०५ सूत्रकाराभिमतमेतत्

तदेवोक्तमुपक्रमात्

सूत्रकाराभिमतमेतत्

तदेवोक्तमुपक्रमात्

सुधा

नन्वेतदर्थप्रतिपादकसूत्रस्यादर्शनादुत्सूत्रितोयमर्थः कस्मादुक्त इत्यत आह तदेवेति ।

अनुव्याख्यानम्

*** तदेवोक्तमुपक्रमात् ॥***

इति स्वयं भगवता ब्रुवताऽशेषमन्वयम् ॥ २ ॥

तदेतद्भगवता सूत्रकारेण स्वयमुक्तमेव नोत्सूत्रितं कथ्यते । तथा च सूत्रम् । ‘ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके’ इति । अत्र ज्योतिरिति सूत्रप्रतीके ग्राह्ये यदुपक्रमादित्याह, तेन ‘ज्योतिरुपक्रमा’ इति परेषामपपाठ एवेति सूचयति । अथवाऽत्र ज्योतिर्मात्रग्रहणात्कथं सर्वशब्दप्रतिपादनम् । ज्योतिःशब्दस्योपलक्षणत्वादिति वदामः । कथमुपलक्षणाभिप्रायोऽवगम्यत इत्यत उक्तम् उपक्रमादिति ब्रुवतेति ।

अत्र हि ‘ज्योतिर् इति प्रतिज्ञाय उपक्रमात्तु तथा ह्यधीयत एके’ इति हेतुरुच्यते । तस्य चायमर्थः । ‘एष इमं लोकमभ्यार्चद् इत्युपक्रमाद् उपक्रमं विधाय ता वा एता इत्याद्यधीयत एक इति । तथाच यदि ज्योतिश्शब्दमात्रसमन्वयोऽत्र विवक्षितः स्यात्तदा तन्मात्रोपपादकं किमपि वक्तव्यम् । सर्वशब्दवाच्यतोपपादकस्योपादानं क्वोपयुज्यते । न हि विशेषविषयं प्रमाणं नास्ति, येन सामान्यद्वारा साधनं विधेयम् । अतः सर्वविषयं प्रमाणमुपाददानेन सूत्रकृता ज्योतिश्शब्दो लाक्षणिको विवक्षित इति ज्ञायते ।

किञ्च तत्तु समन्वयादिति ब्रह्मणि सर्वशब्दसमन्वयः प्रतिज्ञातो न कतिपयशब्दसमन्वय इत्युपपादितम् । तद्विवरणार्थमध्यायशेषस्य प्रवृत्तिरिति चोक्तम् । तत्रानन्दमयाद्यधिकरणैः प्राकरणिकशब्दसमन्वयः प्रतिपादितः । अस्मिंश्च पादे विरोध्यादिशब्दसमन्वयः । तथा च कर्मक्रमाद्यभिधायिनः शब्दाः, इदं च अधिकरणमवशिष्टमिति परिशेषात्तत्समन्वयार्थमेतदिति ज्ञायत इत्याशयवानाह ब्रुवतेति । अस्त्वत्र सर्वशब्दसमन्वयप्रतिज्ञानम् । तथाऽपि योऽत्र तदुप(त्प्रति) पादनार्थं जातमोतमित्यादिनाऽन्वयो(न्यायो)भिहितः स न सूत्रित इत्यतो वोक्तम् उपक्रमादिति । ‘एष इमं लोकमभ्यार्चत्’ इत्युपक्रमवाक्यमुपादाय तथा ह्यधीयत एक इति वदता सूत्रकारेण तदेवोक्तं यदस्माभिरुक्तम् । उपक्रमे सर्वस्यास्य दर्शनात् । यथा चैतत्तथा एतमेव इत्यादिनोक्तमिति ॥१-४-२॥

शेषवाक्यार्थचन्द्रिका

अभाष्यत्वशङ्कापरिहारार्थत्वान्नोत्तरवाक्यवैय्यर्थ्यमित्यभिप्रेत्य तच्छङ्का-मुत्थापयति नन्विति ॥ अपपाठ एवेति । मूलपुस्तकेष्वदर्शनादिति भावः ॥ उपक्रमं विधायेति । अनेनोपक्रमादिति पञ्चमी ल्यब्लोपनिमित्तेत्युक्तं भवति ॥ इत्युपपादितमिति । ‘जन्माद्यस्येति’ सूत्रेण गुणसर्वस्वसिद्धये । ब्रह्मणो लक्षणं प्रोक्तम्’ इत्यादिनाऽऽनन्दमयाधिकरणान्त इति शेषः ॥ उक्तमिति । ‘इति कृत्वा हृदि प्रभुः । समन्वयं साधयति’ इत्यादिनेति शेषः । विरोध्यादीत्यादिपदेन बहुत्वविशिष्टार्थवाचिपञ्चजनादिशब्दसङ्ग्रहः ॥ १-४-२ ॥

परिमल

इत्युपपादितमिति ॥ इति चोक्तमिति । ‘जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये । ब्रह्मणो लक्षणं प्रोक्तं शास्त्रमूलं यतस्ततः । अन्वयः सर्वशब्दानां गुणसर्वस्ववेदक’ इत्यनेन । तथा । ‘एवं शास्त्रावगम्यत्वे विभागेन समन्वयमि’त्यादिना(चा)नन्दमयनये उपपादितमित्युक्तमिति ज्ञेयम् । प्राकरणिकेति । तत्प्रकरणस्थशब्दसमन्वय इत्यर्थः ॥ विरोध्यादीति । विरोधिसर्वबाहुल्येति विषयमालाव्याख्यानेन तत्प्राग्विवृतमिति भावः ॥ २ ॥

यादुपत्यम्

अपपाठ एवेति । अपपाठत्वं च वक्ष्यमाणरीत्या तदीयसूत्रार्थस्यायुक्तत्वेन तेजसस्तद्रूपमिति श्रुत्यनुगमाय लाघवाय च तेज आदिरित्येव वक्तव्यत्वेनाजापदाध्याहारप्रसङ्गेन च ज्ञातव्यम् ॥

श्रीनिवासतीर्थीया

ननु ज्योतिःशब्दसमन्वयसाधकप्रमाणाभावात्सामान्यतः सर्वशब्दवाच्य-त्वोपपादकमेव प्रमाणमुपात्तम् । तेन ज्योतिःशब्दस्यापि समन्वयसिद्धिरिति चेत्तत्राह न हीति ॥ सर्वशब्देति । उक्तवक्ष्यमाणैतत्कर्मक्रमादिवाचकसर्वशब्देत्यर्थः ॥ १-४-२ ॥

वाक्यार्थरत्नमाला

अभाष्यत्वशङ्केति । उत्सूत्रप्रमेयप्रतिपादनाशङ्कानिमित्तकेति शेषः ।