानां सत्वादिति । इति भावेनेति । इत्याद्यं पक्षं बहिरेव प्रदूष्येति भावः । परिमललकृतोक्तोदाहरणं चाह । तासां स्वसृरिति । उक्त एवेति । अनिर्वाहरूप इत्यर्थः । सिद्धान्तव्याकोपः स्यादिति । सांख्यस्येति शेषः । अन्यादृशस्त्विति अनङ्गीकृतत्वादिति नञ्गर्भ इत्यर्थः । जना इति योजनेति । प्रतिष्टित इत्येकवचनं तु विपरिणाम्यमेव । अन्यथा जना इत्यनेनान्वयायोगप्रसङ्गात् । एतद्योजनायां तु विपरिणाममात्रं नतु यथाश्रुतस्यापि निरीश्वरपक्षीयोत्तरयोजनायामिव केनचिदन्वयोऽस्तीत्येतत्तु वैषम्यमात्रमित्यवधेयं टीकायां मूले च ।